सरस्वतीनक्षत्रमालास्तवः
अयि देवि सरस्वति! त्वदीयाः
स्तुतिधाराः परिलेढुमुद्यतां नः ।
स्वयमेव तव स्तवं दुहानां
रसनां मातरिमां सनाथयेथाः ॥ १॥
अरुणाघरविश्वमग्बुजाक्षं
करुणावर्षि कटाक्ष केलिलक्षम् ।
वदनं तव हन्त! भारति! त्व-
त्पथमुल्लङ्घय विशृङ्खलं चकास्ति ॥ २॥
अकलङ्कशरच्छशाङ्कलक्षा-
प्यसदृक्षा तव वाणि! व क्त्भङ्गयाः ।
अधरः पुनरम्ब! पक्कविम्बी-
पटलीपाटलिमापवादवीरः ॥ ३॥
नवपल्लवदर्पविभ्रमान् वा
शरदम्भोजवनच्छविच्छटां वा ।
परिजेतुमलं भवत्पदश्री-
रिति वादोऽप्यसदृक्षदिक्षु गण्यः ॥ ४॥
तव देवि! न केवलं मुखेन्दु-
र्विकलङ्केषु विशेषलेखनीयः ।
अपि तु स्फुटमङ्घ्रिपङ्कजाग्रे
विहरन्तः सुकृतो नखेन्दवोऽपि ॥ ५॥
अणिमा तव हन्त! मध्यभागे
महिमानं निरुणद्धि निर्विवादम् ।
परिपाटलिमा च पाणिपादा-
धरबिम्बे तनुकान्तिपाण्डिमानम् ॥ ६॥
अपि मौलिपदे पदं भवत्याः
शशिना हन्त! जडेन शान्तमेनः ।
अत एव भवत्पदाब्जसेवा-
विरही नित्यनिरूढमौग्ध्यकार्यः ॥ ७॥
अविशङ्कित दोषगन्धवार्तां
विशदाशेषगुणां विचित्रभूषाम् ।
रसपोषविशेषितां विधाता
नयनैस्त्वां श्रवणैर्वयं भजामः ॥ ८॥
जननीं रजनीकरावतंसां
जगतां जङ्गमपारिजातवल्लीम् ।
करुणापरिणाहिनेत्रयात्रां
कतिचित् त्वां हृदये वहन्ति धन्याः ॥ ९॥
परिमण्डलकान्तिभारनम्रां
त्रिजगन्मङ्गलदीर्घदीपलेशाम् । (दीपलेखाम्)
सुकृतां रसनाञ्चले ज्वलन्तीं
भवतीं चेतसि भावयन्ति धन्याः ॥ १०॥
भवतीमवतीर्य चित्तवीथ्यां
विहरन्तीं विविधैर्विभूतिभारैः ।
भुवनाद्भुतविभ्रमाभिरामां
पुलकैः कैरपि पूजयन्ति धन्याः ॥ ११॥
पतता हृदि हर्षबाप्पमूर्त्या
पयसा त्वामभिषिच्य कोऽपि हृद्याम् ।
पुळकाङ्कुरभूषितां विधत्ते
स्फुटमात्मीयतनूमिवार्द्रचेताः ॥ १२॥
मधुरस्मितधौतविश्वविद्या-
विभवोद्गारिमुखेन्दुसम्पदं त्वाम् ।
परिभावयतां परं मुनीनां
निखिलाचार्यपदानि निर्वहन्ते ॥ १३॥
कमलेति भुजान्तरे मुरारे-
गिरिकन्येति शिवस्य वामपार्श्वे ।
परिराजसि भारतीति धातु- (परिलयि)
र्वदनाम्भोजचतुष्पथे त्वमेका ॥ १४॥
चतुरेषु चतुर्षु वक्त्रचन्द्रे-
ष्वधिवासं भवती विधर्विधत्ताम् ।
बदने पुनरम्ब मादृशानां
किमिदं नृत्यसि नन्वियं कृपा ते ॥ १५॥
भवतीं भवतीव्रवेदनार्ताः
परमानन्दपयोधिवीचिमालाम् ।
वचसामधिदेवते! वयं ते
मनसा मङ्क्षु विगाह्य धन्यधन्याः ॥ १६॥
जगतामधिपत्नि! निःसपत्नं
त्वयि चित्तं मम मग्नमस्तु मातः ।
पदयोर्द्वयमद्वयं पदं वा
तव जानन्नपि नाम धन्यधन्याः ॥ १७॥
निखिलागम निर्विवादगीतं
सहजानन्दतरङ्गदन्तुरं ते ।
मनसः कुहरे वयं पदं ते
गगनोल्लङ्घि कथं कथं वहामः ॥ १८॥
स्वरसप्रतिभासुरं पदं यत्
सुखसाम्राज्यमनर्गलप्रसारम् ।
अखिलाद्भुतमुज्झितोपमानं
तदहो! नन्वसि धीरधीविलेह्यम् ॥ १९॥
अतिलङ्घित कालभेद वादं
गलिताशेपदिशाविभागगन्धम् ।
निरवग्रहनिश्चय प्रकाश-
स्फुटमाधुर्यमसि त्वमम्ब! तत्त्वम् ॥ २०॥
सकलव्यवहारदूरदूरं
सरसं किञ्चिदकिञ्चनोपभोग्यम् ।
हृदयं मदयन्मदीयमुच्चै-
हृषितं हृद्यमिदं पदं ननु त्वम् ॥ २१॥
निजयैव कयापि हन्त! कान्त्या
दलितध्वान्तपरम्परोपरागम् ।
मधुरिम्णि परं महिम्नि चोच्चै-
र्विशदं धाम विशृङ्खलं खलु त्वम् ॥ २२॥
अपवर्गपदास्पदं पदं य-
द्यपवर्गः पशुपाशबन्धनानाम् ।
अपतत् तव रूपमद्वितीय-
क्षममालक्षयतां सतां किल त्वम् ॥ २३॥
सहजा तव कापि रूपसम्पद्
वचसां वर्त्मनि नैव नैव नैव ।
अपरा पुनरात्तचित्रवेषा
भ्रुवनं पुष्यति भूमिकाविभूतिः ॥ २४॥
अथवा कथयेम तं भवत्या
महिमानं महतोऽपि भो! महत्याः ।
अपि वाङ्मनसाध्वनि ध्वनन्तीं
कथयेत् कः खलु चिन्तयेच्च तां त्वाम् ॥ २५॥
न तदस्ति विनापि यत् त्वया स्या-
चिदचि द्भ्यां प्रविभागभाञ्जि विश्वे ।
तदहो महिमाद्भुतं तवेदं
परमस्मात् पुनरम्ब! यासि सासीः ॥ २६॥
तदलं पदलङ्घिनि त्वदीये
मुखरीभ्रूय मुहुर्विभूतिपूरे ।
अपि वा विनयोक्तिभिः कृतं ते
शिशुसंलापवशो हि मातृवर्गः ॥ २७॥
जय देवि! गुणत्रयैकवेषे!
जय हे देवि! गुणत्रयैकभूषे! ।
जय देवि! तमःप्रवेशदूरे!
जय हे देवि! निजप्रकाशधारे! ॥ २८॥
इति ते स्तुतिमौक्तिकाद्भुतश्रीः
स्वयमग्रन्थत हन्त! सन्निधानात् ।
तदियं तव देवि! कण्ठभूषा-
पदवीं प्राप्य कृतार्थतां प्रयातु ॥ २९॥
श्रीकृष्णलीलाशुकवाक्सुभिक्षं
नक्षत्रमालेयमभूतपूर्वा ।
कृष्णस्य देवस्य गिरश्च देव्याः
कलाञ्चले वर्षतु हर्षधाराः ॥ ३०॥
इति कृष्णकेलिशुकवाङ्मयीमिमां
मतिमान् जनः परिचिनोतु जिह्वया ।
उरुचेतसा श्रवणमण्डलेन वा
त्रितयेन वा त्रिभुवनाद्भुतां सुधाम् ॥ ३१॥
(स्तवोऽयं गोश्रीराज्यान्तर्गत-कणयन्नूर्-देशस्थ-पटिञ्ञा
ट्टियेटत्तुगृहाभिजन रामन् वासुदेवन्नम्पूतिरिस्वामिकात् ।)
इति श्रीलीलाशुकमुनिविरचिता सरस्वतीनक्षत्रमाला समाप्ता ।
Proofread by Mohan Chettoor