श्रीशाकम्भरी आरती १
जय शङ्करि शाकम्भरी सुतिलकवनगेहे ।
वितरय करुणापाङ्गं निजमिह मम देहे ॥ ध्रु०॥
दुर्घटहटदुर्गासुरभटसंहृतितोषे ।
अत्युत्कटसङ्कटनतखेटोत्करपोषे ।
कटितटसङ्घटपिङ्गटपटुसद्वटुवेषे ।
कुटिलालकपटलस्फुटकटकादिकमूषे ॥ १॥
लक्षाधिकरक्षोगणशिक्षाकृतदीक्षे ।
दाक्षायणि यक्षाधिपलक्ष्मिदिक्कटाक्षे ।
साक्षात्कृतमोक्षोदयभिक्षुकजनरक्षे ।
रक्षां कुरु रक्षां कुरु मम पूर्णापेक्षे ॥ २॥
चिन्तकजनचर्चित फलचितामणि चरणे ।
सन्तापत्रयहरणे मत्सन्ततिशरणे ।
दान्तश्रीमद्रामानदान्तःकरणे ।
सन्तोषय सन्तोषय मातः सुखकरणे ॥ ३॥
NA