श्रीबप्पभट्टिसूरिकृतं श्रीसरस्वतीकल्पः

श्रीबप्पभट्टिसूरिकृतं श्रीसरस्वतीकल्पः

कन्दात् कुण्डलिनी ! त्वदीयवपुषो निर्गत्य तन्तुत्विषा किञ्चिच्चुम्बितमम्बुजं शतदलं त्वद्ब्रह्मरन्ध्रादयः । यश्चन्द्रद्युति ! चिन्तयत्यविरतं भूयोऽस्य भूमण्डले तन्मन्ये कविचक्रवर्तिपदवी छत्रच्छलाद् वल्गति ॥ १॥ यस्त्वद्वक्त्रमृगाङ्कमण्डलमिलत्कान्तिप्रतानोच्छल- च्चञ्चच्चन्द्रकचक्रचित्रितककुप्कन्याकुल ! ध्यायति । वाणि वाणिविलासभङ्गुरपदप्रागल्भ्यश‍ृङ्गारिणी नृत्यत्युन्मदनर्तकीव सरसं तद्वक्त्ररङ्गाङ्गणे ॥ २॥ देवि ! त्वद्धृतचन्द्रकान्तकरकश्च्योतत्सुधानिर्झर- स्नानानन्दतरङ्गितं पिबति यः पीयूषधाराधरम् । तारालङ्कृतचन्द्रशक्तिकुहरेणाकण्ठमुत्कण्ठितो वक्त्रेणोद्गिरतीव तं पुनरसौ वाणीविलासच्छलात् ॥ ३॥ क्षुभ्यत्क्षीरसमुद्रनिर्गतमहाशेषाहिलोलत्फणा- पत्रोन्निद्रसितारविन्दकुहरैश्चन्द्रस्फुरत्कर्णिकैः । देवि ! त्वां च निजं च पश्यति वपुर्यः कान्तिभिन्नान्तरं ब्राह्मि ! ब्रह्मपदस्य वल्गति वचः प्रागल्भदुग्धाम्बुधेः ॥ ४॥ नाभीपाण्डुरपुण्डरीककुहराद् हृत्पुण्डरीके गलम्- पीयूषद्रववर्षिणि ! प्रविशतीं त्वां मातृकामालिनीम् । दृष्ट्वा भारती ! प्रभवति प्रायेण पुंसो यथा नर्ग्रन्थीनि शतान्यपि ग्रथयति ग्रन्थायुतानां नरः ॥ ५॥ त्वां मुक्तामयसर्वभूषणगणां शुक्लाम्बराडम्बरां गौरीं गौरिसुधातरङ्गधवलामालोक्य हृत्पङ्कजे । वीणापुस्तकमौक्तिकाक्षवलयश्वेताब्जवल्गत्करां न स्यात् कः स्फुटवृत्तचक्ररचनाचातुर्यचिन्तामणिः ॥ ६॥ पश्येत् स्वां तनुमिन्दुमण्डलगतां त्वां चाभितो मण्डितां यो ब्रह्माण्डकरण्डपिण्डितसुधाडिण्डीरपिण्डैरिव । स्वच्छन्दोद्गतगद्यपद्यलहरीलीलाविलासामृतैः सानन्दास्तमुपाचरन्ति कवयश्चन्द्रं चकोरा इव ॥ ७॥ तद्वेदान्तशिरस्तदोङ्क्रृतिमुखं तत् तत्कलालोचनं तत्तद्वेदभुजं तदात्महृदयं तद्गद्यपद्याङ्घ्रि च । यस्त्वद्वर्ष्म विभावयत्यविरतं वाग्देवते ! वाङमयं शब्दब्रह्मणि निष्ठितः स परमब्रह्मैकतामश्नुते ॥ ८॥ वाग्बीजं स्मरबीजवेष्टितमतो ज्योतिःकला तद्बहि- श्चाष्टद्धादशषोडशद्विगुणितद्व्यष्टाब्जपत्रान्वितम् । तद्बीजाक्षरकादिवर्णरचितान्यग्रे दलस्यान्तरे हंसः कूटयुतं भघेदवितथं यन्त्रं तु सारस्वतम् ॥ ९॥ ओमैं श्रीमनु सौं ततोऽपि च पुनः क्लीँ वदौ वागूवादि- न्येतस्मादपि ह्रीं ततोऽपि च सरस्वत्यै नमोऽदः पदम् । अश्रान्तं निजभक्तिशक्तिवशतो यो ध्यायति प्रस्फुटं बुद्धिशानविचारसारसहितः स्याद् देव्यसौ साम्प्रतम् ॥ १०॥ स्मृत्वा मन्त्रं सहस्रच्छदकमलमनुध्याय नाभीहृदोत्थं श्वेतस्निग्धोर्ध्वनालं हृदि च विक्रचतां प्राप्य निर्यातमास्यात् । तन्मध्ये चोर्ध्वरूपामभयदवरदां पुस्तकाम्भोजपाणिं वाग्देवीं त्वन्तुखाच्च स्वमुस्वमनुगता चिन्तयेदक्षरालीम् ॥ ११॥ किमिह बहुविकल्पैर्जल्पितैर्यस्य कण्ठे भवति विमलवृत्तस्थूलमुक्तावलीयम् । भवति भवति ! भाषे ! भव्यभाषाविशेषै- र्मधुरमधुसमृद्धस्तस्य वाचां विलासः ॥ १२॥ अथ मन्त्रक्रमो लिख्यते-- ॐ सरस्वत्यै नमः । अर्चनमन्त्रः । ॐ भूरिसी भूतधात्री भूमिशुद्धिं कुरु कुरु स्वाहा । भूमिशुद्धिमन्त्रः । ॐ विमले ! विमलजले ! सर्वतीर्थजले ! पां वां झ्वाँ झ्वीं अशुचिः शुचीभवामि स्वाहा । आत्मशुद्धिमन्त्रः । ॐ वद वद वाग्वादिनी ह्रीं शिरसे नमः । ॐ महापद्मयशसे ह्रीं योगपीठाय नमः । ॐ वद वद वाग्वादिनी ह्रूँ शिखायै वषट् । ॐ वद वद वाग्वादिनी नैत्रद्वयाय वषट् । ॐ वद वद वाग्वादिनी कवचाय ह्रुम् । ॐ वद वद वाग्वादिनि ! अस्त्राय फट् । इति सकलीकरणम् । ॐ अमृते ! अमृतोद्भवे ! स्रावय स्रावय ऐँ क्लीँ ब्लूँ द्राँ द्रीँ द्रावय द्रावय स्वाहा । यो जपेज्जातिकापुष्पैर्भानुसङ्ख्यसहस्रकम् । दशांशहोमसंयुक्तं स स्याद् वागीश्वरीसमः ॥ १॥ महिषाख्यगुग्गुलेन प्रविनिर्मितचनकमात्रसद्गुटिकाः । होमस्त्रिमधुरयुक्तः तुष्टा देवी वरं दत्ते ॥ २॥ इति शुद्धं श्रीसारस्वतम् । अथैतत्पीठक्रमो लिख्यते - पद्मोपरि पद्मासनस्था भगवतीमूर्तिः करचतुष्टयधृतवरपद्मा शिरसि षट्कोणाकारमुकुटभ्राजिता नाभौ चतुर्दलपद्मधारिणी लेख्या । ततो नाभिपद्मे कर्णिकायां ॐ कारं लिखेत्, पूर्वादिचतुर्दलेषु न १ मः २ सि ३ द्धं ४ इत्यक्षराणि लेख्यानि । अधस्तनदक्षिणकरे षोडशदलं पद्मं कृत्वा तत्र कर्णिकायां ऐङ्कारं दत्त्वा पूर्वादिषोडशदलेषु क्रमेण षोडश स्वरान् लिखेत्, अधस्तनवामकरे पञ्चविंशतिदलं पद्मं कृत्वा तत्कणिङ्कायां श्रीङ्कारं विलिख्य पूर्वादिपञ्चविंशतिदलेषु क्रमेण क्रमात् कादयो वर्गवर्णाः पञ्चविंशतिर्लेख्याः । अथवोपरितनदक्षिणकरे अष्टदलं पद्मं कृत्वा तत्र कणिकायां सौँ इति बीजं लिखित्वा पूर्वादिदलेषु य-र-ल-व-श-ष-स-ह इत्यष्टौ वर्णा लेख्याः । उपरितनवामकरेऽप्यष्टदलं पद्मं कृत्वा तत्कर्णिकायां क्लीँ इति बीजं दत्त्वा पूर्वाद्यष्टदलेषु व १ द २ व ३ द ४ वा ५ ग्वा ६ दि ७ नि ८ इति वर्णा लेख्याः । शिरःषट्कोणे गर्भे ह्रीङ्कारं लिखित्वा पूर्वादिकोणषट्के स १ र २ स्व ३ त्यै ४ न ५ मः ६ एवमक्षरषट्कं लेख्यम् । सर्व शुक्लध्यानेन षट्चक्रस्थापनं विधाय ध्येयम् । मूलमन्त्रश्चायम् - ॐ ऐं श्रीँ सौँ क्लीँ वद वद वाग्वादिनी ह्रीं सरस्वत्यै नमः । इति पाठशुद्‍ध्या मन्त्रं स्मरेत्, करजापो लक्षं जातिपुष्यैः सहस्राः १२ जापः । गुग्गुलगुटी १२०० त्रिमधुरमिश्राः कृत्वा होमः कार्यः, आश्विने चैत्रे वा नवरात्रेषु कार्यं दीपोत्सवामावास्यायां वा ततः सिद्धिः ॥ आम्नायान्तरेण यन्त्रं लिख्यते, यथा- वृत्तं मण्डलं कृत्वा परितः पूर्वादौ चत्वारि दलानि, तत्र पूर्वदले ॐ' ह्रीं देवतायै नमः १, दक्षिणदले ॐ ह्रीं सरस्वत्यै नमः २, पश्चिमदले ॐ ह्रीं भारत्यै नमः ३, उत्तर दले ॐ ह्रीं कुम्भदेवतायै नमः ४, तद्बहिरष्टदले, तत्र पूर्वादितः ॐ मोहे यः १, अं नन्दे यः ऐ, ॐ भद्रे यः ३, ॐ जये यः ४, ॐ विजये यः ५, ॐ अपराजिते यः ६,७ जम्भे यः ७, ॐ स्तम्भे यः ८, इति लेख्यम् । तद्बहिः षोडशदलानि, तत्र - ॐ रोहिण्यै नमः १, ॐ प्रज्ञप्त्यै नमः २, इत्यादिषोडश देवीनामानि लेख्यानि, तद्बहिः पुनरष्टदलानि, पूर्वदले ॐ ह्रीं इन्द्राय नमः १ क्रमेण ॐ ह्रीं अग्नये नमः २, ॐ ह्रीं यमाय नमः ३, ॐ ह्रीं नैरृतये नमः ४, ॐ ह्रीं वरुणाय नमः ५, ॐ ह्रीं वायवे नमः ६, ॐ ह्रीं कुबेराय नमः ७, ॐ ह्रीं ईशानाय नमः ८ इति लिखेत् । ततो मायया त्रिरभिवेष्ट्य क्रोँकारेण निरुध्य परितः पृध्वीमण्डलं कोणेषु प्रत्येकं चतुर्वज्राङ्कितं कृत्वा मध्यकोणेषु लं प्रत्येकं लिखेत् । इति यन्त्रविधिः । यन्त्रमध्ये मन्त्रो भगवतीभूर्तिर्वा लेख्या । मन्त्रश्चायम् - ॐ ऐं ह्रीं श्रीं वद वद वाग्वादिनि ! भगवति ! सरस्वति ! ह्रीं नमः । एतन्मन्त्रस्य पूर्वसेवा करजप्यः लक्षं जातीपुष्पजातिश्च १२००० ततो दशांशहोमो घृतगुग्गुलमधुखण्डैर्जपितपुष्पमध्यात् १२००० पुष्पाणि गृहीत्वा गुटिका सञ्चूर्ण्यते । मन्त्रदानं दीपोत्सव एव गर्भे मन्त्रो मूर्त्तिर्वा भगवत्या लिख्यते यन्त्रस्योभयथापि कार्यम् । जापे नमः । होमे स्वाहा । इति श्रीबप्पभट्टिसूरेराम्नायः । अथ पुनः श्रीबप्पभट्टिसूरिविद्याक्रमे महापीठोद्धारो लिख्यते-ऐं क्लीँ हसौँः पूर्वक्त्राय नमः, १ ऐं क्लीँ ह्सौँः दक्षिणवक्त्राय नमः २, ऐं क्लीँ ह्सौँः पश्चिमवकत्राय नमः ३, ऐं क्लीँ ह्सौँः उत्तरवकत्राय नमः ४, ऐं क्लीँ ह्सौँः ऊर्ध्ववक्त्राय नमः ५, वक्त्रपञ्चकम् । ऐं हृदि कमलायै हृदयाय नमः १, ऐं शिरः कुलायै नमः, ऐं शिरसे स्वाहा २, ऐं शिखकुलाये शिखायै वौषट् ३, ऐं कवचकुलाय कवचाय नमः ४, ऐं नेत्रायै नेत्रत्रयाय वषट् ५, स्त्राकुलयें अस्त्राय फट् ६, अ ऐ अङ्गसकलीकरणम् । इति करन्यासः, अङ्गन्यासः, पात्रपूजा, आत्मपूजा, मण्डलपूजा, ततः आह्वानं स्थापनम् । सन्निधानं सन्निरोधमुद्रा-दर्शनयोनिमुद्रा-गौस्तनमुद्रा-महामुद्रा इतिमुद्रात्रयं दर्शयेत्, ततो जापः कार्यः । यथाशक्त्या करजापेन लक्षजापः । पुष्पजापे चतुविंशतिसहस्राणि दशांशेन होमः । पूजापुष्पाणि कुट्टयित्वा गुटिका घृतेन घोलयित्वा होमयेत्, त्रिकोणकुण्डे हस्तमात्रविस्तारे खाते च ततः सिद्‍ध्यति । ऐं क्लीँ ह्सौँ वद वद वाग्वादिनि ! ह्रीं नमः । मूलमन्त्रः ॥ वाग्भवं प्रथमं बीजं द्वितीयं कुसुमायुधम् । तृतीयं जीवसंज्ञं तु सिद्धसारस्वतं पुनः ॥ वाग्बीजं स्मरबीजवेष्टितमतो ज्योतिःकला तद्बहि- रष्टद्वादशषोडशद्विगुणितद्वयष्टाब्जपत्रान्वितम् । तद्बीजाक्षरकादिवर्णराचितान्यग्रे दलस्यान्तरे हंसः कूटयुतं भवेदवितथं यन्त्रं तु सारस्वतम् ॥ स्मृत्वा मन्त्र सहस्रच्छदकमलमनुध्याय नाभीहृदोत्थं चेतः स्निग्धोदनालं हृदि च विकचतां प्राप्य निर्यातमास्यात् । तन्मध्ये चोर्ध्वरूपामभयदवरदापुस्तिकाम्भोजपाणिं वाग्देवीं त्वन्मुखाच्च स्वमुखमनुगतां चिन्तयेदक्षरालीम् ॥ ततो मध्ये साध्यनाम ततोऽष्टदलेषु अष्टौ पिठाक्षराणि क्म्ल्व्र्यूं च्म्ल्व्र्यूं त्म्ल्व्र्यूं ट्म्ल्व्र्यूं प्म्ल्व्र्यूं य्म्ल्व्र्यूं श्म्ल्व्र्यूं ह्म्ल्व्र्यूं ततो द्वादशदलाक्षराणि यथा कं कः, चं चः, टं टः, तं तः, पं पः, यं यः, रं रः, लं लः, वं वः, श शः, षं षः, सं सः इति । ह्रस्वास्तु भैरवाः प्रोक्ता दीर्घस्वरेण मातरः । असिताङ्गो रुरुश्चण्डः क्रीध अष्टौ हि भैरवाः ॥ ब्रह्माणी माहेश्वरी कौमारी वाराही वैष्णवी चामुण्डा चण्डिका महालक्ष्मीः इत्यष्टौ मातरः । एवं षोडशदलेषु बीजाक्षराणि यथा - अह्सौँ आह्सौँ इह्सौँ ईह्सौँ उह्सौँ ऊह्सौँ ऋह्सौँ ॠह्सौँ लृह्सौँ लॄह्सौँ एह्सौँ ऐह्सौँ ओह्सौँ औह्सौँ अंह्सौँ अःह्सौँ ततोऽपि द्विकाधिकत्रिंशद्दलानि - कह्सौँ खह्सौँ गह्सौँ घह्सौँ ङह्सौँ चह्सौँ छह्सौँ जहसौँ झह्सौँ ञहसौँ टह्सौँ ठह्सौँ डह्सौँ ढह्सौँ णह्सौँ तह्सौँ थह्सौँ दह्सौँ धह्सौँ मह्सौँ पह्सौँ फह्सौँ यह्सौँ भह्सौँ मह्सौँ यह्सौँ रह्सौँ लह्सौँ वह्सौँ शह्सौँ षह्सौँ सह्सौँ ३२ प्रत्यन्तरे तु अस्मिन् द्वात्रिंशद्दलकोष्टेषु ककारादिवर्णानामग्रे बीजाक्षरलेखने पाठान्तरं दृश्यते तदपि लिख्यते । यथा - कद्रयौँः खद्रयौँः गद्रयौँः घद्रयौँः ङद्रयौँः चद्रयौँः छद्रयौँः जद्रयौँः झद्रयौँः ञद्रयौँः टद्रयौँः ठद्रयौँः डद्रयौँः ढद्रयौँः णद्रयौँः तद्रयौँः थद्रयौँः दद्रयौँः धद्रयौँः नद्रयौँः पद्रयौँः फद्रयौँः बद्रयौँः भद्रयौँः मद्रयौँः यद्रयौँः रद्रयौँः लद्रयौँः वद्रधौ शद्रधौ षद्रयौँः सद्रयौँः ३२ इति प्रत्यन्तरपाठान्तरक्रमः । ततश्चतुःषष्टिदलानि आलार्ह ईवाई ऊशाई ऋषाई लॄसाई ऐहाई औळाई अङ्क्षाई १ आवाई ईशाई ऊषाई ऋसाई लॄहाई एळाई औक्षाई अंलाई २ आशाई ईषाई ऊसाई ऋहाई लृळाई एक्षाई औलाई अंवाई ३ आषाई ईसाई ऊहाई ऋळाई लॄक्षाई ऐलाई औवाई अंशाई ४ आसाई ईहाई ऊळाई ऋक्षाई ललाई एवाई औशाई अंषाई ५ आहाई ईळाई ऊक्षाई ऋलाई लृवाई ऐषाई औसाई अंसाई ६ आळाई ईक्षाई ऊलाई ऋवाई लृशाई ऐषाई औसाई अंहाई ७ आक्षाई ईलाई ऊवाई ऋशाई लृशाई ऐसाई औहाई अंळाई ८ एवं षष्टिः खीलनानि हलेषु ततोऽष्ट दलानि । दलेषु ऐं ३ दुर्गे ! दुर्गदर्शने नमः । ऐं ३ चामुण्डे ! चण्डरूपधारिण्यै नमः । ऐं ३ जम्भे नमः । ऐं ३ मोहे नमः । ऐं ३ स्तम्भने नमः । ऐं ३ आशापुरायै नमः । ऐं ३ विद्युज्जिह्वे ! नमः । ऐं ३ कुण्डलिनी नभः । ऐं ह्रीङ्कारवेष्टितं क्रोङ्कारनिरुद्धं भूरिसी भूतधात्री भूमिशुद्धिं कुरु कुरु स्वाहा । भूमिशुद्धिमन्त्रः । ऐं विमले ! विमलजलाय सर्वोदकैः स्नानं कुरु कुरु स्वाहा । स्नानमन्त्रः । मन्तपयारो एसो हयारपुव्वि ति सोयमग्गम्मि । सो च्चिय सयारपुव्यो विज्जानेओ कुले हाइ ॥ .............जीवं दक्षिणवाचयोगसमन्वितम् । सिद्धसारस्वतं बीजं सद्यो वै वचःकारः ॥ शुचिप्रदेशे पटे पट्टे वा श्रीखण्डेन कर्पूरेण वा देव्या मूर्ति कमलासनस्थां देवीचरणसमीपे योजितकरां स्वमूर्तिं च आलिख्य देवीप्रतिमां चाग्रतो विन्यस्य देवीपूजापूर्वकं यथाशक्ति श्रीखण्डजातीकुसुमसुगन्धधूपफलनैवेद्यजलप्रदीपाक्षतादिभिः साधकः पूजयेत् । स च स्नानकं च स्नानं वा कृत्वा शुचिवेषः समुपविशेत् । ततश्च `ॐ विमलाय विमलचित्ताय पां वां क्षां ह्रीं स्वाहा' अनेन मन्त्रेण वार ३ शिरः प्रदेशात् चरणौ यावत् हस्ताभ्याँ मन्त्रस्नानं कुर्यात् चन्द्रकिरणैर्ङ्गधकर्पूरैर्वा आत्मानमभिषिच्यमानं चिन्तयेत् । ॐ भूरिसि ! भूतधात्री भूमिशुद्धिं कुरु कुरु हुं फट् स्वाहा' अनेन मन्त्रेण वार ३ भूमिशुद्धिं कुर्यात् । ततः- ॐ ४ एहि एहि वार ४'' अनेन मन्त्रेण आह्वानं कुर्यात् । द्रव्यतो भावतश्च देव्याह्वाननं स्थापना च कार्या । ततः क्षि पद्मासने, प नाभिप्रदेशे, ॐ हृदये, स्वा नासिकायाम्, हा शिरःप्रदेशे एभिर्मन्त्रपदैरारोहक्रमेण ततश्च हा ५ ललाटे, स्वा ८ नासिकायाम्, अँ' ८ ह्लदये, प १३ नाभौ, क्षि ५ पद्मासने एभिरेव मन्त्राक्षरैरात्मरक्षां कुर्यात्, चतुर्दिशं नखच्छोटिकां च शिखाबन्धं विदध्यात् । गुरूपदिष्टध्यानपूर्वकं मूलमन्त्रं जपेत् । मूलमन्त्रस्य सहस्र १२ करजापे ततःपुष्पजापे सहस्र पुष्पजापसत्कानि पुष्पाणि छायाशुष्काणि सञ्चूर्ण्य गुग्गुलेन सह चणकप्रमाणा गुटिकाः कृत्वा दुग्धघृतखण्डमध्यादाकृष्य ध्यानपूर्वं मन्त्रपूर्वं च होमयेत् खदिराङ्गारैः पलाशसमिद्भिश्च वैश्वानरः प्रथमं ज्वलन् कार्यः । पूजानन्तरम् - ॐ यः विसर्जनमन्त्रः लक्षजापे दिननियमो नास्ति, तत्रापि पूर्वविधिना दशांशेन होमः कार्यः, करजापे लक्ष १, पुष्पजापे लक्ष १, होमसहस्र १० उत्तरक्रियायां करजाप लक्ष १ सिद्धिं यावत् साधका साधयेत् । ब्रह्मचर्यं भूमिशयनं वृक्षशयनं वा । एकवारभोजनं आम्ललवणवर्जं च कुर्यात् । स्वन्नेऽपि वीर्यच्युतौ मूलतो गच्छति, अतोऽनवरतं एलचीप्रभृतिवीर्यापहारकं भक्षयेत् । होमकुण्डं अङ्गुल १६, विस्तारे अङ्गुल १२॥ अ ॐ स्वाहा कुण्डस्य स्थापना ! आ ॐ स्वाहा मृत्तिकासंस्कारः । इ ॐ स्वाहा जलसंस्कारः । ई ॐ स्वाहा गोमयसंस्कारः । उ ॐ स्वाहा उभयसंयोगसंस्कारः । ऊ ॐ लिम्पनसंस्कारः ऋ ॐ स्वाहा दहनसंस्कारः । ॠ ॐ शोषणसंस्कारः । लृ ॐ स्वाहा अमृतलावणसंस्कारः । लॄ ॐ स्वाहा मन्त्र पूतसंस्कारः । ए ॐ इन्द्रासनाय नमः । ऐ ॐ स्वाहा अनलदेवतासनाय नमः । ओ ॐ यमाय स्वाहा । ओ ॐ नैरृताय स्वाहा । अं ॐ वरुणाय स्वाहा । अं ॐ वायवे स्वाहा । अं अः ॐ धनदाय स्वाहा । अं अः ॐ ईशानाय स्वाहा । ल्लं ॐ कुण्डदेवतायै स्वाहा । क्षं ॐ स्वाहा एवं कुण्डसंस्कारः । ॐ जातवेदा आगच्छ आगच्छ सर्वाणि कार्याणि साधय साधय साधय स्वाहा । आह्वाननम् । र ॐ जलेन प्रोक्षणम् । र ॐ अभ्रोक्षणम् । र ॐ त्रिर्मार्जनम् । र ॐ सर्वभस्मीकरणम् । र ॐ क्रव्यादजिह्वां परिहरामि । दक्षिणदिशि पुष्पं भ्रामयित्वा क्षेपणीयम् । अथ वैश्वानररक्षा - ॐ हृदयाय नमः, ॐ शिरसे स्वाहा, । वैश्वानररक्षा । जिह्णा-चतुर्भुज-त्रिनेत्र-पिङ्गलकेश-रक्तवर्ण-तस्य नाभिकमले मन्त्रो न्यसनीयः । होतव्यं द्रव्यं ततस्मै उपतिष्ठते । वैश्वानराहूतिः ॐ जातवेदा सप्तजिह्व ! सकलदेवमुख स्वधा । वार २१ आहूतिः करणीया । य्म्ल्व्र्यूं बहुरूपजिह्वे ! स्वाहा होमात् पूर्णाहूतिः मूलमन्त्रेण देव्यै साङ्गायै सपरिकरायै समस्तवाङ्मयसिद्धर्थे द्वादशशतानि जापपुष्पचूर्णगुग्गुलगुटिका पूर्णाहूतिः । स्वाहा अनेन क्रमेण वार ३ यावद् भण्यते तावदनवच्छित्न्नं आज्यधारया नागवल्लीपत्रमुखेन पूर्णाहूतिः कार्या । घृतकर्षः ताम्बूलं नैवेद्यम् यज्ञोपवीत-नवीनश्वेतवस्त्रखण्डं वा दधिदूर्वाक्षतादिभिराहूतिः करणीया । अथ विसर्जनम्- मूलमन्त्रेण साङ्गायै सपरिवाराय देव्यै सरस्वत्यै नमः - अनेन मन्त्रेण आत्महृदयाय स्वाहा । वैश्वानरनाभिकमलात् देवी ध्यानेनात्मनि संस्करणीया पश्चाद् ॐ अस्त्राय फट् इति मन्त्रं वारचतुष्टयं भणित्वा वार ४ अग्निविसर्जनं कार्यम् । ॐ क्षमस्व क्षमस्व भस्मना तिलकं कार्यम् । ऐं ह्रीं श्रीँ क्लीँ ह्सौँ वद वद वाग्वादिनि ! भगवति सरस्वति ! तुभ्यं नमः । इति सारस्वतं समाप्तम् । अत्र श्रीबप्पभट्टिसारस्वतकल्पोक्तमाद्यं बृहद् यन्त्रम् इदं च द्वितीयमपि यन्त्रं आम्नायान्तरे दन्दृश्यते । गुरुक्रमेण लब्ध्वा पूजनीयम् । सर्व तत्त्वमिदं पाठतस्तु वाग्बीजं स्मरबीजवेष्टितमतो ज्योतिः कला तद्बहि- श्चाष्टद्वादशषोडशद्विगुणितं द्व्यष्टाब्जपत्रान्वितम् । तद्बीजाक्षरकादिवर्णरचितान्यग्रे दलस्यान्तरे हंसः कूटयुतं भवेदवितथं यन्त्रं तु सारस्वतम् । इति मूलकाव्यं यन्त्रोद्धारसूचकम् । तथा- ॐ ऐं श्रीमनु सौं ततोऽपि च पुनः क्लीँ वदद्वौ वाग्वादिनी एतस्मादपि ह्रीं ततोऽपि च सरस्वत्यै नमोऽदः पदम् । अश्रान्तं निजभक्तिशक्तिवशतो यो ध्यायति प्रस्फुटं बुद्धिज्ञानविचारसारसहितः स्याद्देव्यसौ साम्प्रतम् ॥ इति मूलमन्त्रोद्धारकाव्यं च । तथापि गुरुक्रमवशतः पाठान्तराणि दृश्यन्ते तत्र गुरुक्रम एव प्रमाणम् । भक्तानां हि सर्वेऽपि फलन्तीति । ॐ ह्रीं आसिआउसा नमः अहं वाचिनि ! सत्यवाचिनि ! वाग्वादिनि वद वद मम वक्त्रे व्यक्तवाचया ह्रीं सत्यं ब्रूहि ब्रूहि सत्यं वद वद अस्खलितप्रचारं सदेवमनुजासुरसदसि ह्रीं अर्हं असिआउसा नमः स्वाहा । लक्षजापात् सिद्धिर्बप्पभट्टि सारस्वतम् । ॥ इति श्रीबप्पभट्टिसारस्वतकल्पः ॥ वाग्भवं प्रथमं बीजं १ द्वितीयं कुसुमायुधम् २। तृतीयं जीवसंज्ञं च सिद्धसारस्वतं स्मृतम् ॥ जीवसंज्ञं स्मरेद् गुह्ये वक्षसि (वक्षःस्थले) कुसुमायुधम् । शिरसि वाग्भवं बीजं शुक्लवर्णं स्मरेत् त्रयम् ॥ त्रयम्-बीजत्रयमित्यर्थः । ॐ ह्रीं मण्डले आगच्छ आगच्छ स्वाहा । आह्वानम् । ॐ ह्रीं स्वस्थाने गच्छ गच्छ स्वाहा । विसर्जनम् । ॐ अमृते ! अमृतोद्भवे ! अमृतमुखि ! अमृतं स्रावय स्रावय ॐ ह्रीं स्वाहा इति सकलीकरणम् । इति शारदाकल्पः । ॐ नमो भगवओ अरिहओ भगवईए वाणीए वयमाणीए मम सरीरं पविस पविस निस्सर निस्सर स्वाहा । लक्षं जापः । वाक्सिद्धिः फलति । ॐ नमो हिरीए बम्भीए भगवईए सिज्जौ मे भगवई महाविज्जा ॐ बम्भी महाबम्भी स्वाहा । लक्षं पूर्वसेवायां जपः, तत्र त्रिसन्ध्यं सदा जपः । क्षिप ॐ स्वाहेति पञ्चतत्त्वरक्षा पूर्वं कार्या । प्राङ्मुखं च ध्यानम् । एष विधिः सर्वसारस्वतोपयोगी ज्ञेयः । नमो अरिहन्ताणं, नमो सिद्धाणं, नमो आयरियाणं, नमो उवज्झायाणं, नमो लोए सव्वसाहूणम् । नमो भगवईप सुअदेवयाए सङ्घसुभमायाए वारसङ्गपवयणजणणीए सरस्सईए सच्चवाइणि ! सुवण्णवण्णे ओअर ओअर देवी मम सरीरं पविस पुच्छन्तस्स मुहं पविस सव्वजणमणहरी अरिहन्तसिरी सिद्धसिरि आयरियसिरी उवज्झायसिरी सव्वसाहुसिरी दंसणसिरी नाणसिरी चारित्तसिरीस्वाहा । सम्यन्दर्शनज्ञानचारित्राणि मोक्षमार्गः । अनेन मन्त्रेण कच्चोलकस्थं कङ्गुतैलं गजवेलक्षुरिकया वार १००८ अष्टोत्तरसहस्रं अथवा अष्टोत्तरशतं अभिमन्त्र्य पिबेत् महाप्रज्ञाबुद्धिः प्रैधते । अनेन ब्राह्मीवचाऽभिमन्त्र्य भक्षणीया वाक्सिद्धिः । तथा पर्युषणापर्वणि यथाशक्ति एतत्स्मरणं कार्य महैश्वर्यं वचनसिद्धिश्च । ॐ नमो अणाइनिहणे तित्थयरपगासिए गणहरेर्हि अणुमण्णिए द्वादशाङ्गचतुर्दशपूर्वधारिणि श्रुतदेवते सरस्वति ! अवतर अवतर सत्यवादिनि हुं फट् स्वाहा । अनेन पुस्तिकादौ वासक्षेपः । लक्षजापे हुम्फडग्रे च ॐ ह्रीं स्वाहा इत्युच्चारणे सारस्वत उपश्रुतौ कर्णाभिव्यत्रणं - ``नमो धम्मस्स नमो सन्तिस्स नमो अजिअस्स इलि मिलि स्वाहा'' चक्षुः कणौं च स्वस्याधिवास्य परस्य वा एकान्ते स्थितो यत् श‍ृणोति तत्सत्यं भवति । उपश्रुतिमन्त्रः ॥ ॐ अर्हन्मुखकमलवासिनि ! पापात्मक्षयङ्करि ! श्रुतज्ञानज्वालासहस्रप्रज्वलिते ! सरस्वति ! मत्पापं हन हन दह दह क्षां क्षीं क्षूं क्षौं क्षः क्षीरधवले अमृतसम्भवे ! वं वं हू क्ष्वीं ह्रीं क्लीँ ह्सौँ वद वद वाग्वादिन्वै ह्रीं स्वाहा । चन्द्रचन्दनगुटिका दीपोत्सवे उपरागे शुभेऽह्नि वा अभिमन्त्र्य देया मेघाकरः । दक्षिणशयं स्वं स्वयं मुखे दत्त्वा ५। ७ क्षया क्षोभता । चन्द्रचन्दनगुटीं रचयित्वा भक्षयेदनुदिनं सुपठित्वा । शिष्यबुद्धिवैभवकृते विहितेयं हेमसूरिगुरुणा करुणातः ॥ ऐं क्लीँ ह्रीं ह्सौँ सरस्वत्यै नमः । जापः सहस्र ५० सारस्वतम् । ॐ क्लीँ वद वद वाग्वादिनि ! ह्रीं नमः । अस्य लक्षजापे काव्यसिद्धिः । ध्याने च भगवती श्वेतवस्त्रा ध्यातव्येति ॥ ॥ इति श्रीबप्पभट्टिसूरिकृतं श्रीसरस्वतीकल्पः समाप्तः ॥ Encoded and proofread by DPD
% Text title            : sarasvatIkalpaH
% File name             : sarasvatIkalpaH.itx
% itxtitle              : sarasvatIkalpaH (bappabhaTTisUrirachitaH)
% engtitle              : sarasvatIkalpaH
% Category              : devii, sarasvatI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sarasvatI
% Author                : sAdhvIshivAryA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DPD
% Proofread by          : DPD
% Description/comments  : Parishishta 12 of Bhairava Padmavati Kalpa, Jain/Gujarati publication, 1993
% Latest update         : April 14, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org