॥ श्रीशारदामाहात्म्यम् ॥

ॐ अथ शारदामाहात्म्यम् ॥ भैरव्युवाच । वद सत्यं महादेव शारदावनमुत्तमम् । शाण्डिल्यो यत्र वै गत्वा सर्वान्कामानवाप्तवान् ॥ १॥ अनादिनिधना देवी यथा भूलोकमागमत् । शारदा नाम सा शक्तिस्त्रिधा रूपमधारयत् ॥ २॥ तस्या माहात्म्यमीशान वद लोकहितेप्सया । का च देवी परा यासौ शारदानामधारिणी ॥ ३॥ भैरव उवाच । शृणु वक्ष्ये महादेवि शारदावनमुत्तमम् । यस्य दर्शनमात्रेण परां सिद्धिमवाप्नुयात् ॥ ४॥ मातङ्गकन्यासङ्गाच्च सम्भूतस्तत्सरूपकः । शाण्डिल्यो नाम तनुजो महर्षेर्भावितात्मनः ॥ ५॥ श्यामाङ्गः स तमोरूपः पित्राज्ञप्तश्चचार ह । घोरं तपो महादेवि महादेवाद्रिसंनिधौ ॥ ६॥ जगत्त्राणादिकृच्छक्तिजपध्यानपरायणः । निराहारो यतात्मा स दध्यौ देवीं सनातनीम् ॥ ७॥ एवं तु ध्यायतस्तस्य शाण्डिल्यस्य महात्मनः । प्रादुर्बभूव तु महच्छ्यामलं तेज उत्तमम् ॥ ८॥ अद्भुतं तन्मुनिर्दृष्ट्वा विस्मितो न शशाक ह । किञ्चिद्वक्तुं चेष्टितुं वा स्थाणुभूतो महेश्वरि ॥ ९॥ क्षणेनान्तर्दधे तत्तु तेजः श्यामलमुत्तमम् । मुनिः स विस्मितो भूयः प्रेक्ष्यान्तर्धानमागतम् ॥ १०॥ सस्मार पितरं तत्र शाण्डिल्यो वन उत्तमे । तेनापि प्रेषितस्तत्र नारदो मुनिसत्तमः ॥ ११॥ आगत्य नारदः प्राह शाण्डिल्यं मुनिसत्तमम् । ध्यायस्व भूयो विप्राग्र्य येन दर्शनमाप्स्यसि ॥ १२॥ श्यामलां श्यामलाङ्गीं तां शक्तिं शक्तिमतोऽनघाम् । दृष्ट्वा तु तामघं सर्वं नाशमायाति तत्क्षणात् ॥ १३॥ इत्युक्त्वान्तर्दधे तत्र नारदो मुनिसंनिधौ । श्रुत्वा देवर्षिवचनं पुनर्दध्यौ सुरेश्वरि ॥ १४॥ शतवर्षं ध्यानपरः श्यामाङ्गीं दृष्टवान्मुनिः । नुत्वा स्तुत्वा च विधिना श्यामाङ्गीं तां सुरेश्वरि ॥ १५॥ सोवाच तं महाभाग वरं वरय सुव्रत । श्रुत्वा तु तद्वचः सौम्यं वरदा चेन्महेश्वरि ॥ १६॥ ममाङ्गात् सकलं पापं विलयं यातु तत्क्षणात् । इति श्रुत्वा वचस्तस्य शाण्डिल्यस्य महात्मनः ॥ १७॥ प्रोवाच श्यामला देवी पुत्र सर्वमवाप्स्यसि । इति गच्छ महाराष्ट्रं श्यामलं नाम नामतः ॥ १८॥ तत्र द्रक्ष्यसि तां देवीं शारदां त्रिविधात्मिकाम् । ततः प्राप्स्यसि स्वं रूपं ब्राह्ममेव न संशयः ॥ १९॥ इत्युक्त्वा शाण्डिल्यमुनिं देवी चान्तर्दधे तदा । स्मृत्वा वचो महादेव्याः श्यामलाया मुनीश्वरः ॥ २०॥ प्रतस्थे श्यामलं नाम विषयं सार्वकामिकम् । तत्र गत्वा मुनिर्ध्यानरतो घोषं समृद्धिदम् ॥ २१॥ घोषे ध्यात्वा महादेवीं ददर्शाग्रस्थितां सतीम् । स्तुता तत्र महेशानी अग्र एवादिशन्मुनिम् ॥ २२॥ इतोऽदूरे मुनिश्रेष्ठ शारदाया वनं महत् । तत्र प्रविष्टस्य मुनेस्तमो नश्यति तत्क्षणात् ॥ २३॥ तमोनाशे च स्वामेव प्रकृतिं प्राप्स्यसि ध्रुवम् । इत्युक्त्वान्तर्दधे देवी हयशीर्षाश्रमे मुनिः ॥ २४॥ ततो वनं समासाद्य कृष्णगङ्गां समाश्रयत् । दृष्ट्वा स्पृष्ट्वा च विधिवच्श्यामां गङ्गां महामुनिः ॥ २५॥ सुवर्णार्धाङ्गके गत्वा परं तत्र विसिस्मिये । सौवर्णार्धाङ्गस्तद्वीक्ष्य ययौ भूयो महेश्वरि ॥ २६॥ तत्र वै शाण्डिल्यमुनिः सुवर्णार्धाङ्ग ईक्षितः । स देशः प्रथितोऽद्यापि सुर्वर्णार्धाङ्गसंज्ञया ॥ २७॥ सुवर्णार्धाङ्गके देशे स्नानदानजपार्चनैः । पुण्यं प्राप्नोति मनुजो वेदपारायणे प्रिये ॥ २८॥ तस्मात्सर्वप्रयत्नेन सुवर्णार्धाङ्गके कलौ । स्नानं तत्र विशेषेण ब्रह्महत्यां व्यपोहति ॥ २९॥ महापातकयुक्तो वा युक्तो वाप्युपपातकैः । स्नात्वा श्रीकृष्णगङ्गायां मुच्येज्जन्मशतोद्भवैः ॥ ३०। ततस्तु गिरिमारुह्य मुनिः परमकारुणः । प्रतस्थे दर्शनाकाङ्क्षी देव्याः प्रापद्धि नाटकम् ॥ ३१॥ ददर्श नाटकं तत्र देवीनां विस्मितो मुनिः । नमस्कृत्य च देवीनां गणं रङ्गमुपेयिवान् ॥ ३२॥ देव्यस्तु दृष्ट्वा तत्रैव सुर्वर्णार्धाङ्गकं मुनिम् । परस्परमथोचुस्ताः सुवर्णार्धाङ्गको मुनिः ॥ ३३॥ सर्वाङ्गसुन्दरो भूत्वा गच्छेदिति न संशयः । तथेत्युक्त्वा महेशानि देवीनां गण उत्तमः ॥ ३४॥ नाट्यं कृत्वा तेन सह ततोऽन्तर्धानमागतः ॥ तत्र देवीगणं नाट्यपरं दृष्ट्वा स वै मुनिः ॥ ३५॥ तन्नालं प्रकटीभूतं रङ्गवाट्यां महेश्वरि । दृष्ट्वा देवीवनं तत्र रङ्गवाट्यभिधं परम् ॥ ३६॥ मुच्यते घोरपापौघैर्जन्मजन्मान्तरोद्भवैः । ततो दृष्ट्वाद्भुतं दिव्यं रङ्गवाटाभिधं वनम् ॥ ३७॥ गन्धर्वनगराकारं प्रतस्थे विस्मितो मुनिः । ततोऽग्रे तस्य देवेशि शाण्डिल्यस्य महामुनेः ॥ ३८॥ गोस्तम्भो ह्यभवत्तत्र रङ्गदर्शनविस्मितः । अनेलमूको ह्यभवद्यत्र वै विस्मितो मुनिः ॥ ३९॥ तद्वनं प्रथितं लोके गोस्तम्भनसमाख्यया । गोस्तम्भनवनं दृष्ट्वा स्नात्वा दत्त्वा यथाविधि ॥ ४०॥ मुच्यते घोरहत्याभिरिति सत्येन ते शपे । ततो ह्यनेलमूकः स मुनिः परमविस्मितः ॥ ४१॥ प्राप्य तेजवनं नाम गङ्गातीरे ददर्श सः । मुनिं गौतममासीनं गत्वा नत्वा च भूरिशः ॥ ४२॥ अनेलमूकं शाण्डिल्यमपृच्छत्कृपया मुनिः । दृष्टं किमद्भुतं ब्रह्मन् तत्र दिव्ये महावने ॥ ४३॥ शक्तिप्रसादात् प्राप्नोषि वरमेतन्न संशयः । तमोभूतस्तमोरूपस्तामसस्तामसोद्भवः ॥ ४४॥ सुवर्णाङ्गो भवान्यस्मात् संपन्नो दर्शनेन यः । स एवानेलमूकोऽसि विस्मयाद्द्विजसत्तम ॥ ४५॥ स्नानाच्च परमं तेजः स्थानं प्राप्स्यसि चोत्तमम् । श्रुत्वा तस्य वचो दिव्यं स्नात्वा पुण्ये च वारिणि ॥ ४६॥ गोस्तम्भान्मुक्तिमासाद्य तेजः परमवाप्तवान् । तत्तेजः परमं दृष्ट्वा मुनिः शाण्डिल्यनामकः ॥ ४७॥ गौतमं प्रत्युवाचैनं तेजस्वी परमादरात् । मुने कोऽयं प्रभावोऽस्ति क्षेत्रे यस्य प्रभावतः ॥ ४८॥ यस्य दर्शनतो जातं मम तेजः परं मुने । श्रुत्वा मुनेर्गौतमोऽपि वचस्तत्परमं प्रिये ॥ ४९॥ प्रत्युवाच मुनिं तत्र किमाश्चर्येण वै द्विज । इति श्रुत्वा प्रस्थितश्च भूयोऽग्रे सुरसुन्दरि ॥ ५०॥ यत्र मुक्तो महेशानि गोस्तम्भात्स मुनिः परः । तेजः परमकं प्राप स देशः पावनः स्मृतः ॥ ५१॥ तत्तत्तेजवनं नाम क्षेत्रं परमपावनम् । प्रयत्नेन तु तत्क्षेत्रे स्नातव्यममरेश्वरि ॥ ५२॥ मुच्यते घोरहत्याभिः स्नानध्यानजपार्चनैः । महापातकयुक्तो वा युक्तो वाप्युपपातकैः ॥ ५३॥ उत्तेजने महाक्षेत्रे मुच्यते घोरसङ्कटात् । उत्तेजनसमं क्षेत्रं दिवि भुव्यन्तरिक्षके ॥ ५४॥ घोरपापहरं दिव्यं न भूतं न भविष्यति । ततो गिरिं समारुह्य शाण्डिल्यः प्रस्थितो मुनिः ॥ ५५॥ दृष्ट्वाग्रे गणपं दिव्यं विघ्नकर्तारमीश्वरम् । प्रसादयित्वा देवेशं विघ्नानां नायकं परम् ॥ ५६॥ तदाज्ञया जगामाग्रे वनं पुण्यमतन्द्रितः । दृष्ट्वा पुण्यं वनं दिव्यं शारदाया महेश्वरि । तत्राचरत्तपो घोरं दिव्यवर्षसहस्रकम् ॥ ५७॥ दिव्यवर्षसहस्रान्ते श्रीशैलशिखरात्प्रिये । श्यामला धवला देवी रक्ता चाविर्बभूव ह ॥ ५८॥ दृष्ट्वा तु देवीं तां तत्र शारां वर्षसहस्रकम् । यस्माद्रक्ता च श्यामा च श्वेता च वरवर्णिनि ॥ ५९॥ तस्मात्प्रोक्ता पुराविद्भिः शारदानामनामतः । शिखराग्रे च दृष्ट्वा तां देवीं त्रिविधविग्रहाम् ॥ ६०॥ मुनिर्विस्मयमापन्नस्तस्थौ स्मरणतत्परः । शारीभूता यतो देवी दृष्टा ते नात्र संशयः ॥ ६१॥ ततः प्रोक्ता पुराविद्भिः शारदेति महेश्वरि । शरत्काले यतो देवी पूजिता सर्वजन्तुभिः ॥ ६२॥ ततः प्रोक्ता पुराविद्भिः शारदानामनामतः । शबलेति यतो देवि प्रोक्ता त्रिविधविग्रहा ॥ ६३॥ शारदा नारदा चैव वाग्देवीति च सोच्यते । नारदस्योपदेशेन या दृष्टा श्यामलाङ्गका ॥ ६४॥ सरस्वतीति सा प्रोक्ता वाक्स्तम्भान्मुच्यते यया । निर्मला या च मुनिना दृष्टा त्रिविधविग्रहा ॥ ६५॥ श्रीशैलशिखरे पुण्ये शारदेति मता च सा । दृष्ट्वा देवीं तत्र मुनिः प्रणनाम चिरं मुदा ॥ ६६॥ दण्डवत्पतितो भूत्वा गिरा परमयैडयत् ॥ ६७॥ श्रीशाण्डिल्य उवाच । देवीं चिदानन्दमयीमजस्रं विश्वात्मिकां विश्वपरां जयन्तीम् । तमोऽपहर्त्रीं मनसा परेशीं तां शारदाख्यां शरणं प्रपद्ये ॥ ६८॥ पापैः शबलितो यस्मान्मोचितोऽस्मि स्वभावतः । तस्मात्त्वां शारदां नाम प्रवदन्ति मनीषिणः ॥ ६९॥ चिद्विमर्शमहाशक्तिं परमानन्ददायिनीम् । शरणं देवदेवेशीं त्वामेव गतवानहम् ॥ ७०॥ रजस्तमोव्यक्तरूपामोमित्येकाक्षरात्मिकाम् । शरणं यामि तां देवीं शारदां शबलां पराम् ॥ ७१॥ अघोरां घोररूपां तां घोरघोरतरां शुभाम् । शर्वाणीं चाथ रुद्राणीं मृडानीं तां नमाम्यहम् ॥ ७२॥ शतरुद्रां परां नित्यां शारदां तां नतोऽस्म्यहम् । महाकालाग्निना ग्रस्तं जगत्त्रातुमिहोद्यता ॥ ७३॥ परास्वरूपां परमां शारदां तां नतोऽस्म्यहम् । महाकालाग्निरूपां तां सृष्टिसंहारकारिणीम् ॥ ७४॥ जगत्स्थितिकरीं देवी शारदां शरणं श्रये । श्यामां शबलितापाङ्गां शर्मदां भार्गवार्चिताम् ॥ ७५॥ नारदानुग्रहकरीं शारदां शरणं श्रये । वाक्स्तम्भमोचनीं भद्रां महदुत्तेजनीं पराम् ॥ ७६॥ गौतमेनार्चितां दुर्गां शारदां वरदां भजे । चिन्त्यामचिन्त्यां चेत्यां च चिद्विमर्शविधायिनीम् ॥ ७७॥ चिद्रूपां चारुनयनां शारदां शरणं श्रये । घोरकाननसंलीनां त्रिविधां त्रिस्वरूपिणीम् ॥ ७८॥ श्रीशैले त्रिपुटां देवीं शारदां तां भजामहे । कामक्रोधभयोन्मादग्रस्तमोक्षविधायिनीम् ॥ ७९॥ त्रिपुरां त्रिविधावासां शारदां नारदां भजे । भक्ताभयकरीं देवीं वरचापशराङ्किताम् ॥ ८०॥ त्रिशूलखट्वाङ्गधरां त्रिनेत्रां चारुहासिनीम् । षड्भुजां षड्गुणां रम्यां गुणातीतां गुणात्मिकाम् ॥ ८१॥ प्रकृतिं विकृतिं दिव्यां शारदां वरदां भजे । अतीतानागतां दिव्यां महामायास्वरूपिणीम् ॥ ८२॥ ब्रह्मविष्णुशिवातीतपर्यङ्कासनसंस्थिताम् । महामोहपरिग्रस्तां महामोहस्वरूपिणीम् ॥ ८३॥ मोहान्धितजनोद्धारां शारदां वरदां भजे । दीनानाथपरित्राणपरायणपरायणाम् ॥ ८४॥ मादृक्प्रपन्नपशुपाशविमोचनीं तां सच्चिद्विमर्शविमलां परमार्थरूपाम् । मानप्रमातृरहितां स्थितिमप्रमेयां तां शारदां भुवनकोशगतां नतोऽस्मि ॥ ८५॥ इति स्तुत्वा महादेवीं शाण्डिल्यः कानने शुभे । चकार स मुनिस्तत्र तपः पापनिबर्हणम् ॥ ८६॥ वायुभक्षो निराहारो देवीदर्शनलालसः । एवं सञ्चरतस्तस्य दुश्चरं परमं तपः ॥ ८७॥ जगाम सुमहान्कालो देवी प्रीता बभूव ह । अत्रोपहारं वक्ष्यामि तच्छृणुष्व सुरेश्वरि ॥ ८८॥ सा च देवी प्रतुष्येत पशुं दृष्ट्वा वार्ध्रीणसम् । पशुरपि परां मुक्तिं लभते नात्र संशयः ॥ ८९॥ वैष्णवोऽपि नरस्तत्र ब्राह्मणः क्षत्रियोऽथवा । वैश्यो वापि प्रकुर्वीत होमं पशुपुरःसरम् ॥ ९०॥ वैष्णवो नैव भुञ्जीत व्रतधारी तथैव च । मांसं वार्ध्रीणसस्यास्य न दोषस्तत्र विद्यते ॥ ९१॥ अमांसभोजनः शम्भुस्तुष्यते नात्र संशयः । देवी चापि सुरेशानि सदा प्रीतिकरा भवेत् ॥ ९२॥ मोदकैर्मत्स्यमांसैश्च गणनाथं प्रपूजयेत् । इत्येष पटलो गुह्यो पावनः प्रीतिवर्धनः ॥ ९३॥ तथा तपसि सक्तस्य प्रसन्नाभून्महेश्वरी । देवी दुर्वाससा सार्धं मुनिभिश्च समाययौ ॥ ९४॥ दृष्ट्वा देवीं पुरस्तत्र शाण्डिल्यो दण्डवत्क्षितौ । पपात पुनरुत्थाप्य देवी शाण्डिल्यमब्रवीत् ॥ ९५॥ श्रीशैलोपरि शाण्डिल्य मत्पार्श्वे तु चिरं वस । मद्दर्शनाच्च यत्पुण्यं तद्भवद्दर्शनादपि ॥ ९६॥ उत्तिष्ठ शीघ्रं पुत्र त्वं मत्पार्श्वे सन्निधिं कुरु । दास्यामि वेदांस्तत्रैव साङ्गानपि च पुत्रक ॥ ९७॥ त्रिसृणाश्चैव मोक्ष्यामि सत्यं जानीहि मानद । इत्युक्त्वा तत्र शाण्डिल्यं देवदेवी महेश्वरी ॥ ९८॥ तत्रैवान्तर्हिता भूत्वा श्रीशैलोपरिसंस्थिता । शाण्डिल्योऽपि ययौ तत्र यत्र देवी प्रतिष्ठिता ॥ ९९॥ गच्छतस्तस्य देवेशि शाण्डिल्यस्य महात्मनः । अर्धाङ्गं तु सुवर्णस्य बभूव किल सुन्दरि ॥ १००॥ अर्धाङ्गं तु सुवर्णस्य दृष्ट्वा हृष्टो भवन् मुनिः । विस्मयं परमं प्राप्तो मनसैतदचिन्तयत् ॥ १०१॥ किं ममाङ्गं सुवर्णस्य फलं कस्यैष कर्मणः । राष्ट्रस्य महिमा कोऽपि तथा तीर्थजलस्य च ॥ १०२॥ अथवा देवदेव्यास्तु शारदायाः प्रसादतः । इत्थं चिन्तयतस्तस्य शाण्डिल्यस्य महामुनेः ॥ १०३॥ विस्मितस्य महादेवि पितरो दृष्टिमागताः । दृष्ट्वा पितृगणांस्तत्र शाण्डिल्यः पुरतः स्थितान् ॥ १०४॥ उवाच विस्मितः के वै भवन्तः पुरतः स्थिताः । किमर्थमागता यूयं ब्रूतागमनकारणम् ॥ १०५॥ भवतां किङ्करश्चास्मि अविलम्बेन सत्तमाः । ब्रूतागमनकृत्यं मे समुद्युक्तोऽस्मि तत्कृते ॥ १०६॥ पितर ऊचुः । वयं ते पितरः पुत्र क्षीणाः स्मोऽथ चिरंसमाः । वर्णसङ्करजाद्दोषाच्छुद्धवर्णोऽसि सांप्रतम् ॥ १०७॥ अधुना पातुमिच्छामस्त्वत्त एव जलाञ्जलीन् । दातुमर्हसि नः पुत्र सिन्धौ श्राद्धमनुत्तमम् ॥ १०८॥ जलाञ्जलिमपीदानीमस्माकं तृप्तिकारणम् । योऽर्हः सन्नैव पितॄणां ददाति जलतर्पणम् ॥ १०९॥ श्राद्धं वापि मुनिश्रेष्ठ स दरिद्रः प्रजायते । निरपत्यः कुलच्छेदकारकश्चैव पुत्रक ॥ ११०॥ तस्मादार्यैः सदा देयः पितृभ्यस्तु जलाञ्जलिः । श्राद्धं मधुघृतैर्वापि फलैर्वा गुडपायसैः ॥ १११॥ तूष्णीं बभूवुर्देवेशि मुनिं प्रोच्य प्रहर्षिताः । पितरस्ते तदा सर्वे शाण्डिल्यं प्राञ्जलिं स्थितम् ॥ ११२॥ भैरव उवाच । श्रुत्वा तेषां वचः सौम्यं शाण्डिल्यश्चातिविस्मितः । उवाच पितॄन्संस्तुत्य वाचा परमया मुदा ॥ ११३॥ अधुनैव पितृगणाः सिन्धौ दास्यामि वो जलम् । वपनं तु करिष्यामि पितॄणां श्राद्धशुद्धये ॥ ११४॥ कृत्वा हि वपनं तत्र श्राद्धं कुर्वन्ति ये नराः । तृप्ताः स्युः पितरस्तेषां कर्तॄणां च महाफलम् ॥ ११५॥ इत्येवमुक्त्वा पितृभ्यस्तान्सन्तोष्य महातपाः । कृत्वा तु वपनं तत्र शाण्डिल्यो मुनिसत्तमः ॥ ११६॥ चकार विधिवच्छ्राद्धं पितृभ्यस्तृप्तिहेतवे । शाण्डिल्यश्चैव देवेभ्यः पितृभ्यश्च ददौ जलम् ॥ ११७॥ शाण्डिल्यहस्ताद्देवेशि महासिन्धुजलं तदा । क्षौद्रमेव बभूवाशु पितॄणां तृप्तिकारणम् ॥ ११८॥ सिन्धोः स्रोतो महादेवि मुनिहस्तगतं यदा । अर्धं क्षौद्रमयं जातं पितॄणां तृप्तिहेतवे ॥ ११९॥ यदाप्रभृति शाण्डिल्यः पितॄन्सन्तृप्तवान् जलैः । ततः सिन्धुप्रवाहस्य नामाभून्मधुमत्यपि ॥ १२०॥ सुवर्णो जगदीशानि शाण्डिल्यो नाम वै मुनिः । बभूव परमप्रीतः पितॄणां तृप्तिकारणम् ॥ १२१॥ ततोऽग्रे मधुमत्याश्च सिन्धोः सङ्गम एव च । स्नात्वा च वपनं कृत्वा श्राद्धं कृत्वा महेश्वरि ॥ १२२॥ साक्षाद्भूता महादेवी शाण्डिल्यमिदमब्रवीत् । भ्राजमानतनुं त्वां ये वनेऽमुष्मिन्प्रतिष्ठितम् ॥ १२३॥ मां चापि त्रिविधां चात्र ये पश्यन्ति नरोत्तमाः । ते सिद्धाः कथिताः पुत्र पापमुक्ता न संशयः ॥ १२४॥ महापातकयुक्तो वा युक्तो वाप्युपपातकैः । क्षेत्रं पीठेश्वराख्यं च दृष्ट्वा मुच्येत किल्बिषैः ॥ १२५॥ इत्युक्त्वा तं मुनिं देवी तूष्णीमास महेश्वरि । तस्मात्सर्वप्रयत्नेन शारदावनमाश्रयेत् ॥ १२६॥ घोषं गत्वा च नुत्वा च घोषावासाञ्जनानपि । उपोष्य रजनीमेकां षट्‍तिस्रो द्वादशैव वा ॥ १२७॥ आह्वानार्चनपाद्यार्घ्यमधुपर्कैर्यथाक्रमम् । संपूज्य भोजयित्वा च मङ्गलोच्चारपूर्वकम् ॥ १२८॥ सुवर्णाङ्गं ततो गत्वा तेजनीसिन्धुसङ्गमे । वपनं विधिवत्कृत्वा श्राद्धं चैव यथाविधि ॥ १२९॥ शाण्डिल्यमधुमत्योश्च सङ्गमे लोकविश्रुते । षष्टिस्तीर्थसहस्राणि षष्टिस्तीर्थशतानि च ॥ १३०॥ कुर्वन्ति संनिधानं च मासि भाद्रपदे सदा । शुक्लपक्षे चतुर्थ्यां च तथान्यासु च सर्वदा ॥ १३१॥ चतुर्दश्यां च शुक्लायां त्वत्प्रसादान्महेश्वरि । गोस्तम्भनमथाभ्यर्च्य प्रविशेन्मुनिकाननम् ॥ १३२॥ मुनिं दृष्ट्वा ततो देवि शारदां त्रिविधात्मिकाम् । संपूज्य परया भक्त्या धूपैः कुसुमचन्दनैः ॥ १३३॥ क्षीरखण्डाज्यधूपैश्च दीपैः कर्पूरवर्तिकैः । नैवेद्यैर्घृतपक्वैश्च बलिदानैरनेकशः ॥ १३४॥ पूजयेद्विधिना देवीं वस्त्रालङ्कारभूषणैः । कुमारीः पूजयेच्चापि तथा ब्राह्मणपूजनैः ॥ १३५॥ गोदानैरश्वदानैश्च कन्थावस्त्रान्नभूषणैः । अक्षयं फलमाप्नोति सत्यं सत्यं वरानने ॥ १३६॥ अपुत्रिणः पुत्रान्योग्यान्निर्धनाश्च धनं बहु । मूर्खश्च शोभनां विद्यां रोगिणः स्वास्थ्यमाप्नुयुः ॥ १३७॥ स्वर्गं च नरकाद्भीतास्तथा मोक्षं मुमुक्षवः । शारदां गन्तुकामस्य गृहात्प्रभृति सुन्दरि ॥ १३८॥ पदानि क्रममाणस्य यावन्तो भूमिरेणवः । पदे पदेऽश्वमेधस्य फलमाप्नोति मानवः ॥ १३९॥ उपोष्य रजनीमेकां तिस्रः षड्द्वादशैव वा । आह्वानार्चनपाद्यार्घ्यमधुपर्कैर्यथाक्रमम् ॥ १४०॥ नृत्तगीतैस्तथा वाद्यैर्भोगैर्दानैस्तथा गृहैः । हस्त्यश्वरथयानैश्च वासोभिः शयनैस्तथा ॥ १४१॥ शारदाक्षेत्रमाहात्म्यं नालं वक्तुं चतुर्मुखः । शेषो नालं फलं वक्तुं प्रभावं चापि सुन्दरि ॥ १४२॥ इति तत्कथितं तुभ्यं यत्पृष्टोऽहमिति त्वया । अधुना देवदेवेशि किमन्यच्छ्रोतुमिच्छसि ॥ १४३॥ इत्येष पटलो गुह्यो महापातकहा कलौ । श्रुत्वा पठित्वा मुच्येत कोटिजन्मभवादघात् ॥ १४४॥ इति श्रीभृङ्गीशसंहितायामुत्तरविषयोपजाततीर्थसङ्ग्रहे शारदामाहात्म्यं समाप्तम् ॥ Shankara processed. Proofread by P. P. Narayanaswami swami at mun.ca, PSA Easwaran

% Text title            : shAradAmAhAtmyam
% File name             : shAradAmAhAtmyam.itx
% itxtitle              : shAradAmAhAtmyam
% engtitle              : shAradAmAhAtmyam
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sarasvatI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shankara shankara_2000 at yahoo.com
% Proofread by          : P. P. Narayanaswami swami at mun.ca, PSA Easwaran
% Indexextra            : (Translation)
% Latest update         : November 27, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP