शारदात्रिशती
गङ्गाधरमखिविरचिता ।
परमाभरणं धातुर्वदनाम्भोजस्य शारदा देवी ।
या राजति जननी सा लसतु सदा सुप्रसन्ना नः ॥ १॥
सा शारदा प्रसन्ना राजति मम मानसे नित्यम् ।
या शारदाब्जवदना जननी कीर्त्या हि सर्वलोकानाम् ॥ २॥
सम्पद् दिव्या धातुः ख्याता सा शारदा देवी ।
यद्भजनं देवानामपि तत्त्वज्ञानदं विदुर्विबुधाः ॥ ३॥
सरसकविताविभूत्यै यत्पदमाराध्यते विशेषज्ञैः ।
सा शारदा श्रियै नः काले सर्वप्रसन्नात्मा ॥ ४॥
नीलारविन्दलोचनयुगला सा शारदा देवी ।
करकमलकलितवीणा सदा प्रसन्ना श्रियैः वः स्यात् ॥ ५॥
कलये तामहमनिशं फुल्लाब्जविलोचनां वाणीम् ।
या सृष्ट्यादौ साह्यं कलयति धातुर्जगन्माता ॥ ६॥
यस्या लीलालोलः पद्मासनगोऽपि वेदपाठरतः ।
तामहमतुलानन्दप्राप्त्यै कलये मनःपद्मे ॥ ७॥
ब्रह्माणं तां वाणीमेकासनभासुरां श्रियः प्राप्त्यै ।
आराद्विलोक्य मानसमानन्दरसं परं भजते ॥ ८॥
मुक्तामये विमाने पद्मासनयन्त्रिकामध्ये ।
दृश्यां वाणीं देवीं सेवे सन्ततसुखप्राप्त्यै ॥ ९॥
भाग्यान्मम च कवीनां सा देवी दृश्यतामेति ।
वीणापुस्तकहस्ता या कमलासनपुरन्ध्री हि ॥ १०॥
मामकमानसकीरं बध्नीयाश्चरणपञ्जरे मातः ।
तेन मम जन्मलाभः स्तोत्रं च तव प्रकामकलितार्थम् ॥ ११॥
संवित्प्ररोहकलिकाप्राप्त्यै तां नौमि शारदां देवीम् ।
या किल कवीश्चराणामधिनेत्री काव्यकलनादौ ॥ १२॥
भक्तानां जिह्वाग्रं सिंहासनमादराद् वाणी ।
कलयन्ति नृत्यति किल ततस्तु तन्नूपुरनिनादः ॥ १३॥
मञ्जुलफणितिझरीति प्रगीयते दिक्तटे रसिकैः ।
प्रातःफुल्लपयोरुहमरन्दरसकेलिधूर्वहा काले ॥ १४॥
दुर्वारगर्वदुर्मतिदुरर्थनिरसनकलानिपुणाः ।
मातस्तव पादयोरुहसेवाधन्यतां प्राप्ताः ॥ १५॥
नीचा मम तु मनीषा तथापि तव नुतिकलाप्रवृत्तोऽस्मि ।
अम्ब तव तत्र हेतुः कृपां परं बुद्धिदा जयति ॥ १६॥
विधिदयिते तव मातः स्तुतौ न शक्ता अपि त्रिदशाः ।
क्षन्तव्यमत्र दयया मम चापल्यं तव स्तोत्रे ॥ १७॥
शुकवाणीमिव मातर्निरर्थकां मद्वचोभङ्गीम् ।
सदसि शृणोषि दयया तत् तव चोत्तमपदव्यक्त्यै ॥ १८॥
परदेवते प्रसीद प्राणेश्वरि धातुरम्ब मम वाणीम् ।
कृपया तव नुतियोग्यां त्वन्नूपुरनिनदरम्यरसगुम्फाम् ॥ १९॥
सर्वज्ञत्वं सम्पदमथवान्यां प्राप्तुमत्र तव मातः ।
तव चरणकमलमेतच्छरणं नान्या गतिर्दृष्टा ॥ २०॥
मन्दधिया स्वल्पापि स्तुतिरम्ब निरर्थकापि रसहीना ।
कलिता चेत् तव कृपया तदेव सदसीडितं भाति ॥ २१॥
कुण्ठीकरोतु विपदं चाज्ञानं दुर्गतिं वाणि ।
तव चरणकमलसेवादरो जनानां कलौ काले ॥ २२॥
वीरश्रीर्विद्वच्छ्रीर्जयश्रियो वामरैर्मान्ये ।
तव पादाम्बुजसेवादरेण सिध्यन्ति नान्यथा लोके ॥ २३॥
करुणारसवर्षिणि ते चरणसरोजद्वयं निधेहि मम ।
मस्तकतले विदारितजरादिकं सपदि जन्म सार्थं मे ॥ २४॥
श्रद्धां मेधां सम्पदमन्याममरेन्द्रमाननीयां हि ।
दयया विधेहि काले भक्तानां नस्त्वदेकशरणानाम् ॥ २५॥
प्रेयसि धातुर्जगतां परमेश्वरि वाणि मातरम्ब ननु ।
तव नामानि फणन्तस्त्रिदशैः सह यान्ति यानेन ॥ २६॥
तव नाम यस्य जिह्वाङ्गणे विशुद्धं क्षणं स्फुरति ।
स हि वन्द्यस्त्रिदशैरपि विगलितपापः परे लोके ॥ २७॥
नतनाकीश्वरवनितामौलिस्रग्गलितमकरन्दैः ।
स्निग्धपदाम्बुजयुगला वाणी देवी श्रियो हि लसति परा ॥ २८॥
विदुषामपि तुष्टिकरं नवनवरसगुम्फनं कवित्वं तु ।
यत्करुणावीक्षणतो सिध्यति तां शारदां वन्दे ॥ २९॥
अम्ब प्रसीद परमं मायामेतां निरस्य नतिभाजः ।
मम संविधेहि मधुरां वाचं तव नुतिकलार्हां च ॥ ३०॥
वाणी माता जगतां वाणीपुस्तककराम्भोजा ।
हंसाश्रिता हि नमतां श्रेयःसिध्यै प्रसन्ना नः ॥ ३१॥
श्लाघ्या सम्पत्काले वैदुष्यं वा यदीयवीक्षणतः ।
सिध्यन्त्यपि देवानां तां वन्दे शारदां देवीम् ॥ ३२॥
विद्यादानकरीयं कमलासनपुण्यपरिपाकः ।
मम मनसि संनिधत्तां दिव्यज्ञानादिसिध्यै हि ॥ ३३॥
दिव्यज्ञानं दयया विधेहि मातर्महासारम् ।
तेनैव ते तु कीर्तिर्दानफलं नश्च जन्मसाफल्यम् ॥ ३४॥
द्वादशबीजाक्षरगां मन्त्रोद्धारक्रियाशक्तिम् ।
वाणीं विधेस्तु पत्नीं मध्ये पश्यामि बिम्बमध्यस्थाम् ॥ ३५॥
रविकोटितेजसं तां सरस्वतीं त्र्यक्षरक्रियाशक्तिम् ।
अणिमादिदां प्रसन्नामम्बां पश्यामि पद्ममध्यगताम् ॥ ३६॥
जगदीश्वरि भारति मे प्रसीद वाणि प्रपन्नाय ।
अहमपि कुतुकात् तव नुतिकलनेऽशक्तश्च मन्दधिषणश्च ॥ ३७॥
मुनिजनमानसपेटीरत्नं धातुर्गृहे रत्नम् ।
वाणीति दिव्यरत्नं जयति सदा कामधुक् काले ॥ ३८॥
अज्ञानव्याधिहरं तदौषधं शारदारूपम् ।
यः पश्यति स हि लोके परात्मने रोचते काले ॥ ३९॥
कमलासननयनफलं सृष्ट्यादिकलासमासक्तम् ।
वाणीरूपं तेजः स्फुरति जगच्छ्रेयसे नित्यम् ॥ ४०॥
हंसगतिं तामम्बामम्भोरुहलोचनां वन्दे ।
तिलकयति या गुरूणां जिह्वासिंहासनं वाणी ॥ ४१॥
वाणि तरङ्गय लोचनवीक्षणशैलीं क्षणं मयि भोः ।
मम जन्म लब्धविभवं तेन भवेन्नैव ते हानिः ॥ ४२॥
पद्मासनेन साकं काले वाणी समासना जयति ।
कुचकलशनमितदेहा कुर्वन्ती भद्रसन्ततिं नमताम् ॥ ४३॥
व्यातन्वाना वाणी कवीश्वराणां मनोज्ञवचनझरीम् ।
जयति विधिसुकृतसन्ततिपरिणमितमाला बुधैर्वन्द्या ॥ ४४॥
कमलसुषमाङ्गयष्टिः सा देवी जयति पद्ममध्यतले ।
शतबीजाक्षरलसितं दिक्पतिकृतरक्षकं च मेरुमुखम् ॥ ४५॥
वाणीयन्त्रं विबुधैर्मान्यं योगासनाब्धीन्दुम् ।
ह्रीमक्षरमुखमाद्यं प्राक्तटकलितं च पद्ममध्यतले ॥ ४६॥
तन्मेरुचक्ररूपं समाधिदृश्यं च लोकवेद्यं च ।
सैषाश्रित्य तदेतद् राजति राजीवलोचना वाणी ॥ ४७॥
हंसाश्रितगतिविभवा मन्दस्मेरा तमोनिहन्त्री च ।
मधुरतरवाङ्निगुम्फा वीणापुस्तककराम्भोजा ॥ ४८॥
वीणावादनरसिका नमतामिष्टार्थदायिनी वाणी ।
धातुर्नयनमहोत्सवकलिका कुर्याच्छुभं जगताम् ॥ ४९॥
तापिञ्छरम्यदेहश्रीरेषा कविसमाजनुता ।
अष्टैश्वर्यादिकलादाने दत्तेक्षणा जयति ॥ ५०॥
सृष्ट्यादौ विधिलिखितं वाणी सैषा हि चान्यथाकर्तुम् ।
नाकौकसामपीह प्रभवति कलितप्रणामानाम् ॥ ५१॥
यः पश्यति तामेतां वाणीं पुरुषो हि धन्यतामेति ।
यं पश्यति सैषायं नितरां धन्यो नृपेडितः काले ॥ ५२॥
कबलिततमःसमूहा वाणी सैषा हि विजयते जगति ।
अपुनर्भवसुखदात्री विरिञ्चिमुखलालिता काले ॥ ५३॥
कमलासनमुखकमलस्थिरासनां शारदां वन्दे ।
यन्नामोच्चरणकलाविभवात् सर्वज्ञता नियतम् ॥ ५४॥
भवपरमौषधमेतद्वाणीरूपं सदाराध्यम् ।
कमलासनलोचनगणसरसक्रीडास्पदं जयति ॥ ५५॥
नारीवंशशिखामणिरेषा चिन्तामणिर्नतानां हि ।
धातृगृहभागधेयं ध्येयं सद्भिः श्रियः समृद्ध्यै नः ॥ ५६॥
जननि भुवनेश्वरि त्वां वाणीं वन्दे कवित्वरससिद्ध्यै ।
त्वं तु ददासि हि दयया मम मन्दस्यापि वाग्झरीर्मधुराः ॥ ५७॥
एतेन तव तु कीर्तेर्महिमा सङ्गीयते दिशां वलये ।
किंनरवर्गैरमरीकन्याभिः कल्पवृक्षमूलतले ॥ ५८॥
कविमल्लसूक्तिलहरीस्तन्वाना शारदा जयति ।
विधिकेलिसदनहंसी कल्याणैकस्थली नमताम् ॥ ५९॥
स्फुरतु मम वचसि वाणि त्वदीयवैभवसुधाधारा ।
नित्यं व्यक्तिं प्राप्ता धुतनतजनखेदजालका महती ॥ ६०॥
वाणि तव स्तुतिविषये बुद्धिर्जाता हि मे सहसा ।
तेन मम भागदेयं परिणतिमित्येव नित्यसन्तुष्टः ॥ ६१॥
सृष्टिकलामण्डनभूरेषा वाणी जगज्जननी ।
आलोकमात्रवशतस्तमसो हन्त्री च सम्पदां जननी ॥ ६२॥
पौरुषलोपविधात्री धातुरियं कमलकोमलाङ्गलता ।
वसतु सदा जिह्वाग्रे दिव्यज्ञानप्रदा देवी ॥ ६३॥
प्रतिदिनदुरितनिहन्त्री पद्मासननयनपुण्यपरिपाकः ।
कवितासन्तानकलाबीजङ्कुरवर्धिनी जयति ॥ ६४॥
क्षणवीक्षणेन माता लक्ष्मीं पक्ष्मलयति प्रणते ।
वेधसि सुरतमहोत्सवसङ्केततलप्रदर्शिनी काले ॥ ६५॥
शृङ्गारविभ्रमवता नीलोत्पलकान्तिचातुरीसुपुषा ।
वाणीनेत्रेण विधिर्जितोऽभवत् सोऽपि सततकृतवेदः ॥ ६६॥
श्यामा कटाक्षलहरी मातुर्जयतीह सम्पदां जननी ।
यामस्तौषीत् काले मघवा नाकाधिपा मुनयः ॥ ६७॥
मणिकटकनादपूरितमम्बापादाम्बुजं महामन्त्रैः ।
जप्यं ध्येयं काले दिशि दिशि कलितस्वरक्षं च ॥ ६८॥
स्मरणेन दुरितहन्त्री नमनेन कवित्वसिद्धिदा वाणी ।
कुसुमसमर्पणकलया काले मोक्षप्रदात्री च ॥ ६९॥
विसृमरतमोनिहन्त्रि त्वां सेवे शारदादेवि ।
शिशिरीकुरु मां काले करुणारसवीक्षितेन वरदेन ॥ ७०॥
मातर्नमोऽस्तु तावककटाक्षमधुपाय शारदे जयति ।
यो वेधसोऽपि काले सृष्ट्यादौ चातुरीं दित्सन् ॥ ७१॥
सुमनोवाञ्छादाने कृतावधानं धनं धातुः ।
धिषणाजाड्यादिहरं यद्वीक्षणमामनन्ति जगति बुधाः ॥ ७२॥
ललितगमनं त्वदीयं कलनूपुरनादपूरितं वाणि ।
नौमि पदाम्बुजयुगलं कवितासिद्ध्यै विधेः कान्ते ॥ ७३॥
कमलकृतवैजयन्ती विधेर्मुखेष्वादराद्वाण्याः ।
जयति कटाक्षलहरी तोरणलक्ष्मीस्तु सत्यलोके हि ॥ ७४॥
निश्रेणिका च मुक्तेः सज्ज्ञाननदीमहालहरी ।
नानारसचातुर्यप्रसारिका दुरितशङ्कुला काले ॥ ७५॥
परतन्त्रितविधिविभवा देवी सा शारदा जयति ।
कैवल्यादिकलानां दात्री भक्तालिकामधेनुर्या ॥ ७६॥
कविकामधेनुरेषा मञ्जुस्मेराननाम्भोजा ।
वाणी जयति विधातुर्मननागमसम्प्रदायफलदा हि ॥ ७७॥
घनतरकृपारसार्द्रैर्नानाविभवप्रदानकृतदीक्षैः ।
वाणी जयति कटाक्षैर्नः काश्मल्यं हठान्निरस्यन्ती ॥ ७८॥
दासाशादानकलाप्रक्लृप्तदीक्षाकटाक्षलहरी मे ।
कबलयतु पापराशिं वाण्या नित्यं महौदार्या ॥ ७९॥
आदिमजननी सैषा वाणी जयतीह भक्तरक्षायै ।
सर्वत्र कलितदेहा नानाशास्त्रादिरूपतो जगति ॥ ८०॥
बहुविधलीलासदनं सम्भृतफुल्लाब्जशिल्पवैचित्र्यम् ।
वाणीमुखारविन्दं चुम्बति मानसमिदं हठात् कृत्यम् ॥ ८१॥
सौभाग्यकान्तिसारं वदनाम्भोजं श्रियै वाण्याः ।
आश्रित्य सकलवेदा अपि नित्यं मान्यतां प्राप्ताः ॥ ८२॥
ज्ञानमयी सलिलमयी तत्त्वमयी भाति सर्वलोकानाम् ।
अक्षरमयी च वाणी श्रेयोदाने निबद्धचित्तगतिः ॥ ८३॥
नमौक्तिरस्तु मात्रे वाण्यैः नः सिद्धिदा भक्त्या ।
आनन्दिन्यै ज्ञानस्वरूपभाजे प्रबन्धरूपायै ॥ ८४॥
आराध्यायै ध्येयायै चात्तकलाचित्रनादरूपायै ।
सच्चित्तवासभाजे वाण्यै भूयो नमोऽस्तु भक्तिकृतम् ॥ ८५॥
कमलासनपुण्यकला नमतां चिन्तामणिर्वाणी ।
जीवाक्षरबोधकलारूपा जयतीह सत्त्वरूपवती ॥ ८६॥
ब्रह्माण्डमण्डलमिदं व्याप्तं मात्रा क्षराक्षरादिजुषा ।
यत्पदकमलं नित्यं श्रुतिततिसुदतीविभूषणं च विदुः ॥ ८७॥
मनसिजसाम्राज्यकलालक्ष्मीरेषा विरिञ्चिमुखहर्षम् ।
व्यातन्वाना नित्यं राजति षडरस्वरूपचक्रतले ॥ ८८॥
मञ्जुलवीणानिनदप्रयोगनिर्धूतमोहसञ्चारा ।
हंसीयाना वाणी हंसगतिः सुकृतिनेत्रपुण्यकला ॥ ८९॥
कुचकलशसविधविनिहितवीणानिक्काणसावधानकला ।
अधिनेत्री हि कलानां सकलानां शारदा जयति ॥ ९०॥
त्रिदशपरिषन्निषेव्या प्रातः सायं प्रफुल्लमुखकमला ।
कमलास्नुषा हि वाणी वाणीं दिशतु प्रबन्धरसभरिताम् ॥ ९१॥
अधिकचपलैः कटाक्षैरञ्चितलीलारसैरुदारैर्नः ।
मङ्गलमातन्वाना विधातृगृहिणी सुरादिनुतपादा ॥ ९२॥
कान्तं लक्ष्मीभवनं मुखकमलं शारदादेव्याः ।
सौभाग्यकान्तिसारं स्पृहयति मे मानसं सरसम् ॥ ९३॥
कारुण्यपूर्णनयनं पुस्तकहस्तं महः किमपि ।
धातुः पुण्यकलानां परिपाको मर्त्यरक्षणं कुरुते ॥ ९४॥
संसारवारिराशिं तर्तुं सा सेतुरेषा नः ।
धातुर्गृहिणी दुःखं शिथिलयतु परं जनिप्राप्तम् ॥ ९५॥
सरसकविकल्पवल्लीमम्बां वाणीमहमुपासे ।
अन्तस्तमोनिहन्त्रीं यामाहुर्ज्ञानदां मुनयः ॥ ९६॥
मम लोचनयोर्भूयात् विद्या कापि प्रधूतजनिभीतिः ।
निगमेषु सञ्चरन्ती कृपानिधिः शारदा देवी ॥ ९७॥
शमितनतदुरितसङ्घा धात्रे निजनेत्रकल्पितानङ्गा ।
कृतसुरशात्रवभङ्गा सा देवी मङ्गलैस्तुङ्गा ॥ ९८॥
पद्मासनस्थितां तां वाणीं चतुराननां वन्दे ।
कल्याणानां सरणिं कविपरिषत्कल्पवल्लरीं मान्याम् ॥ ९९॥
कुचभारसंनताङ्गीं कुन्दस्मेराननाम्भोजाम् ।
कुन्दलकुसुमपरिमलसम्पादितभृङ्गझङ्कृतितरङ्गाम् ॥ १००॥
चिद्रूपां विधिमहिषीं हंसगतिं हंससंनुतचरित्राम् ।
विद्याकलादिनिलयामाराध्यां सकलजडिमदोषहरीम् ॥ १०१॥
जननि यदि भजति लोके तव लोचनवीक्षणं क्षणं मर्त्यः ।
कुपुरुषनुतिविमुखस्ते रूपं ज्ञानप्रदं पश्यन् ॥ १०२॥
कुक्षिम्भरित्वमुखदुर्गुणादिकं दूरतस्त्यक्त्वा ।
त्वद्भावनेन धन्यो नयति च कालं प्रमोदेन ॥ १०३॥
मयि तापभारशान्त्यै तरङ्गय त्वदिलोचने मातः ।
यच्छारदाब्जसुषमामान्ये देवादिभिः प्रार्थ्ये ॥ १०४॥
सर्वार्थदा हि भजतां कटाक्षधाटी शिवङ्करी वाणि ।
चिन्तामणिमिव कलयति यां हि विधिर्विदितमन्त्रोऽपि ॥ १०५॥
सुकृतपरिपाकमानसा धन्यास्त्वामर्चयन्ति ननु वाणि ।
अहमपि तद्वत्कलये फलप्रदा त्वं समानकल्पासि ॥ १०६॥
निगमवचसां निदानं तव पादाब्जं वतंसयतु काले ।
देवोऽपि देवदेवो विजितजगत्त्रयतले मातः ॥ १०७॥
अन्तस्तमसो हन्त्री पटीयसी ते कटाक्षझरमाला ।
या तोरणमाल्यश्रियमातनुते वेधसः सौधे ॥ १०८॥
शृङ्गारविभ्रमवतीं त्वां प्राप्यैव क्रियाकाले ।
कलयति सृष्ट्यादिमसौ विधिः श्रुतिव्यक्तमाहात्म्यः ॥ १०९॥
वेधोवदनं केलीवनमासाद्याम्ब परमया हि मुदा ।
क्रीडसि शुकीव काले द्विजसङ्घसमर्चितात्मवृत्तिश्च ॥ ११०॥
धातुर्मुखमञ्जूषारत्नं निगमान्तकेलिवनहंसीम् ।
परमां कलामुपासे तामम्बां चिद्विलासघनवृत्तिम् ॥ १११॥
वागीशदेवरूपिणि गीष्पतिमुखदेवसङ्घनुतचरणे ।
तव रूपं सूर्यायुतदृश्यं दर्शय मम ज्ञाने ॥ ११२॥
दिव्यज्ञानप्रदमिदमम्ब त्वद्रूपमादराद्वाणि ।
काले दर्शय कृपया तेन वयं प्राप्तकार्यसाफल्याः ॥ ११३॥
अम्बा त्रिसन्ध्यपठनप्रवृत्तिभाजां क्रमेण नाम्नां तु ।
द्वादशकलाविभेदव्यूहादिज्ञानदा प्रसन्ना हि ॥ ११४॥
मूकोऽपि सत्कविः स्याद् दुरक्षराण्यपि विधातृलिखितानि ।
सत्फलदानि सरस्वति कटाक्षपूरे यदि कापि ॥ ११५॥
अवलम्बे तामम्बां पञ्चाशद्वर्णकल्पितजगत्काम् ।
सृष्टिस्थितिसंहारस्थिरोदयां विविधशास्त्ररूपाढ्याम् ॥ ११६॥
वाणीं दिशतु मनोज्ञां वाणी गतिहसितकादम्बा ।
या दम्भादिविमुक्ता नादं भाव्यं वदन्ति यद्रूपम् ॥ ११७॥
राकेन्दुवदनबिम्बा साम्बा वाणी पुनातु कृतिमेनाम् ।
परिकलितभावबन्धां रसोज्ज्वलां मङ्गलोत्तुङ्गाम् ॥ ११८॥
लावण्यकान्तिसिन्धुः पादाब्जनतप्रभावसन्धात्री ।
प्रसृमरतमोनिहन्त्री मद्वाचां देवता चाद्या ॥ ११९॥
जनतानेत्रानन्दं रूपं यस्याः स्फुटं भाति ।
स्मरणं त्वज्ञानहरं विश्वज्ञानप्रदं च सा जयति ॥ १२०॥
सहधर्मिणी विधातुर्दारिद्र्यध्वंसिनी निजकटाक्षैः ।
सांनिध्यं जनयतु मे सुरमुनिनरसंनुतस्वमहिमेयम् ॥ १२१॥
मुखरितवीणा वाणी वाणीं मे दिशतु नैजनुतियोग्याम् ।
आस्वादितशास्त्रामृतलहरीं सद्यस्तमोनिहन्त्रीं च ॥ १२२॥
मणिनूपुरनादनिभा वाणी भाति त्वदीयभक्तमुखे ।
कीर्तिर्दिशासु शुद्धिर्वपुषि बहुमुखी परं काले ॥ १२३॥
तव पादस्मरणवशात् ताम्यति तिमिरावलिश्चान्तः ।
आनन्दलहरिवीची प्रसर्पति क्षमातले हि भक्तानाम् ॥ १२४॥
सम्पन्नलिनीभानुं ज्ञानाब्धिसुधाकरं हि तव रूपम् ।
भक्त्या मनसि गृणन्तो गच्छन्ति व्योमयानमारूढाः ॥ १२५॥
हृत्तमसां दीपरुचिर्विधातृदयिता ममास्तु परदैवम् ।
भवतापमेघमाला कविशुकवासन्तिकश्रीर्हि ॥ १२६॥
मम मानसमणिहर्म्ये विहरतु वाण्याः स्वरूपं तु ।
निगमवचसां निगुम्फैर्वेद्यं तद्वेधसा लाल्यम् ॥ १२७॥
सततमभिगम्यरूपा विबुधवरेड्या सरस्वती माता ।
मनसि मम संनिधत्तां भूत्यै नः सर्वतः काले ॥ १२८॥
मम शिरसि नीचपुण्ये पुण्यघना वेदमौलिहर्म्या च ।
कृतपदविन्यासभरा वाणी जयतीह शतमखादिनुता ॥ १२९॥
मायानिरसनदक्षा मातेयं सुप्रसन्ना मे ।
लभते परमं ज्ञानं यद्भक्त्या पामरोऽपि च धरित्र्याम् ॥ १३०॥
वाणीश्वरि तव रूपं नामस्मरणं च पूजनं भक्त्या ।
सिध्यति सकलविभूत्यै तत्र हि भवतीदयाप्रसारस्तु ॥ १३१॥
सफलयतु नेत्रयुगलं हतनतदुरिता च सा परा देवी ।
कमलजमान्यचरित्रा सुमनोवाञ्छाप्रदानकृतदीक्षा ॥ १३२॥
पङ्कजमृणालतन्तुप्रतिभटरूपं क्वचिद्दृश्यम् ।
कविकुलवाणीकैरवशारदचन्द्रप्रभाकबलितं च ॥ १३३॥
नलिनभवगृहिणि वाणि प्रह्वानां सपदि भक्तानाम् ।
लुम्पसि मोहं भवतीस्मरणाद्वरिवस्यया स्तुत्या ॥ १३४॥
कविकुलकल्पकवल्लीमपाङ्गलीलाकृतार्तिशमनां ताम् ।
वाणीमन्वहमार्याराध्यां मोक्षाय निभृतमहमीडे ॥ १३५॥
संवित्सुखस्वरूपामम्बां वाणीमहर्निशं मनसि ।
कलये कलिताप्रभरप्रशान्तिकामः प्रभावतीं जयदाम् ॥ १३६॥
नतपरिपालिनि वाणि त्रिजगदघध्वंसिनि श्रितानां नः ।
तव पादयुगं निगलं भवतु तमोराशिदुष्टहस्तिगणे ॥ १३७॥
कामादिदुर्ग्रहकृतानर्थनिरासाय तावकापाङ्गाः ।
वाणि जनयन्ति नतानां कैवल्य खप्रदानाय ॥ १३८॥
तव दर्शनं हि मातः परमं संस्कारमात्तपापानाम् ।
कल्याणसूक्तिकन्दलरसप्रदं मान्यते विबुधैः ॥ १३९॥
धातुर्वदनसरोजे श्रुतिसीमनि हृदि च भक्तानाम् ।
एकपदा द्विपदा वा राजति वाणी जगन्माता ॥ १४०॥
मणिमयकाञ्चीलसिता वीणापुस्तककरारविन्दा च ।
नमतां जाड्यविधूननधृतदीक्षा राजते वाणी ॥ १४१॥
कबलयतु तापमस्याः स्मरणं पादाब्जवन्दनं वाण्याः ।
धातुर्जिह्वाग्रतले नृत्यन्त्याः सारसूक्तिरसयन्त्याः ॥ १४२॥
पद्मजवदनविभूषा निगमशिखोत्तंसपीठिका वाणी ।
सकलविधशास्त्ररूपा भक्तानां सत्कवित्वदानप्रा ॥ १४३ ॥।
गतिजितमरालगमना मरालवाहा च वेधसो दाराः ।
शिशिरदयासारा सा नमतां सन्तापहारिणी सहसा ॥ १४४॥
स्तनभारसंनताङ्गी दरदलिताम्भोजलोचनान्तश्रीः ।
सविधतले विबुधवधूपरिचरणाद्यैश्च तुष्टचित्ता सा ॥ १४५॥
हरिणाङ्कवदनबिम्बा पृथुलनितम्बा कचात्तलोलम्बा ।
निजगतिजितकादम्बा साम्बा पदपद्मनम्रभक्तकदम्बा ॥ १४६॥
परिहसितनीलनीरजदेहश्रीः शारदा प्रथमा ।
स्फटिकमणिभरकान्तिः सरस्वती कीर्त्यते च विबुधगणैः ॥ १४७॥
नाथे दृढभक्तिमती सृष्ट्यादौ चित्स्वरूपा च ।
धात्रा समानभावा चैकासनपूण्डरीकमध्यस्था ॥ १४८॥
प्रीत्या सरसपुमर्थान् ददाति काले चिदादिसन्धात्री ।
सा मे दैवतमेषा सततनिषेव्या च कामदा भूयात् ॥ १४९॥
हरिचरणनलिनयुगले सदैकताना हि शारदा जननी ।
पद्मानीलादिसखी श्रुत्युद्याने विहाररसभरिता ॥ १५०॥
धातुः कुटुम्बिनीयं तन्यात् कल्याणसन्ततिं सततम् ।
या तारुण्यविभुषा समक्रमा त्रिपुरसुन्दर्या ॥ १५१॥
नानाक्षरादिमातृकगणेडिता शब्दरूपा च ।
नादब्रह्मविलासा वाणी सा मङ्गलानि नस्तन्यात् ॥ १५२॥
दृक्कोणवीक्षणकलानिगमप्राभवविधानदा नमताम् ।
विबुधानां हृदयाब्जं यस्या वासस्थली च निर्दिष्टम् ॥ १५३॥
मोहादिवनकुठारा या नित्यं सेव्यते त्रिदशसन्धैः ।
नित्यप्रसन्नरूपां शान्तां यामेव सेवते वेधाः ॥ १५४॥
नमतां ययैव खण्डीक्रियते सुवर्णदृष्टिपुषा ।
यद्वीक्षणेन पुरुषः ख्यातो नृपसदसि मान्यते प्रथमम् ॥ १५५॥
यस्यै श्रोत्रियवर्यैस्त्रिसन्ध्यमधार्दिकं क्रियते ।
सा मञ्जुनीतिरूपा वाणीरूपा च भण्यते निपुणैः ॥ १५६॥
सा मयि तन्यादीक्षां वीक्षावनदां सरस्वती देवी ।
सन्तानकुसुमजैत्रीं यामैच्छत् प्राप्तुमञ्जसा वेधाः ॥ १५७॥
मन्दस्मितमधुरास्यं कृपावलोकं निरस्तजाद्यतति ।
भूयाद् वाण्या रूपं पुरः कराम्भोजकलितवीणादि ॥ १५८॥
वाण्याः परं न जाने दैवतमन्यद् वने गिरौ च पथि ।
गगने वा संरक्षितनतजनतायाः कृपारसार्द्रायाः ॥ १५९॥
आस्येन्दोरवलोकनमम्बायाः पादपद्मसेवा च ।
सर्वश्रेयःप्राप्त्यै शास्त्रज्ञैः सुष्ठु निर्दिष्टा ॥ १६०॥
वाणी हि तापहन्त्री जगतां कारुण्यपूर्णनयनश्रीः ।
मन्दान् करोति विबुधान् द्रावयति शिलास्ततस्तु किं चित्रम् ॥ १६१॥
यस्मिन् कटाक्षपूरो न भवति स हि दीनवदनः सन् ।
प्रस्खलितवाग्भार्तो भिक्षामटतीह निन्दितो बहुशः ॥ १६२॥
वाण्याः कटाक्षपूरस्रजा त्वलङ्कृतनिगालो यः ।
स हि भवति राजमान्यः कान्ताधरमधुरवाग्विलासश्च ॥ १६३॥
कविताभाग्यविधात्री परिमलसङ्क्रान्तमधुपगणकेशा ।
मम नयनयोः कदा वा सा देवी कलितसंनिधानकला ॥ १६४॥
परचिद्विधानरूपा वाणी श्रुतिसीम्नि राजते परमा ।
मुनिजनमानसहंसी या विहरति सा शुभाय स्यात् ॥ १६५॥
जपमालिकया वाणीकरधृतया वीणया च कोशेन ।
अहमस्मि नाथवानिह किं वाशास्यं परं लोके ॥ १६६॥
कैवल्यानन्दसुखप्राप्त्यै तेजस्तु मन्महे किमपि ।
यद् वाञ्छितचिन्तामणिरिति वाणीति च भुवि ख्यातम् ॥ १६७॥
कविकुलसूक्तिश्रेणीश्रवणानन्दोल्लसद्वतंससुमा ।
सा देवी मम हृदये कृतसांनिध्या कृतत्राणा ॥ १६८॥
यस्या दृष्टिविदूराः कुमताः श्रुत्यर्थवञ्चकाः शप्ताः ।
क्रन्दन्ति दिगन्ततटे मोहाद्यैर्लुप्तनयनाश्च ॥ १६९॥
सत्परिषत्संमान्या श्रुतिजीवनदायिनी जगन्माता ।
चतुराननभाग्यकला कृतसांनिध्या हि राजते हृदये ॥ १७०॥
कृतसुकृतैः सन्दृश्या मन्दस्मितमधुरवदनपद्मश्रीः ।
मुनिनारदादिपरिषत्तत्त्वोपक्रमविचक्षणा वाणी ॥ १७१॥
कविवाग्वासन्तीनां वसन्तलक्ष्मीर्विधातृदयिता नः ।
परमां मुदं विधत्ते काले काले महाभूत्यै ॥ १७२॥
कवितारसपरिमलितं करोति वदनं नतानां या ।
स्तोतुं तां मे ह्यारात् सा देवी सुप्रसन्नास्तु ॥ १७३॥
यस्याः प्रसादभूम्ना नाकिगणाः सत्त्वसम्पन्नाः ।
ऐन्द्रीं श्रियमपि मान्यां पश्यन्ति क्षपितशत्रुभयपीडाम् ॥ १७४॥
मान्यं विधातृलोके तत्तेजो भाति सर्वसुरवन्द्यम् ।
ब्रह्माण्डमण्डलमिदं यद्रूपं यत्र चाक्षरगतिश्च ॥ १७५॥
जननि तरङ्गय नयने मयि दीने ते दयास्निग्धे ।
तेन वयं कृतार्था नातः परमस्तिः नः प्रार्थ्यम् ॥ १७६॥
वाणि विधातुः कान्ते स्तोतुं त्वामादरेण किं वाच्यम् ।
भासि त्वमेव परमं दैवतमित्येव जानामि ॥ १७७॥
कबलिततमोविलासं तेजस्तन्मन्महे महोदारम् ।
फलितसुमनोऽभिलाषं वाणीरूपं विपञ्चिकोल्लसितम् ॥ १७८॥
पद्मसनसुकृतकलापरिपाकोदयमपास्तनतदोषम् ।
सरसज्ञानकवित्वाद्यनन्तसुकृतं विराजते तेजः ॥ १७९॥
निजनाथवदनसिंहासनमारूढामुपास्महे वाणीम् ।
या कृत्रिमवाग्गुम्फैर्विरचितकेलिर्धिनोति विधिमाद्यम् ॥ १८०॥
सुजनानन्दकरी सा जनयन्ती सर्वसम्पदं धातुः ।
भक्तेषु तां नयन्तीमन्वहमहमाद्रिये गिरां देवीम् ॥ १८१॥
करुणाकटाक्षलहरी कामायास्तु प्रकामकृतरक्षा ।
वाण्या विधातृमान्या सत्सुखदाने दिशि ख्याता ॥ १८२॥
विसरो महोत्सवानां विरिञ्चिनयनावलेरियं माता ।
प्रियकार्यसिद्धिदात्री जगतीरक्षाधुरन्धरा जयति ॥ १८३॥
विबुधाभिगम्यरूपा हंसावलिसेविता गिरां देवी ।
गङ्गेव कनति काले परिकम्पितशिवजटाकोटिः ॥ १८४॥
नौकां भवाम्बुराशेरज्ञानध्वान्तचन्द्रिकां वाणीम् ।
कलये मनसि सदाहं श्रुतिपञ्जरशारिकां देवीम् ॥ १८५॥
भवतापारण्यतले जह्नुसुता शारदा देवी ।
ज्ञानानन्दमयी नः सम्पत्सिद्ध्यै प्रतिक्षणं जयतु ॥ १८६॥
मत्तगजमान्यगमना मधुरालापा च मान्यचरिता सा ।
मन्दस्मेरमुखाब्जा वाणी मम हृदयसारसे लसतु ॥ १८७॥
रक्षणचणौ च वाण्याः पादौ वन्दे मनोज्ञमणिनादौ ।
यत्सेवनेन धन्याः पुरुहूताद्या दिशां नाथाः ॥ १८८॥
धातुर्धैर्यकृपाणी वाणी सुरवृक्षकुसुममृदुवेणी ।
शुकवाणी नुतवाणी कविकुलमोदाय जयति मृदुवाणी ॥ १८९॥
कल्याणैकनिकेतनमस्या रूपं सदा स्फुरतु चित्ते ।
मानसकालुष्यहरं मधुमथनशिवादिबहुमतोत्कर्षम् ॥ १९०॥
मुनिजनमानसरत्नं चिरत्नमेतद्विधातृसुकृतकला ।
विनतजनलोचनश्रीकर्पूरकला परा जयति ॥ १९१॥
धृतसुममधुपक्रीडास्थानायितकेशभारायै ।
नम उक्तिरस्तु मात्रे वाग्जितपीयूषधारायै ॥ १९२॥
बालकुरङ्गविलोचनधाटीरक्षितसुरादिमनुजानाम् ।
नयनयुगासेव्यं तद्भातीह धरातले तेजः ॥ १९३॥
कुशलविधये तदस्तु श्रुतिपाठरतादृतात्मबहुकेलिः ।
कबलितपदनतदैन्यं तरुणाम्बुजलोचनं तेजः ॥ १९४॥
बालमरालीगत्यै सुरगिरिकन्यादिमहितकलगीत्यै ।
विरचितनानानीत्यै चेतो मे स्पृहयते बहुलकीर्त्यै ॥ १९५॥
विनमदमरेशसुदतीकचसुममकरन्दधारया स्निग्धम् ।
तव पादपद्ममेतत् कदा नु मम मूर्ध्नि भूषणं जननि ॥ १९६॥
कमलजपरतन्त्रं तद्गततन्द्रं वस्तु निस्तुलमुपासे ।
तेनैवाहं धन्यो मद्वंश्या निरसितात्मतापभराः ॥ १९७॥
ज्ञानामृतसन्धात्री भवाब्धिसन्तरणपोत्रनामादिः ।
वाणी वाचां लहरीमवन्ध्ययन्ती सुरादिनुतचरिता ॥ १९८॥
कारुण्यपूर्णमेतद् वाणीरूपं सदा कलये ।
यद्भजनाद् देवानामपि संविद् भाति कार्यकालेषु ॥ १९९॥
धीपद्मपीठमास्ते सा वाणी काङ्क्षितानि कलयन्ती ।
या घनकृपास्वरूपा सङ्कीर्त्या सर्वदेवनुता ॥ २००॥
तव पादपद्मविसृमरकान्तिझरीं मनसि कलयंस्तु ।
निरसितनरकादिभयो विराजते नाकिसदसि सुरमान्यः ॥ २०१॥
कुचयुगलनम्रगात्रं पवित्रमेतद् भजे तेजः ।
धातुरपि सर्वदेवैर्यन्निर्दिष्टं हु भद्राय ॥ २०२॥
कृतनतपदवाग्धाटी चेटीभूतामरेशमहिषी नः ।
कटिकृतमनोज्ञशाटी पाटीररसार्द्रनैजतनुकोटी ॥ २०३॥
पद्मभवपुण्यकोटी हर्षितकविवृन्दसूक्तिरसधाटी ।
मुखलसितसरसवाटी विलसतु मम मानसे कृपाकोटी ॥ २०४॥
ज्ञानपराक्रमकलिका दिशि दिशि किन्नरसुगीतनिजयशसः ।
धन्या भान्ति हि मनुजाः यद्वीक्षालवविशेषतः काले ॥ २०५॥
सुरजनपालनदक्षा प्रशान्तवीक्षा निरस्तरिपुपक्षा ।
मोक्षार्थिभिः श्रिता सा लाक्षारसलसितपादभाग् भाति ॥ २०६॥
कुङ्कुमभररुचिराङ्गी भाति कृशाङ्गी गिरां देवी ।
धातुरपि ज्ञानप्रदमस्या रूपं वदन्ति विबुधेशाः ॥ २०७॥
वाणि नतिमम्ब नित्यं करवाणि हि चित्सुखावाप्त्यै ।
तादृक्त्वदीयकरुणावीक्षणतो गीष्पतिश्च सुरमान्यः ॥ २०८॥
कल्यामि नतिमनन्तां काले काले शुभप्राप्त्यै ।
धातुः सुकृतोल्लासं करधृतवीणादिकं च यद्रूपम् ॥ २०९॥
कमलासनदयिता सा लसतु पुरोऽस्माकमादरकृतश्रीः ।
यत्प्रणमनाज्जनानां कवितोन्मेषः सदीडितो भवति ॥ २१०॥
परसंविदात्मिका सा महिषी धातुः कलावती वाणी ।
शिशिरीकरोति तप्तान् करुणारसदिग्धनेत्रपाल्या नः ॥ २११॥
धातृमनोरथपात्रं सन्तप्तस्वर्णकाम्यनिजगात्रम् ।
आश्रितकमलजगोत्रं रक्षितनतबाहुच्छात्रम् ॥ २१२॥
कविकुलजिह्वालोलं पितामहादृतमनोज्ञनिजलीलम् ।
निरसितनतदुष्कालं वन्दे तेजः सदालिनुतशीलम् ॥ २१३॥
मन्दानामपि मञ्जुलकवित्वरसदायिनी जननी ।
कापि करुणामयी सा लसतु पुरस्तात् सदास्माकम् ॥ २१४॥
निस्तुलपदसम्प्राप्त्यै भूयो भूयो नमांसि ते वाणि ।
दीपकलामयि चान्तःस्मरणं धातुः कुटुम्बिन्यै ॥ २१५॥
मायानिरासकामो वन्दे वाण्याः पदाम्भोजम् ।
सिद्धमनोरथशतका यद्भजनेनार्थिनः काले ॥ २१६॥
सततं बद्धाञ्जलिपुटुमुपास्महे तच्छुभप्रदं तेजः ।
यत्कमलजनयनानां प्रमोदपीयूषलहरिकामोदम् ॥ २१७॥
दिवि वा भुवि दिक्षु जले वह्नौ वा सर्वतो वाणि ।
जन्तूनां किल रक्षा त्वधीना कीर्त्यते विबुधैः ॥ २१८॥
भारति भवतापार्तान् पाहि कटाक्षाङ्कुरैः शीतैः ।
परमनन्दविधातृन् यानेव स्तौति पद्मवासोऽपि ॥ २१९॥
कुलदैवतमस्माकं तत्तेजः कुटिलकुन्तलं किमपि ।
करधृतपुस्तकवीणं कलये कामागमोदयं धातुः ॥ २२०॥
परमानन्दधनं तद्धातुरपि ब्रह्मतत्त्वरसदायि ।
आब्रह्मकीटनृत्यत्स्ववैभवं जयति शारदारूपम् ॥ २२१॥
विबुधजनमोदजननी जननी नः सा विधेः पत्नी ।
मृदुसञ्चारविलासैः शुभङ्करी भवतु सन्ततं काले ॥ २२२॥
सरसमनोज्ञविलासैः स्ववशे कृत्वा मनो विधेर्वाणी ।
सृष्ट्यादौ शुभलेखाकरी नृणां मस्तके माता ॥ २२३॥
प्रकृतिमृदुलं पदाब्जं वाणीदेव्या मदीयचित्ततटे ।
कामादिसूचिनिचिते कथं स्थितिं प्राप्नुयात् काले ॥ २२४॥
निखिलचराचररक्षां वितन्वती पद्मजप्रिया देवी ।
मम कुलदैवतमेषा जयति सदाराध्यमान्यपदकमला ॥ २२५॥
कुशलसमृद्ध्यै भूयादम्बा सा शारदा देवी ।
जनिरक्षणादिलीलाविहारभाङ्निगमसौधदीपकला ॥ २२६॥
वाचालयति कटाक्षैर्जडं शिलामल्पजन्तुं वा ।
या वाणी सा शरणं भवे भवे प्रार्थ्ये श्रियःप्राप्त्यै ॥ २२७॥
यदि हि प्रसादभूमा वाण्यास्तत्रैव सा हरेः कान्ता ।
परिलसित ( ... incomplete ... ) नित्यवासरता ॥ २२८॥
सनकसनन्दनवन्द्ये कान्ते परमेष्टिनः श्रियःप्राप्त्यै ।
वाणि त्वां नौमि सदा भव प्रसन्ना विप`न्चिलसितकरे ॥ २२९॥
वाणि विपञ्चीकलरवरसिके गन्धर्वयोषिदभिवन्द्ये ।
तव चरणं मम शरणं भववारिधिसुतेमम्ब कलयामि ॥ २३०॥
वाणि कदाहं लप्स्ये चरणाम्भोजं त्वदीयमिदमारात् ।
निजमणिनूपुरनादस्पृहणीयवचःपदं कलितभक्तेः ॥ २३१॥
श्रुतिपूतमुखमनोहरलावण्यकुसुममृदुशरीरेयम् ।
निजकरुणापाङ्गसुधापूरणकृतवैभवा भाति ॥ २३२॥
परिसरनतविबुधालीकिरीटमणिकान्तिवल्लरीविसरैः ।
कृतनीराजनविधि ते मम तु शिरोभूषणं हि पदयुगलम् ॥ २३३॥
प्रेमवती विधिभवने हंसगतिर्हंसयानकृतचारा ।
वाचामकृत्रिमानां स्थैर्यविधात्री महेशानी ॥ २३४॥
आनन्दरूपकोटीमम्बां तां सन्ततं कलये ।
संविद्रूपा या किल विधातृगेहे श्रुतिश्रियं धत्ते ॥ २३५॥
कमलजनेत्रमहोत्सवतारुण्यश्रीर्निरस्तनतशत्रुः ।
ललितलिकुचाभकुचभरयुगला दृग्विजितहरिणसन्दोहा ॥ २३६॥
कारुण्यपूर्णनयना कलिकल्मषनाशिनी च सा वाणी ।
मुखजितशारदकमला वक्त्राम्भोजे सदा स्फुरतु माता ॥ २३७॥
कमलसुषमानिवासस्थानकटाक्षं चिराय कृतरक्षम् ।
रक्षोगणभीतिकरं तेजो भाति प्रकाममिह मनसि ॥ २३८॥
कमलजतपःफलं तन्मुनिजनहृदयाब्जनित्यकृतनृत्तम् ।
करुणालोलापाङ्गं तत्तेजो भातु मम मुखाम्भोजे ॥ २३९॥
भाग्यं विधिनयनानां संसृतितापज्वरादितप्तानाम् ।
भेषजमेतद्रूपं कलाग्रहं मन्यते देव्याः ॥ २४०॥
जननि कदा वा नेष्याम्यहमारादर्चितत्वदीयपदः ।
निमिषमिव हन्त दिवसान् दृष्ट्वा त्वामादरेण कल्याणीम् ॥ २४१॥
मञ्जुलकवितासन्ततिबीजाङ्कुरदायिसारसालोका ।
जननि तवापाङ्गश्रीर्जयति जगत्त्राणकलितदीक्षेयम् ॥ २४२॥
अम्ब तवापाङ्गश्रीरपाङ्गकेलीशतानि जनयन्ती ।
धातुर्हृदये जयति व्रीडामदमोदकामसारकरी ॥ २४३॥
सर्वजगन्नुतविभवे सन्ततमपि वाञ्छितप्रदे मातः ।
अधुना त्वमेव शरणं तेनाहं प्राप्तजन्मसाफल्यः ॥ २४४॥
शान्तिरससर्वशेवधिमम्बां सेवे मनोरथावाप्त्यै ।
यामाराध्य सुरेशाः स्वपदं प्रापुर्हि तद्रक्षम् ॥ २४५॥
कुलजा भार्या कीर्तिर्दानं पुत्रादयो ये च ।
सिध्यन्ति ते हि सर्वे यस्मै वाणी प्रसन्ना सा ॥ २४६॥
का क्षतिरम्ब कटाक्षे न्यस्ते सति मयि विरिञ्चिवरपत्नि ।
गङ्गाशुनकन्यायान्महती मम वृद्धिरीरिता निपुणैः ॥ २४७॥
अविरलदयार्द्रलोचनसेवनया धूततापा हि ।
प्रतिकल्पं सुरसङ्घास्त्वामभजन् नुतिनतिप्रमुखैः ॥ २४८॥
दीनानां च कवीनां वाणि त्वं कामधेनुरसि मातः ।
सिद्धिस्तेषामतुला सुरमान्या तेन सङ्कलिता ॥ २४९॥
सकलजगतां हि जननीं वाणि त्वां सन्ततमुपासे ।
श्रुतिसुदतीभूषामणिमखिलार्थप्राप्त्यै लोके ॥ २५०॥
धातुः कुटुम्बिनी त्वं सन्मङ्गलदायिनी स्वमाहात्म्यात् ।
श्वश्रूश्वशुरमुखादिप्रीणनचतुरा च भासि निगमकला ॥ २५१॥
मुखविजितचन्द्रमण्डलमिदमम्भोरुहविलोचनं तेजः ।
ध्याने जपे च सुदृशां चकास्ति हृदये कवीश्वराणां च ॥ २५२॥
यस्मै प्रसन्नवदना सा वाणी लोकमाता हि ।
तस्य सहसा सहस्रं लाभः स्याद् बान्धवाः सुखिनः ॥ २५३॥
तापहररसविवर्षणधृतकुतुका कापि नीलनलिनरुचिः ।
कादम्बिनी पुरस्तादास्तां नः सन्ततं जननी ॥ २५४॥
पद्माक्षनाभिपद्मजदयिते लोकाम्ब शारदेति सदा ।
तव नामानि जपन् सन् त्वद्दासोऽहं तु मुक्तये सिद्धः ॥ २५५॥
अम्बाप्रसादभूम्ना नरो हि भुङ्क्ते सुखानि विविधानि ।
स्मरे विजयः कविताधनलक्ष्म्यादेर्विलासलीलादिः ॥ २५६॥
तीरं संसृतिजलधेः पूरं कमलजविलोचनप्रीतेः ।
सारं निगमान्तानां दूरं दुर्जनततेर्हि तत्तेजः ॥ २५७॥
अपि दासकुले जातः कटाक्षभूम्ना विधातृमुखपत्न्याः ।
ज्ञानी भववाराशिं तरति च राज्यश्रियं भुङ्क्ते ॥ २५८॥
सत्कृतदेशिकपादाम्बुजयुगलोऽहं नमामि वाणि त्वाम् ।
त्वं तु गुरुमूर्तिरुक्ता काले काले च काङ्क्षितविधात्री ॥ २५९॥
ज्ञानानन्दमुखादीनपवर्गं वा ददासि भक्तेभ्यः ।
अत एवानन्यगतिस्त्वां विधिपत्नीं प्रपद्येऽहम् ॥ २६०॥
त्वयि विन्यस्तभराणां न हि चिन्ता जायते नृणां कापि ।
परमानन्दादिकलास्फूर्तिर्दिविषद्गणेन संमान्या ॥ २६१॥
सुमशरसाम्राज्यकलामङ्गलविधिरेखिका वाणी ।
धातुरपि चित्तवृत्तिस्थैर्यं त्वन्यादृशं कुरुते ॥ २६२॥
सा धेनुश्चिन्तामणिरपि वृक्षः सम्पदां प्रदायिन्यः ।
अम्ब त्वमेव काले भसि ज्ञानप्रदा व्यपोह्य तमः ॥ २६३॥
मनसो नैर्मल्यप्रदमस्याः सेवे कटाक्षमहमारात् ।
यः कुरुते जनतां तां हतमायां मधुरामयोध्यां च ॥ २६४॥
शरदिव हंसकुलेड्या ज्योत्स्नेव जनार्तिहारिणी वाण्याः ।
जयति हि कटाक्षरेखा दीपकलेव प्रकामहततिमिरा ॥ २६५॥
पङ्कजभववदनमणिं परविद्यादेवतां वाणीम् ।
नित्यं यजतां जपतां न हि तुल्योऽस्मिन् क्षमातले कश्चित् ॥ २६६॥
वाणी निजवाणीभी रचयति नुतिमात्तवीणया काले ।
धातुः प्रसादहेतोः पतिव्रतालक्षणैरन्यैः ॥ २६७॥
आनन्दयति विलसैरम्बा पद्मासनं निजं देवम् ।
तेनैव तुष्टहृदयः शुभाक्षराण्यादराल्लिखति मौलौ ॥ २६८॥
मम मानसदुर्मदगजमपारतापाटवीषु धावन्तम् ।
विरचय्य मुदितचित्तं कुरु वाणि त्वत्पदाब्जकृतहस्तम् ॥ २६९॥
कमलासनधैर्यमहीधरकुलिशस्ते कटाक्ष एवायम् ।
कविकुलमयूरकादम्बिनीविलासो मुदेऽस्तु सततं नः ॥ २७०॥
गुरुवरदनाम्भोजे नृत्यन्ती शारदा देवी ।
मधुरतरश्लोकनिभा मणिनूपुरनिनदसन्ततिर्भ्ति ॥ २७१॥
को वा न श्रयति बुधः श्रेयोऽर्थी तामिमां वाणीम् ।
यां पङ्कजाक्षनाभिजसधर्मिणीमर्चयन्ति सुरनाथाः ॥ २७२॥
मुषितपयोजमृदिम्ना चरणतलेनात्र मानसे वाणी ।
परिहरतु पापराशिं सुरौघसंमानितेन काले मे ॥ २७३॥
याथार्थ्यज्ञानकलाप्राप्त्यै त्वां शारदां वन्दे ।
सेवाफलं प्रयच्छ प्रसीद परमेशि वल्लभे धातुः ॥ २७४॥
निगमान्तसारमर्थं बोधयसि त्वं गुरून् प्रकल्प्य भुवि ।
सैषा मे ज्ञानघना वाणी नित्यं प्रसन्नासि ॥ २७५॥
मन्दारकुसुममदहरमन्दस्मितमधुरवदनपङ्करुहा ।
हृद्यतमनित्ययौवनमण्डितगात्री विराजते वाणी ॥ २७६॥
सौभाग्यसूचकाभी रेखाभिर्भूषितं सौरैर्वन्द्यम् ।
अम्बाचरणपयोजं वतंसयन् प्राप्तसंमोदः ॥ २७७॥
द्विजगणपूज्यं नित्यं निरस्तजाड्यं त्वदीयपादयुगम् ।
क्षणमपि वा सांनिध्यं भजतु मदीये हृदि स्वैरम् ॥ २७८॥
नतदेवराजमकुटीमणिघृणिपरिचुम्बिताङ्घ्रिकमला नः ।
कमलासनस्य दयिता तन्यादन्यादृशी श्रियं भजताम् ॥ २७९॥
वाणी श्रितकादम्बा दम्भादिरिपून् निरस्य नः काले ।
क्षेममवन्यां तन्यात् पदे परे देवसङ्घपरिसेव्ये ॥ २८०॥
पङ्कजभवसाम्राज्यस्थिरलक्ष्मीश्चपाण्डरतनुश्रीः ।
नतमानवसुकृतकलापरिपाटी भाति सकलगुणपेटी ॥ २८१॥
मुखविजितचन्द्रबिम्बा साम्बा कादम्बसेव्यपदकमला ।
कमलासनगृहलक्ष्मीर्लक्ष्मीं पुष्णातु शारदा देवी ॥ २८२॥
मुरमथनस्येव रमा शम्भोरिव सकलभूधरेन्द्रसुता ।
वाणि विधातुः सदनेऽनुरूपदाम्पत्यसम्पदा भासि ॥ २८३॥
वाणि तव देहकान्त्या कटाक्षलहरी तु संयुता काले ।
धत्ते कामपि शोभां सुरस्रवन्त्येव सङ्गता यमुना ॥ २८४॥
मधुरासेचनदृष्ट्या मां पायादापदो मुहुर्वाणी ।
आश्रिततापविभेत्रीत्येवं यामामनन्ति सूरिवराः ॥ २८५॥
अज्ञातकोपपूरा यस्या दृष्टिः कृतादरा भजताम् ।
सैषा विहसितपौरन्दरलक्ष्मीं सम्पदं दद्यात् ॥ २८६॥
बालकुरङ्गविलोचनमीषत्स्मितमधुरमाननं वाण्याः ।
मणिमयताटङ्कमणीविलासि भूयान्मुदेऽस्माकम् ॥ २८७॥
मुनिजनमानसहंसीं श्रुतिततिपञ्जरशुकीं महादेवीम् ।
नौमि स्नुषां रमायाः माहेश्वरमहितसत्पदप्राप्त्यै ॥ २८८॥
धातुः सौधाङ्गणकृतचङ्क्रमणां शारदां नौमि ।
मत्तमतङ्गजगमनां परिपन्थिजयाय सुकृतिसन्दृश्याम् ॥ २८९॥
वागीशमुखा देवा यस्याः प्रसदनबलद्धि विजयन्ते ।
परिपालितभक्तगणा यद्ध्यानोल्लसदपारपुलकान्ताः ॥ २९०॥
नैसर्गिकवाक्ष्रेणीकेलिवनममलभूषणं धातुः ।
वदनानामियमम्बा जयतु चिरं कामवर्षिणी भजताम् ॥ २९१॥
कलयामि हृदयमेतत् पादाब्जे शारदादेव्याः ।
प्राप्तारिषट्कविजयं तत्त्वधनं कलितशारदाध्यानम् ॥ २९२॥
पादारविन्दनमनप्रभावपरिकलितदेवसारूप्याः ।
परमानन्दनिमग्नाः सुधियो भान्ति क्षमावलये ॥ २९३॥
ललितविधातृरूपं पालितलोकत्रयं च तत् तेजः ।
सकलागमशिखरकलापरतत्त्वं शारदारूपम् ॥ २९४॥
ध्यानैर्योगैश्च जपैर्यत् सेव्यं परममादिष्टम् ।
तन्नश्चकास्तु हृदये विश्वजनीनं हि भक्तानाम् ॥ २९५॥
भागीरथीव वाणी तव नुतिरूपा विराजते परमा ।
इह मातर्यद्भजनं सर्वेषां सर्वसम्पदां हेतुः ॥ २९६॥
सन्ततमधुरालापैर्लालितविधिवैभवैरमेयकलैः ।
श्रेयःप्रदानदीक्षितकटाक्षपातैर्महातत्त्वैः ॥ २९७॥
खेलल्लोलम्बकचैः कुचभरनम्रैः पुरन्ध्रिगुणपूर्णैः ।
आश्रितसंवित्पीठैरमरेशवधूकरादृतच्छत्रैः ॥ २९८॥
वीणापुस्तकहस्तैर्विधिभाग्यैरस्तु मम तु सारूप्यम् ।
संविद्धनैश्च वाणीरूपैरेतैर्दयासारैः ॥ २९९॥
मातः कथं नु वर्ण्यस्तव महिमा वाणि निगमचयवेद्यः ।
इति निश्चित्य पदाब्जं तव वन्दे मोक्षकामोऽहम् ॥ ३००॥
त्वामम्ब बालिशोऽहं त्वचमत्कारैर्गिरां गुम्भैः ।
अयथायथक्रमं हि स्तुवन्नपि प्राप्तजन्मसाफल्यः ॥ ३०१॥
इति श्रीशारदात्रिशती समाप्ता
Encoded and proofread by Sridhar Seshagiri seshagir at engineering.sdsu.edu