श्रीसरस्वतीस्तोत्रम्
श्रीवासुदेवानन्दविरचितम् ।
हृद्वक्षस्थितविद्रुमाधिकमदा त्रीशस्य या स्फूर्तिदा
मालापुस्तकपद्मभृच्च वरदा या सर्वभाषास्पदा ।
या शङ्खस्फटिकर्क्षनाथविशदा या शारदा सर्वदा
प्रीता तिष्ठतु मन्मुखे सुवरदा वाग्जाड्यदा सर्वदा ॥ १॥
यस्यास्त्रीणी गुहागतानि हि पदान्येकं त्वनेकेडितं
स्तोतुं तां निगमेडितां बुधकुलं जातं त्वलं व्रीडितम् ।
ब्रह्माद्या अपि देवता नहि विदुर्यस्याः परं क्रीडितं
प्रारब्धात्र नुतिर्मयेव रुरुणा शार्दूलविक्रीडितम् ॥ २॥
अयि सर्वगुहास्थितेऽजिते मयि तेऽपाङ्गदृगस्तु पूजिते ।
त्वदृते नहि वागधीश्वरि व्यवहारोऽपि परमेश्वरि ॥ ३॥
समयोचितवाक्प्रदे मुदे विदुषां संसदि वादिवाददे ।
मयि मातरशेषधारणा दयितेऽजस्य सदास्तु तारणा ॥ ४॥
यद्धस्ते कमलं च तत्र कमला लीलाविहारी हरि-
स्तस्याः सन्निकटेऽस्य नाभिकमले स्याल्लोकमूले विधिः ।
वेदा भेदभिदो मुखेषु च विधेर्ये स्वप्रमाणा नृणां
तेभ्यो यज्ञविधिस्ततोऽमरगणा जीवन्ति सा पातु वाक् ॥ ५॥
नमो नमस्तेऽस्तु महासरस्वति प्रसीद मातर्जगतो महस्वति ।
परेशि वाग्वादिनि देवि भास्वति प्रकाशके तेऽस्तु नभो यशस्वति ॥ ६॥
त्रिषष्टिवर्णाऽऽशुगयुक्परा या भूत्वाथ पश्यन्त्यभिधाथ मध्या ।
स्थानप्रयत्नादिवशान्मुखे च या वैखरीति प्रणमामि तां गाम् ॥ ७॥
त्वं ब्रह्मयोनिरपरा सरस्वति परावरा ।
साक्षात्स्वभक्तहृत्संस्थे प्रसीद मतिचेतने ॥ ८॥
सरस्वतीस्तुतिमिमां वासुदेवसरस्वती ।
चक्रे यमनुजग्राह नरसिंहसरस्वती ॥ ९॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीसरस्वतीस्तोत्रं सम्पूर्णम् ॥
Composed by P. P. Vasudevanand Saraswati (Tembe) Swami Maharaj (1854-1914)