शाकम्भरीमाहात्म्य अथवा शताक्षीचरित्रवर्णनम्

शाकम्भरीमाहात्म्य अथवा शताक्षीचरित्रवर्णनम्

जनमेजय उवाच - विचित्रमिदमाख्यानं हरिश्चन्द्रस्य कीर्तितम् । शताक्षीपादभक्तस्य राजर्षेर्धार्मिकस्य च ॥ १॥ शताक्षी सा कुतो जाता देवी भगवती शिवा । तत्कारणं वद मुने सार्थकं जन्म मे कुरु ॥ २॥ को हि देव्या गुणाञ्छृण्वंस्तृप्तिं यास्यति शुद्धधीः । पदे पदेऽश्वमेधस्य फलमक्षय्यमश्नुते ॥ ३॥ व्यास उवाच - श‍ृणु राजन् प्रवक्ष्यामि शताक्षीसम्भवं शुभम् । तवावाच्यं न मे किञ्चिद्देवीभक्तस्य विद्यते ॥ ४॥ दुर्गमाख्यो महादैत्यः पूर्वं परमदारुणः । हिरण्याक्षान्वये जातो रुरुपुत्रो महाखलः ॥ ५॥ देवानां तु बलं वेदो नाशे तस्य सुरा अपि नङ्क्ष्यन्त्येव न सन्देहो विधेयं तावदेव तत् ॥ ६॥ विमृश्यैतत्तपश्चर्यां गतः कर्तुं हिमालये । ब्रह्माणं मनसा ध्यात्वा वायुभक्षो व्यतिष्ठत ॥ ७॥ सहस्रवर्षपर्यन्तं चकार परमं तपः । तेजसा तस्य लोकास्तु सन्तप्ताः ससुरासुराः ॥ ८॥ ततः प्रसन्नो भगवान् हंसारूढश्चतुर्मुखः । ययौ तस्मै वरं दातुं प्रसन्नमुखपङ्कजः ॥ ९॥ समाधिस्थं मीलिताक्षं स्फुटमाह चतुर्मुखः । वरं वरय भद्रं ते यस्ते मनसि वर्तते ॥ १०॥ तवाद्य तपसा तुष्टो वरदेशोऽहमागतः । श्रुत्वा ब्रह्ममुखाद्वाणीं व्युत्थितः स समाधितः ॥ ११॥ पूजयित्वा वरं वव्रे वेदान्देहि सुरेश्वर । त्रिषु लोकेषु ये मन्त्रा ब्राह्मणेषु सुरेष्वपि ॥ १२॥ विद्यन्ते ते तु सान्निध्ये मम सन्तु महेश्वर । बलं च देहि येन स्याद्देवानां च पराजयः ॥ १३॥ इति तस्य वचः श्रुत्वा तथास्त्विति वचो वदन् । जगाम सत्यलोकं तु चतुर्वेदेश्वरः परः ॥ १४॥ ततः प्रभृति विप्रैस्तु विस्मृता वेदराशयः । स्नानसन्ध्यानित्यहोमश्राद्धयज्ञजपादयः ॥ १५॥ विलुप्ता धरणीपृष्ठे हाहाकारो महानभूत् । किमिदं किमिदं चेति विप्रा ऊचुः परस्परम् ॥ १६॥ वेदाभावात्तदस्माभिः कर्तव्यं किमतः परम् । इति भूमौ महानर्थे जाते परमदारुणे ॥ १७॥ निर्जराः सजरा जाता हविर्भागाद्यभावतः । रुरोध स तदा दैत्यो नगरीममरावतीम् ॥ १८॥ अशक्तास्तेन ते योद्धुं वज्रदेहासुरेण च । पलायनं तदा कृत्वा निर्गता निर्जराः क्वचित् ॥ १९॥ निलयं गिरिदुर्गेषु रत्नसानुगुहासु च । संस्थिताः परमां शक्तिं ध्यायन्तस्ते पराम्बिकाम् ॥ २०॥ अग्नौ होमाद्यभावात्तु वृष्ट्यभावोऽप्यभून्नृप । वृष्टेरभावे संशुष्कं निर्जलं चापि भूतलम् ॥ २१॥ कूपवापीतडागाश्च सरितः शुष्कतां गताः । अनावृष्टिरियं राजन्नभूच्च शतवार्षिकी ॥ २२॥ मृताः प्रजाश्च बहुधा गोमहिष्यादयस्तथा । गृहे गृहे मनुष्याणामभवच्छवसङ्ग्रहः ॥ २३॥ अनर्थे त्वेवमुद्भूते ब्राह्मणाः शान्तचेतसः । गत्वा हिमवतः पार्श्वे रिराधयिषवः शिवम् ॥ २४॥ समाधिध्यानपूजाभिर्देवीं तुष्टुवुरन्वहम् । निराहारास्तदासक्तास्तामेव शरणं ययुः ॥ २५॥ दयां कुरु महेशानि पामरेषु जनेषु हि । सर्वापराधयुक्तेषु नैतच्छ्लाघ्यं तवाम्बिके ॥ २६॥ कोपं संहर देवेशि सर्वान्तर्यामिरूपिणि । त्वया यथा प्रेर्यतेऽयं करोति स तथा जनः ॥ २७॥ नान्या गतिर्जनस्यास्य किं पश्यसि पुनः पुनः । यथेच्छसि तथा कर्तुं समर्थासि महेश्वरि ॥ २८॥ समुद्धर महेशानि सङ्कटात्परमोत्थितात् । जीवनेन विनास्माकं कथं स्यात्स्थितिरम्बिके ॥ २९॥ प्रसीद त्वं महेशानि प्रसीद जगदम्बिके । अनन्तकोटिब्रह्माण्डनायिके ते नमो नमः ॥ ३०॥ नमः कूटस्थरूपायै चिद्रूपायै नमो नमः । नमो वेदान्तवेद्यायै भुवनेश्यै नमो नमः ॥ ३१॥ नेति नेतीति वाक्यैर्या बोध्यते सकलागमैः । तां सर्वकारणां देवीं सर्वभावेन सन्नताः ॥ ३२॥ इति सम्प्रार्थिता देवी भुवनेशी महेश्वरी । अनन्ताक्षिमयं रूपं दर्शयामास पार्वती ॥ ३३॥ नीलाञ्जनसमप्रख्यं नीलपद्मायतेक्षणम् । सुकर्कशसमोत्तुङ्गवृत्तपीनघनस्तनम् ॥ ३४॥ बाणमुष्टिं च कमलं पुष्पपल्लवमूलकान् । शाकादीन्फलसंयुक्ताननन्तरससंयुतान् ॥ ३५॥ क्षुत्तृड्जरापहान् हस्तैर्बिभ्रती च महाधनुः । सर्वसौन्दर्यसारं तद्रूपं लावण्यशोभितम् ॥ ३६॥ कोटिसूर्यप्रतीकाशं करुणारससागरम् । दर्शयित्वा जगद्धात्री सानन्तनयनोद्भवा ॥ ३७॥ मोचयामास लोकेषु वारिधारां सहस्रशः । नवरात्रं महावृष्टिरभून्नेत्रोद्भवैर्जलैः ॥ ३८॥ दुःखितान्वीक्ष्य सकलान्नेत्राश्रूणि विमुञ्चती । तर्पितास्तेन ते लोका ओषध्यः सकला अपि ॥ ३९॥ नदीनदप्रवाहास्तैर्जलैः समभवन्नृप । निलीय संस्थिताः पूर्वं सुरास्ते निर्गता बहिः ॥ ४०॥ मिलित्वा ससुरा विप्रा देवीं समभितुष्टुवुः । नमो वेदान्तवेद्ये ते नमो ब्रह्मस्वरूपिणि ॥ ४१॥ स्वमायया सर्वजगद्विधात्र्यै ते नमो नमः । भक्तकल्पद्रुमे देवि भक्तार्थं देहधारिणि ॥ ४२॥ नित्यतृप्ते निरुपमे भुवनेश्वरि ते नमः । अस्मच्छान्त्यर्थमतुलं लोचनानां सहस्रकम् ॥ ४३॥ त्वया यतो धृतं देवि शताक्षी त्वं ततो भव । क्षुधया पीडिता मातः स्तोतुं शक्तिर्न चास्ति नः ॥ ४४॥ कृपां कुरु महेशानि वेदानप्याहराम्बिके । व्यास उवाच - इति तेषां वचः श्रुत्वा शाकान्स्वकरसंस्थितान् ॥ ४५॥ स्वादूनि फलमूलानि भक्षणार्थं ददौ शिवा । नानाविधानि चान्नानि पशुभोज्यानि यानि च ॥ ४६॥ काम्यानन्तरसैर्युक्तान्यानवीनोद्भवं ददौ । शाकम्भरीति नामापि तद्दिनात्समभून्नृप ॥ ४७॥ ततः कोलाहले जाते दूतवाक्येन बोधितः । ससैन्यः सायुधो योद्धुं दुर्गमाख्योऽसुरो ययौ ॥ ४८॥ सहस्राक्षौहिणीयुक्तः शरान्मुञ्चंस्त्वरान्वितः । रुरोध देवसैन्यं तद्यद्देव्यग्रे स्थितं पुरा ॥ ४९॥ तथा विप्रगणं चैव रोधयामास सर्वतः । ततः किलकिला शब्दः समभूद्देवमण्डले ॥ ५०॥ त्राहि त्राहीति वाक्यानि प्रोचुः सर्वे द्विजामराः । ततस्तेजोमयं चक्रं देवानां परितः शिवा ॥ ५१॥ चकार रक्षणार्थाय स्वयं तस्माद् बहिः स्थिता । ततः समभवद्युद्धं देव्या दैत्यस्य चोभयोः ॥ ५२॥ शरवर्षसमाच्छन्नं सूर्यमण्डलमद्भुतम् । परस्परशरोद्घर्षसमुद्भूताग्निसुप्रभम् ॥ ५३॥ कठोरज्याटणत्कारबधिरीकृतदिक्तटम् । ततो देवीशरीरात्तु निर्गतास्तीव्रशक्तयः ॥ ५४॥ कालिका तारिणी बाला त्रिपुरा भैरवी रमा । बगला चैव मातङ्गी तथा त्रिपुरसुन्दरी ॥ ५५॥ कामाक्षी तुलजा देवी जम्भिनी मोहिनी तथा । छिन्नमस्ता गुह्यकाली दशसाहस्रबाहुका ॥ ५६॥ द्वात्रिंशच्छक्तयश्चान्याश्चतुष्षष्टिमिताः पराः । असङ्ख्यातास्ततो देव्यः समुद्भूतास्तु सायुधाः ॥ ५७॥ मृदङ्गशङ्खवीणादिनादितं सङ्गरस्थलम् । शक्तिभिर्दैत्यसैन्ये तु नाशितेऽक्षौहिणीशते ॥ ५८॥ अग्रेसरः समभवद्दुर्गमो वाहिनीपतिः । शक्तिभिः सह युद्धं च चकार प्रथमं रिपुः ॥ ५९॥ महद्युद्धं समभवद्यत्राभूद्रक्तवाहिनी । अक्षौहिण्यस्तु ताः सर्वा विनष्टा दशभिर्दिनैः ॥ ६०॥ तत एकादशे प्राप्ते दिने परमदारुणे । रक्तमाल्याम्बरधरो रक्तगन्धानुलेपनः ॥ ६१॥ कृत्वोत्सवं महान्तं तु युद्धाय रथसंस्थितः । संरम्भेणैव महता शक्तीः सर्वा विजित्य च ॥ ६२॥ महादेवीरथाग्रे तु स्वरथं सन्न्यवेशयत् । ततोऽभवन्महद्युद्धं देव्या दैत्यस्य चोभयोः ॥ ६३॥ प्रहरद्वयपर्यन्तं हृदयत्रासकारकम् । ततः पञ्चदशात्युग्रबाणान्देवी मुमोच ह ॥ ६४॥ चतुर्भिश्चतुरो वाहान्बाणेनैकेन सारथिम् । द्वाभ्यां नेत्रे भुजौ द्वाभ्यां ध्वजमेकेन पत्रिणा ॥ ६५॥ पञ्चभिर्हृदयं तस्य विव्याध जगदम्बिका । ततो वमन् स रुधिरं ममार पुर ईशितुः ॥ ६६॥ तस्य तेजस्तु निर्गत्य देवीरूपे विवेश ह । हते तस्मिन्महावीर्ये शान्तमासीज्जगत्त्रयम् ॥ ६७॥ ततो ब्रह्मादयः सर्वे तुष्टुवुर्जगदम्बिकाम् । पुरस्कृत्य हरीशानौ भक्त्या गद्गदया गिरा ॥ ६८॥ देवा ऊचुः जगद्भ्रमविवर्तैककारणे परमेश्वरि । नमः शाकम्भरि शिवे नमस्ते शतलोचने ॥ ६९॥ सर्वोपनिषदुद्घुष्टे दुर्गमासुरनाशिनि । नमो मायेश्वरि शिवे पञ्चकोशान्तरस्थिते ॥ ७०॥ चेतसा निर्विकल्पेन यां ध्यायन्ति मुनीश्वराः । प्रणवार्थस्वरूपां तां भजामो भुवनेश्वरीम् ॥ ७१॥ अनन्तकोटिब्रह्माण्डजननीं दिव्यविग्रहाम् । ब्रह्मविष्ण्वादिजननीं सर्वभावैर्नता वयम् ॥ ७२॥ कः कुर्यात्पामरान्दृष्ट्वा रोदनं सकलेश्वरः । सदयां परमेशानीं शताक्षीं मातरं विना ॥ ७३॥ व्यास उवाच - इति स्तुता सुरैर्देवी ब्रह्मविष्ण्वादिभिर्वरैः । पूजिता विविधैर्द्रव्यैः सन्तुष्टाभूच्च तत्क्षणे ॥ ७४॥ प्रसन्ना सा तदा देवी वेदानाहृत्य सा ददौ । ब्राह्मणेभ्यो विशेषेण प्रोवाच पिकभाषिणी ॥ ७५॥ ममेयं तनुरुत्कृष्टा पालनीया विशेषतः । यया विनानर्थ एष जातो दृष्टोऽधुनैव हि ॥ ७६॥ पूज्याहं सर्वदा सेव्या युष्माभिः सर्वदैव हि । नातः परतरं किञ्चित्कल्याणायोपदिश्यते ॥ ७७॥ पठनीयं ममैतद्धि माहात्म्यं सर्वदोत्तमम् । तेन तुष्टा भविष्यामि हरिष्यामि तथापदः ॥ ७८॥ दुर्गमासुरहन्त्रीत्वाद्दुर्गेति मम नाम यः । गृह्णाति च शताक्षीति मायां भित्त्वा व्रजत्यसौ ॥ ७९॥ किमुक्तेनात्र बहुना सारं वक्ष्यामि तत्त्वतः । संसेव्याहं सदा देवाः सर्वैरपि सुरासुरैः ॥ ८०॥ इत्युक्त्वान्तर्हिता देवी देवानां चैव पश्यताम् । सन्तोषं जनयन्त्येवं सच्चिदानन्दरूपिणी ॥ ८१॥ एतत्ते सर्वमाख्यातं रहस्यं परमं महत् । गोपनीयं प्रयत्नेन सर्वकल्याणकारकम् ॥ ८२॥ य इमं श‍ृणुयान्नित्यमध्यायं भक्तितत्परः । सर्वान्कामानवाप्नोति देवीलोके महीयते ॥ ८३॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे शताक्षीचरित्रवर्णनं नामाष्टाविंशोऽध्यायः ॥ २८ ॥ Encoded by Vishwas Bhide vrbhide at rediffmail.com Proofread by Vishwas Bhide, PSA Easwaran
% Text title            : shAkambharI or shatAkShI mAhAtmya
% File name             : shAkambharIshatAkShImAhAtmya.itx
% itxtitle              : shAkambharImAhAtmya athavA shatAkShIcharitravarNanam (devIbhAgavatAntargatam)
% engtitle              : shAkambharIshatAkShImAhAtmya
% Category              : devii, shAkambharI, devI, mAhAtmya
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : shAkambharI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishwas Bhide vrbhide at rediffmail.com
% Proofread by          : Vishwas Bhide, PSA Easwaran
% Description/comments  : devIbhAgavata Mahapuran skandha 7 adhyAya 28
% Indexextra            : (Text, Translation)
% Acknowledge-Permission: http://satsangdhara.net
% Latest update         : August 4, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org