श्रीशारदाष्टकम्
व्याप्यवाङ्मयमिदं जगत्स्थिता
व्यातनोतु मम देवताश्रियम् ।
कापिहस्तपरिवादिनीगळत्
काकळीलयकलाकुतूहला ॥ १॥
सात्विकीगुणविलासचित्रिता
यात्मनः परमपावनीकला ।
सा शिवानि विदधातु शारदा
शारदेन्दुकिरणोज्ज्वलाकृतिः ॥ २॥
देवि! नैव मतभेदनिर्गमान्
दुर्गमाञ्जिगमिषाम्यहं पथः ।
त्वां परां गतिमुपैमि कातरः
शारदे श्रुतिविशारदार्चिते ॥ ३॥
अम्ब योगिमृगितां पराभिधां
त्वां विभिन्नपरिणामसुन्दरीम् ।
पुष्कलार्त्थविभवामुपास्महे
स्फोटदर्शितविचित्रविभ्रमाम् ॥ ४॥
लुप्तरागसरणीस्सुनिश्चिता
लोकसङ्ग्रहविधौ पटीयसी ।
काचनाम्ब! धिषणाभवन्मयी
कर्मकौशलजुषा निषेव्यते ॥ ५॥
अव्यपेक्षसुभगा प्रगीयसे
त्वं मयाम्ब! धुतभेद वेदना ।
सा स्वयं रसमयी रतिः परा
प्रत्यगात्मपरमात्मगोचरा ॥ ६॥
रुद्धचित्तमरुतां सदाम्ब मे
रोचसे स्थितिरहो महोदया ।
पूर्णबोधपरिबाधितभ्रमा
पौरुषी पृथगलिङ्गसाक्षिणी ॥ ७॥
अस्तिभातिसुखमात्रलक्षणे
यन्मरौ जगदिदं मरीचिका ।
सा सदा हृदि मयाम्ब! निष्कला
संविदौपनिषदं निधीयसे ॥ ८॥।
जय नारायणगुरुप्रिये शिवगिरीश्वरी शारदे ।
चतुरास्याक्षिशरच्चन्द्रमरीचिके ॥
इति श्री महाकवि कुमारनाशान् कृत श्रीशारदाष्टकं सम्पूर्णम् ।