श्रीशाकम्भरी तथा वनशङ्करीसहस्रनामस्तोत्रम्

श्रीशाकम्भरी तथा वनशङ्करीसहस्रनामस्तोत्रम्

शान्ता शारदचन्द्रसुन्दरमुखी शाल्यन्नभोज्यप्रिया शाकैः पालितविष्टपा शतदृशा शाकोल्लसद्विग्रहा । श्यामाङ्गी शरणागतार्तिशमनी शक्रादिभिः शंसिता शङ्कर्यष्टफलप्रदा भगवती शाकम्भरी पातु माम् ॥ शूलं पाशकपालचापकुलिशान्बाणान्सृणिं खेटकां शङ्कं चक्रगदाहिखड्गमभयं खट्वाङ्गदण्डान्धराम् । वर्षाभाववशाद्धतान्मुनिगणान्शाकेन या रक्षति लोकानां जननीं महेशदयितां तां नौमि शाकम्भरीम् ॥ १॥ कैलासशिखरासीनं स्कन्दं मुनि गणान्वितम् । प्रणम्य शक्रः पप्रच्छ लोकानां हितकाम्यया ॥ २॥ शक्र उवाच - स्कन्द स्कन्द महाबाहो सर्वज्ञ शिवनन्दन । नाम्नां सहस्रमाचक्ष्व शाकम्भर्याः सुसिद्धिदम् ॥ ३॥ स्कन्द उवाच - या देवी शतवार्षिक्यामनावृष्ट्यां स्वदेहजैः । शाकैरबीभरत्सर्वानृषीन् शक्र शतं समाः ॥ ४॥ महासरस्वती सैव जाता शाकम्भरी शिवा । नाम्नां सहस्रं तस्यास्ते वक्ष्यामि श्रुणुभक्तितः ॥ ५॥ ॐ अस्य श्रीशाकम्भरीसहस्रनाममालामन्त्रस्य महादेवः ऋषिः । अनुष्टुप् छन्दः । शाकम्भरी देवता । सौः बीजम् । क्लीं शक्तिः । ह्रीं कीलकम् । मम श्री शाकम्भरीप्रसादसिद्ध्यर्थे तत्सहस्रनामपारायणे विनियोगः । करन्यासः ॥ ॐ सौः चामुण्डायै अङ्गुष्ठाभ्यां नमः । ॐ क्लीं शताक्ष्यै तर्जनीभ्यां नमः । ॐ ह्रीं शाकम्भर्यै मध्यमाभ्यां नमः । ॐ सौः चामुण्डायै अनामिकाभ्यां नमः । ॐ क्लीं शताक्ष्ये कनिष्ठिकाभ्यां नमः । ॐ ह्रीं शाकम्भर्यै करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः । ॐ सौः क्लीं ह्रीं ॐ मन्त्रेण दिग्बन्धः । इति ॥ ॥ ध्यानम् ॥ सौवर्णसिंहासनसंस्थितां शिवां त्रिलोचना चन्द्रकलावतंसिकाम् । शूलं कपालं निजवामहस्तयोस्तदन्ययोः खड्गमभीतिमुद्रिकाम् ॥ पाण्योर्दधानां मणिभूषणाज्ज्वलां सुवाससं माल्यविलेपनाञ्चिताम् । प्रसन्नावक्त्रां परदेवता मुदा ध्यायामि भक्त्या वनशङ्करीं हृदि ॥ लमित्यादिपञ्चपूजा - ॐ सौः क्लीं ह्रीं ॐ । ॐ शाकम्भर्यै नमः । ह्रीं शाकम्भर्यै नमः । ॐ ह्रीं शाकम्भर्यै नमः । सौः क्लीं ह्रीं शाकम्भर्यै नमः । ॐ सौः क्लीं ह्रीं शाकम्भर्यै नमः । ॐ सौः क्लीं ह्रीं शाकम्भर्यै नमः ॐ । इत्येषु गुरूपदिष्टं मन्त्रं जपेत् । ॥ अथ सहस्रनामस्तोत्रम् ॥ ॐ शाकम्भरी शताक्षी च चामुण्डा रक्तदन्तिका । महाकाली महाशक्तिर्मधुकैटभनाशिनी ॥ १॥ ब्रह्मादितेजः सम्भूता महालक्ष्मीर्वरानना । अष्टादशभुजा सम्राण्महिषासुरमर्दिनी ॥ २॥ महामाया महादेवी सृष्टिस्थित्यन्तकारिणी । कान्तिः कामप्रदा काम्या कल्याणी करुणानिधिः ॥ सिंहस्थिता नारसिंही वैष्णवी विष्णुवल्लभा । भ्रामरी रक्तचामुण्डा रक्ताक्षी रक्तपायिनी ॥ ४॥ रक्तप्रिया सुरक्तोष्ठी रक्तबीजविनाशिनी । सुरक्तवसना रक्तमाल्या रक्तविभूषणा ॥ ५॥ रक्तपाणितला रक्तनखी रक्तोत्पलाङ्घ्रिका । रक्तचन्दनलिप्ताङ्गी रमणी रतिदायिनी ॥ ६॥ सुरभिः सुन्दरी बाला बगला भैरवी समित् । चन्द्रलाम्बा सुमङ्गल्या भीमा भयनिवारिणी ॥ ७॥ जागृतिः स्वप्नरूपा च सुषुप्तिसुखरूपिणी । तुर्योंन्मनी त्रिमात्रा च त्रयी त्रेता त्रिमूर्तिका ॥ ८॥ विष्णुमाया विष्णुशक्तिर्विष्णुजिह्वा विनोदिनी । छाया शान्तिः क्षमा क्षुत्तृट्तुष्टिः पुष्टिर्धृतिर्भृतिः ॥ ९॥ मतिर्मितिर्नतिर्नीतिः संयतिर्नियति कृतिः । स्फूर्तिः कीर्तिः स्तुतिर्जूतिः पूर्तिर्मूर्तिर्निजप्रदा ॥ १०॥ त्रिशूलधारिणी तीक्ष्णगदिनी खड्गधारिणी । पाशिनी त्रासिनी वामा वामदेवी वरानना ॥ ११॥ वामाक्षी वारुणीमत्ता वामोरुर्वासवस्तुता । ब्रह्मविद्या महाविद्या योगिनी योगपूजिता ॥ १२॥ त्रिकूटनिलया नित्या कल्पातीता च कल्पना । कामेश्वरी कामदात्री कामान्तककुटुम्बिनी ॥ १३॥ कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा । नानाद्रुमलताकीर्णगिरिमध्यनिवासिनी ॥ १४॥ शाकपोषितसर्वर्षिः पाकशासनपूजिता । क्लेदिनी भेदिनी भ्रान्तिर्भीतिदा भ्रान्तिनाशिनी ॥ १५॥ क्रान्तिः सङ्क्रान्तिरुत्क्रान्तिर्विक्रान्तिः क्रान्तिवर्जिता । डिण्डिमध्वनिसंहृष्टा भेरीनादविनोदिनी ॥ १६॥ सुतन्त्रीवादनरता स्वरभेदविचक्षणा । गान्धर्वशास्त्रनिपूणा नाट्यशास्त्रविशारदा ॥ १७॥ हावभावप्रमाणज्ञा चतुःषष्टिकलान्विता । पदवाक्यप्रमाणाब्धिपारीणा वादिभङ्गिनी ॥ १८॥ सर्वतन्त्रस्वतन्त्रा च मन्त्रशास्त्राब्धिपारगा । नानायन्त्र विधानज्ञा सौगतागमकोविदा ॥ १९॥ वैखानसाद्यागमज्ञा शैवागम विचक्षणा । वामदक्षिणमार्गज्ञा भैरवागमभेदवित् ॥ २०॥ पञ्चायतनतत्त्वज्ञा पञ्चाम्नायप्रपञ्चवित् । राजराजेश्वरी भट्टारिका त्रिपुरसुन्दरी ॥ २१॥ महादक्षिणकाली च मातङ्गी मद्यमांसभुक् । लुलायबलिसन्तुष्टा मेषच्छागबलिप्रिया ॥ २२॥ दीपिकाक्रीडनरता डमड्डमरुनादिनी । महाप्रदीपिकादेहलेहनाद्भुतशक्तिदा ॥ २३॥ निजावेशवदुन्मत्तभक्तोक्त फलदायिनी । उदोउदोमहाध्वान श्रवणासक्तमानसा ॥ २४॥ चौडेश्वरी चौडवाद्यप्रवादनपरायणा । कपर्दमालाभरणा कपर्दिप्राणवल्लभा ॥ २५॥ नग्रस्त्रीवीक्षणरता नग्निकोद्भिन्नयौवना । बाला बदरवक्षोजा मध्या बिल्वफलस्तनी ॥ २६॥ नारिकेलस्तनी प्रौढा प्रगल्भा च घटस्तनी । कात्यायनी नम्रकुचा प्रौढाद्भुतपराक्रमा । कदलीवनमध्यस्था कदम्बवनवासिनी ॥ २७॥ निजोपकण्ठसम्प्राप्तनदीमाहात्म्यवर्धिनी । कावेरी ताम्रपर्णी च कामाक्षी कामितार्थदा ॥ २८॥ मूकाम्बिका महाशक्तिः श्रीशैलभ्रमराम्बिका । जोगलाम्बा जगन्माता मातापुरनिवासिनी ॥ २९॥ जमदग्निप्रिया साध्वी तापसीवेषधारिणी । कार्तवीर्यमुखानेकक्षत्रविध्वंसकारिणी ॥ ३०॥ नानावतारसम्पन्ना नानाविधचरित्रकृत् । करवीरमहालक्ष्मीः कोल्हासुरविनाशिनी ॥ ३१॥ नागलिङ्गभगाङ्काढ्यमौलिः शक्रादिसंस्तुता । दुर्गमासुरसंहर्त्री दुर्गाऽनर्गलशासना ॥ ३२॥ नानाविधभयत्रात्री सुत्रामादिसुधाशना । नागपर्यंकशयना नागी नागाङ्गनार्चिता ॥ ३३॥ हाटकालङ्कृतिमती हाटकेशसभाजिता । वाग्देवतास्फूर्तिदात्री त्रातवाग्बीजजापका ॥ ३४॥ जप्या जपविधिज्ञा च जपसिद्धिप्रदायिनी । मन्त्रशक्तिर्मन्त्रविद्या सुमन्त्रा मान्त्रिकम्प्रिया ॥ ३५॥ इन्दुमण्डलपीठस्था सूर्यमण्डलपीठगा । चन्द्रशक्तिः सूर्यशक्तिर्ग्रहशक्तिर्ग्रहार्तिहा ॥ ३६॥ ग्रहपीडाहरी सौम्या शुभग्रहफलप्रदा । ज्योतिर्मण्डलसंस्थाना ग्रहताराधिदेवता ॥ ३७॥ सप्तविंशतियोगेशी बवादिकरणेश्वरी । प्रभवाद्यब्दशक्तिश्च कालचक्रप्रवर्तिनी ॥ ३८॥ सोहंमन्त्रजपाधारा ऊर्ध्वषट्चक्रदेवता । इडाख्या पिङ्गलाख्या च सुषुम्ना ब्रह्मरन्ध्रगा ॥ ३९॥ शिवशक्तिः कुण्डलिनी नाभिमण्डलनिद्रिता । योगोद्बुद्धा मुक्तिदात्री सहस्राराब्जपीठगा ॥ ४०॥ पीयूषवर्षिणी जीवशिवभेदतिनाशिनी । नाभौ परा च पश्यन्ती हृदये मध्यमा गले ॥ ४१॥ जिह्वाग्रे वैखरीवाणी पञ्चाशन्मातृकात्मिका । ओङ्काररूपिणी शब्दसूष्टिरूपाऽर्थरूपिणी ॥ ४२॥ मौनशक्तिर्मुनिध्येया मुनिमानससंस्थिता । व्यष्टिः समष्टिस्त्रिपुटी तापत्रयविनाशिनी ॥ ४३॥ गायत्री व्याहृतिः सन्ध्या सावित्री च पितृप्रसूः । नन्दा भद्रा जया रिक्ता पूर्णा विष्टिश्च वैधृतिः ॥ ४४॥ श्रुतिः स्मृतिश्च मीमांसा विद्याऽविद्या परावरा । सुमेरुश‍ृङ्गनिलया लोकालोकनिवासिनी ॥ ४५॥ मानसोत्तरगोत्रस्था पुष्करद्वीपदेवता । मन्दराद्रिकृतक्रीडा नीपोपवनवासिनी ॥ ४६॥ मणिद्वीपकृतावासा पीतवासः सुपूजिता । प्लक्षादिद्वीपगोत्रस्था तत्रत्यजनपूजिता ॥ ४७॥ सुराब्धि द्वीपनिलया सुरापानपरायण । एकपादेकहस्तैकदृगेकश्रुतिपार्श्विका ॥ ४८॥ अर्धनारीश्वरार्धाङ्गी स्यूतालोकोत्तराकृतिः । भक्तैकभक्ति संसाध्या ध्यानाधारा परार्हणा ॥ ४९॥ पञ्चकोशान्तरगता पञ्चकोशविवर्जिता । पञ्चभूतातरालस्था प्रपञ्चातीतवैभवा ॥ ५०॥ पञ्चीकृतमहाभूतनिर्मितानेकभौतिका । सर्वांतर्यामिणी शम्भुकामिनी सिंहगामिनी ॥ ५१॥ यामिनीकृतसञ्चारा शाकिन्यादिगणेश्वरी । खट्वाङ्गिनी खेटकिनी कुन्तिनी भिन्दिपालिनी ॥ ५२॥ वर्मिणी चर्मिणी चण्डी चण्डमुण्डप्रमाथिनी । अनीकिनी च ध्वजिनी मोहिन्येजत्पताकिनी ॥ ५३॥ अश्विनी गजिनी चाट्टहासिनी दैत्यनाशिनी । शुम्भघ्नी च निशुम्भघ्नी धूम्रलोचननाशिनी ॥ ५४॥ बहुशीर्षा बहुकुक्षिर्व्यादितास्याऽशितासुरा । दंष्ट्रासङ्कटसंलग्नदैत्यसास्रान्त्र मालिनी ॥ ५५॥ दैत्यासृङ्मांससन्तृप्ता क्रव्यादकृतवन्दना । लम्बकेशी प्रलम्बोष्ठी लम्बकुक्षिर्महाकटी ॥ ५६॥ लम्बस्तनी लम्बजिह्वा लम्बपाण्यङ्घ्रिजङ्घिका । लम्बोरुर्लम्बजघना कालिका कर्कशात्कृतिः ॥ ५७॥ भिन्नभेरीखररवा वारणग्रासकारिणी । प्रेतदेहपरीधाना रुण्डकुण्डलमण्डिता ॥ ५८॥ गण्डशैलस्पर्धिगण्डा शैलकन्दुकधारिणी । शिवदूती घोररूपा शिवाशतनिनादिनी ॥ ५९॥ नारायणी जगद्धात्री जगत्पात्री जगन्मयी । अल्लांम्बाक्का कामदुघाऽनल्पदा कल्पवल्लिका ॥ ६०॥ मल्लीमतल्लिका गुञ्जालङ्कृतिः शिवमोहिनी । गान्धर्वगानरसिका केकावाक्कीरपालिनी ॥ ६१॥ सिनीवाली कुहू राकाऽनुमतिः कौमुदी ककुप् । ब्रह्माण्डमण्डपस्थूणा ब्रह्माण्डगृहदेवता ॥ ६२॥ महागृहस्थमहिषी पशुपाशविमोचिनी । वीरस्थानगता वीरा वीरासनपरिग्रहा ॥ ६३॥ दीपस्थानगता दीप्ता दीपोत्सवकुतूहला । तीर्थपात्रप्रदा तीर्थकुम्भपूजनसंभ्रमा ॥ ६४॥ माहेश्वरजनप्रीता पशुलोकपराङ्मुखी । चतुःषष्टिमहातन्त्रप्रतिपाद्यागमाध्वगा ॥ ६५॥ शुद्धाचारा शुद्धपूज्या शुद्धपूजा जनाश्रिता । अष्टादशमहापीठा श्रीचक्रपरदेवता ॥ ६६॥ योगिनीपूजनप्रीता योगिनीचक्रवन्दिता । रणत्काञ्चीक्षुद्रघण्टा घण्टाध्वनिविनोदिनी ॥ ६७॥ तौर्यत्रिककलाभिज्ञा मनोज्ञा मञ्जुभाषिणी । शिववामाङ्कलसिता सुस्मिता ललितालसा ॥ ६८॥ लावण्यभूमिस्तल्लेशनिर्मितामरसुन्दरी । श्रीर्धीर्भीर्ह्रीर्नतिर्जातिरीज्याज्या पूज्यपादुका ॥ ६९॥ सुरस्रवन्ती यमुना तथा गुप्तसरस्वती । गोमती गण्डकी तापी शतद्रुश्च विपाशिका ॥ ७०॥ सरयूर्नर्मदा गोदा पयोष्णी च पुनः पुना । भीमा कृष्णा तुङ्गभद्रा नानातीर्थस्वरूपिणी ॥ ७१॥ द्वारका मधुरा माया काश्ययोध्या त्ववन्तिका । गया काञ्ची विशाला च मुक्तिक्षेत्रस्वरूपिणी ॥ ७२॥ मन्त्रदीक्षा यागदीक्षा योगदीक्षाऽक्षतव्रता । अक्षमालाविभेदज्ञाऽऽसनभेदविचक्षणा ॥ ७३॥ मातृकान्यासकुशला मन्त्रन्यासविशारदा । नानामुद्राप्रभेदज्ञा पञ्चोपास्तिप्रभेदवित् ॥ ७४॥ सर्वमन्त्रोपदेष्ट्री च व्याख्यात्री देशिकोत्तरा । वाग्वादिनी दुर्विवादिप्रौढवाक्स्तम्भकारिणी ॥ ७५॥ स्वतन्त्रयन्त्रणाशक्तिस्तद्यन्त्रितजगत्त्रयी । ब्रह्माद्याकर्षिणी शम्भुमोहिन्युच्चाटिनी द्विषाम् ॥ ७६॥ सुरासुराणां प्रद्वेषकारिणी दैत्यमारिणी । पूरिणी भक्तकामानां श्रितप्रत्यूहवारिणी ॥ ७७॥ साधारणी धारिणी च प्रौढवाग्धारिणी प्रधूः । प्रभूर्विभूः स्वयम्भूश्च निग्रहानुग्रहक्षमा ॥ ७८॥ क्षमाऽक्षमा क्षमाधारा धाराधरनिभद्युतिः । कादम्बिनी कालशक्तिः कर्षिणी वर्षिणीर्षिणी ॥ ७९॥ अदेवमातृका देवमातृका चोर्वरा कृषिः । कृष्टपच्याऽकृष्टपच्याऽनूषराऽधित्यका गुहा ॥ ८०॥ उपत्यका दरी वन्याऽरण्यानी शैलनिम्नगा । केदारभूमिर्व्रीहिला कमलर्धिर्महाफला ॥ ८१॥ इक्षुमत्यूर्जिता जम्बूपनसाम्रादिशालिनी । अष्टापदखनी रौप्यखनी रत्नखनिः खनिः ॥ ८२॥ रुचां भावखनिर्जीवखनिः सौभाग्यसत्खनिः । लावण्यस्य खनिर्धैर्यखनिः शौर्यखनिः खनिः ॥ ८३॥ गाम्भीर्यस्य विलासस्य खनिः साहित्यसत्खनिः । पक्षमासर्तुवर्षाणां खनिः खनिरनेहसाम् ॥ ८४॥ खनिश्च युगकल्पानां सूर्यचन्द्रमसोः खनिः । खनिर्मनूनामिन्द्राणां खनिः कौतुकसत्खनिः ॥ ८५॥ मषी लेखनिका पात्री वर्णपङ्क्तिर्लिपिः कथा । कविता काव्यकर्त्री च देशभाषा जनश्रुतिः ॥ ८६॥ रचना कल्पनाऽऽचारभटी धाटी पटीयसी । अपसव्यलिपिर्देवलिपी रक्षोलिपिर्लिपिः ॥ ८७॥ तुलजा रामवरदा शबरी बर्बरालका । ज्योतिर्लिङ्गमयी लिङ्गमस्तका लिङ्गधारिणी ॥ ८८॥ रुद्राक्षधारिणी भूतिधारिणी लैङ्गिकव्रता । विष्णुव्रतपरा विष्णुमुद्रिका प्रियवैष्णवी ॥ ८९॥ जैनी दैगम्बरी नानाविधवैदिक मार्गगा । पञ्चद्रविडसंसेव्या पञ्चगौडसमर्चिता ॥ ९०॥ हिङ्गुला शारदा ज्वालामुखी गञ्जाधिदेवता । मन्दुरादेवताऽऽलानदेवता गोष्ठदेवता ॥ ९१॥ गृहादिदेवतासौधदेवतोद्यानदेवता । श‍ृङ्गारदेवता ग्रामदेवता चैत्यदेवता ॥ ९२॥ पूर्देवता राजसभादेवताऽशोकदेवता । चतुर्दशानां लोकानां देवता परदेवता ॥ ९३॥ वापीकूपतडागादिदेवता वनदेवता । सृष्टिखेला क्षेमखेला प्रतिसंहारखेलना ॥ ९४॥ पुष्पपर्यङ्कशयना पुष्पवत्कुण्डलद्वयी । ताम्बूलचर्वणप्रीता गौरी प्रथमपुष्पिणी ॥ ९५॥ कल्याणीयुगसम्पन्ना कामसञ्जीवनी कला । कलाकलापकुशला कलातीता कलात्मिका ॥ ९६॥ महाजाङ्गलकी कालभुजङ्गविषनाशिनी । चिकित्सा वैद्यविद्या च नानामयनिदानवित् ॥ ९७॥ पित्तप्रकोपशमनी वातघ्नी कफनाशिनी । आमज्वरप्रकोपघ्नी नवज्वरनिवारिणी ॥ ९८॥ अर्शोघ्नी शूलशमनी गुल्मव्याधिनिवारिणी । ग्रहणीनिग्रहकरी राजयक्ष्मविनाशिनी ॥ ९९॥ मेहघ्नी पाण्डुरोगघ्नी क्षयापस्मारनाशिनी । उपदंशहरी श्वासकासच्छर्दिनिवारिणी ॥ १००॥ प्लीहप्रकोपसंहर्त्री पामाकण्डूविनाशिनी । दद्रुकुष्ठादिरोगघ्नी नानारोगविनाशिनी ॥ १०१॥ यक्षराक्षसवेतालकूष्माडग्रहभेदिनी । बालग्रहघ्नी चण्डालग्रहचण्डग्रहार्दिनी ॥ १०२॥ भूतप्रेतपिशाचघ्नी नानाग्रहविमर्दिनी । शाकिनीडाकिनीलामदस्त्रीग्रहनिषूदिनी ॥ १०३॥ अभिचारकदुर्बाधोन्मथिन्युन्मादनाशिनी । नानाविषार्तिसंहर्त्री दुष्टदृष्ट्यार्तिनाशिनी ॥ १०४॥ दुष्टस्थानस्थितार्कादिग्रहपीडाविनाशिनी । योगक्षेमकरी पुष्टिकरी तुष्टिकरीष्टदा ॥ १०५॥ धनदा धान्यदा गोदा वासोदा बहुमानदा । कामितार्थप्रदा शन्दा चतुर्विधतुमर्थदा ॥ १०६॥ ब्रह्ममान्या विष्णुमान्या शिवमान्येन्द्रमानिता । देवर्षिमान्या ब्रह्मर्षिमान्या राजर्षिमानिता ॥ १०७॥ जगन्मान्या जगद्धात्री त्र्यम्बका त्र्यम्बकाङ्गना । गुहेभवक्त्रजननी भद्रकाल्यमयङ्करी ॥ १०८॥ सती दाक्षायणी दक्षा दक्षाध्वरनिषूदिनी । उमा हिमाद्रिजाऽपर्णा कर्णपूराञ्चितानना ॥ १०९॥ क्षोणीधरनितम्बाम्बा बिम्बाभरदनच्छदा । कुन्दकोरकनीकाशरदपङ्क्तिः सुनासिका ॥ ११०॥ नासिकामौक्तिकमणिप्रभामलरदच्छदा । सुमन्दहसितालोकविमुह्यच्छम्भु मानसा ॥ १११॥ मानसौकोगतिः सिञ्जन्मञ्जीरादिविभूषणा । काञ्चीक्कणत्क्षुद्रघण्टा कलधौतघटस्तनी ॥ ११२॥ मुक्ताविद्रुमहारश्रीराजन्कुचतटस्थली । ताटङ्कयुगसत्कान्तिविलसद्गण्डदर्पणा ॥ ११३॥ धम्मिल्लप्रोत सौवर्णकेतकीदलमण्डिता । शिवार्पितस्वलावण्यतारुण्यकिलिकिञ्चिता ॥ ११४॥ सग्रैवेयकचिन्ताकविभ्राजत्कम्बुकन्धरा । सखीस्कन्धासक्तबाहुलतासुललिताङ्गिका ॥ ११५॥ नितम्बकुचभारार्तकृशमध्यसुमध्यमा । नाभीसरोवरोद्भूतरोमावलिविराजिता ॥ ११६॥ त्रिवलीराजललितगौरवर्णतलोदरी । चामरग्राहिणीवीज्यमानेन्दुद्युतिचामरा ॥ ११७॥ महाकुरबकाशोकपुष्पवचयलालसा । स्वतपःसुफलीभूतवरोत्तममहेश्वरी ॥ ११८॥ हिमाचलतपःपुण्यफलभूतसुताकृतिः । त्रैलोक्यरमणीरत्ना शिवचिच्चन्द्रचन्द्रिका ॥ ११९॥ कीर्तिज्योत्स्नाधवलितानेकब्रह्माण्डगोलिका । शिवजीवातुगुलिकालसदङ्गुलिमुद्रिका ॥ १२०॥ प्रीतिलालितसत्पुत्रगजाननषडानना । गङ्गासापत्न्यजनितेर्यायतेक्षणशोणिमा ॥ १२१॥ शिववामाङ्कपर्यंङ्ककृतासनपरिग्रहा । शिवदृष्टिचकोरीष्टमुखपूर्णेन्दुमण्डला ॥ १२२॥ उरोजशैलयुगलभ्रमच्छिवमनोमृगा । ब्रह्मविष्णुमुखाशेषवृन्दारकनभस्कृता ॥ १२३॥ अपाङ्गाङ्गणसन्तिष्ठन्निग्रहानुग्रहद्वयी । सनत्कुमारदुर्वासः प्रमुखोपासकार्थिता ॥ १२४॥ हादिकूटत्रयोपास्या कादिकूटत्रयार्चिता । मृद्वीकमधुपानाद्युद्बोधधूर्णितलोचना ॥ १२५॥ अव्यक्तभाषणा चेटीदत्तवीटीग्रहालसा । गायन्ती विलसन्ती च लिखन्ती प्रियलेखना ॥ १२६॥ उल्लसन्ती लसन्ती च दोलान्दोलनतुष्टिभाक् । विपञ्चीवादनरता सप्तस्वरविभेदवित् ॥ १२७॥ गन्धर्वीकिन्नरीविद्याधरीयक्षसुरीनुता । अमरीकबरीभृङ्गीस्थगिताङ्घ्रिसरोरुहा ॥ १२८॥ गन्धर्वगानश्रवणानन्दान्दोलितमस्तका । तिलोत्तमोर्वशीरम्भानृत्यदर्शनजातमुत् ॥ १२९॥ अचिन्त्यमहिमाऽचिन्त्यगरिमाऽचिन्त्यलाधवा । अचिन्त्यविभवाऽचिन्त्यविक्रमाऽचिन्त्यसद्गुणा ॥ १३०॥ स्तुतिः स्तव्या नतिर्नम्या गतिर्गम्या महासती । अनसूयाऽरुन्धती च लोपामुद्राऽदितिर्दितिः ॥ १३१॥ सप्तसंस्थास्वरूपा चारणिः स्रुग्वेदिका ध्रुवा । इडा प्रणीता पात्री च स्वधास्वाहाऽऽहुतिर्वपा ॥ १३२॥ कव्यरूपा हव्यरूपा यज्ञपात्रस्वरूपिणी । शङ्कराहोपुरुषिका गायत्रीगर्भवल्लभा ॥ १३३॥ चतुर्विंशत्यक्षरात्मपरोरजसिसावदोम् । वेदप्रसूर्वेदगर्भा विश्वामित्रर्षिपूजिता ॥ १३४॥ ऋग्यजुः सामत्रिपदा महासवितृदेवता । द्विजत्वसिद्धिदात्री च साङ्ख्यायनसगोत्रिका ॥ १३५॥ गातृदुर्गतिसंहर्त्री च गातृस्वर्गापवर्गदा । भृगुवल्ली ब्रह्मवल्ली कठवल्ली परात्परा ॥ १३६॥ कैवल्पोपनिषद्ब्रह्मोपनिषन्मुण्डकोपनिषत् । छान्दोग्योपनिषच्चैव सर्वोपनिषदात्मिका ॥ १३७॥ तत्त्वमादिमहावाक्यरूपाखण्डार्थबोधकृत् । उपक्रमादिषड्लिङ्गमहातात्पर्यबोधिनी ॥ १३८॥ जहत्स्वार्थाजहत्स्वार्थभागत्यागाख्यलक्षणा । असत्ख्यातिश्च सत्ख्यातिर्मिथ्याख्यातिः प्रभाऽप्रभा ॥ १३९॥ अस्तिभातिप्रियात्मा च नामरूपस्वरूपिणी । षण्मतस्थापनाचार्यमहादेवकुटुम्बिनी ॥ १४०॥ भ्रान्तिर्भान्तिहरी भ्रान्तिदायिनी भ्रान्तिकारिणी । विकृतिर्निकृतिश्चापि कृतिश्चोपकृतिस्तथा ॥ १४१॥ सकृतिः सत्कृतिः पापकृतिः सुकृतिरुत्कृतिः । आकृतिर्व्याकृतिः प्रायश्चित्तिर्वित्तिः स्थितिर्गतिः ॥ १४२॥ नवकुण्डी पञ्चकुण्डी चतुष्कुण्ड्येककुण्डिका । देवसेनादैत्यसेनारक्षः सेनादिभेदभाक् ॥ १४३॥ महिषास्योद्गतोद्दण्डदैत्यवेतण्डरुण्डहृत् । दैत्यसेनातृणारण्यज्वाला ज्योतिःस्वरूपिणी ॥ १४४॥ चण्डमुण्ड महादैत्यरुण्डडकन्दुकखेलकृत् । पशुदेहासृक्पललतृप्ता दक्षिणकालिका ॥ १४५॥ तदञ्चत्प्रेततद्रुण्डमाला व्यालविभूषणा । हलदंष्ट्रा शङ्कुरदा पीतानेकसुराघटा ॥ १४६॥ नेत्रभ्रमिपराभूतरथचक्रद्वयभ्रमिः । व्यायामाग्राह्यवक्षोजन्यक्कृतेभेन्द्रकुम्भिका ॥ १४७॥ मातृमण्डलमध्यस्था मातृमण्डलपूजिता । घण्टाघणघणध्वानप्रीता प्रेतासनस्थिता ॥ १४८॥ महालसा च मार्तण्डभैरवप्राणवल्लभा । राजविद्या राजसती राजस्त्री राजसुन्दरी ॥ १४९॥ गजराजादिरलकापुरीस्था यक्षदेवता । मत्स्यमूर्तिः कूर्ममूर्तिः स्वीकृतक्रोडविग्रहा ॥ १५०॥ नृसिंहमूर्तिर्रत्युग्रा धृतवामनविग्रहा । श्रीजामदग्न्यमूर्तिश्च श्रीराममूर्तिर्हतास्रपा ॥ १५१॥ कृष्णमूर्तिर्बुद्धमूर्तिः कल्किमूर्तिरमूर्तिका । विराण्मूर्तिर्जगन्मूर्तिर्जगज्जन्मादिकारिणी ॥ १५२॥ आधाराधेयसम्बन्धहीना तदुभयात्मिका । निर्गुणा निष्क्रियाऽसङ्गा धर्माधर्मविवर्जिता ॥ १५३॥ मायासम्बन्धरहितासच्चिदानन्दविग्रहा । जगत्तरङ्गजलधिरूपा चीत्कृतिभेदभाक् ॥ १५४॥ महातत्त्वात्मिका वैकाराहङ्कारस्वरूपिणी । रजोहङ्काररूपा च तमोहङ्काररूपिणी ॥ १५५॥ आकाशरूपिणी वायुरूपिण्यग्निस्वरूपिणी । अम्बात्मिका भूस्वरूपा पञ्चज्ञानेन्द्रियात्मिका ॥ १५६॥ कर्मेन्द्रियात्मिका प्राणापानव्यानादिरूपिणी । नागकूर्मादिरूपा च सर्वनाडीविहारिणी ॥ १५७॥ आधारचक्राधिष्ठात्री स्वाधिष्ठानप्रतिष्ठिता । मणिपूरकसंस्थानाऽनाहताब्जाधिदेवता ॥ १५८॥ विशुद्धचक्रपीठस्थाऽऽज्ञाचक्रपरमेश्वरी । द्विपत्री षोडशदली तथा द्वादशपत्रिका ॥ १५९॥ प्रदलद्दशपत्री च षड्दली च चतुर्दली । वासान्तमातृका बादिलान्तवर्णाधिदेवता ॥ १६०॥ डादिफान्ताक्षरवती कादिठान्ताक्षरेश्वरी । षोडशस्वरबीजेशी स्पर्शोष्मान्तःस्थदेवता ॥ १६१॥ हक्षाक्षरद्वयीरूपा पञ्चाशन्मातृकेश्वरी । सहस्राराब्जपीठस्था शिवशक्तिर्विमुक्तिदा ॥ १६२॥ पञ्चाम्नायशिवप्रोक्ता मन्त्रबीजाधिदेवता । सौःक्लींह्रींबीजफलदा महाप्लक्षसरस्वती ॥ १६३॥ नवार्णवा सप्तशती मालामन्त्रस्वरूपिणी । अर्गलेशी कीलकेशी कवचेशी त्रिमूर्तिका ॥ १६४॥ सकारादिहकारान्तमहमन्त्राधिदेवता । सकृत्सप्तशतीपाठप्रीता प्रोक्तफलप्रदा ॥ १६५॥ कुमारीपूजनोद्यन्मुच्चिरण्टीपूजनोत्सुका । विप्रपूजनसन्तुष्टा नित्यश्रीर्नित्यमङ्गला ॥ १६६॥ जयदादिमचारित्रा श्रीद मध्यचरित्रिका । विद्यादोत्तमचारित्रा कामितार्थप्रदायिका ॥ १६७॥ इष्टकृष्णाष्टमी चेष्टनवमी भूतपूर्णिमा । इष्टशुक्रारदिवसा धूतदीपद्वयोत्सुका ॥ १६८॥ नवरात्रोत्सवासक्ता पूजाहोमबलिप्रिया । इष्टेक्षुकूष्माण्डफलाहूतिरिष्टफलाहुतिः ॥ १६९॥ प्रतिमासूत्कृष्टपुण्या च महायन्त्रार्चनाविधिः । कात्यायनी कामदोग्ध्री खेचरी खड्गचर्मधृक् ॥ १७०॥ गजास्यमाता घटिका चण्डिका चक्रधारिणी । छाया छविमयी छन्ना जरामृत्युविवर्जिता ॥ १७१॥ झल्लीझङ्कारमुदिता झञ्झावातझणत्कृतिः । टङ्कहस्ता टणच्चापठद्वयी पल्लवोन्मनुः ॥ १७२॥ डमरुध्वानमुदिता डाकिनीशाकिनीश्वरी । ढुण्ढिराजस्य जननी ढकावाद्यविलासिनी ॥ १७३॥ तरिका तारिका तारा तन्वङ्गी तनुमध्यमा । धूपीकृतासुरा दीर्घवेणी दृप्ता सुरार्तिहृत् ॥ १७४॥ धूम्रवर्णा धूम्रकेशी धूम्राक्षप्राणहारिणी । नगेशतनया नारी मतल्ली पट्टिहेतिका ॥ १७५॥ पाताललोकाधिष्ठात्री फेरूकृतमहासुरा । फणीन्द्रशयना बोधदायिनी बहुरूपिणी ॥ १७६॥ भामिनी भासिनी भ्रान्तिकरी भ्रान्तिविनाशिनी । मातङ्गी मदिरामत्ता माधवी माधवप्रिया ॥ १७७॥ यायजूकार्चिता योगिध्येया योगीशवल्लभा । राकाचन्द्रमुखी रामा रेणुका रेणुकात्मजा ॥ १७८॥ लोकाक्षी लोहिता लज्जा वामाक्षी वास्तुशान्तिदा । शातोदरी शाश्वतिका शातकुम्भविभूषणा ॥ १७९॥ षडास्यमाता षट्चक्रवासिनी सर्वमङ्गला । स्मेरानना सुप्रसन्ना हरवामाङ्कसंस्थिता ॥ १८०॥ हारिवन्दितपादाब्जा ह्रींबीजभुवनेश्वरी । क्षौमाम्बरेन्दुगोक्षीरधवला वनशङ्करी ॥ १८१॥ (॥ षडङ्गन्यासध्यान मानसोपचार पूजनम् ॥) अथ फलश्रुतिः । इतीदं वनशङ्कर्याः प्रोक्तं नामसहस्रकम् । शान्तिदं पुष्टिदं पुण्यं महाविपत्तिनाशनम् ॥ १॥ दारिद्र्यदुःखशमनं नानारोगनिवारणम् । इदं स्तोत्रं पठेद्भक्त्या यस्त्रिसन्ध्यं नरः शुचिः ॥ २॥ नारी वा नियता भक्त्या सर्वान्कामानवाप्नुयात् । अस्य स्तोत्रस्य सततं यत्र पाठः प्रवर्तते ॥ ३॥ तस्मिन्नगृहे महालक्ष्मीः स्वभर्त्रा सह मोदते । नानेन सदृशं स्तोत्रं भुक्तिमुक्तिप्रदायकम् ॥ ४॥ विद्यतेऽन्यसत्यमेतत् शक्र वच्मि पुनः पुनः । बकवन्ध्या काकवन्ध्या नारीस्तोत्रमिदं पठेत् ॥ ५॥ वषेणैकेन सा पुत्रं लभेन्नात्रास्ति संशयः । सामान्यकार्यसिद्धिस्तु शतावर्तनतो भवेत् ॥ ६॥ महाकार्यस्य सिद्धिस्तु सहस्रावर्तनाद्ध्रुवम् । न तत्र पीडा जायेत भूतप्रेतग्रहोद्भवा ॥ ७॥ लोकवश्यं राजवश्यं स्तोत्रस्य पठनाद्भवेत् । शत्रवः संक्षयं यान्ति दस्यवः पिशुनास्तथा ॥ ८॥ नैव शाकम्भरीभक्ताः सीदन्ति बलसूदन । शाकम्भरी स्वभक्तानामवित्री जननी यथा ॥ ९॥ यद्यत्कार्यं समुद्दिश्य ध्यायन् शाकम्भरीं हृदि । स्तोत्रमेतत्पठेत्तस्य तत्कार्यं च प्रसिद्ध्यति ॥ १०॥ मुच्यते बन्धनाद्बद्धो रोगी मुच्येत रोगतः । ऋणवानृणतो मुच्येन्नात्र कार्या विचारणा ॥ ११॥ पौषे मासि सिते पक्षे प्रारभ्य तिथिमष्टमीम् । देव्याः आराधनं कुर्यादन्वहं पूर्णिमावधि ॥ १२॥ सशाकैरुत्तमान्नैश्च ब्राह्मणांश्च सुवासिनीः । सन्तर्पयेद्यथाशक्ति देवीं सम्पूज्य भक्तितः ॥ १३॥ वित्तशाठ्यं न कुर्वीत शाकम्भर्याः समर्चने । तस्मै प्रसन्ना भक्ताय दद्यात्कामानभीप्सितान् ॥ १४॥ विद्यार्थी प्राप्नुयाद्विद्यां धनार्थी चाप्नुयाद्धनम् । दारार्थी प्राप्नुयाद्दारानपत्यार्थी तदाप्नुयात् ॥ १५॥ आप्नुयान्मन्दबुद्धिस्तु ग्रन्थधारणपाटवम् । अस्य स्तोत्रस्य पाठेन प्राप्नुयाद्यद्यदीप्सितम् ॥ १६॥ अयुतावर्तनादस्य स्तोत्रस्य बलसूदन । पश्येच्छाकम्भरीं साक्षात्तद्भक्तो नात्र संशयः ॥ १७॥ होमं च कुर्याद्विधिवत्पायसेन ससर्पिषा । सौभाग्यद्रव्ययुक्तेन सेक्षुकूष्माण्डकेन च ॥ १८॥ सुवासिनीः कुमारीश्च ब्राह्मणांश्च दिने दिने । सम्भोजयेत्सदन्नेन ससितामधुसर्पिषा ॥ १९॥ दद्यात्तेभ्यश्च ताभ्यश्च वस्त्रालङ्कारदक्षिणाः । तस्मै शाकम्भरी दद्यात्पुरुषार्थचतुष्टयम् ॥ २०॥ आचन्द्रार्कं तस्य वशः स्थास्यत्यत्र गुणी सुखी । शाकम्भर्यै नम इति यस्तु मन्त्रं षडक्षरम् ॥ २१॥ भक्त्या जपेन्नरस्तस्य सर्वत्र जयमङ्गलम् । शाकम्भर्या इदं शक्र दिव्यं नामसहस्रकम् ॥ २२॥ गुरुभक्ताय शान्ताय देयं श्रद्धालवे त्वया । त्वमप्याखण्डल सदा पठेदं स्तोत्रमुत्तमम् ॥ २३॥ शत्रून् जेष्यसि सङ्ग्रामे सर्वान्कामानवाप्स्यसि । इति श्रुत्वा स्कन्दवाक्यं शक्रः सन्तुष्टमानसः ॥ २४॥ प्रणम्य गुहमापृष्ट्वा सगणः स्वदिवं ययौ ॥ २५॥ सूत उवाच - दुर्भिक्षे ऋषिपोषिण्याः शाकम्भर्याः प्रकीर्तितम् । इदं नामसहस्रं वः किं भूयः श्रोतुमिच्छथ ॥ २६॥ ॥ इति श्रीस्कन्दपुराणे शाकम्भरी तथा वनशङ्करी सहस्रनामस्तोत्रं सम्पूर्णम् ॥ Encoded by DPD, Help from Alex Proofread by DPD, NA
% Text title            : Shakambhari or VanashankarI Sahasranama Stotra
% File name             : shAkambharIvanashaNkarIsahasranAmastotra.itx
% itxtitle              : shAkambharI athavA vanashaNkarI sahasranAmastotram (skandapurANAntargatam)
% engtitle              : shAkambharI or vanashaNkarI sahasranAmastotra
% Category              : sahasranAma, devii, shAkambharI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : shAkambharI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DPD
% Proofread by          : DPD, NA
% Description-comments  : Bhagavatistutimanjari pages 810-830, ed. Radhakrishnashastri
% Latest update         : August 11, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org