श्रीशाकम्भरीप्रातःस्मरणस्तोत्रम्
प्रातः स्मरामि तव शङ्करि वक्त्रपद्मं
कान्तालकं मधुरमन्दहसं प्रसन्नम् ।
काश्मीरदर्पमृगनाभिलसल्ललाटं
लोकत्रयाभयदचारुविलोचनाढ्यम् ॥ १॥
प्रातर्भजामि तव शङ्करि हस्तवृन्दं
माणिक्यहेमवलयादिविभूषणाढ्यम् ।
घण्टात्रिशूलकरवालसुपुस्तखेट-
पात्रोत्तमाङ्गडमरूल्लसितं मनोज्ञम् ॥ २॥
प्रातर्नमामि तव शङ्करि पादपद्मं
पद्मोभवादिसुमनोगणसेव्यमानम् ।
मञ्जुक्वणत्कनकनूपुरराजमानं
नन्दारुवृन्दसुरवीरुधमार्यहृद्यम् ॥ ३॥
प्रातः स्तुवे च तव शङ्करि दिव्यमूर्तिं
कादम्बकाननगतां करुणारसाद्रीम् ।
कल्याणधाम नवनीरदनीलभासां
पञ्चास्ययानलसितां परमार्तिहन्त्रीम् ॥ ४॥
प्रातर्वदामि तव शङ्करि दिव्यनाम
शाकम्भरीति ललितेति शतेक्षणेति ।
दुर्गेति दुर्गममहासुरनाशिनीति
श्रीमङ्गलेति कमलेति महेश्वरीति ॥ ५॥
यः श्लोकपञ्चकमिदं पठति प्रभाते
शाकम्भरीप्रियकरं दुरितौघनाशम् ।
तस्मै ददाति शिवदा वनशङ्करी सा
विद्यां प्रजां श्रियमुदारमतिं सुकीर्तिम् ॥ ६॥
इति श्रीशाकम्भरीप्रातःस्मरणस्तवः सम्पूर्णः ॥
Encoded and proofread by Sunder Hattangadi