॥ संविच्छतकम् ॥

॥ अथ त्यागराजविरचितम् संविच्छतकम् ॥ यस्या नित्यं चरणकमलद्वन्द्वमैश्चर्यबीजं प्रध्यायन्तो हृदयकमले पुण्यभाजो मुनीन्द्राः । निर्द्वन्द्वं तत् समरसमहो प्राप्य तिष्ठन्ति तस्मिन् तस्यै देव्यै तपनरुचये तत्त्वतोऽस्तु प्रणामः ॥ १॥ या कल्याणगुणप्रसूः परशिवानन्दामृतस्यन्दिनी भूमानन्दमयी परापरमयी तेजोमयी वाङ्ग्मयी । आद्यान्तार्णतनूः शिवादिवसुधान्तान्तःप्रकाशात्मिका सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ २॥ यस्यां प्रोतमिदं चतुर्दशजगत् सूत्रे मणिस्तोमवद् यस्यां भाति जडं जडेतरमिदं स्तम्भादिवद् दारुणि । यस्यां पश्यति विश्वमज्ञहृदयाः स्थाणौ पुमांसं यथा सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ३॥ मूलौड्याणगलोपरोधनमहामुद्राप्रसन्ना परा तेजःपुञ्जमयी सदा गतियुता हंसी सहस्रारकम् । अम्भोजं परहंसकेलिसदनं या प्राप्य लेभे मुदं सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ४॥ प्राणापानरवीन्दुयोगपरमानन्दप्रबुद्धा सती संसुप्ता श्रुतिपत्रपद्मशयने सौषुम्नवीथ्याद्युतम् । वर्षत्यसभानटं समरसानन्दामृतं प्राप्य या सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ५॥ या मित्रावरुणालयात् समुदिता तेजोमयी वल्लरी वीणादण्डतरुश्रिता शिववियद्यान्ती स्वभावात् सदा । नानावर्णपदादिपुष्पनिचयान् स्वस्मिन् किरन्तीच्छया सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ६॥ या चैकोत्तरखादिपञ्चकगुणाकारार्णमन्त्रात्मिका या पीतारुणशुभ्रविग्रहमयी संध्यात्रये राजते । याप्येकाक्षरनादसंततिसुखोद्बोधैकमूर्तिः परा सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ७॥ याव्यक्ता नववारनाथकरुणापाङ्गा प्रकाशात्मिका नीलेन्दीवरपद्महर्षकरदृक्तत्त्वार्णमुक्तावलिः । कामेश्यादिसुधांशुषोडशकलापूर्णात्मवक्त्राम्बुजा सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ८॥ या सीमा नवखण्डचक्रवसुधालंकारमेरोः परा नानादेशिकयोगिनीमणिलसच्छुभ्रादिवर्णावनेः । कामेशाङ्कनिरभ्रनिर्मलमहाकाशस्थविद्युल्लता सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ९॥ यस्याः प्रीतिरहर्निशं कुलगिरिस्रोतःसुधायां परा निष्कामप्रणतान्तरङ्गकुसुमे ह्रींकारघण्टाध्वनौ । गन्धेऽहं शिव एव नान्य इति यो दीपे विमर्शात्मके सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ १०॥ या चित्रं त्रिपुरा पुरान्तकसमाश्लिष्टा परा ज्योतिषाम् अद्वैतापि शिवार्धर्मूर्तिरमला पाशापहा पाशिनी । पद्माराध्यपदारविन्दयुगला भिक्षाटनेशप्रिया सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ११॥ या दूरा ललितापि दुष्कृतजुषां या कोमलाङ्ग्यद्रिजा या नीलाम्बुदमेचकापि भुवनं विद्योतयत्यद्भुतम् । या कल्याणगुणप्रवाहसुमहावारांनिधिर्निर्गुणा सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ १२॥ निष्क्रोधा नतलोकमृत्युमथने या बद्धकच्छा सदा निर्वैरा निजपूजनादिकृतिनां दैन्ये द्विषन्त्यद्भुतम् । भक्तानां भयमोचिनी भवरता श्रीकामराजात्मिका सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ १३॥ विद्यारण्यपुलिन्दिका श्रुतिगिरा तत्त्वोपदेष्ट्री सतां वाराही नकुली विलासकुतुका याप्युत्तमब्राह्मणी । या चित्रं सुखशान्त्यतीतवसुधा श्रीचण्डिका शूलिनी सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ १४॥ या शाला निगमागमस्मृतिकलालीलाततेस्त्र्यक्षरी या फालाक्षमहासती स्मरकलाहेला पराप्यद्भुतम् । या कालानलकान्तिमत्यपि सदा नीलालका शीतला सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ १५॥ कल्याणाचलकार्मुकस्य महिषी पुण्ड्रेक्षुचापाद्भुतं लक्ष्मीवल्लभसायकस्य रमणी पुष्पेषुहस्ताम्बुजा । या रामा परमेश्वरस्य ललिता लोकत्रयेऽत्यद्भुतं सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ १६॥ या वाचामधिदेवताप्यविषया वाचां श्रुतेर्वर्णितुं श्रोत्रादीन्द्रियदेवतापि न जडैः श्रोत्रादिभिर्ज्ञायते । अन्तःस्थामपि यां प्रचोदकतया नो जानते जन्तवः सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ १७॥ या वीणा परमेश्वराङ्कनिलया ह्रींकारमन्त्री सदा श्यामा कालसुमूर्च्छनादिकलनाहीनापि रागिण्यहो । नाथेनाहतनादविभ्रमवती स्थाणुं शिवं चाकरोत् सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ १८॥ या मोहान्धतमोऽपनोदनविधौ बोधात्मिका कौमुदी संसारार्णवतारणे दृढतरा नौकेन्द्रचापप्रभा । दारिद्र्याद्रिविदारणे कनकरुग् दम्भोलिरिच्छात्मिका सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ १९॥ या तापत्रयजाड्यशोकशमने काचिन्नृणां स्वर्धुनी या शान्त्यादिगुणप्रवालमनिसंवृद्धौ सुधाम्बोनिधिः । प्रत्यग्दृष्ट्यसिताब्जपोषणविधौ जाड्यापहा दीर्घिका सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ २०॥ शोकारण्यकुठारिका शुभफलोद्यानस्य या वापिका पापक्ष्वेलसुपर्णकल्पघुटिका प्राज्ञाज्ञयोरम्बिका । आशोच्चाटनमूलिका विपणिका वागर्थवृद्धेः कवेः सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ २१॥ या वाञ्छापरिपूरणे सुरलता मोक्षेन्दिरा देवता स्रष्ट्रादेः कुलदेवता सुचरिता विद्यासु सर्वोन्नता । नित्यानन्दरता सुकर्ममुदिता लोकत्रयाराधिता सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ २२॥ सारासारपयोविवेचनविधौ हंसी परं तु त्विषा श्यामा मोहतमोपनोदनविधौ हंसः सदा भासकः । प्रज्ञासौधविहारिनिस्तुलमहाज्योत्स्ना दिवापि ध्रुवा सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ २३॥ या चिन्तामणिरेव दोषशमने दाने परं त्वद्रिजा वासन्ती पिकसुन्दरी श्रुतिसुखालापे स्वयं पञ्चमी । याने यौवनसिन्धुतीरकरिणी पद्माटवीरक्षिणी सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ २४॥ या शंभोर्नयनोत्पलेन्दुवदना कंदर्पदूतीक्षणा चेतश्चातकनीलनीरदकचाजीवातुसीमन्तिनी । शृङ्गाराद्वयशान्तिपाठसुकृतश्रेयःफलाग्रयस्तनी सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ २५॥ या त्र्यक्षस्य मनोरथः किमु तपःपाकः सुखं नैजकं दक्षस्येव तपःफलं कुलधनं दैवं हिमाद्रेरपि । भाग्यं भक्तजनस्य देशिकदृशोः श्लाध्यं कवीनां गिरां सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ २६॥ सेतुर्दुःखमहोदधेर्मणिमयच्छाया विभोस्तत्तरोः पान्थानां परमार्थिनां प्रतिपदं कारुण्यपाथःप्रपा । सत्यानन्दचिदन्नदानविलसच्छाला च कल्याणधीः सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ २७॥ या लोकत्रितयैकरत्नमजडं भान्विन्दुभाशीतलं निर्दोषं गुणवर्जितं च निखिलैश्चर्यप्रदं देहिनाम् । चित्रं भिक्षुकसार्वभौमनिलयं लोकत्रये भासते सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ २८॥ यापर्णाप्यनपायकल्पलतिका स्थाणुः पतिः कल्पको यस्या भक्तफलप्रपूरणविधौ पुत्रो विशाखोऽद्भुतम् । इत्थं नित्यकुटुम्बिनी त्रिजगतां रक्षाकरी राजते सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ २९॥ या पुण्याश्रम एव शांकरतपःसिद्ध्यै महायोगिनां निर्वैरो गजपञ्चवक्त्रगतिमध्यः शान्तिरङ्गस्थलम् । निर्द्वन्द्वस्तनचक्रवाकलसितः कोकारिचूडामणिः सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ३०॥ या केदारममूल्यमानमभयं निष्पङ्कमाशास्पदं श्रीकण्ठेतरभोगबन्धरहितं कल्पे कदाप्यद्भुतम् । प्रज्ञाशालिन एव दित्सति बत ज्ञानाङ्कुरं कस्यचित् सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ३१॥ या चित्रं करिणी हिमाचलभवा ताम्रारविन्देक्षणा कान्त्या भर्त्सयती वरं मरतकं पाशाङ्कुशोक्ष्वन्विता । पञ्चास्यप्रभुमञ्चकोपरि वसत्यानन्दपुर्यां मुदा सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ३२॥ एणाङ्कार्भकमात्मकुन्तलतमोरात्र्यामपि द्योतय- त्याश्चर्यं यमिनां कटाक्षयमुनाकल्लोलमालां च या । नित्यं वक्त्रशशाङ्कमन्दहसितज्योत्स्नां कृपायां गुरोः सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ३३॥ या दृष्टिः श्रुतिमूलशीलनपरा नीलाञ्जनाद्रिश्रियं स्वात्मस्मेरपयोदधौ सहभवं श्रीवल्लभं तन्वती । वात्सल्यान्नतलोकमोहितिमिरं चित्रं धुनीते च या सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ३४॥ या कारुण्यकटाक्षनीलवनजद्वेष्यात्मजाम्भःस्वहो मुग्धस्निग्धमृदुस्मितामरधुनीवीचीविलासाश्रिते । सुस्नातं निजपादपङ्कजरजःसिक्तं बत व्यातनोत् सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ३५॥ श्रीकण्ठार्धशरीरिणी ध्रुवमपि श्रीकान्तसोदर्यहो नारायण्यपि सर्वदा कुलनगोत्तंसात्मजात्यद्भुतम् । प्रालेयाचलकन्यकापि सकलाहंरूपिणी याद्भुतम् सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ३६॥ आनङ्गस्मृतिसंप्रदायमखिलं स्वापाङ्गशिष्येण या कामद्रोहिणमेव शिक्षयति हा लोकोत्तरात्यद्भुतम् । तेनैवात्मपदारविन्दरसपानोथं त्रिलोकेऽन्यथा सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ३७॥ बन्धूकस्तबकं रुचा परिहसत्यम्भोजमप्यद्भुतं कर्णास्येक्षणपाणिना वनचरं मध्येन वक्षोरुहा । गत्या स्वादुगिरा सुधाकरकलोत्तंसैश्च नीलालकैः सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ३८॥ निःस्पन्दं निगमागमाद्यविषयं श्रोत्रादिहीनं परं निःशब्दं तदहो पुमांसमकरोत् कामेश इत्याख्यया । या चित्रं निजदासमच्छहृदयं शक्त्या तनोत्यन्यथा सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ३९॥ वागर्थेन यथा युतापि परमानन्दात्मना शूलिना नित्यं या विहरत्यहो जनमनोगेहेषु मुग्धेषु हा । निर्भीता कुलटेव कर्म कुरुते सर्वेन्द्रियाणां सदा सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ४०॥ नासामौक्तिकदैत्यदेशिकमहो मन्दस्मितैः पुष्णती ताटङ्कद्युतिभिर्दिनेशशशिनौ देवौ तिरस्कुर्वती । मारारेर्गुहमेधिनी मनसिजं रक्षत्यपाङ्गोटजे सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ४१॥ बन्धच्छेदविचक्षणा पशुजनस्तोमातिदूराद्भुतं या रक्षत्यगराजशेखरसुताप्याम्नायसूत्रैर्दृढम् । बद्ध्वा देवपशून् सदा पशुपतेः संसर्गदोषेण हा सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ४२॥ धारा देशिकदिव्यदृष्टिमधुनो मारारिनेत्रामृतं धारा दुर्मतदारुदारिपरशोस्तारावलिर्योगिनाम् । तीरं मन्त्रमहोदधेः कविगिरां पूरः सुखाम्भोनिधेः सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ४३॥ कामाक्षीति वदन्ति केचन बुधाः कामेश्वरीत्यद्भुतं रामास्तोमशिरोमणीति मदनारातेर्दृशोः पारणा । सीमा भूमसुखस्य चिन्मयकला शृङ्गारमूर्तिश्च या सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ४४॥ मुग्धस्निग्धकटाक्षमित्रतनया यस्याः सदानन्दिनी मन्दस्मेरपयोनिधिं निजपतिं संगम्य वाणीश्रियः । संसूय प्रददात्ययाचिततत्या भक्तेभ्य एवादरात् सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ४५॥ औन्नत्यं मुहुरेति चित्रममरश्रेणीषु यद्योगतो दक्षद्वेष्यपि भिक्षुकोऽपि विषमाक्षोऽप्युक्षयानोऽपि वा । अज्ञातान्वयसंभवोऽपि निगमातीतोऽपि लुब्धस्तथा सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ४६॥ या लोकैकसुमङ्गला स्मरकला नीलाम्बुदश्यामला डोला शंकरलोचनद्वयशिशोर्मालाष्टसिद्धिश्रियाम् । कालातीतकला कलानिधिकलोत्तंसातुला निर्मला सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ४७॥ अस्तं या नलिनेक्षणेन नयति क्षोभातपं योगिनां स्वानन्दामृतचन्द्रिकां करुणया नित्यं तनोत्यद्भुतम् । वर्षत्याननपङ्कजे सुकवितापीयूषधाराः कवेः सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ४८॥ या विद्युत्कमलेषु तिष्ठति परा तापिञ्छगुच्छच्छवि- श्चितं प्राणभृतां दृशोः सुखकरी भीमप्रकाशिन्यलम् । ज्योतिः शीतलभूभृतस्त्रिभुवनक्षेमप्रवाहप्रदा सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ४९॥ या काचिद्धरिणी मरालगमना चिद्व्योमसंचारिणी ह्रींकारस्वनसंततेः परवशा हृद्यानवद्या दृशाम् । अस्त्रैव्यार्धवरं पिनाकिनमहो संमोहयन्त्यन्वहं सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ५०॥ धेनुर्या परमात्मनः पशुपतेः सर्वज्ञतादोहिनी चित्रं षण्मुखवक्रतुण्डजननी प्रालेयशैलात्मजा । निर्निद्रामलपुण्डरीकनयना शुभ्रांशुचूडामणिः सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ५१॥ यां दण्डं वरविद्रुमात्मकमतिश्लक्षणं सुसूक्ष्मं ध्रुवं गाढं निर्विषयाः पुराणपुरुषा आलम्ब्य गच्छन्त्यहो । तीर्त्वा दुस्तरजन्मपङ्कनिबिडं मायामहीमण्डलं सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ५२॥ या कुम्भोद्भव एव मन्मथरिपोर्धैर्याम्बुधेः प्राशने प्रारब्धात्मकविन्ध्यभूधरगतिध्वंसे तथा धीमताम् । आचार्यः शिवबोधने निजपतेरानङ्गदीक्षाक्रमे सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ५३॥ या क्षीराब्धिसहोदरस्मितरुचा कम्बुं तिरस्कुर्वती कामारेर्हृदयं विशुद्धमपि संमुग्धं करोत्यन्वहम् । आश्चर्यां नमतां धुनोति तिमिरं स्वाज्ञानरूपं परं सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ५४॥ यस्या हासमरालिकामृदुगतिः श्रीकामजेत्रे मुदा विद्यां बोधयितुं परां वितनुतेऽपाङ्गार्कजातोर्मिषु । स्थित्वा श्रौतपथस्थकुण्डलयुगेनालोचनासंततं सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ५५॥ यस्या वीक्षणशक्रमेचकमणीसाम्राज्यसिंहासनं श्रित्वा पुष्पशरप्रभुर्विजयते त्र्यक्षस्य पार्श्वेऽद्भुतम् । पीयूषार्णवफेनजेतृसहितश्रीचामरासेवितः सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ५६॥ नीहाराद्रियशोऽभिवर्धनपरे कुञ्जे कटाक्षात्मके यस्याः क्रीडति नीलकण्ठविमलप्रज्ञामयूरार्भकः । पश्यन् नित्यसुगन्धिकुन्तलमयीं कादम्बिनीं संततं सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ५७॥ या हासार्जुनभूभृता सुखयति द्राग् भीमचित्तं परं धर्मं पालयति प्रवेशयति वैवर्णेऽनुकूलां गतिम् । मालिन्यं नयतेतरां ध्रुवमहो तद्धार्तराष्ट्रं कुलं सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ५८॥ या मुक्ताफलमद्भुतं गिरिभवं श्यामं प्रकाशास्पदं सत्सूत्रं सकलार्थदं शशिकलाचूडं त्रिणेत्रं चरम् । निर्दोषंभवकौतुकप्रदमनाद्यन्तं परं निस्तुलं सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ५९॥ या वापी भुवनप्रदा रसमयी तृष्णार्दितानां परं निष्पाशाभिगताभिमानममतापाशाभिलाषान्विता । सत्पात्रे फलदायिनी स्मृतिमतां तापत्रयध्वंसिनी सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ६०॥ शृङ्गाराम्बुधवीचिविभ्रमवती शृङ्गारबीजानिल- व्यालोला कुमुदप्रियध्वजपटी प्रत्यक्चरी पार्वती । द्रोणी या विषमेक्षणानुसरणी चित्रं सदा राजते सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ६१॥ यस्या नीरदभाः कटाक्षयदुपः कर्णानुवृत्तोऽद्भुतं दीव्यत्कुण्डलहासचक्रजलजश्लिष्टः कृपानीरदः । स्थानोर्गोकुलमन्वहं नयति तद्वक्षोजशैलान्तरं सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ६२॥ या चित्रं महतीं महागुणवतीमप्यश्रितं संततं काठिन्यं न विमुञ्चति स्तनयुगं मान्द्यं गतिः कुन्तलाः । कौटिल्यं नयनाम्बुजं चपलतां बिम्बाधरो रागितां सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ६३॥ या मन्दस्मितकौमुदीं वितनुते नित्योदिते सर्वत- स्ताटङ्कात्मनि भास्करे स्वयमहो कालाम्बुदश्यामला । बिम्बोष्ठद्युतिसंध्यया द्विजगणे श्रीशांभवे रागितां सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ६४॥ जारे मारकिरातजीवनकरे चित्रं कटाक्षात्मके यस्याः कुण्डलरश्मिवेणुकलिते लग्ना सुखं राजते । कामारेर्मतिशारिका श्रुतिशिरोद्यानान्तरोल्लासिनी सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ६५॥ नित्यं सोमकलाधरोऽध्वरपतिर्व्याघ्राजिनालंकृत- स्ताटङ्कद्युतिवह्निवीक्षणशिखाधूमातिलोलेक्षणः । यस्या हासपयोनिधाववभृथव्याजेन मज्जत्यहो सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ६६॥ यस्याः कापि दयात्मिका प्रतिदिनं शैलूषबालाद्भुतं नीरागालयकालवर्जितवती निर्मूर्च्छना कामना । निर्लज्जैव दिगम्बरा नटति हा संमोहशान्त्यै नृणां सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ६७॥ माङ्गल्यं हरिनीलकान्तिसुगुणं श्लाध्यं सुरस्त्रीजनै- र्यस्या मञ्जुलवीक्षणं स्मरहाराजस्य देव्या रतेः । ओष्ठशीर्वरकुङ्कुमं स्मितमहो स्रङ्माधवी शाश्वती सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ६८॥ चित्रं कापि सुधा शिवेतरसुरालभ्या हिमाद्र्युद्भवा द्रुह्यन्ती कुरुविन्दमात्मरुचिभिर्दोषाकरोत्तंसिनी । आस्ते या मदनज्वरं शशिभृतः संधुक्षयन्त्यन्वहं सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ६९॥ अर्धं राज्यमनन्यसाध्यमखिलैश्चर्यप्रदं शूलिनः शुद्धं मूर्तिमयं ययातिविनयैः प्राप्तं तदन्यत् पुनः । व्याप्तुं वाञ्छति गारुडोपलवपुः कान्त्या महत्या परं सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ७०॥ अर्धं सोमकलाधरी शशिकलाचूडस्य या त्र्यम्बक- स्त्र्यक्षाया अथवा सनातनतनू जायापती शाश्वतौ । एकं वेत्यवधारितुं मुनिवरा अद्याप्यलं नाद्भुतं सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ७१॥ दारिद्र्यास्तधराधरोऽपि परमं भद्रोदयोऽत्यद्भुतं पापारण्यदवानलोऽपि नमतां कारुण्यधाराधरः । या दुह्खाम्बुदमालिकापवनराण्नैश्चल्यरूपास्ति वै सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ७२॥ श्रौतं मार्गमतीत्य गच्छति मुदा कापालिकं दृक् परं मध्यः शून्यमतं गतोऽतिविमले द्वन्द्वे कुचौ द्वैतिनौ । सौरे कुण्डलयुग्ममात्मरुचिभिर्यस्याः कृपा शांभवे सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ७३॥ वल्ली कापि शिवाङ्कणे लसति या मन्दस्मितैः पुष्पिता ताम्बूलेन सुगन्धिता सुफलिता वक्षोरुहाभ्यां परम् । कान्त्या पल्लविता कचैर्भ्रमरिता दृग्भ्यां परं पत्रिता सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ७४॥ यस्या वीक्षणदेशिकः श्रुतिगतिस्तेजोमयः सर्ववित् संतुष्टो जितकामशत्रुरणिमाद्यष्टाभिराराधिता । सच्चित्सौख्यरतः शिवं नटमपि क्षिप्रं करोत्यद्भुतं सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ७५॥ यस्याश्चारुकपोलदर्पणतले दृष्ट्वा कपर्दी रुषा भीतो जह्नुसुतां मृदुस्मितमयीं संकेतमित्थं व्यधात् । मुग्धे गच्छ निजस्थलं द्रुततर्ं जागर्ति दृष्टिर्यतः सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ७६॥ शृङ्गारैकरसं वसन्तसुहृदं कंदर्पदर्पप्रदं चित्रं कोकनदप्रबोधनकरं चन्द्रोदयं श्रीकरम् । यस्या हासमयं चिरमप्यास्ते पुराणः शिवः सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ७७॥ या काचित् पिककामिनी श्रुतिगतिः सप्तस्वरालापिनी नित्यं माधवबोधिनी त्रिभुवने निष्पक्षपाता सुखम् । चित्रं चूतनवप्रसूनविशिखद्वेष्याश्रये राजते सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ७८॥ यस्या वीक्षणमान्त्रिकः सुकृतिनामग्रेसरः शंकरी- मन्त्राम्भोनिधिपारगः स्मितविभूत्योच्चालयन् सर्वदा । द्वेषं शंकरकर्तृकं सुमशरे विभ्राजते शाश्वतः सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ७९॥ यस्या दृग्रमणीमणिर्विवदते कामारिसल्लापने स्वाधीनप्रियया मृदुस्मितशरीरिण्या परं गङ्गया । आद्याहंश्रुतिमूलगाधरभवा त्वं स्वीकृतेति ध्रुवं सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ८०॥ या काचिद् भुजगी सदा सरलगा पीयूषदायिन्यहो पद्मारण्यविहारिणी श्रुतिमती तेजस्तनूर्निर्भया । जन्माब्धिप्लववर्धिनी वशयति श्रीनीलकण्ठं दृशा सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ८१॥ आस्याम्भोजभवा पतिं निजमनाद्यन्तं कटाक्षात्मकं पृच्छन्तीति पयोनिधेः स्मितमयान्मज्जन्म किं वाम्बुजात् । यस्या निःस्मरसंपदं सुधनिकं कर्तुं शिवं काङ्क्षते सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ८२॥ यस्याः पाणिपरिग्रहे मृदुतनोर्हेमाद्रिधन्वा शिवः पादान्यासविधौ दृषद्यपि सुरस्त्रीणां पुरो लज्जितः । मन्दाक्षं गतवाननङ्गकलिकां यां वीक्षितुं नाद्भुतं सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ८३॥ यस्याः पादकेशशयश्रियमहो श्रुत्वानिलादन्वहं गाङ्गान्यम्बुरुहाणि हन्त कतिचित् प्राप्तुं परां तां द्रुतम् । पीत्वा क्षीरलवं तपन्ति तपनं पश्यन्ति मज्जन्त्यलं सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ८४॥ नित्यं संधिमपेक्षते सुचरिता दूती कटाक्षात्मिका राजस्याधररामयापि न तया गर्भे वहन्त्यामृतम् । कामारे रतिसात्त्विकद्विजमणेर्मोदाय सुश्रेयसे सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ८५॥ पक्षे शैवमनोमहीभृति मनोजाग्निं ध्रुवं साधयन् यस्या मञ्जुकटाक्षधूमशिशुना श्रौतेन सद्धेतुना । ओष्ठद्वन्द्वसभान्तरे स्मितमयो नैयायिको भासते सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ८६॥ या पद्मं हिमशैलजं मरतकं भासा भृशं भर्त्सयत् कंदर्पस्य ज्येन्दिराजनिगृहं निर्हेतुकोत्फुल्लनम् । स्थाणोर्लोचनभृङ्गसंभ्रमकरं शीतांशुलेखाङ्कितं सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ८७॥ यस्या मन्दगतिः परं शुभगतिः कामस्य कामद्रुहः कामोद्रेकगतिश्चिरं भजनकृद्धंसाङ्गनासंततेः । कामं दत्तगतिः सदा विजयते हंसात्मिका योगिनां सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ८८॥ निःस्नेहापि शिवातिरागकलिता या दीपिका काप्यहो झञ्झामारुतभीतिदापि चपला निष्कल्मषा साञ्जना । त्रैलोक्येऽपि विराजते श्रितवती श्रीशंकराङ्कं ध्रुवं सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ८९॥ निर्यत्नैव महासती सुचरिता या शैलराजात्मजा नाथं लोकविलक्षणं प्रहृतवत्यद्यापि सेवाजने । गाण्डीवेन वराश्मभिश्च मुसलेनोपानहा वर्तते सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ९०॥ यस्याः पादकिसालयप्रभुवरं याचन्त्यजस्रं परं कस्तूर्यः सुरयोषितां तिलकिताः सद्वासनां रागिताम् । बिम्बोष्ठं मृदुतां श्रियं च युगपद्धस्ताः प्रवालप्रियाः सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ९१॥ यस्याः पादसहस्ररश्मिचरलं कामारिचित्तात्मकं हैमं भ्रामयति प्रणाशयति संतापं सतामङ्कुरम् । प्रज्ञानात्मकमद्भुतं शिशिरयत्यक्षीण्यलं पश्यतां सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ९२॥ चित्रं या कुरुते मनोऽपि यमिनां बद्धं महायत्नतो मुक्तं शोणपदारविन्दयुगले नीरागिणं रागिणम् । मञ्जीरस्वनमन्मथस्मितरवैः संमोहनं शूलिनः सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ९३॥ पादाम्भोजरजो रजांसि हरति प्रौढानि यस्या नृणां सत्त्वं वर्धयति प्रदर्शयति सन्मार्गं सुराणामपि । जन्मव्याधिमृतिप्रवाहमतुलं संरोधयत्यद्भुतं सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ९४॥ नाहं विश्वमिदं चराचरमयं मायाविलासास्पदं दृश्यत्वादिति शोधयन्ति सुधियः सर्वं यया प्रज्ञया । आत्मैवायमिदं वदन्ति पुनस्तूष्णींभवन्तः स्थिताः सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ९५॥ राहुं निन्दति चन्द्रचूडचिकुरैस्ताटङ्ककान्त्या रविं वक्त्राब्जेन विधुं गुरुं नतगिरा सौग्यं दृशा भद्रया । गत्या मन्दमहो कुजं तनुरुचा नासाग्रमण्या कविं सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ९६॥ निःश्रेणी कृतिनां परामृतफलप्राप्तौ प्रवालद्युति- र्या नीलाञ्जनमक्षरात्मकनिधेः संदर्शने श्रीमताम् । नित्यानन्दरसा परोक्षकरणे श्रीदेशिकश्रीकृपा सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ९७॥ या कुण्ठीकुरुते निजस्तुतिविधौ गर्वात् प्रवृत्तां गिरं वेदानामपि गीष्पतेरपि महाभाष्यार्थविज्ञानिनः । दत्ते वाग्भववैभवामृतझरीं मूकाज्ञयोर्वाग्मितां सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ९८॥ आद्यामम्बुरुहेक्षणामनुपमामापीनतुङ्गस्तनी- मार्यामागमसारमूर्तिमरुणामानन्दचन्द्राननाम् । साध्वीं सत्कविवाग्झरीं समरसानन्दामृतस्यन्दिनीं सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ९९॥ गुरुचरणसरोजं गुप्तगङ्गातरङ्ग- स्तिमितममितशुक्लज्योतिषां ज्योतिरेकम् । निरुपममकरन्दस्पन्दमानन्दकन्दं निधनजननहीनो निर्मलोऽहं निषेवे ॥ १००॥ शार्दूलवृत्तमपि साधु भवत्यहो तत् सारस्वतं समरसामृतलोचनानाम् । सद्यो जयत्यघरिपुं श्रुतिमार्गयोगात् त्यागेशसान्द्रकरुणाद्भुतमेव भद्रम् ॥ १०१॥ इत्यानन्दनाथपादपपद्मोपजीविना काश्यपगोत्रोत्पन्नेनान्ध्रेण त्यागराजनाम्ना विरचितं संविच्छतकं संपूर्णम् <ःऱ्> Encoded and proofread by Sridhar Seshagiri seshagir at engineering.sdsu.edu

% Text title            : sa.nvichchhatakam.h
% File name             : sanvich100.itx
% itxtitle              : sa.nvichChatakam
% engtitle              : sa.nvichChatakam
% Category              : shataka
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Texttype              : stotra
% Author                : tyAgarAja
% Language              : Sanskrit
% Subject               : hinduism/religion
% Transliterated by     : Sridhar  Seshagiri seshagir at engineering.sdsu.edu
% Proofread by          : Sridhar  Seshagiri seshagir at engineering.sdsu.edu
% Indexextra            : tyAgarAja
% Latest update         : June 28, 2003
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP