श्रीसरस्वतीस्तोत्रम्
रविरुद्रपितामहविष्णुनुतं
हरिचन्दनकुङ्कुमपङ्कयुतम्
मुनिवृन्दगजेन्द्रसमानयुतं
तव नौमि सरस्वति पादयुगम् ॥ १॥
शशिशुद्धसुधाहिमधामयुतं
शरदम्बरबिम्बसमानकरम् ।
बहुरत्नमनोहरकान्तियुतं
तव नौमि सरस्वति पादयुगम् ॥ २॥
कनकाब्जविभूषितभूतिभवं
भवभावविभावितभिन्नपदम् ।
प्रभुचित्तसमाहितसाधुपदं
तव नौमि सरस्वति पादयुगम् ॥ ३॥
भवसागरमज्जनभीतिनुतं
प्रतिपादितसन्ततिकारमिदम् ।
विमलादिकशुद्धविशुद्धपदं
तव नौमि सरस्वति पादयुगम् ॥ ४॥
मतिहीनजनाश्रयपारमिदं
सकलागमभाषितभिन्नपदम् ।
परिपूरितविश्वमनेकभवं
तव नौमि सरस्वति पादयुगम् ॥ ५॥
परिपूर्णमनोरथधामनिधिं
परमार्थविचारविवेकविधिम् ।
सुरयोषितसेवितपादतलं
तव नौमि सरस्वति पादयुगम् ॥ ६॥
सुरमौलिमणिद्युतिशुभ्रकरं
विषयादिमहाभयवर्णहरम् ।
निजकान्तिविलोमितचन्द्रशिवं
तव नौमि सरस्वति पादयुगम् ॥ ७॥
गुणनैककुलं स्थितिभीतिपदं
गुणगौरवगर्वितसत्यपदम् ।
कमलोदरकोमलपादतलं
तव नौमि सरस्वति पादयुगम् ॥ ८॥
इदं स्तवं महापुण्यं ब्रह्मणा च प्रकीर्तितम् ।
यः पठेत् प्रातरुत्थाय तस्य कण्ठे सरस्वती ॥
P R Ramurthy, Sunder Hattangadi
The meter is jagatI group (12 syllables in each pAda)
subtype vaMshastha. The last shloka is in anuShTup meter.