श्रीसरस्वतीप्रार्थनास्तोत्रम्
शुभानि विदधातु नः किमपि पाणिपद्मस्थली-
विभासिशुकपोतकप्रियवचोभिरानन्दितम् ।
सुधाकरकलासमुल्लसितशेखरं पद्मभू-
वशीकरणचातुरीकलितलीलमाद्यं महः ॥ १॥
सदा हृदि विभासतां विलसदैन्दव श्रीसख-
प्रभानिकरनिर्धुताखिलजगत्तमःसंहति ।
सदातनवचस्तुतातुलितवैभवं दुर्दशा-
निशातनदयारसाञ्चितविलोकनं दैवतम् ॥ २॥
कलक्कणितनूपुरं कलितदीनरक्षाकरं
शशाङ्ककृतशेखरं शमितभक्तदैन्योत्करम् ।
कदा दुरितदुर्लभं कमलभूमनोवल्लभं
महोऽहमवलोकये महितसाहितीलब्धये ॥ ३॥
रसज्ञहृदयङ्गमस्फुरदसीमभावोदयां
तदीयरसभावनासमुचितैर्गुणैर्बन्धुराम् ।
निरर्गलविनिर्गलत्सुरधुनीतरङ्गक्रमां
विधातृवरवर्णनी वितरताद्वचोवैखरीम ॥ ४॥
विदूरय ममापदं वितर भद्रमव्याहतं
विधेहि विमलं यशो विरचय प्रसादं मयि ।
सुधारससहोदरैः शिशिरयान्तरं मामकं
दयारसतरङ्गितैर्भुवनमातरालोकनैः ॥ ५॥
त्वामेव यामि शरणं जगदम्ब वाणि
शीतांशुखण्डपरिशोभितमौलिभागे ।
वाचालनूपुरसमञ्चितपादपझे
वाचामधीश्वरि विधेहि मयि प्रसादम् ॥ ६॥
भाष्यकारेण रचिता जीयद्वाग्देवतानुतिः ।
श्रीकालहस्तीशगुरुवर्यपादाब्जसेवया (सेविना) ॥ ७॥
इति श्रीसरस्वतीप्रार्थनास्तोत्रं सम्पूर्णम् ।
Proofread by Rajesh Thyagarajan