श्रीशारदासंस्तवनम्
सर्वदा सर्व-दा शारदा सार-दा
या विपत्पारदा सा पराम्बा मता ।
सङ्गता सर्व-देवैः प्रहर्षङ्गता
वन्दिता विष्णुना जिष्णुना संस्तुता ॥ १॥
पण्डितो यत्कृपातो भवेन्मण्डितोऽ-
खण्डितो देश सैषः सदा नन्दितः ।
पातु सा शारदा ब्रह्मलोकस्थिता
सम्मता देवदेवैः स्वयं वन्दिता ॥ २॥
ब्रह्मणा विष्णुना शूलिना संस्तुता
सर्वदेवैर्नरै दानवैः पूजिता ।
सर्वदा शं विदध्यान्मुदा शारदा
शोकसंहारिकाऽज्ञान-तामिस्रहा ॥ ३॥
सेवकोऽयं सहायं विना दुःखित-
स्त्वं विधत्तां सुरक्षां जगत्पालिके ।
सम्बलं सौख्यदे ! भक्तिदे ! देहि मे
साधवोऽसाधवो लालिताः पालिताः ॥ ४॥
करालेऽस्मिन् काले वरसरसिजाक्षि सुविमले !
त्वमेवाद्याशक्तिः सततमनुरक्तिर्भवतु मे ।
अभद्रं भ्रूभङ्गाद्धरतु वर-वीणा धृत-करे !
सरस्वत्या मातुःश्चरण शरणं वाद्य निधनम् ॥ ५॥
ईति-भीतिभयात्पाहि शरदिन्दुनिभानने ! ।
अपहृत्य तमोजालं सर्वानर्थान् प्रपूरय ॥ ६॥
इति श्रीशारदासंस्तवनं सम्पूर्णम् ।
रचयिता-रामस्वरुपशास्त्री अमरः
तालबेहट (ललितपुर) स्थः
Encoded and proofread by Mandar Mali aryavrutta at gmail.com, NA