सर्वदेवदेव्यष्टोत्तरशतनमनमुक्ताञ्जलिः

सर्वदेवदेव्यष्टोत्तरशतनमनमुक्ताञ्जलिः

१ परम गुरुस्तुतिः

ओंकाररूपम् । ओंकारोपासकतत्परं । ओंकारस्पंदनकारकम् । ओंकार तेज बल व्यापकं । ओंकार लीन सर्वभाषांतर्मूलम् । ओंकारव्याप्त सप्तस्वरविन्यासलोलम् । ओंकारांतर्गत सर्वाक्षराकारम् । ओंकार दीप्तिमय सर्वरूपाकारम् । अकार उकार मकारेति अक्षरत्रय शक्तिघनम् । वैश्वानर तैजस प्राज्ञस्थानव्यापकं शब्दब्रह्मरूपं अंतरतमगुरुं भावयामि ॥

२ सद्गुरु ध्यानं

साक्षात् परब्रह्मेति प्रकीर्तितम् । ब्रह्महरिहरेति समाख्यातम् । सिद्धीश्वरेति विख्यातम् । सुगुणाभरणभूषितं साधकगणवेष्टितम् । कृपानेत्रराजितम् । दिव्यचक्षुसहितं । साधक दिव्यचक्षून्मीलन मुदितं । तपस्स्वाध्यायरंजितं । शिष्यवृंदाराधितं । दैवाराधनरतं । सुज्ञानप्रियवांछितं श्री सद्गुरुं ध्यायामि ॥

३ गुरुस्तवनम्

अध्यात्मचिंतन प्रेरकम् । अध्यात्मसाधन कारकम् । जीवरहस्य बोधकम् । जीवनविधान निर्देशकम् । जीवदात भगवद्भक्तिपथदर्शकम् । वंदे त्रिमूर्त्र्यात्मकम् । अहंभाव वर्जकम् । आत्मदौर्बल्य नाशकम् । करणमैत्रि साधकम् । योगतंत्रानुशासकम् । शिष्यगुणशक्ति नियामकम् । चराचरस्थ प्राणदर्शकम् । योगानुभव सोपान सूचकम् । प्राप्तसिद्धि रोमांचकम् । संशय निवारकम् । सद्गुरुं वंदे त्रिमूर्त्र्यात्मकम् ।

४ सरस्वती स्तोत्रम्

हे मंदस्मित वदनारविंदे । श्री शारदे । समस्त भौतिकाध्यात्मिक शास्त्रविशारदे । ब्रह्मतत्त्वविदे । कच्छपिवीणावादनकोविदे । ब्रह्मदेव सृष्टि कर्मस्फूर्तिप्रदे । ऐंकारजप साफल्यदे । वरदे । त्वमेव शरणम् ॥

५ श्री सरस्वती स्तुतिः

शुभ्रवस्त्रधरि । वीणापुस्तकमालाधरि । चतुर्मुख प्रियकरि । ऐंकार वृक्षवल्लरि । हे सरस्वति कृपासागरि । परंधाम प्राप्तिकरि । विज्ञानाधीश्वरि । सुज्ञानदीपांकुरि । निगमागमरहस्याकरि । ललितकलानंदरत्नाकरि । धैर्यस्थैर्यकरि । चिरसत्यदर्शनकरि । दह मम जडत्वम् । वर्धय मम अंतःसत्वम् ॥

६ प्रणव स्तुतिः

ओंकार वाचकम् । ब्रह्मदर्शकं । भेदगह्वरतारकम् । समस्तनाद तरंगोत्पादन कारकम् । ईश्वर संपर्क साधकम् । समस्ताभिदानाभिदेयव्यापकम् । अधिकतम शक्तियुत कंपनरूपकम् । अनाहतनादव्यापकं । परापश्यंती मध्यमा वैखरीरूप प्रकटितम् । आद्यंतरहितम् । सर्वदेशकालस्थितम् । कार्यकारणचक्रांतर् स्थितम् । साकारनिराकार भेदरहितम् । विश्वस्पंदनम् आश्रयामि ॥

७ आचार्यस्मरणं

ध्यान समाधि तल्लीनम् । ओंकारनादलीनम् । संन्यासाश्रम निधानम् । पर्णकुटीरवासिनम् । अज्ञानतिमिरहरणम् । शिष्योद्धरणम् । पवित्रचरणं । कर्मभक्तिज्ञान मर्मविवेचनम् । शमदमादि संपद्भूषणम् । आचार्यदेवं स्मरामि । सर्वदालोक लोकसेवातोषणम् । अभ्यासवैराग्यनिष्ठ भवतारणम् । श्रद्धाभक्तिसहित जन्मपावनम् । ब्रह्मतत्वनिरूपणम् । ब्रह्मभावरंजनम् । निरंजनम् । आचार्यदेवं अनुदिनं प्रातःस्मरामि । आचार्यदेवं अनुदिनं सायं स्मरामि ॥

८ सद्गुरु वंदनं

आत्मज्ञानबोधकम् । आत्मशुद्धिकारकम् । आत्मदैन्यनिवारकम् । भावमैत्रिसाधकं । जीवसंस्कारप्रेरकम् । साधन विधानानुशासकम् । शिष्यगुणावगुण विमर्शकम् । भ्रांति नाशकम् । चराचरस्थचैतन्यशक्ति प्रदर्शकम् । आसुरीगुणांतकम् । भक्तिभावोद्दीपकम् । त्रिमूर्त्यात्मकम् । सद्गुरुं वंदे ॥

९ विश्वगुरु नमनं

कविपुंगव वर्णितम् । यतिवरेण्य ध्यानं । प्राज्ञमणि व्याख्यात महिमायुतम् । सुधीमणिज्ञातम् । महर्षिगण सेवितं । शिष्यवृंदोपासितम् । भक्तगण संदर्शितम् । दीनजनाश्रितम् । कलोपासक सत्ववर्धकं । सुज्ञानप्रदातम् । विज्ञान निरतं । त्रिगुणातीतं । धीमनोसाक्षीभूतम् । सर्वजनहितम् । विश्वगुरुं नमामि ॥

१० श्री गुरुस्मरणं

सद्गुरु वरिष्ठ । श्रोत्रीय ब्रह्मनिष्ठ । परमश्रेष्ठ । चिद्गुह प्रविष्ट । त्वां अनुक्षणं स्मरामि । दयामय परमशिष्ट । सद्धर्मपालनार्थं दैवीगुणान् प्रयच्छ । चित्तशुद्धिलाभार्थं तवभक्तिभाग्यं प्रयच्छ । आत्मज्ञानार्थं करणनिग्रहबलं प्रयच्छ । जन्मसाफल्यार्थं ध्यान निष्ठां प्रयच्छ ॥ त्वया विना को मम आश्रित पारिजातः? तव स्मरणेन विना को मम कृपाचिंतामणिः ॥

११ गुरु प्रार्थना

हे गुरुदेव! प्रत्यक्ष परदेव! कोऽस्ति त्वत्सम कारुण्यनिधिः । मंदहास वदन । आश्रित पावन । पुनीत चरण । ज्ञानघन सदा प्रसन्नचित्तोऽसि मंदस्मितवदनावन । शिष्योद्धारण साधकशक्ति संचालकोऽसि । दृग्दृश्य विवेचनं बोधयित्वा । ध्यानयोगपथे मां गमय समाधीश्वर श्रवण मनन निधिध्यासन सिद्धोऽसि आत्मबुद्धि प्रचोदय तमसोमा ज्योतिर्गमय हे विज्ञानेश्वर तव महिमा श‍ृत्वा आकर्षितोऽस्मि शरणागतोऽस्मि विदित्वा तव बोधनविधानतंत्रम् । दृष्ट्वा तव शिष्यवात्सल्यं हर्षितो।स्मि सुविचाररत्नाकर! सिद्धीश्वर!

१२ गणेशस्तवम्

गिरीशपुत्रीजम् । स्कंदाग्रजं । विघ्नराजं । विरजं । अजं । ब्रह्मतेजं । प्रथम पूजित चरण सरोजं गणराजं । भजेहं ॥ मातंगाननं । मूषकवाहनं । सूक्ष्मावलोकनं । भवारण्य पथ प्रदर्शनं । धीप्रदानं आसुरीगुणनिवारणं । दैवीगुणवर्धनं । भजेहं ॥ लंबोदरं । अज्ञानहरं । कलिकलुषविदूरं । कलाक्षेत्रविहारं । विद्यासारं । भजेहं ॥

१३ गणनाथ ध्यानं

एकदंतम् । मूलाधार चक्रनिवसंतं । अनंतं । प्रतिपादित सर्वसिद्धांतं । महाशांतं । धीमंतं । 'गं' बीजाक्षरोपासितम् । संकटवशवृंदाश्रितम् । चिंतितविश्वहितं । अपराजितं । शाश्वतं । पाशांकुशधर करांबुजभूषितं । मूषकासुराराधितं । सिद्धिबुद्धिसेवितं । सर्वयज्ञदान तपारंभादिपूजितं । मुनिगणदेवगणाश्रितं । शिवमनोहरसुतं । तं गणनाथं सततं भजेहम् ॥

१४ गणपति वंदनं

हे द्युतिमय शरीर । पाशांकुशधर । गणेश्वर । गुणेश्वर । विघ्नहर । महोदर । शिवपार्वतीसुकुमार कलुषविदूर । सद्विचार रत्नाकर । रक्षमाम् ॥ मातंगानन । मूषकवाहन । ज्ञान निकेतन । मूलाधार चक्रसदन । भवभंजन रक्षमाम् ॥ हे अज । चतुर्भुज । षण्मुखाग्रज । महातेजस्विपूजित पदपंकज रक्षमाम् ॥

१५ सरस्वती स्तुतिः

श्रेया । अक्षया । अंतरंग सुखोदया । शुभोदया । अजया । विजया । दुर्विज्ञेया । आस्तिक समुदाय सद्धर्मोदया । कैवल्यालया । खिन्नचित्त परितापोपाया । तापसध्येया । शुभोदया । गायक कवि विचक्षणज्ञेया । साधकनिरपाया । मनीषिवृंदसुप्रिया । विद्यालया । त्यागधनालया । आनंदमयकोशदीप्तिवलया । साम्यदृष्टिप्रिया । चतुर्मुखप्रिया । सरस्वत्येव मम प्राणप्रिया ॥

१६ व्यास स्तुतिः

ब्रह्मविद्वरिष्ठम् । शिष्योद्धरण निष्ठं । ब्रह्मतत्व बोधक वरिष्ठं । साधित ध्यान समाधि योग स्पष्टं । निवारित सर्वारिष्टं । ज्ञानविज्ञान तुष्टं । वेदविभजन यज्ञसाफल्य तुष्टं । अष्टादशपुराणरचन धन्य मुनींद्र श्रेष्ठं । शुकमहामुनि ब्रह्मभाव संतुष्टं । भगवद्गीताग्रंथावतरण कारण परमशिष्टं । सद्गुरु विशिष्टं । ज्ञानक्षेत्र सुप्रतिष्ठं । शिरसा नमामि ॥

१७ नारायण संस्मरणम्

पुरुषोत्तम । आकाशोपम । सर्वोत्तम । कैवल्यधाम । भावसंघर्षण विराम । आत्माराम । भक्तिसागरसोम । भंडनभीम । वैकुंठधाम । पूर्णकाम । नीलमेघश्याम । विहितसर्वानन्य भक्तवृंद योगक्षेम । परंधाम । क्षमस्व मम सर्वापराधान् त्वमेवैकः मम सर्वस्वम् । हे निर्मम ! निष्काम ॥

१८ श्रीराम स्तुतिः

भानुकुलांबुधिरजनीकरम् । अयोध्याधीश परमप्रियकुमारं । जनकात्मजामनोहरं । गुणगंभीरं । सुधीरं । अनुपमशूरं । धर्माधारं । वामनावतारं । श्रीधरं । कौसल्यानंदकरं । भरतानुग्रहकरं । शतृघ्नवात्सल्यधरं । पतितोद्धारं । स्मरामि लक्ष्मणसेवित सदाचारं । पितृवाक्यपरिपालनार्थं कृतविपिन वास निर्धारम् । दिव्यचारित्र्याधारं । रावण संहारं । दैत्यानां तांडव निर्मूलनकरं । एकपत्नीव्रतधरं । स्मरामि ॥ हनुमत्सेवित भक्तिसारम् । कोदंडधरं । मत्स्यकूर्मवराहादि दशावतारं । धीरलवकुश प्रावीण्य नंदन विहारं । प्रपन्नहृदयेश्वरं । सर्वजीव पावनकरं । श्रीरामं सुंदराकारं स्मरामि मुहुर्मुहुः ॥

१९ श्रीराम स्तवम्

दशास्य मर्दनम् । दशावतार रूपनारायणं । जनकात्मजारमणं । जनकवाक्यपरिपालनं । कौसल्यानंदनं । दशरथ भूपति प्राणसमानं । धर्मपरायणं । वंदे इनकुलशरधिनंदनं । सकलसुगुणाभरणं । अयोध्यासाम्राज्य परिपालनं । एकार्धांगिनीव्रत परिपालनं । जन्मपावनं । भूतभावनं । कृपालोचनं । प्रसन्नवदनं । विजितकरणं । सुधीश्रीभूषणं । अज्ञानहरणं । पतितपावन चरणं । संतवरिष्ठार्पित जीवनं । वंदे

२० हनुमत्स्तुतिः

श्रीरामचंद्र सेवारमणम् । अंजनादेवि हर्षवर्धनं । सागरलंघनं । सेतुबंधनं । सीतामातान्वेषणं । लंकादहनं । श्रीराम सेवार्थ वानरव्यूह नयनं । संजीविनी पर्वतानयनं । लक्ष्मण प्राणरक्षणं । विजितकरणं । अणिमा महिमालघिमागरिमादि सिद्धि प्रदर्शनं । महासंतं । वंदे भागवतं वंदे ॥

२१ श्रीरामनमनम्

श्रीरामम् । मोक्षधामं । आत्मारामं । आप्तकामं सत्यकामं । इनकुलसोमं गातुं मोदयामि । सद्धर्मसुगुणगणयुतं । सच्चरितं । नित्यमुदितं । शांतनेत्र प्रकाशितं । नवरत्नहारकिरीट शोभितं । जानकी प्राण नाथं । अयोध्यापुरपति सुतं । मूर्तप्रजाप्रेमाद्भुतं । मर्यादा पुरुषोत्तमेति प्रकीर्तितं । धनुश्शरसहितं । गातुं मोदयामि ॥ भरतानुजम् । लक्ष्मण शतृघ्नाग्रजं । मारुती सेवित पदसरोजं । विरजं । गातुं मोदयामि ॥ राजप्रासादस्थित तपोरतम् । तारकमंत्रोपासकाश्रितं । मातृत्रय चरणांबोज समभक्ति प्रदर्शितं । वर्णयितुं मोदयामि ॥

२२ दक्षिणामूर्ति स्तोत्रम्

हे दक्षिणामूर्तिम् । परमगुरुमूर्तिम् प्रार्थयामि । अविद्यागुहे बंधितोऽस्मि । अनित्यवस्तुस्पृहे अविरतोऽस्मि । असत्य मोदतरंगे विचलितोऽस्मि । अशुद्धभावोत्तुम् । हे सम्मोहितोऽस्मि । अनुक्षणचिंतित विचारगंगापाने । अनुदिनकृत सृजन कर्मशील गाने । अनुभवालये परिपरिघटन दर्शनयाने तिष्ठोऽस्मि तु मायावृतोऽस्मि । मामुद्धरतु भगवान् शीघ्रं परशिवः माम् दैन्यभावपूर्णम् ॥

२३ चतुर्मुख ब्रह्मस्मरणम्

हे सृष्टिकर्ता चतुरानन । शोभासदन । चराचरभावन । भारतीचित्तरंजन । नमामि कमलनाभनंदन । कमलासन । त्वमेव सूक्ष्मदर्शि । समदर्शि । त्वमेव दूरदर्शि । दीर्घदर्शि । त्वमेव तत्त्वदर्शि । सम्यग्दर्शि । त्वमेव भुवनत्रय पिता माता । त्वमेव विधाता । तपस्वि वरदाता । युगयुगांतरेऽपि अविरत सृष्टिकर्मनिरत पूर्वकल्पज्ञानसहित । प्रमादरहित । स्वपरभेदरहित । त्वमेव चिंतनीयः स्मरणीयः वंदनीयः ॥

२४ सरस्वती स्तुतिः

विरिंचि प्रियवल्लभाम् । शुभां । शारदांबां । दिव्यज्ञानप्रभां । शुद्धभक्तिसुलभां । भज हे मानस ॥ षड्दर्शनगिरिश्रेणि विहारिणीम् । वीणापाणिं । सत्यदर्शनरागिणीम् । मयूरवाहिनीं । असीमविद्याप्रकाशप्रसारिणीम् । अनंत ज्ञान क्षेत्रांतर्यामिनीम् । वैदिक संप्रदाय परंपरावन परायणीम् । भज हे मानस अनवरतं भज हे मानस भक्त्या अनवरतम् ॥

२५ ललिता स्तवम्

वेद दीक्षा समन्वित समुपासिते । श्रीललिते । मूर्तामूर्तभुवनमाते । दिव्यज्ञानसंपद्प्रदाते । अनुपमलावण्य शोभिते । चतुर्हस्तसंयुते । पाशांकुशहस्ते । सुवासिनिसंपूजिते । कैवल्यदाते । त्वां दर्शयामि मोदयामि च । त्रिलोकैक समाराधिते । व्रतनेमनिष्ठ सिद्धिदाते । मंदस्मिते । चिदानलसंभूते । जीवकारुण्यभरिते । सुरचाप सदृशभ्रूयुते । आपादमस्तकालंकृते । श्रीमत्सिंहासनाधीश्वरि श्रीमाते । त्वांदर्शयामि मोदयामि च ॥

२६ ईश स्तुतिः

गमकचमक नमकाराध्यम् । तपोमानस साध्यं । भक्ति प्रपत्ति पूर्णवेद्यम् । सदा चिंतयामि । निवेदयामि तस्य चरणराजीवे मम पद्यं तस्य ध्यानमात्रेण तस्य कृपामात्रेण सर्वं भवति साध्यम् । हृद्यं । मम चंचलचित्तस्य किंचिदपि सर्वमसाध्यं । अल्पज्ञोऽहं न जानामि किं वद्यं किं ग्राह । सः एव महेश्वरः । नटशेखरः । त्रिशूलधरः । नीलकंठः पार्वतीहर्षकरः । आवतु मां उद्धरतु माम् ॥

२७ शिवमहिमास्तुतिः

उडुपतिशेखरेण । अजरेण । अमरेण । विशिष्टनागाभरणधरेण । विषधरेण । भस्मभूषित शरीरेण । सदानंदकारणेन विनाकथं प्राप्तमस्ति भक्ति ज्ञानवैराग्यभावनम् । दक्षिणामूर्तिरूपेण । ध्यानासक्तेन । तपोधारालीनेन । गंगाश्रित जटाजूटधरेण । उमा रमणमहेश्वरेण । कैलास सदनेन समाधीश्वरेण विना धर्माचरणयुत निष्काम भक्तिः कथं प्राप्तमस्ति ॥

२८ ईश स्तुतिः

साक्षात् ब्रह्मस्वरूपम् । जीवेश्वर रूपं । कैलासाधिपं । हिमाद्रिप संजाताधिपं । गणाधिप देवसेनाधिप प्रतापाधिपं । शतृतपं आराधयामि स्थापयित्वा अर्पणदीपं । भालनयनं । सर्वदा तपस्वी वरप्रदानं । ध्यानसमाधिलीनम् । सृष्टिस्थितिलयसंतुलनं । कर्मभाव सम्मिश्रण संस्कार फलप्रदानं । ढक्कानिनाद तल्लीनं । चिद्पुर सदनं । प्रमथ गण सेवाधीशं । भक्ति ज्ञानयोग संधानं । वैराग्य निधानं । आराधयामि आघ्रापयामि स्तव तपो धूपं ॥

२९ राजराजेश्वरी स्तोत्रम्

क्षणक्षणपरिवर्तित विश्व वीक्षणी । श्रीराजराजेश्वरी । सिंहवाहनी । गुणगणवैलक्षण्य स्थापिनी । गुणावगुण द्विपक्षकदनसाक्षिणी । आकाश वायु पावकवारि पृथ्विव्यापिनी । विविध संस्कृति विवर्धिनी अवतुमाम् ॥ विकृतिनिरोधिनी प्रकृतिपावनी । संस्कृतिरक्षिणि बन्दविमोचनि । दुशचरितमानसपावनि । सत्यान्वेषक धृत्युत्साह प्रदायिनी । विश्वतैजस प्राज्ञरूपिणी । तुरीय धामस्वामिनि । कालत्रयातीत सनातनी । रंजनी । अवतुमाम् ॥ नित्यशुद्ध बुद्धमुक्तरूपिणी । दुराचारवश परिवर्तिनी । दौर्भाग्य शील परिरक्षिणी । दुश्चरित मानस पावनि अवतुमां विश्ववात्सल्यवर्षिणी ॥

३० नारायण स्तुतिः

नळिनी सख सहस्रप्रकाशम् । वैकुंठ लोकाधीशं । महालक्ष्मीशं । सुरेश्वर नरेश्वरेशं । भक्तचित्कमल विकासं । तुंबुरुनारद गानतोषं । सनकसनंदनादि मुनिवंदित महिमाविशेषं । सच्चिद्विलासं । सगुणसविशेषं । निर्गुण निर्विशेषं । मधुरभाषं । धर्म परायणतासंकाशं । नेत्राकर्षकवेषं । सद्भावसुविचार समुल्लासं । पीतवासं । मनोहर केशं सर्वथा ध्यायेत् सर्वदा ॥

३१ नारायणस्तवः

संपत्प्रदाधिप । धराधिप । स्वर्गमर्त्यपाताळाधिप । ऋषिमुनितपस्वीदेवनरेंद्रभूप । असमानप्रताप । दूरीकृतपरिताप । परंतप । धर्मार्थ काममोक्ष प्रदीप । यादवकुलसुदीप । वेदज्ञानसंदीप । पालय माम् ॥ योगमार्गप्रदीपक । त्यागयोगप्रेरक । आत्मसंभावित परिवर्तक । दितितनुजवंशसंहारक । भक्तिभावपूरक । दैवीगुणगणव्यापक । धर्मसंस्थापक । भुवन मोहक । कस्तूरी तिलक । दृपदनंदिनीरक्षक । अजामिळोद्धारक । पंचतन्मात्रात्मक । पंचभूतोत्पादक । वैजयंतीमालाधर मोहक । परिपालय माम् ॥

३२ श्रीमहाविष्णु ध्यानम्

श्रीमन्नारायणम् । क्षीरसमुद्रेश पुत्रिकारमणं । वैकुंठलोकनिवासिनं । क्षीरांबुनिधिशयनं । दुष्टशिक्षणं चक्रिणम् । शिष्टरक्षणं किरीटिनं । गदिनं । कमलधारिणं । कांतिमय देहिनं । प्रपत्तिपूर्ण ध्रुवरक्षणम् । पराभक्तप्रह्लाद दर्शन मोद कारणं ध्यात्वा रमामि ॥ दृपदात्मजामान रक्षणम् । गजेंद्र मोक्षप्रदानं । प्रसन्नमनस्क कृपालोचनं । नेत्रप्रिय वदनं । भक्तसंकट हरणं । कैवल्यनिधानं ध्यात्वा रमामि ॥ सर्वजीव विधातम् । सगुण निर्गुणोपासितं । सर्वजीवाश्रितं । अव्याकृतं । हिरण्यगर्भरूपस्थितं । विराड्रूपविराजितं । कमलासनपितं । ध्यात्वा रमामि । तुलसीवनमालाभूषितं । परमशांतं । अनंतं । धर्मविवेचनारंजितं । पीतांबरभूषितं ध्यात्वारमामि ।

३३ सरस्वती स्तोत्रम्

सात्विक साधक कृपावर्षिणी । तत्त्वचिंतनशील ज्ञानवर्धिनी । दुरित शमनी । मनोचांचल्य निवारिणी । चतुरानन रमणी । विद्यासाम्राज्य स्थापिनी । एकैवास्ति सरस्वती विश्वजननी ॥ विस्मयकरविकासधर्मसंचालिनी । मृदुपाणी । द्वैतविशिष्टाद्वैतानुभव प्रबोधिनी । अद्वैत तत्त्वप्रतिपादिनी । कल्याणी । एकैकास्ति विद्याजननी सरस्वति सरसिजनयनी । प्रार्थय भावय तां अद्यैव हे मानस प्राणस्पंदने ॥

३४ शारदा स्तुतिः

शुक्लवस्त्रधारिणीम् । शुक्लराजीवासन रागिणीं । सुप्तशक्तिजागरिणीं । सरसिजोद्भवभामिनीं । सरसिजनयनीं । ज्ञानपिपासावारिणीं । प्राज्ञशिरोमणि गणाश्रित चिंतामणीं । वीणापाणीं । संदेहालस्यप्रमाद दूरिणीं । साधक जन्मपावनीं । शरणागतावनीं । सतत साधनानिरत धीशक्तिवर्धिनीं । मम हृत्कमले पूजयामि । सुविचार पुष्पैःपूजयामि ॥

३५ श्री शारदा स्तोत्रम्

वीणापाणि । कोकिलवाणि । सारसदळनयनि । त्रिलोकतिमिरापहारिणि । त्रिदेहाविद्यानाशिनि । शुभ्रवसनधारिणि । श्वेतहंसवाहनि । ब्रह्मभामिनि । आत्मविद्याप्रकाशानंददायिनि । जपमालापुस्तकधारिणि । सत्यलोकवासिनि । चित्तप्रसादरहस्यभेदिनि । नादचिंतामणि नवरसाब्धियान विनोदिनि । रसऋषि धामभाग्यप्रसादिनि । नवनवोन्मेषशालिनि प्रतिभोद्दीपिनि । पालयतु मां परापराविद्यारूपिणि ॥

३६ श्री सरस्वती स्तोत्रम्

१ या देवी संवित्सागरी । दिव्यज्ञान सुधाकरी । नमस्तस्यैनमस्तस्यै नमस्तस्यै नमो नमः ॥ २ या देवी सृजनशीलचित्तापहरी । ब्रह्मदेव मनोहरी नमस्तस्यैनमस्तस्यै नमस्तस्यै नमो नमः ॥ ३ या देवी ब्रह्मविद्या प्रसारिणी गुप्तगामिनी । नमस्तस्यैनमस्तस्यै नमस्तस्यै नमो नमः ॥ ४ या देवी सृजनसौधामिनी विद्याप्रिय धीप्रचोदिनी नमस्तस्यैनमस्तस्यै नमस्तस्यै नमो नमः ॥ ५ या देवी वीणानाद तरंगिणी । रागतान मोदिनी । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ६ या देवी स्वरनीराजनरंजनी । सद्ग्रंथसारप्रबोधिनी । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ७ या देवी नटनरचनचित्र कलातोषिणी । मयूरवाहिनी । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ८ या देवी शुक्लांबरधारिणी । चतुरास्यरमणी । नमस्तस्यैनमस्तस्यै नमस्तस्यै नमो नमः ॥

३७ शारदा स्तुतिः

यां विद्यादायिनीं चतुर्मुखभामिनीं सत्यलोकवासिनीं सुरेंद्रादि दिविजाः स्तुवंति । यां ज्ञान विज्ञानरताः पुष्कल दिव्यैःस्तवैः स्तुत्त्वा तुष्यंति रमंति च । यां तुंबुरुनारद बृहस्पत्यादि देवर्षयः गायंति भक्तिलोकसंचारे । तां सरस्वतीम् । कलानंदरसस्रवंतीं । भगवतीम् । शिरसा नमाम्यहम् मनसा ध्यायाम्यहम् ॥

३८ सरस्वती स्तुतिः

श्वेतवसनान्विताम् । अभ्यासातिशय दर्शितां । आत्मजिज्ञासानुरागविदितां । पामरत्रातां । कच्छपिवीणानिस्वनरंजितां । गायन नर्तन वाचन चिंतन मुदितश्रितां । सरसिजोद्भव सहितां । सरस्वतीं आराधयामि धीमणिवेष्टिताम् । ऋषिमुनिकवि वरप्रदाताम् । अंतर्मुखाराधितां । बहिर्मुख सुपूजितां । त्रिभुवन मातरम् आराधयामि ।

३९ सरस्वती स्तुतिः

मधुमतीम् । रसवतीं । सरसवतीं । नवरसवतीं । ब्रह्मसतीम् । सुमतीं । श्रीमतीं । श्रीमहासरस्वतीं । प्रातःस्मरामि विद्यातुरेण ॥ समाहित चित्ताराधिते । सप्तस्वरविन्यास मुदिते । सुविस्मयकर दशनादमय नादयोगसंप्रीते । ऐंकारजपतृप्ते । त्वां स्मरामि हे जगन्माते । सत्त्वाधिक्यतां अभीप्स्य ध्यायामि ॥

४० शारदाभिवन्दनम्

हे संगीत साम्राज्य स्थापिनि । हे साहित्य स्वाराज्य स्वामिनि । स्वरविन्यासरतकंपनरोमांचनकारिणि । रागतानपल्लविलीन धीशक्ति वर्धिनि । कमलासन राणि । वाग्दीप प्रज्वलिनि । मौनरागालापिनि । दशनादश्रवणपथचालिनि । चिद्गुहांतर्वासिनि । आत्मतत्त्वप्रतिपादिनि । सच्चिदानंद रूपिणि । हे जननि । मयूरगामिनि । सरस्वति धन्योऽस्मि त्वां नमस्कृत्वा भूयो भूयो हे सत्व संवर्धिनि ॥

४१ सरस्वती भावनं

सत्यलोकवासिनीम् । शुभ्रवस्त्रधारिणीं । सरोरुहदळनयनीं । नयनकांतिप्रसारिणीं । ज्ञानप्रियाकर्षिणीं । सुमतिप्रकाशिनीं । सर्वचित्तवृत्तिधर्मनिरोधमर्मभेदिनीं । जपमालापुस्तकधारिणीं । पुनरावृत्तिपुनरध्ययन प्रचोदिनीं । सात्विकरूपिणीं । शुद्धचित्तप्रसादिनीं । राजसतामसभावकलुषनिवारिणीं । दुरितशमनीं । शीघ्रोद्धारिणीं । श्रीशारदां जननीं । भावयामि तामनुदिनं ॥

४२ गोविंद स्तवम्

धर्ममूर्तिम् । धर्म मार्गप्रवर्तकम् । धर्मपालकम् । धर्माधारं । धर्मस्थापकं । धर्मरहस्यवेत्तं । धर्मिष्ठ समुदायरक्षकम् । धर्मशास्त्रप्रदीपकं । धर्माधर्म निर्णायकम् । धर्मनीतिन्यायप्रियं । धर्मनंदनादि पंचपांडव परमाप्तं । धर्मभ्रष्टपरिवर्तकं । जगद्गुरु गोविंदं भज हे मानस ॥

४३ सरस्वती स्तुतिः

निरालंब सुखदायिनीम् । निःश्रेयस पथप्रदर्शिनीं । विविधभाव वाद्यगोष्ठिरागिणीं । महासरस्वतीं जननीं । वीणावादनरंजनीम् । राजीवासनप्रियरमणीं । स्वराक्षरालंकारयुत कृतिहर्षिणीं । आत्मविद्याप्रकाशिनीं सदा आश्रयामि । योगींद्रभ्रामरीगुहांतर्दर्शिताम् । ब्रह्मगोविंदचंद्रशेखरदिविजगणवंदितां । विद्याधिदेवतां । श्वेतांबरान्वितां । कलोपासक समर्चितां । रसिकशिखामणिवृंदसमाराधितां । नित्यमुदितां । जपमालापुस्तकभूषितहस्तां । सदा ध्यायामि मातरं ॥

४४ वीणापाणि प्रार्थना

नादयोग संप्रीते । समाहितचित्त समाराधिते । सप्तस्वरविन्यास समुदिते । अक्षराकारोपासिते । सुस्मिते । सुविस्मयकर दशनादश्रवण भाग्यदाते । माते प्रयच्छ प्रयच्छ मां अंतर्मुखत्वं महासरस्वति । तुंबरुनारदशुकशौनकवर्णितेभगवतिपरापरविद्यावति । नवरसवति प्रयच्छ प्रयच्छ मां ज्ञानसंपन्नतां हे भगवति ॥

४५ शारदास्तवम्

हे ललितकला स्वाराज्य पालिनि । सर्वशास्त्रविराड्रूपिणि । समस्त जीवकुलभाषांतर्यामिनि । लेखनवाचनलोकस्वामिनि । नादगगन विहारिणि । आबालगोप भावोद्देश दर्शिनि । सर्वविचारभावस्पंदनमर्मप्रबोधिनि । सुगुण नवरत्नसंयोजनि । सत्यप्रतिपादनातरंगिणि । सप्तस्वरभेदग्रहणधीशक्तिप्रबोदिनि । श्रद्धाभक्तिं देहि मे ॥ हे कीरवाणि । माणिक्यवीणापाणि । ब्रह्मराणि । सच्चिदानंद प्रोल्लासिनि । दिविजवनिताचिंतामणि । वेदोपनिषद्नंदन विहारिणि । सारसदळनयनि । सत्यलोकवासिनि । सर्वाक्षरमालाधारिणि । रम्यश्वेतहंसवाहनि । श्रद्धाभक्तिं देहि मे ॥

४६ नारायण ध्यानम्

समदर्शिगेयम् । ध्यानयोगि ध्येयं । स्थितप्रज्ञ ज्ञेयं । नित्यस्मरणीयं । पराभक्तवर्णनीयं । कर्मयोगि सेवनीयं । ब्रह्मचिंतनप्रियोपासनीयं । गृहस्थसंन्यासिवेद्यं । ब्राह्मीस्थितिप्रियातिप्रियं । वैरभावयुत जयविजय अहर्निशि ध्येयं । सर्वजीवगम्यं । सर्वकाल सौम्यं । सर्वभक्तप्रियं । सर्वथासदयं । वचसा सततं पठनीयं श्रीमन्नारायणं विजयं । अप्रमेयं । अजेयं संस्मृत्य संस्मृत्य हृष्यामि मुहुर्मुहुः

४७ वासवी स्तुतिः

ओंकार पंजरशुकाम् । अहिंसाव्रतनायिकां । श्रीमद् वासविकन्यकां । मृदुलहृत्पुंडरीकां । करधृत पद्मकुट्मलचारुशुकां । आश्रितोद्धारकां । भवाब्धितारकां । संवित्प्रदायकां । कुसुमांबकुसुमाख्यवरपुत्रिकां । विरूपाक्षाराधितवात्सल्यचंद्रिकां । अग्निप्रवेश दीक्षाप्रेरकां । वह्निप्रविष्टद्युत्तरशत सबांधवसद्गतिकारकां । योगमायाकन्यकां । शिरसानमामि पुनरपि पुनरपि दर्शयामि ॥

४८ श्रीराम स्तुतिः

दशास्य मर्दनम् । दशावतार रूपनारायणं । जनकात्मजारमणं । जनकवाक्यपरिपालनं । कौसल्याहर्षवर्धनं । दशरथभूपालप्राणसमान नंदनं । भानुकुलसागर नंदनं । अयोध्यासाम्राज्यपरिपालनं । ध्यात्वा मूकोऽस्मि ॥ धर्मपरायणम् । सकलसुगुणभूषणं । एकार्धांगिनीव्रतपरिपालनं । लक्ष्मणशतृघ्नभरतप्रेमनंदविहरणं । भूतभावनं । साधकजन्मपावनं । कृपालोचनं । ध्यात्वा मूकोऽस्मि ॥ मंदस्मितवदनम् । प्रसन्नमानसभवबंधहरणं । विजितकरणं । अज्ञानहरणं । पतितपावनं । संतवरिष्ठार्पितजीवनं । हनुमत्सेवित कंजचरणं । श्रीराम रघुरामेति भक्तचित्तविहरणं । ध्यात्वा ध्यात्वा स्वेदाश्रुकंपनानुभवे मूकोऽस्मि ॥

४९ श्रीकृष्ण प्रार्थना

वेणुवादनचतुर । नव विधभक्तमंदार । पीतांबरधर दामोदर । यशोदानंदकिशोर । यमुनातटविहार । कौस्तुभमणिहारधर । निरुपमधीर । लोकोत्तरशूर । असदृश साहस वीर । धर्म ध्वजारोहणतत्पर । परमोदारासलीलामोदकर । भवगोचर । भवभीकर । सुंदराकार । रक्षमाम् । सर्वदासर्वत्र रक्षमां ॥

५० गीर्वाणि नमनं

सप्तस्वरार्चन प्रमुदिते । अक्षरमाला विराजिते । रागतानपल्लवि नीराजन पूजिते । ब्रह्मदेवसंयुते । अपराजिते । स्फटिकमणिजपमालाहस्ते । प्राज्ञशिखामणि समूहवंदिते । आत्मज्ञानमार्ग गामीसमुपासिते । शुभ्रदुकूलान्विते । श्वेतराजीवस्थिते । परमहंसयोगीश्वरदर्शिते । गुरुकुलाराध्यमाते । सुरेश्वरादि देवगणाश्रिते । वीणानादलहरिक्रीडातोषिते । त्वत्कृपामात्रेण आनंदलीनोऽस्मि ॥

५१ पार्वती वंदनं

दशनाडिगामिनि । आत्मतत्त्वप्रकाशिनी । कैलाश‍ृंगविहारिणि । स्वयंसिद्धतत्वबोधिनी । नंदीभृंगीवृंदसेवामोदिनी । विनायकषण्मुख क्रीडाह्लादिनी । मदनांतकार्धांगिनी । हिमाद्रीशनंदिनी । केसरिवाहनी । कृपासुधावर्षिणीपराशक्तिरूपिणी । शिवतांडव सहनर्तिनी । लास्यप्रमोदिनी । समस्तचराचराकर्षिणी । संरक्षिणी । संपोषिणी । परिपालिनी । भुवनैकजन नी । इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिप्रदायिनी । सत्यशिवसुंदररूपिणी । कदंबवनसंचारिणी । शुद्धिं करोतु मम भाववाहिनीम् । विचारवाहिनीं ॥

५२ वासवी स्तुतिः

सर्व जीवानुग्रहकारकाम् । अहिंसाव्रतसुदीपिकाम् । श्रीमद्वासवी कन्यकां । सुकोमल हृदय पुंडरीकां । मधुरमनोहर मुखां । नयनप्रिय चंपकनासिकां । धृतहस्तशुकां । संवित्प्रदायकां । घनशैल पुरनायिकां । शोकवारिधि तारकां । संस्मृत्य संस्मृत्य हृष्यामि प्रतिदिनं तुष्यामि प्रतिक्षणम् ॥

५३ वासवी वर्णनम्

सौमनस्य सौख्यसंवर्धिनि । शरणागत चिंतामणि । क्षमाशैत्यानुभवकारिणि । अहिंसाभावतरंगिणि । समस्तपंडितपामरयोगक्षेमवाहनी । चराचरजीवचैतन्यसंचालिनि । कन्यकामणि । सुधीमणि । आजन्म प्राणसंरक्षिणि । जीवोद्धारिणि । उद्वाहुवंशजन्मधारिणि शरणागतचिंतामणि । गतिस्त्वं गतिस्त्वं त्वमेव सर्वदा गतिस्त्वं जननि त्वमेका मोदप्रदा ॥

५४ हे भगवान्

हे भगवान् त्वमदृश्यवानपि विश्वाकारः त्वमस्पृश्यो स्पर्श सुखप्रदातः त्वमवाङ्मानसगोचरोऽपि शब्दतरंगसागरः मानसभाव विलासकारणः त्वंनिष्चेष्टितोऽपि प्रकृतिः त्वया क्रियामयः त्वमतिदूरः त्वमतिसमीपः नामरूप कर्मरहितोऽसि दशावतार महिमावंतः जन्मस्थानरहितोऽसि सर्वदेशवाससहितः त्वं बंधुरहितः बंधरहितः सर्वानुबंधपूरितः त्वमेकाकी सर्वजीवरूपः सर्वदेशख्यातः कथं तव वैचित्र्यग्रहणं साध्यं?

५५ सरस्वती सन्निधानम्

भारतीम् । धीपथगामिनीं । भागीरथीं । भगवतीं । ब्रह्मसतीम् । प्रणम्य हर्षितोऽस्मि । श्वेतदुकूलवतीं । दिव्यमधुमतीं । नवरसवतीं । रसवतीं । समरसवतीं । स्मृत्वा पुलकितोऽस्मि । श्रद्धान्वित ज्ञानार्थि साधनानुकूलवतीं । ध्यात्वा शांतमानसोऽस्मि । श्रुतिस्मृतिसारस्रवंतीं । पराविद्यावतीं । सद्धर्मवतीं । अगोचर प्रभावतीं ज्ञात्वा धन्योऽस्मि ।

५६ पार्वती स्तुतिः

विश्वसुंदरि । रत्नमंजरि । नित्यसत्यानंदकरि । विश्वांबरि । गजानन षडानन ममतासागरि । विषकंधर मनोहरि । त्रिशूलधरि । नयनमनोहरि । मंगळकरि । पर्वतेशकुमारि । कोमलशरीरि । त्वमेव माहेश्वरि । चित्तशोधनकरि । जीवपावनकरि त्वमेव जगन्माते । ममजीवत्राते । मम हृदय पुराधीश्वरि जीवनदाते ॥

५७ विद्याधीश्वरी स्मरणम्

वेदोपनिषद्गीतासारवतीम् । अनुपमलावण्यवतीं । वीणावादनलीनकलावतीम् । सद्धर्मवतीं । ज्ञानवतीं । सत्यवतीं । अव्यक्तप्रभावतीं । विदित्वा विदित्वा जितमनस्कोसी । शाश्वतीं । हंसगमनरतीं । महामतीं । विश्वसृष्टिकार्यमग्न चतुर्मुखप्रियसतीम् । रसलोकपीयूष स्रवंतीं । विद्यार्जनालोलानुशासनवतीं । सात्विक गुणवतीं । महाकांतिवतीं । स्मृत्वा ध्यात्वा पावनचित्तोऽस्मि ॥

५८ ललिता परमेश्वरी स्मरणम्

हे ललितापरमेश्वरि । करुणाकरि । महोदरि । विश्वंभरि । विश्वांबरि । समाधिऋषिगोचरि । समाधिगोचरि । भूरिभाग्यलहरि । त्रिभुवनेश्वरि । श्रीमत्सिंहासनेश्वरि । त्वया विना का मम पावनकारिणि । सुषुम्नानाडिगामिनि । विविधाभरणवसनविराजिनि । सुहासिनि,सुकेशिनि । दशप्राणगति नियंत्रिणि । कर्मपीडिताश्रितावनि । कृष्णकपर्दिनि । त्रैलोक्यकुटुंबिनि । सुवासिनि पूजामोदिनि । योगसागरनिर्मग्न चिंतामणि । पतितपावनि । दुरितदूरिणि । त्वया विना मम का पावनकरी ॥

५९ दुर्गा स्तोत्रम्

त्रिदेहांतर्गतात्म स्वरूपिणि । नागवेणि । भक्तिनंदन विहारिणि । शक्तिचंदनवन संचारिणि । धीबलोद्दीपिनि । अद्भुत कुंडलिनि । विश्व प्राण संजीविनि ॥ चिद्पावक संजाते । आत्मज्ञ संस्पर्शिते । त्रिजगन्माते । त्रिगुणातीते । त्रिमूर्ति वंदिते । त्रितापानल संत्रस्ताश्रित संत्राते । सर्वालंकृते । अरुण दुकूलान्विते । नंदि भृंगि परि सेविते । धर्म स्थापक संजात शुभ दाते । अनिमिष वृंदस्तुते दुर्गादेवि पाहिमाम् ॥

६० शारदादेवी नमनम्

श्रुतिलय भावसंयुक्त नादरंजनि । श्रुतिस्मृति वाणि वीणापाणि । गीर्वाणि । ``ऐं''बीजाक्षर जपहर्षिणि । चतुरास्य भार्यामणि । अक्षरमालाग्रंथधारिणि । सत्यलोकवासिनि । परम सत्य प्रतिपादिनि । मयूरवाहिनि । गान विचक्षण कविपुंगवधीमणिवर्णनकलाप्रसादिनि । कमलनाभ कमलासन हरसुर ऋषि मुनिगणनुत महिमा पुष्करिणि । मम वरदा भव पराविद्या प्रकाशिनि ॥

६१ दुर्गा प्रणामम्

त्रिदेह व्यापिनि । त्रिभुवन जननि । अनंत विभूति धारिणि रुंड मालिनि । भयंकरासुरविध्वंसिनि । शिष्टजनपरिपोषिणि । दयार्द्र लोचनि । परतत्त्व स्वरूपिणि । पराशक्तिजननि । सच्चिदानंदरूपिणि । वर्णाश्रम विधायिनि । गुणत्रय विलास विनोदिनि । ब्रह्म विष्णु महेश्वर सुरगणदत्त समस्त शक्ति तेजायुध धारिणि । अष्टादश भुज विराजिनि । विशिष्ट वसना भूषण शोभिनि । सिंहवाहिनि । दुर्गे त्वां कथं दर्शयामि जानामि कथं आराधयामि ॥

६२ वासवी स्तुतिः

सत्याराधकेप्सित प्रपूरिणीम् । आर्द्रहृदयोपास्य विराड्रूपप्रदर्शिनि । चिदेकरसरूपिणीं । नवरस स्वादु तरंगिणीं । कुसुमांब सौख्यकारणीं । भवतारिणीं । कृपावीक्षणीं । अहिंसोद्यम संचालिनीं । वैश्यवंशोद्धारिणीं । मनुकुलपावनीं । सर्वजीव हितकारिणीं । समाधि ऋषिवर दायिनीं । कुसुमाख्य वंद्यनंदिनीं । दिव्यावतारिणीं । पेनुगोंडप्रतिष्ठित दिव्य वनितामणीं । विशिष्ट कन्यामणीं । गोलोक स्वामिनीं । कन्यकापरमेश्वरीं जननीम् । अर्चयित्वा भावयित्वा धन्योऽस्मि ॥

६३ पार्वती स्तुतिः

समस्त पदार्थ पावन करि । जीव कोटि रक्षण करि । दीन दयाकरि । आराधक कृपा सागरि । रजत गिरीश्वरि । हिम शैल सुकुमारि । चंद्र मौळेश्वर हृदयेश्वरि । माधुर्य रत्नाकरि । नेत्र मनोहरि । माधुरि । शंकरि । विष्णु सहोदरि । विश्वेश्वरि । ध्यान मात्र गोचरि । मातंग वदन षडानन धीशक्ति मोदकरि । पार्वति जय करि । प्रसन्ना भव । मम सुप्रसन्ना भव ॥

६४ हिमगिरिनंदिनि स्तुतिः

हिमगिरि पाल प्रिय नंदिनि । कृष्ण कपर्दिनि । देव वनितामणि । पतिव्रता चिंतामणि । मंजुळ भाषिणि नटराज रमणि । कैलास गिरिवास हर्षिणि । मंद हासिनि । सकल सद्ग्रंथ ज्ञान प्रदायिनि । सर्वशक्ति संचालिनि । योग शक्तिविवर्धिनि । सर्व वस्तु स्वभाव नियंत्रिणि । दैत्य कुल विनाशिनि । विघ्नेश जननि पालय माम् ॥

६५ दुर्गास्तवम्

चिद्पावक संभवे । दिविज कार्योद्भवे । विभवे । उदय रवि कोटि प्रभे । द्युति मयि । रयि । प्राणमयि । आनंदमयि । परानंदमयि । दुर्गे तारय भवशरधीम् ॥ नानायुधशस्त्र धारिणि । नाना विध शास्त्र शरीरिणि । नाना शक्तिगुण रूप नाम क्रियांतर्गत प्रकृतिरूपिणि । नाना विध सृजन रचन बल प्रसारिणि । राक्षस वंश ध्वंसिनि । राक्षस पत्नि मोक्ष दायिनि । दुर्गे तारय भव शरधीम् ॥

६६ ललिता ध्यानम्

समस्त जीव पोषणकरी । समस्त सस्य प्राणि मनुज दिविज समुदाय सृजनकरी । समस्त कर्म क्षेत्र दोष पावन करी । कैलासशिखराधीश्वरी । गिरि राजकुमारी । कन्याकुमारी राजराजेश्वरी । सुचरि तेश्वरी । श्री ललिता परमेश्वरी । तारयतु भवांबुनिधीम् । हृदय गुहनिवासिनी । स्थावर जंगम चैतन्यदायिनी । इच्छाशक्ति ज्ञानशक्ति संचालिनी । त्रिगुण लास्य साक्षिणी । आसुरीगुणार्भट वह्निजिह्वा दर्शिनी । दैव गुण शैत्य स्पर्श दायिनी । तारयतु भवांबुनिधीम् ॥

६७ दुर्गावन्दनम्

श्री ललिताम् । पर देवतां । परशिव वनितां । सुस्मितां । पंडितनुतां । पामर श्रितां । आबालगोपनमिताम् । हिमाद्रि सुतां । तां दुर्गां कथं शक्नोमि गातुं ॥ चारुनवदुर्गारूपिणीम् । असुर परंपरा निर्मूलनकारणीं, अनुपमलीलानंदिनीं । दया नयनीं । शोक भयग्रस्तभक्तावनीं । रक्त विरक्ता शक्ता शक्त समदर्शिनीं । तां दुर्गां कथं वर्णयितुं शक्नोमि ॥

६८ पार्वती स्तवम्

पर्वतराज सुपुत्रिकाम् । कैलासाधिप भर्तृकां । श्री चक्र नगर नायिकां । चारुचंपक सुनासिकां । जीवदुरित दुःख शामकां । ज्ञानिबुधजन मेधाविलासरसिकां एकैकां । प्रणवात्मिकां । मनन शक्ति मथन शक्ति संचालिकां । प्रार्थय मानस ज्ञान भिक्षांदेहीति प्रार्थय ॥

६९ दुर्गादेवि प्रपत्तिः

षट्चक्रमेरुस्थिताम् । योगिसंभावितां । भक्तसंस्पर्शितां । ज्ञानिसंदर्शितां । आबाल वृद्धश्रितां । सर्वप्राणि पुनश्चेतन कृतां । षड्दर्शन शिखरश्रेणि समाराधितां । दुर्गां मातां प्रार्थय । ब्रह्मांड भांडोदरीम् । महोदरीं । मनोचक्षून्मीलनकरीम् । पुण्य फल भोगप्रदान करीं । सौंदर्य सागरीं । महिषमर्दिनीं । भंडासुर सूदनीं । चंडमुंडासुर शस्त्र प्रत्यस्त्रवर्षिणीं । विद्वद्गोष्ठि प्रमोदिनीं । दुर्गा जननीं प्रार्थय ॥

७० श्रीमन्नारायण स्मरणम्

देवगुरु देवर्षि महर्षिसमाराधितम् । संरक्षित शरणागतम् । राजर्षि सद्दर्शितं । साधुसमुदाय परित्राण निरतं । श्री महालक्ष्मि सेवानंदितं सर्वजीव भ्रामरी गुहांतर्वासिनम् । दुरित विनाशनं । भूदेवी भारहरणं । दिव्यपंकज चरणं । सुदर्शन चक्रधारिणं । पांचजन्य शंखधारिणं । शरणागतोद्धारणं । श्रीमन्नारायणं नित्योपासयामि ॥ देवकी वसुदेव नंदनम् । यशोदानंदानंद सुख वर्धनं । भाव शुद्धि पथदर्शनं । जीव भाव हरणं । कमलनयनं । नरकेसरि रूपावतरणं । प्रह्लाद दर्शन प्रदानं । परमप्रिय सखिराधारमणं । कैवल्यनिकेतनं । श्रीमन्नारायणं नित्योपासयामि ॥

७१ श्रीकृष्ण ध्यानम्

मधुरनयन वदन वचन कर चरण शोभितम् । ब्रह्मांड हितम् । संगरहितं । सर्वांगकांतिसहितं । गीताबोधामृतदातं । यादवकुलेंद्र प्रियतम सुतम् । तुलसी मालाभूषितं । शंखचक्रगधा कमलधर चतुर्हस्तं पीतांबर विराजितं । गोपिकावृंदवेष्टितं । योग प्रक्रिया निष्णातं । अनुराग बंध पुलकितं । रोमांचकाद्भुत चरितं । स्वरभंग कंपनादि भाव विकार मुद प्रदातं । चित्र विचित्रासुर ध्वंसनरतं । स्वस्वरूपानुसंधान विधान बोधन निरतं । तं परम पुरुषरूपोपासितं स्मरामि । ध्यायामि । शिरसा नमामि ॥

७२ नारायण स्तुतिः

स्वयंभू श्रीधर । स्वप्रकाश श्रीकर । स्वयंगोचर । शुभकर । स्वयंचालित प्राणाधार । स्वयं कर्म निरत जीवोद्धार । स्वयं कल्पित कोटि कोटि नामाकार । चराचर व्याप्त निराकार । स्वयंरूपित सात्विक राजस तामस गुणसार । त्रिगुणदूर । स्वयं संभव दशावतार । स्वयंबद्ध देह पंजर । निर्विकार । श्रीदेवी चित्तोल्लासकर । सहस्र जिह्वतल्पशयनकर । योगसाधक तिमिरापहर । पक्षिराजारूढचर । वाचालं करोषि मूकम् । मूकं करोषि वाचालम् ॥

७३ वासवी दर्शनम्

१. या परदेवी त्याग संपन्ना । सुप्रसन्ना । सा श्री वासवी रक्षतु मां परिरक्षतु माम् ॥ २. या प्रकृतिदेवी नित्यहरिद्वर्णा । सा संस्कृतिदेवि रक्षतु मां संरक्षतु माम् ॥ ३. या दयामयी समाधिहृत्कमल सदना समस्त जीव रक्षणा । सा तेजोमयी रक्षतु मां संरक्षतु माम् ॥ ४. या देवी अहिंसा निष्ठा शालिनी । सर्द्धर्मपालिनी । सा आदिदेवि रक्षतु मां संरक्षतु माम् ॥ ५. या पराशक्ति तत्पद प्रदर्शिनी त्वंपद प्रकाशिनी सा आदिशक्ति श्रेयोमार्गे गमयतु माम् ॥

७४ भवानी स्तोत्रं

परात्परि । तलोदरि । महोदरि । विश्वंभरि । विश्वांबरि । सत्यानंदकरि । माधुर्य रत्नाकरि । मृदुल गुणसागरि । चित्त प्रसादकरि । महा विष्णु सोदरि । कैलास गिरीश्वरि । श्वेत गिरींद्र कुमारि । स्तव कुसुम मालाधरि । अर्धनारीश्वर मनोहरि । परापरा प्रकृति रूपधरि । पंचभूतात्मक विश्व चेतनकरि । भक्त कैवल्य प्राप्तिकरि । मम माते विश्वमाते अंतः शक्तिदाते सार्वकालिक श्रेयस्करि ॥

७५ श्रीकृष्ण स्तवम्

भावयामि वसुदेवकिशोरम् । केशवं माधवं । दामोदरं । सहस्राराद्रिशिखर सद्दर्शितं । चिद्गुहवासितं । सहस्रकोटि भानुप्रकाशं । सर्वगुणेशं । यादव कुलेशं । हृषीकेशं । लक्ष्मीशं । वैकुंठेशं । भावयामि ॥ दैवशिखामणिम् । प्राज्ञगुरु चिंतामणिं । धर्म कर्म मर्मज्ञ सुधीमणिं । श्यामल शरीरं । मातुल कंसहरं । व्याकुल चित्तपांडव संकट हरं । वेणुगान चतुरं । गीतसुधाकरं । गीतामृत कुंभधरं । मोहाशोकापहरं ॥

७६ श्रीधर स्तुतिः

वंदे क्षीराब्धि सुकुमारि चित्तापहरम् । क्षीरांभोनिधि मथनाधारम् । सर्वकरण सुंदरं । सर्वलोकाधीश्वरं । समस्त स्थावर जंगमात्मक विश्वरूपधरं । जीवोद्धारं । वेदज्ञानसारं । शांताकारं । प्राणाधारं । साकारं । निराकारं । श्रीधरं । धर्मक्षेत्र संचारं । साधक दुरित विदूरं । मोदकरम् । दामोदरं । असुरसंहारं शुभंकरं नित्यं भजेऽहं ॥

७७ श्रीमन्नारायण ध्यानम्

श्रीमन्नारायणम् । धरहस्त शंखगधा सुदर्शनं । अभयप्रद पंकज चरणं । क्षीराब्धि कन्यकासेवित चरणं । कारुण्य पूर्ण नयनं । त्रिकाल भुवन पालनं । त्रितापानल शमनं । अणुमहद्व्यापिनं । मोहनं । अद्भुत पीतांबरकस्तुऊरि तिलक वैजयंतिमालाधारिणं । अनुक्षणं हृत्कमले ध्यायामि ॥

७८ श्री महाविष्णु स्मरणम्

गगनोपमम् । आत्मारामं । वैकुंठधामं । मेघश्यामं । दैत्यकुलविरामं । परशुरामं । श्रीरामं पुरुषोत्तमं । पतित पावक चरण पद्मं । संचालित कर्मचक्रनियमं । वेदन विमोचक यमं । श्रीमहालक्ष्मिहृदयधामं श्रीमहाविष्णुं हृत्कोशे ध्यायामि ॥

७९ नारायण भावनं

रमा मनोहरम् । श्रीधरं । श्रीकरं । सम्यग्दर्शनकरं । यशःकीर्तिकरं । चतुर्दशभुवनाधारं । कौस्तुभमणिहारं । क्षीरसमुद्रेशनंदिनिसेवितसारसचरणं । साधुरक्षणं । दिनकरनिशाकरनयनं । ब्रह्मविद्याप्रदानं । शेषतल्पशयनं । गरुडगमनं । धूर्तशिक्षणं । भावशुद्धिमर्मपथबोधनं वृष्टिभावहरणं । नरकेसरि रूपावतरणं । पराभक्तप्रह्लादह्लादवर्धनं । कमलवदनं । कैवल्यनिकेतनं । भवव्याधिप्रशमनं । सर्वदा स्मरामि ॥

८० त्वमेव सर्वं हरिः

१. सुविशेष गुणशक्ति वसनाभरणोऽसि हरि त्वम् । निर्विशेष परब्रह्म सच्चिद्रूपोऽसि मुरारि त्वम् ॥ २. षोडशकलापूर्णो दशावताररूपोत्वम् । निष्कलो निस्तुलो निष्कळंको त्वं ॥ ३. सगुणसाकार नामरूप सहितो त्वम् । अजस्त्वं विरजस्त्वं निर्विकारो निरींद्रियो त्वम् । ४. कर्मधर्मरहितो त्वं संस्कारफलरहितो त्वम् । सृष्टि स्थितिलयकारणोत्वं देहरहितो त्वम् ॥ ५. अच्युतो अखंडो अमरो निरवयवो श्रीधरो त्वम् । कथं त्वं विश्वस्य प्रेरकः कारकः च तारकः न जानामि देव प्रीत्या बोधय परया कृपया ॥

८१ नारायण स्तुतिः

श्रीमन्नारायणम् । मुक्तिसदनं । शापग्रस्त जय विजय मोक्षप्रदानं । मोहकनीलमेघ श्याम वर्णम् । नित्यमंदहासवदनं । शिवविरिंचिदत्तवरकारण दुर्मदयुक्त दैत्य भंजनं । प्रारब्धपीडित स्थैर्यवर्धनं । भक्ति ज्ञानवैराग्य प्रदानं । मधुसूदनं । गंगोदित दिव्यकंज चरणं । हृत्कोशे स्मरामि ॥

८२ केशव वंदनं

जडचेतनात्मक लोकनिर्मापकम् । सकलवस्तुस्थिति पालकं । धर्मकर्मनियामकं । कंदर्पजनकं । मनोबुद्धिप्राण देह नियंत्रकं । धर्मशास्त्र प्रवर्तकं । धर्मसंस्थापकं । नतजनोद्धारकं । केशवं हृत्कोशे स्मरामि ॥ नित्याकर्षक प्रकृति व्यापकं । प्रतिजीवानुशासकं । दैन्यचिंतावारकं । पुण्य कर्म प्रेरकं । नाकसृजनकारकं । माधवं हृत्कोशे स्मरामि ॥

८३ नारायण स्मरणं

नळिनाप्त कोटि प्रकाशम् । वैकुंठ पुराधीशं । उडुपतिभगिनीशं । देहकरणेशं । सद्भाव सुविचार संकाशं । सुदर्शनचक्र भूषं । शंखनाद तोषं । सुरेशनरेश ऋषिगणेशं । शरणागत हृदय विकासं । काव्य गद्य गानचित्र तोषं । राग लय तान वेणुवादन विशेषं । सगुण सविशेषं । निर्गुण निर्विशेषं । धर्म परायण संतोषं । मनोहर वेषं । सच्चिद्विलासं । पीतांबरवासं । मधुरभाषं । मधुरानगरवासं । मनोहर केशं । सर्वदा स्मरेत् सर्वथा ॥

८४ लक्ष्मी नीराजनम्

ज्ञान सलिल धारावाहिनि । व्याकुलचित्त परिताप दूरिणि । स्थितिकर्ता गोविंद मनोल्लासिनि । क्षीरांबुधि राज नंदिनि तव नीराजनम् । पंचशरजननि । दारिद्र्य ध्वंसिनि । कीरसंभाषिणि । त्रिभुवनैक मोहिनि । कांतिवर्धिनि । तव नीराजनं ॥ शुभांगि । वामांगि । कनकांगि । सरसांगि । कोमलांगि । तव नीराजनं ॥

८५ षण्मुख स्तुतिः

हे षण्मुख । सुरसैन्य नायक । भवतारक । कामितार्थप्रदायक । व्याधिवारक । आश्रित पावक । शोकमोहनिवारक । उमा महेश्वर प्रियनंदन । मयूर वाहन । कारण जन्म धारण । वटुवेष धारण । वल्लीदेवसेनारमण । तारकासुर मर्दन । त्रिपुंड्र धारण । शरवण भवेति ख्यात । अग्नि संजात । संतानकामीपूजित । षट् कृत्तिका पालित षडानन । बाल सुब्रह्मण्येति नागराज रूपाराध्य कुमारस्वामी स्थापय ज्ञानदीपं ममहृदये ॥

८६ नारायण चिन्तनम्

यस्मिन् विश्वमिदं दृश्यम् । येनेदं विश्वमदृश्यं येन गगनं व्याप्यति सर्वं येन पवनः शोषयति सर्वं येन पावकः दहति सर्वं येन क्लेदयति सर्वमापः येन सततं विश्वे भासयते सर्वं तेन श्रीमन्नारायणेन विना तव न जन्म न मृत्युर्नजीवनः तस्मिन्नेव मन स्थापय तस्मिन्नेव बुद्धिं निवेशय ॥

८७ सरस्वती स्तुतिः

यां चतुर्वेदात्मिकाम् । आहतानाहतनादात्मिकां । ब्रह्मज्ञानात्मिकां । परापराविद्या पथप्रदर्शकां । यां जीव जीव धीप्रेरकां । ज्ञानार्जनोद्दीपिकां । शोक भय शरधि तारकां । तरतमविवेचन दायकां । यां जीव संघर्षण शामकां । भावसंकर्षण चंद्रिकां । द्वेषविषापहरां । समता सुधाकरां । तां चतुर्मुख ब्रह्म भर्तृकां तत्त्व निरूपकां सुज्ञान विज्ञान संदीपिकां महासरस्वतीं दयावतीं प्रणमाम्यहम् ॥

८८ लक्ष्मी स्तुतिः

अरुणांबरीम् । हिरण्यवर्णांबरीं । अतिशयरूपलावण्यरत्नाकरीं । दुग्ध समुद्रेश कुमारीं । दुग्धसागर शयन मानस संचारीं । स्निग्धभाव तरंग विहारीं । देवदेवेश्वरीं । कथमाराध्य तृप्तोऽस्मि समस्त जीवा भयंकरीं । पापराशि निर्मूलनकरीं । सर्वाक्षयकारीं । भवदुःखदूरीकरीं । अष्टदारिद्र्य दुरित शमनकरीं । अष्टदारिद्र्य दुरित शमनकरीं । कमलेश्वरीं । वैकुंठ धामेश्वरीं श्री महालक्ष्मीं कथमाराध्य तृप्तोऽस्मि ॥

८९ लक्ष्मीवंदनं

नळिनदळ लोचने । नळिनानने । नळिनासने । नळिनचरणे । नळिनहस्ते । नळिनहृदये । अरुणवस्त्रान्विते । श्रद्धाभक्ति निष्ठाप्रदाते । कृपया मामुद्धर । प्रेयोपथ संचालिनि । भोगभाग्य स्वरूप प्रबोधिनि । धर्मार्थकामदायिनि । चतुराश्रमपोषिणि । गोविंदरमणि । असतो मा सद्गमय तमसो मा ज्योतिर्गमय कृपया मामुद्धर

९० लक्ष्मी मां पालय

अपूर्व लावण्य पूर्णे । कांचनवर्णे । अन्नपूर्णे । दयापूर्णे । परिपूर्णे । केशवचरण सेवारति पूर्णे । कृपया पालय । दुग्दांबुधि समुद्रेशकुमारि । श्री मधुसूदन हृदयविहारि । चित्तक्षोभाहरि । प्रत्यक्ष वराभयकरि । समस्त संपत्प्रदानदुरंधरि । विश्वपालन पोषणकरि । वैकुंठाधीश्वरि । अष्टैश्वर्यरूपधरि त्वरया माम् समुद्धर ॥

९१ श्री वरलक्ष्मी अवतु माम्

जनार्दन स्वामि मनोरंजनि । ईप्सितप्रपूरिणि । विश्वैक संरक्षिणि । धनधान्य प्रवर्धिनि । जीवकुल पावनि । बहुविध नवरत्न भूषिणि । नाना विध संकट दूरिणि । जीव संस्कारकारिणि । शब्दस्पर्शरूपरसगंधभोगप्रसादिनि । पुण्यकार्योल्लास वर्धिनि । नित्योत्साहधृतिबलदायिनि । अवतु माम् । जीवन संभ्रम मोद वीक्षणि । व्रतनिष्ठव्याधिहारिणि । गृहस्थाश्रम धर्म पालन बल संवर्धिनि । मनोन्मणि । कैवल्यपथगामीसंचालिनि । अवतु मां ॥

९२।श्रीकृष्णोपासनम्

यशोदानंदनंदनम् । देवकी तितिक्षा क्षमा वर्धनं । मुरळीवादन मोदप्रदानं । मोक्षप्रदानं । परमप्रियसखि राधारमणं । गोपिका वृंद संकर्षणं । कंसचाणूर मर्दनम् । यादव वंश पावनम् । कुब्जांगनोद्धरणं । अजामिळ स्मरण मंत्र तोषणं । संमोहक वदनं । मयूर पिंछालंकृत मोहनम् । चारु वसनाभरण धारिणम् । कौंतेय परिरक्षणं । धर्मरक्षणं । साधु संरक्षणं । असुर शिक्षणं । जगद्गुरुं नारायणं नमामि ॥

९३ लक्ष्मी ध्यानं

वैकुंठ निलयाम् । दयालयां । सद्भक्तसंभाव्यां । धनार्थि संपूज्याम् । धर्मार्थि शुभोदयां । दीनसुखोदयां । मोक्षार्थि सुज्ञेयां । सुविषयार्थि नित्य ध्येयां । सुज्ञान शीलगेयां । शमदमसंपन्नप्रियां । नय विनय विधेयतादि सुगुणाश्रयां । अनुभव ज्ञानोदयां । रक्त विरक्त यात्रिक ध्येयां । नारायण हृदय कमलालयां । नित्यं आश्रयामि माधव चरणकमल कुसुमे ॥

९४ शिवस्तुतिः

सामगानलोलम् । नर्तन शीलं । तपस्वी वत्सलं । त्रिशूलं । आबाल गोपपालं । ध्यात्वा धन्योऽस्मि ॥ कैलासाद्रीश्वरम् । हिमाद्रिजाचित्तहरं । फणिहारं । नीलकंदरं । जटाजूटधरं । निशाकरशेखरं । गंगाधरं । गजचर्मांबरं । मन्मथप्राणहरं । महेश्वरं । विश्वलयकर्तारं । भक्तिशक्तिदातारं । दर्शयित्वा धन्योऽस्मि ॥ अक्षयम् । अव्ययं । अजेयं । अमेयं । ऋषिमुनिध्येयं । तांडवप्रियं । नित्यांतर्मुखत्वप्रियं । लोकेश्वरं तपोगोचरं शंकरं नमस्कृत्वा भूयो भूयो धन्योऽस्मि ॥

९५ सरस्वती स्तुतिः

श्री सरस्वतीम् । मयूरवाहिनीं । श्वेतवस्त्रान्वितां । श्वेतपद्मासनां । जपमाला पुस्तक हस्तां । गीतसुधानुतां । अभयां । अक्षयां । अहर्निशं उपास्महे । अव्ययां अजेयां अमेयां अप्रमेयाम् । अगोचर पदार्थ नामरूपाकार रहस्य निलयां ब्रह्मस्वरूपानुसंधान ध्येयां गेयां अहर्निशं उपास्महे

९६ चंद्रशेखर नमनम्

चंद्रशेखर । समाधीश्वर । लययोगेश्वर । लयकर । गंगाधर । रजतशैलेंद्रजार्धनारीश्वर । नागेंद्रहार । विषकंधर । त्रिशूलधर । पंचबाणासुहर । परमेश्वर । त्वमेव मम गुरुः ममांतर्गुरुः । सुचित्रांबराभरणयुतम् । प्रमथगणवेष्टितं । ऋषिमुनितपस्वीगणकीर्तितं । मयूरवाहन मूषकवाहनधीशक्तिसंमोदितं । रुद्रभूमिवासितं । तपोव्रतवरदातं । तांडवनृत्यनिरतं । डमरुनिनादरंजितं । अपराजितं । त्वमेव ममगुरुर् ममांतर्गुरुः ॥

९७ षण्मुखभावनम्

हे षण्मुख । सुर सैन्य नायक । कामितप्रदायक । उमाचंद्रमौळिप्रियकारक । वल्लीदेवसेनासुखसंवर्धक । व्याधिनिवारक । तारकासुरसंहारक । मम वरदो भव ॥ मयूरवाहन । कारणजन्मधारण । वेलायुधधारण । कृतविश्वपर्यटन । वटुवेषधारण । त्रिपुंड्रभूषण । शरणागतावन । संतानप्रदान । ममवरदोभव ॥ शरवणभवेति संपूजित । अग्निसंजात । षट् कृत्तिकापालित । विनीतचित्तपूजित । बालसुब्रह्मण्य । विद्वत्पूर्ण । तेजोपूर्ण आत्मज्ञानपूर्ण मम वरदो भव सन्निहितो भव ॥

९८ महेश्वरस्तुतिः

समस्तभुवनस्य पितरं मातरम् । सर्वशक्तिदातारं । कैलास शैलविहारं । त्रिशूलधरं । पापविदूरं । रिपुकुलसंहारं । कर्मचक्रधरं । नंदीभृंगी नाट्यमोदकरं । प्रारब्धकर्मशेषहरं । हरं । लयकरं । कुमारगुरुश्रीगणनाथपितरं । सुमशरहरं । अरिवीरभयंकरं । लिंगाकारं । निर्विकारं । भक्ताशुगोचरं । गंगाधरेश्वरं । अद्भुत तांडव नृत्यशेखरं । मनोबल प्रयच्छेति प्रार्थयामि ॥

९९ श्रीलक्ष्मी स्तुतिः

नवरत्न किरीट कंकण केयूर धारिणी । सप्तवर्णमय नवनवाभूषण विराजिनी । अरुणवस्त्रविराजिनी । हरिणी । मृगलोचनी । अब्धिजातभगिनी । सर्वमनोरथदायिनि । पूर्वकर्मपरिपाकजर्झरित संरक्षिणी । उपासक जन पावनी । प्राणसंरक्षक शक्तिदायिनी । आराधक चिंतामणी । अवतुमां अंतस्सुखदायिनी ॥ क्षीर शरधि प्रभुनंदिनी । मनोन्मणीम् । इक्षुचापजननी । सुरेंद्राग्निवरुणयमादि दिविजगण स्वामिनी । श्रीमन्नारायण चरणसेवारागिणी । श्रीधरवक्ष स्थल वासिनी । कमल पुष्पधारिणी । कमल लोचनी । कमलासन जननी । श्री महालक्ष्मी अवतुमां अंतस्सुखदायिनी ॥

१०० श्रीगणेशोपासनम्

ओंकार नादानुरक्तम् । महागण नायकं । सर्वाभीष्टप्रदायकं । सर्वकार्यारंभादिवंदितं । उमाशंकर सुखकारकं । गजकर्णकं । गजमुखं । गीतसुधाप्रियां । उपास्महे । स्मरामहे । भजामहे ॥

१०१ श्री दक्षिणामूर्ति स्तोत्रं

आदिगुरु मूर्तिं त्रिमूर्तिं धारण ध्यान समाधि मार्गे सद्गमयेति प्रार्थयामि ॥ चतुर्वेद मूर्तिं सामगानमूर्तिं भक्ति ज्ञान वैराग्यभीप्से ज्योतिर्गमयेति आश्रयामि ॥ दक्षिणामूर्तिं वैराग्यमूर्तिं सतताभ्यासरक्तचित्ते ज्ञेयं गमयेति तपस्यामि ॥ तपोमूर्तिं तांडवमूर्तिं स्थापयामि चिंतयामि अहर्निशं भावयामि आराधयामि ॥ तं कृपामूर्तिं कारुण्यमूर्तिं हृदयराजीवे ध्यायामि ॥

१०२ वासविदेवि पालय

हे वासविदेवी! त्वमेव ब्रह्मदेवः त्वमेव महादेवः त्वमेव देवादिदेवः संकल्पमात्रेण करोषि सर्वम् । इच्छामात्रेण यच्छसि सर्वम् । स्वल्पभक्ति मात्रेण प्रसादयसि चित्तम् । सत्यासत्यविवेचनार्थं मद् हृदये ज्ञानसाम्राज्यं स्थापय । धर्माधर्मभेद ज्ञानार्थं मयि धीद्युति स्वाराज्यं पालय । जडचेतन विभजनार्थं नित्यानित्य तारतम्य ग्रहणार्थं मयि त्यागसाम्राज्यं स्थापय हे निरामये पालय पोषय हे यशोदये । कर्तृत्व भोक्तृत्वमोचनार्थं विशेष सुगुणैश्वर्यं देहि देहि श्रीघ्रम् देहि महोदये ॥

१०३ गायत्रीध्यानं

ब्रह्म तेजो विवर्धिनि । ब्रह्मास्त्र रूपिणि । ब्रह्मलोकनिवासिनि । परब्रह्मरूपिणि । पंचभूतरूपिणि । पंचमुखि । त्रिलोचनि । पंचक्लेशहारिणि । प्रणतार्तिविनाशिनि ॥ ज्ञानरूपे वेदवाणि भारति शास्त्रसारमयि विद्यारूपे पुण्यजननि सरस्वति निगमानुभवमयि मूढत्व सुदूरिणि गूढपथ संचालिनी गाढतत्व साक्षात्कारिणि धीप्रचोदिनि लौकिकप्रकाशदायिनि अंतर्कांति प्रसारिणि गायत्रि सावित्रि त्वमेव समस्त विश्व प्रसवित्रि ॥

१०४ सरस्वती स्मरणम्

या देवी श्रीशारदा पीठवासिनी । ज्ञान विज्ञान जननी । या देवी निखिल जगत्पावनी । अखिल ऋषि पुंगव प्रतिभोद्दीपिनी । या देवी दिव्यानुपमांतश्री प्रदायिनी । या परानाद स्वामिनी । गीतसुधावनी । या देवी योगशक्तिसंचालिनी । कुंडलिनी । सर्वाक्षरमालिनी । तां नमामि । ऐंकार जप प्रसादिनीम् । लोकजननीम् । श्री महासरस्वतीं । काया वाचा मनसा आश्रयामि काया वाचा मनसा आराधयामि ॥

१०५ प्रणवध्यानम्

ओं ओं ओं परब्रह्मात्मकम् । सर्व वस्तु वाचकं । सर्वयोगसाधक शक्तिदायकं । सर्वकर्म दोषनिवारकं । अभ्यासनैरंतर्य प्रेरकं । सर्वभाषाविज्ञानरूपकं । अकार उकार मकार मात्रात्मकं । विश्वस्पंदन कारकं । अनाहतनादात्मकं । परा पश्यंती मध्यमा वैखरी नादात्मकं । ओमित्येकाक्षरं । शब्द ब्रह्मेति भक्त्याजपेत् । ओमित्येकाक्षरं शब्दब्रह्मेति भूयो भूयो भक्त्या जपेत् ॥

१०६ काशीनगरेश्वरी अन्नपूर्णेश्वरी

नित्यानंदकरि प्राणिकोटि जठराग्नि शमनकरि प्राणिकोटि तेज स्थैर्य धैर्य वीर्य सौंदर्यकरि गौरी कौमारी आत्मबलं देहिमे हिमाचलवंश यशस्करि नवरत्नमय आभूषणधरि षड्रुचि पूर्णान्न सेवन मोदकरि जीवसंतोषकर मातृहृदयधरि योगोत्साह वर्धिनि राग पाश विमोचिनि सूर्य चंद्र वह्नि सम तेजस्विनि बलं देहिमे आत्म बलं देहिमे

१०७ मधुसूदन स्तोत्रं

स्वयं भू मधुसूदन । स्वयंचालित जगत्सृष्टि कारण । अणुमहदंतर्चेतन । देहवाहन प्राणप्रदान । जीव जन्म ,शैशव, कौमार्य जराकारण,स्मरामि सदा ॥ आयुर्व्याधि मरण नियामक । धर्माधर्म संचय बल प्रदायक । कृतक वर्णरूप गुणकर्मवेष निर्णायक । नटन नाटक रंगाभिनय रंजक । जीवभाव हाव मर्म भेदक । चलन वलन मुद्रा भंगि विधिविधान निर्देशक साधकमनो नियंत्रक स्मरामि सदा ॥ परमपदसोपानारोहि रक्षक । समदर्शि साधु पोषक,त्रिकाल जीवकारुण्यपूर्ण नियंत्रक । क्षण क्षण भक्ताकर्षक जन्मजन्म जीव सख स्मरामि सदा ॥

१०८ मामवतु वीणापाणी सर्वदा

हे चारित्र्यशुद्धि रक्षिणी । त्रिगुण भेदज्ञ योगशक्तिदायिनी । अंतःकरण वृत्ति साफल्यदायिनी । बहुविध संस्कार जागरिणी । भाव पावित्र्य पालिनी । जाग्रत्स्वप्नेति सत्यप्रतिपादिनी । ज्ञानस्वरूपिणी । ज्ञेयस्वरूपिणी मामवतु सदा ॥ परंधामनिवासिनी । साधक संजीविनी साधक चिंतामणी । भक्तहृदयांतर् स्पर्शमणी । आत्यंतिक सुखस्वरूपिणी । जीव विमोचिनी । मुक्ति प्रदायिनी । मामवतु सदा ॥ दृश्यजगत्पावनी, सर्वपरमाणु तरंगिणी प्रतिस्पंदन शोधिनी । प्रतिभावोद्दीपिनी । प्रति विचार प्रकाशिनि, अनुभवपाक साक्षिणी । नवनवलोक विहारिणी नवरसानुभवदायिनी मामवतु सदा हे गीर्वाणी वीणापाणी सत्यलोकवासिनी चतुर्मुखब्रह्म भामिनी कांतिवलय प्रसारिणी नव नवोन्मेष शालिनी निर्वैरत्वमहिमावैभव प्रदर्शिनी । जननी मामवतु सर्वदा ॥ इति सर्वदेवदेव्यष्टोत्तरशतनमनमुक्ताञ्जलिः समाप्ता ।

अनुक्रमणिका

१ परम गुरुस्तुतिः २ सद्गुरु ध्यानं ३ गुरुस्तवनम् ४ सरस्वती स्तोत्रम् ५ श्री सरस्वती स्तुतिः ६ प्रणव स्तुतिः ७ आचार्यस्मरणं ८ सद्गुरु वंदनं ९ विश्वगुरु नमनं १० श्री गुरुस्मरणं ११ गुरु प्रार्थना १२ गणेशस्तवम् १३ गणनाथ ध्यानं १४ गणपति वंदनं १५ सरस्वती स्तुतिः १६ व्यास स्तुतिः १७ नारायण संस्मरणम् १८ श्रीराम स्तुतिः १९ श्रीराम स्तवम् २० हनुमत्स्तुतिः २१ श्रीरामनमनम् २२ दक्षिणामूर्ति स्तोत्रम् २३ चतुर्मुख ब्रह्मस्मरणम् २४ सरस्वती स्तुतिः २५ ललिता स्तवम् २६ ईश स्तुतिः २७ शिवमहिमास्तुतिः २८ ईश स्तुतिः २९ राजराजेश्वरी स्तोत्रम् ३० नारायण स्तुतिः ३१ नारायणस्तवः ३२ श्रीमहाविष्णु ध्यानम् ३३ सरस्वती स्तोत्रम् ३४ शारदा स्तुतिः ३५ श्री शारदा स्तोत्रम् ३६ श्री सरस्वती स्तोत्रम् ३७ शारदा स्तुतिः ३८ सरस्वती स्तुतिः ३९ सरस्वती स्तुतिः ४० शारदाभिवन्दनम् ४१ सरस्वती भावनं ४२ गोविंद स्तवम् ४३ सरस्वती स्तुतिः ४४ वीणापाणि प्रार्थना ४५ शारदास्तवम् ४६ नारायण ध्यानम् ४७ वासवी स्तुतिः ४८ श्रीराम स्तुतिः ४९ श्रीकृष्ण प्रार्थना ५० गीर्वाणि नमनं ५१ पार्वती वंदनं ५२ वासवी स्तुतिः ५३ वासवी वर्णनम् ५४ हे भगवान् ५५ सरस्वती सन्निधानम् ५६ पार्वती स्तुतिः ५७ विद्याधीश्वरी स्मरणम् ५८ ललिता परमेश्वरी स्मरणम् ५९ दुर्गा स्तोत्रम् ६० शारदादेवी नमनम् ६१ दुर्गा प्रणामम् ६२ वासवी स्तुतिः ६३ पार्वती स्तुतिः ६४ हिमगिरिनंदिनि स्तुतिः ६५ दुर्गास्तवम् ६६ ललिता ध्यानम् ६७ दुर्गावन्दनम् ६८ पार्वती स्तवम् ६९ दुर्गादेवि प्रपत्तिः ७० श्रीमन्नारायण स्मरणम् ७१ श्रीकृष्ण ध्यानम् ७२ नारायण स्तुतिः ७३ वासवी दर्शनम् ७४ भवानी स्तोत्रं ७५ श्रीकृष्ण स्तवम् ७६ श्रीधर स्तुतिः ७७ श्रीमन्नारायण ध्यानम् ७८ श्री महाविष्णु स्मरणम् ७९ नारायण भावनं ८० त्वमेव सर्वं हरिः ८१ नारायण स्तुतिः ८२ केशव वंदनं ८३ नारायण स्मरणं ८४ लक्ष्मी नीराजनम् ८५ षण्मुख स्तुतिः ८६ नारायण चिन्तनम् ८७ सरस्वती स्तुतिः ८८ लक्ष्मी स्तुतिः ८९ लक्ष्मीवंदनं ९० लक्ष्मी मां पालय ९१ श्री वरलक्ष्मी अवतु माम् ९२।श्रीकृष्णोपासनम् ९३ लक्ष्मी ध्यानं ९४ शिवस्तुतिः ९५ सरस्वती स्तुतिः ९६ चंद्रशेखर नमनम् ९७ षण्मुखभावनम् ९८ महेश्वरस्तुतिः ९९ श्रीलक्ष्मी स्तुतिः १०० श्रीगणेशोपासनम् १०१ श्री दक्षिणामूर्ति स्तोत्रं १०२ वासविदेवि पालय १०३ गायत्रीध्यानं १०४ सरस्वती स्मरणम् १०५ प्रणवध्यानम् १०६ काशीनगरेश्वरी अन्नपूर्णेश्वरी १०७ मधुसूदन स्तोत्रं १०८ मामवतु वीणापाणी सर्वदा Composed by Rajeswari Govindraj Encoded by Lakshmi, Proofread by Lakshmi and Rajeswari Govindraj
% Text title            : Sarva Deva Devi Ashtottarashata Namana Muktanjali
% File name             : sarvadevadevyaShTottarashatanamanamuktAnjalI.itx
% itxtitle              : sarvadevadevyaShTottarashatanamanamuktA.njalI
% engtitle              : sarva deva devyaShTottarashatanamana muktAnjalI
% Category              : devii, shiva, raama, gurudev, sarasvatI, sangraha, ganesha, aShTottarashatanAma, devI
% Location              : doc_devii
% Sublocation           : devii
% Author                : Smt. Rajeshwari Govindaraj
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Lakshmi
% Proofread by          : Lakshmi, Smt. Rajeshwari Govindaraj
% Latest update         : December 12, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org