श्रीसरस्वत्यष्टकम्
श्रीशारदाम्ब विमलाम्बरशुक्लवर्णां
वीणाधरां सुधवलां कलहंस रूढाम् ।
ज्योतिर्मयं स्फटिकहारधरां सुकण्ठीं
हस्तेक पुस्तकधरां प्रणमामिवाणीम् ॥ १॥
घोरान्धकारहृदि मे ज्वलयन् सुज्योतिं
ज्ञानं प्रदाय सततं विपुलाञ्चनित्यम् ।
मातः प्रदातु निजभक्त जनाय मुक्तिं
त्रायस्व मां भगवती भवताप तप्तम् ॥ २॥
सरस्वतीं शुक्ल सुहंसवाहिनीं
श्वेताम्बरां श्वेत सरोज वासिनीम् ।
श्वेतां सुदिव्यां स्फटिकारव्यमालिनीं
सुधामयीं भारतीभास्वतीं भजे ॥ ३॥
आनन्ददात्रीं सुप्रकाशदात्रीं
सौभाग्यदात्रीं जननीं सुपात्रीम् ।
सर्वेषु शास्त्रेषु सुबोधदात्रीं
श्रीभारतीं त्वां प्रणमामिनित्यम् ॥ ४॥
संसार सागर समुत्तरणाय भक्त्या
ध्यायन्तित्वां सुकवयोहृदिभावयुक्ताः ।
सम्प्राप्यज्ञानमचलं तवसुप्रसादात्
संसारजं सकलदुःखतरन्तिपारम् ॥ ५॥
समुज्ज्वलां दिव्य विभूषिताम्बरां
संसार दुःख दहनां सततं स्मरामि ।
त्वत्पादभक्त्या सुलभं सुदुर्लभं
सर्वत्रस्वानन्द सुधाम्पिवाम्यहम् ॥ ६॥
ज्ञानामृताब्धि रससारमयीं सुनेत्रीं
शुक्लाम्बरां कनकभूषणभूषिताङ्गीम् ।
वीणां सुपुस्तकधरां स्फटिकारव्यमालां
विद्यान्नमामि सततमभयां पराभ्वाम् ॥ ७॥
सरस्वत्याष्टकं दिव्यं भक्तिभाव समन्वितम् ।
पठनात् शारदा नित्यं ददातिविमलामति ॥ ८॥
इति श्री स्वामी उमेश्वरानन्दतीर्थविरचितं सरस्वत्याष्टकं सम्पूर्णम् ।
Proofread by Paresh Panditrao