श्रीशान्तादुर्गास्तोत्रम्
शान्तादुर्गे महादेवी मङ्गेशप्राणवल्लभे ।
सरस्वतीस्वरूपासि विद्याभिक्षां प्रदेहि मे ॥ १॥
आदिमाये महामाये शान्तादुर्गे नमोऽस्तु ते ।
महालक्ष्मीस्त्वमेवासी सम्पद्भिक्षां प्रदेहि मे ॥ २॥
जननी सर्वलोकानां शान्तादुर्गे नमोऽस्तु ते ।
मङ्गले सुतवात्सल्ये पुत्रभिक्षां प्रदेहि मे ॥ ३॥
महाकालीस्वरूपासी शान्तादुर्गे नमोऽस्तु ते ।
सर्वशत्रुविनाशेन यशोभिक्षां प्रदेहि मे ॥ ४॥
विघ्नराजस्वरूपा त्वं शान्तादुर्गे नमोऽस्तु ते ।
कार्यसिद्धिस्त्वदायत्ता सिद्धिभिक्षां प्रदेहि मे ॥ ५॥
सौभाग्यदायिनी देवी शान्तादुर्गे नमोऽस्तु ते ।
अष्टसिद्धिस्वरूपासि भाग्यभिक्षां प्रदेहि मे ॥ ६॥
आदिशक्तिस्त्वमेवासी शान्तादुर्गे नमोऽस्तु ते ।
त्वत्पादभक्तिपूजार्थं आयुर्भिक्षां प्रदेहि मे ॥ ७॥
पाशाङ्कुशधरादेवी शान्तादुर्गे नमोऽस्तु ते ।
त्वया हरीहरौ शान्तौ शान्तिभिक्षां प्रदेहि मे ॥ ८॥
कैवल्यवासिनी देवी शान्तादुर्गे नमोऽस्तु ते ।
केवलानन्दरूपासी मोक्षभिक्षां प्रदेहि मे ॥ ९॥
जगदम्ब मेदालम्बे शान्तादुर्गे नमोऽस्तु ते ।
सुतो गजाननस्तेषां दयाभिक्षां प्रदेहि मे ॥ १०॥
इति श्रीगजाननशास्त्री गायतोण्डे विरचितं
श्रीशान्तादुर्गास्तोत्रं सम्पूर्णम् ।