श्रीशारदासहस्रनामस्तोत्रम्

श्रीशारदासहस्रनामस्तोत्रम्

श्री गणेशाय नमः । श्रीभैरवी उवाच भगवन् सर्वधर्मज्ञ सर्वलोकनमस्कृत । सर्वागमैकतत्त्वज्ञ तत्त्वसागरपारग ॥ १॥ कृपापरोऽसि देवेश शरणागतवत्सल । पुरा दत्तं वरं मह्यं देवदानवसङ्गरे ॥ २॥ तमद्य भगवंस्त्वत्तो याचेऽहं परमेश्वर । प्रयच्छ त्वरितं शम्भो यद्यहं प्रेयसी तव ॥ ३॥ श्रीभैरव उवाच देवदेवी पुरा सत्यं सुरासुररणाजिरे । वरो दत्तो मया तेऽद्य वरं याचस्व वाञ्छितम् ॥ ४॥ श्रीभैरवी उवाच भगवन् या महादेवी शारदाऽऽख्या सरस्वती । काश्मीरे सा स्वतपसा शाण्डिल्येनावतारिता ॥ ५॥ तस्या नामसहस्रं मे भोगमोक्षैकसाधनम् । साधकानां हितार्थाय वद त्वं परमेश्वर ॥ ६॥ श्रीभैरव उवाच रहस्यमेतदखिलं देवानां परमेश्वरि । परापररहस्यं च जगतां भुवनेश्वरि ॥ ७॥ या देवी शारदाख्येति जगन्माता सरस्वती । पञ्चाक्षरी च षट्कूटत्रैलोक्यप्रथिता सदा ॥ ८॥ तया ततमिदं विश्वं तया सम्पाल्यते जगत् । सैव संहरते चान्ते सैव मुक्तिप्रदायिनी ॥ ९॥ देवदेवी महाविद्या परतत्त्वैकरूपिणी । तस्या नामसहस्रं ते वक्ष्येऽहं भक्तिसाधनम् ॥ १०॥ ॥ विनियोगः ॥ ॐ अस्य श्रीशारदाभगवतीसहस्रनामस्तोत्रमहामन्त्रस्य श्रीभगवान् भैरव ऋषिः । त्रिष्टुप् छन्दः।पञ्चाक्षरशारदा देवता। क्लीं बीजम् । ह्रीं शक्तिः। नम इति कीलकम्। त्रिवर्गफलसिद्ध्यर्थे सहस्रनामपाठे विनियोगः ॥ ॥ करन्यासः ॥ ॐ ह्रां क्लां अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं क्लीं तर्जनीभ्यां नमः । ॐ ह्रूं क्लूं मध्यमाभ्यां नमः । ॐ ह्रैं क्लैं अनामिकाभ्यां नमः। ॐ ह्रौं क्लौं कनिष्ठिकाभ्यां नमः । ॐ ह्रः क्लः करतलकरपृष्ठाभ्यां नमः ॥ ॥ हृदयादि न्यासः ॥ ॐ ह्रां क्लां हृदयाय नमः । ॐ ह्रीं क्लीं शिरसे स्वाहा । ॐ ह्रूं क्लूं शिखायै वषट् । ॐ ह्रैं क्लैं कवचाय हुं । ॐ ह्रौं क्लौं नेत्रत्रयाय वौषट् । ॐ ह्रः क्लः अस्त्राय फट । ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ ॥ ध्यानम् ॥ शक्तिचापशरघण्टिकासुधापात्ररत्नकलशोल्लसत्कराम् । पूर्णचन्द्रवदनां त्रिलोचनां शारदां नमत सर्वसिद्धिदाम् ॥ श्री श्रीशैलस्थिता या प्रहसितवदना पार्वती शूलहस्ता वह्न्यर्केन्दुत्रिनेत्रा त्रिभुवनजननी षड्भुजा सर्वशक्तिः । शाण्डिल्येनोपनीता जयति भगवती भक्तिगम्या नतानां सा नः सिंहासनस्था ह्यभिमतफलदा शारदा शं करोतु ॥ ॥ पञ्चपूजा ॥ लं पृथिव्यात्मिकायै श्रीशारदादेव्यै गन्धं समर्पयामि । हं आकाशात्मिकायै श्रीशारदादेव्यै पुष्पैः पूजयामि । यं वाय्वात्मिकायै श्रीशारदादेव्यै धूपमाघ्रापयामि । रं वह्न्यात्मिकायै श्रीशारदादेव्यै दीपं दर्शयामि । वं अमृतात्मिकायै श्रीशारदादेव्यै अमृतम्महानैवेद्यं निवेदयामि । सं सर्वात्मिकायै श्रीशारदादेव्यै सर्वोपचारपूजां समर्पयामि ॥ योनिमुद्रां दर्शयेत् ॥ ॥ श्रीशारदा गायत्री ॥ ॐ शारदायै विद्महे । वरदायै धीमहि। तन्नो मोक्षदायिनी प्रचोदयात् ॥ श्रीशारदासहस्रनामस्तोत्रम् ॥ श्री गणेशाय नमः । श्रीभैरवी उवाच भगवन् सर्वधर्मज्ञ सर्वलोकनमस्कृत । सर्वागमैकतत्त्वज्ञ तत्त्वसागरपारग ॥ १॥ कृपापरोऽसि देवेश शरणागतवत्सल । पुरा दत्तं वरं मह्यं देवदानवसङ्गरे ॥ २॥ तमद्य भगवंस्त्वत्तो याचेऽहं परमेश्वर । प्रयच्छ त्वरितं शम्भो यद्यहं प्रेयसी तव ॥ ३॥ श्रीभैरव उवाच देवदेवी पुरा सत्यं सुरासुररणाजिरे । वरो दत्तो मया तेऽद्य वरं याचस्व वाञ्छितम् ॥ ४॥ श्रीभैरवी उवाच भगवन् या महादेवी शारदाऽऽख्या सरस्वती । काश्मीरे सा स्वतपसा शाण्डिल्येनावतारिता ॥ ५॥ तस्या नामसहस्रं मे भोगमोक्षैकसाधनम् । साधकानां हितार्थाय वद त्वं परमेश्वर ॥ ६॥ श्रीभैरव उवाच रहस्यमेतदखिलं देवानां परमेश्वरि । परापररहस्यं च जगतां भुवनेश्वरि ॥ ७॥ या देवी शारदाख्येति जगन्माता सरस्वती । पञ्चाक्षरी च षट्कूटत्रैलोक्यप्रथिता सदा ॥ ८॥ तया ततमिदं विश्वं तया सम्पाल्यते जगत् । सैव संहरते चान्ते सैव मुक्तिप्रदायिनी ॥ ९॥ देवदेवी महाविद्या परतत्त्वैकरूपिणी । तस्या नामसहस्रं ते वक्ष्येऽहं भक्तिसाधनम् ॥ १०॥ ॥ विनियोगः ॥ ॐ अस्य श्रीशारदाभगवतीसहस्रनामस्तोत्रमहामन्त्रस्य श्रीभगवान् भैरव ऋषिः । त्रिष्टुप् छन्दः।पञ्चाक्षरशारदा देवता। क्लीं बीजम् । ह्रीं शक्तिः। नम इति कीलकम्। त्रिवर्गफलसिद्ध्यर्थे सहस्रनामपाठे विनियोगः ॥ ॥ करन्यासः ॥ ॐ ह्रां क्लां अङ्गुष्ठाभ्यां नमः ।ॐ ह्रीं क्लीं तर्जनीभ्यां नमः। ॐ ह्रूं क्लूं मध्यमाभ्यां नमः ।ॐ ह्रैं क्लैं अनामिकाभ्यां नमः। ॐ ह्रौं क्लौं कनिष्ठिकाभ्यां नमः ।ॐ ह्रः क्लः करतलकरपृष्ठाभ्यां नमः॥ ॥ हृदयादि न्यासः ॥ ॐ ह्रां क्लां हृदयाय नमः । ॐ ह्रीं क्लीं शिरसे स्वाहा। ॐ ह्रूं क्लूं शिखायै वषट् । ॐ ह्रैं क्लैं कवचाय हुम्। ॐ ह्रौं क्लौं नेत्रत्रयाय वौषट् । ॐ ह्रः क्लः अस्त्राय फट। ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ ॥ ध्यानम् ॥ शक्तिचापशरघण्टिकासुधापात्ररत्नकलशोल्लसत्कराम् । पूर्णचन्द्रवदनां त्रिलोचनां शारदां नमत सर्वसिद्धिदाम् ॥ श्री श्रीशैलस्थिता या प्रहसितवदना पार्वती शूलहस्ता वह्न्यर्केन्दुत्रिनेत्रा त्रिभुवनजननी षड्भुजा सर्वशक्तिः । शाण्डिल्येनोपनीता जयति भगवती भक्तिगम्या नतानां सा नः सिंहासनस्था ह्यभिमतफलदा शारदा शं करोतु ॥ ॥ पञ्चपूजा ॥ लं पृथिव्यात्मिकायै श्रीशारदादेव्यै गन्धं समर्पयामि । हं आकाशात्मिकायै श्रीशारदादेव्यै पुष्पैः पूजयामि । यं वाय्वात्मिकायै श्रीशारदादेव्यै धूपमाघ्रापयामि । रं वह्न्यात्मिकायै श्रीशारदादेव्यै दीपं दर्शयामि । वं अमृतात्मिकायै श्रीशारदादेव्यै अमृतम्महानैवेद्यं निवेदयामि । सं सर्वात्मिकायै श्रीशारदादेव्यै सर्वोपचारपूजां समर्पयामि ॥ योनिमुद्रां दर्शयेत् ॥ ॥ श्रीशारदा गायत्री ॥ ॐ शारदायै विद्महे । वरदायै धीमहि। तन्नो मोक्षदायिनी प्रचोदयात् ॥ ॥ श्रीशारदा मन्त्रः ॥ ॐ ह्रीं क्लीं शारदायै नमः ॥ ॥ अथ श्रीशारदासहस्रनामस्तोत्रम् ॥ ॐ ह्रीं क्लीं शारदा शान्ता श्रीमती श्रीशुभङ्करी । शुभा शान्ता शरद्बीजा श्यामिका श्यामकुन्तला ॥ १॥ शोभावती शशाङ्केशी शातकुम्भप्रकाशिनी । प्रताप्या तापिनी ताप्या शीतला शेषशायिनी ॥ २॥ श्यामा शान्तिकरी शान्तिः श्रीकरी वीरसूदिनी । वेश्या वेश्यकरी वैश्या वानरी वेषभान्विता ॥ ३॥ वाचाली शुभगा शोभ्या शोभना च शुचिस्मिता । जगन्माता जगद्धात्री जगत्पालनकारिणी ॥ ४॥ हारिणी गदिनी गोधा गोमती जगदाश्रया । सौम्या याम्या तथा काम्या वाम्या वाचामगोचरा ॥ ५॥ ऐन्द्री चान्द्री कला कान्ता शशिमण्डलमध्यगा । आग्नेयी वारुणी वाणी कारुणा करुणाश्रया ॥ ६॥ नैरृती ऋतरूपा च वायवी वाग्भवोद्भवा । कौबेरी कूबरा कोला कामेशी कामसुन्दरी ॥ ७॥ खेशानी केशनीकारा मोचनी धेनुकामदा । कामधेनुः कपालेशी कपालकरसंयुता ॥ ८॥ चामुण्डा मूल्यदा मूर्तिर्मुण्डमालाविभूषणा । सुमेरुतनया वन्द्या चण्डिका चण्डसूदिनी ॥ ९॥ चण्डांशुतेजसाम्मूर्तिश्चण्डेशी चण्डविक्रमा । चाटुका चाटकी चर्चा चारुहंसा चमत्कृतिः ॥ १०॥ ललज्जिह्वा सरोजाक्षी मुण्डसृङ्मुण्डधारिणी । सर्वानन्दमयी स्तुत्या सकलानन्दवर्धिनी ॥ ११॥ धृतिः कृतिः स्थितिर्मूर्तिः द्यौवासा चारुहासिनी । रुक्माङ्गदा रुक्मवर्णा रुक्मिणी रुक्मभूषणा ॥ १२॥ कामदा मोक्षदानन्दा नारसिंही नृपात्मजा । नारायणी नरोत्तुङ्गनागिनी नगनन्दिनी ॥ १३॥ नागश्रीर्गिरिजा गुह्या गुह्यकेशी गरीयसी । गुणाश्रया गुणातीता गजराजोपरिस्थिता ॥ १४॥ गजाकारा गणेशानी गन्धर्वगणसेविता । दीर्घकेशी सुकेशी च पिङ्गला पिङ्गलालका ॥ १५॥ भयदा भवमान्या च भवानी भवतोषिता । भवालस्या भद्रधात्री भीरुण्डा भगमालिनी ॥ १६॥ पौरन्दरी परञ्ज्योतिः पुरन्दरसमर्चिता । पीना कीर्तिकरी कीर्तिः केयूराढ्या महाकचा ॥ १७॥ घोररूपा महेशानी कोमला कोमलालका । कल्याणी कामना कुब्जा कनकाङ्गदभूषिता ॥ १८॥ केनाशी वरदा काली महामेधा महोत्सवा । विरूपा विश्वरूपा च विश्वधात्री पिलम्पिला ॥ १९॥ पद्मावती महापुण्या पुण्या पुण्यजनेश्वरी । जह्नुकन्या मनोज्ञा च मानसी मनुपूजिता ॥ २०॥ कामरूपा कामकला कमनीया कलावती । वैकुण्ठपत्नी कमला शिवपत्नी च पार्वती ॥ २१॥ काम्यश्रीर्गारुडीविद्या विश्वसूर्वीरसूर्दितिः । माहेश्वरी वैष्णवी च ब्राह्मी ब्राह्मणपूजिता ॥ २२॥ मान्या मानवती धन्या धनदा धनदेश्वरी । अपर्णा पर्णशिथिला पर्णशालापरम्परा ॥ २३॥ पद्माक्षी नीलवस्त्रा च निम्ना नीलपताकिनी । दयावती दयाधीरा धैर्यभूषणभूषिता ॥ २४॥ जलेश्वरी मल्लहन्त्री भल्लहस्ता मलापहा । कौमुदी चैव कौमारी कुमारी कुमुदाकरा ॥ २५॥ पद्मिनी पद्मनयना कुलजा कुलकौलिनी । कराला विकरालाक्षी विस्रम्भा दर्दुराकृतिः ॥ २६॥ वनदुर्गा सदाचारा सदाशान्ता सदाशिवा । सृष्टिः सृष्टिकरी साध्वी मानुषी देवकी द्युतिः ॥ २७॥ वसुधा वासवी वेणुः वाराही चापराजिता । रोहिणी रमणा रामा मोहिनी मधुराकृतिः ॥ २८॥ शिवशक्तिः पराशक्तिः शाङ्करी टङ्कधारिणी । क्रूरकङ्कालमालाढ्या लङ्काकङ्कणभूषिता ॥ २९॥ दैत्यापहरा दीप्ता दासोज्ज्वलकुचाग्रणीः । क्षान्तिः क्षौमङ्करी बुद्धिर्बोधाचारपरायणा ॥ ३०॥ श्रीविद्या भैरवीविद्या भारती भयघातिनी । भीमा भीमारवा भैमी भङ्गुरा क्षणभङ्गुरा ॥ ३१॥ जित्या पिनाकभृत् सैन्या शङ्खिनी शङ्खरूपिणी । देवाङ्गना देवमान्या दैत्यसूर्दैत्यमर्दिनी ॥ ३२॥ देवकन्या च पौलोमी रतिः सुन्दरदोस्तटी । सुखिनी शौकिनी शौक्ली सर्वसौख्यविवर्धिनी ॥ ३३॥ लोला लीलावती सूक्ष्मा सूक्ष्माऽसूक्ष्मगतिर्मतिः । वरेण्या वरदा वेणी शरण्या शरचापिनी ॥ ३४॥ उग्रकाली महाकाली महाकालसमर्चिता । ज्ञानदा योगिध्येया च गोवल्ली योगवर्धिनी ॥ ३५॥ पेशला मधुरा माया विष्णुमाया महोज्ज्वला । वाराणसी तथाऽवन्ती काञ्ची कुक्कुरक्षेत्रसुः ॥ ३६॥ अयोध्या योगसूत्राद्या यादवेशी यदुप्रिया । यमहन्त्री च यमदा यमिनी योगवर्तिनी ॥ ३७॥ भस्मोज्ज्वला भस्मशय्या भस्मकालीसमर्चिता । चन्द्रिका शूलिनी शिल्या प्राशिनी चन्द्रवासिनी ॥ ३८॥ पद्महस्ता च पीना च पाशिनी पाशमोचनी । सुधाकलशहस्ता च सुधामूर्तिः सुधामयी ॥ ३९॥ व्यूहायुधा वरारोहा वरधात्री वरोत्तमा । पापाशना महामूर्ता मोहदा मधुरस्वरा ॥ ४०॥ मधुपा माधवी माल्या मल्लिका कालिका मृगी । मृगाक्षी मृगराजस्था केशिकीनाशघातिनी ॥ ४१॥ रक्ताम्बरधरा रात्रिः सुकेशी सुरनायिका । सौरभी सुरभिः सूक्ष्मा स्वयम्भूकुसुमार्चिता ॥ ४२॥ अम्बा जृम्भा जटाभूषा जूटिनी जटिनी नटी । मर्मानन्ददा ज्येष्ठा श्रेष्ठा कामेष्टवर्द्धिनी ॥ ४३॥ रौद्री रुद्रस्तना रुद्रा शतरुद्रा च शाम्भवी । श्रविष्ठा शितिकण्ठेशी विमलानन्दवर्धिनी ॥ ४४॥ कपर्दिनी कल्पलता महाप्रलयकारिणी । महाकल्पान्तसंहृष्ठा महाकल्पक्षयङ्करी ॥ ४५॥ संवर्ताग्निप्रभा सेव्या सानन्दाऽऽनन्दवर्धिनी । सुरसेना च मारेशी सुराक्षी विवरोत्सुका ॥ ४६॥ प्राणेश्वरी पवित्रा च पावनी लोकपावनी । लोकधात्री महाशुक्ला शिशिराचलकन्यका ॥ ४७॥ तमोघ्नी ध्वान्तसंहर्त्री यशोदा च यशस्विनी । प्रद्योतिनी च द्युमती धीमती लोकचर्चिता ॥ ४८॥ प्रणवेशी परगतिः पारावारसुता समा । डाकिनी शाकिनी रुद्धा नीला नागाङ्गना नुतिः ॥ ४९॥ कुन्दद्युतिश्च कुरटा कान्तिदा भ्रान्तिदा भ्रमा । चर्विताचर्विता गोष्ठी गजाननसमर्चिता ॥ ५०॥ खगेश्वरी खनीला च नागिनी खगवाहिनी । चन्द्रानना महारुण्डा महोग्रा मीनकन्यका ॥ ५१॥ मानप्रदा महारूपा महामाहेश्वरीप्रिया । मरुद्गणा महद्वक्त्रा महोरगा भयानका ॥ ५२॥ महाघोणा करेशानी मार्जारी मन्मथोज्ज्वला । कर्त्री हन्त्री पालयित्री चण्डमुण्डनिषूदिनी ॥ ५३॥ निर्मला भास्वती भीमा भद्रिका भीमविक्रमा । गङ्गा चन्द्रावती दिव्या गोमती यमुना नदी ॥ ५४॥ विपाशा सरयूस्तापी वितस्ता कुङ्कुमार्चिता । गण्डकी नर्मदा गौरी चन्द्रभागा सरस्वती ॥ ५५॥ ऐरावती च कावेरी शताह्रवा च शतह्रदा । श्वेतवाहनसेव्या च श्वेतास्या स्मितभाविनी ॥ ५६॥ कौशाम्बी कोशदा कोश्या काश्मीरकनकेलिनी । कोमला च विदेहा च पूः पुरी पुरसूदिनी ॥ ५७॥ पौरूरवा पलापाली पीवराङ्गी गुरुप्रिया । पुरारिगृहिणी पूर्णा पूर्णरूपा रजस्वला ॥ ५८॥ सम्पूर्णचन्द्रवदना बालचन्द्रसमद्युतिः । रेवती प्रेयसी रेवा चित्रा चित्राम्बरा चमूः ॥ ५९॥ नवपुष्पसमुद्भूता नवपुष्पैकहारिणी । नवपुष्पशुभामाला नवपुष्पकुलानना ॥ ६०॥ नवपुष्पोद्भवप्रीता नवपुष्पसमाश्रया । नवपुष्पललत्केशा नवपुष्पललन्मुखा ॥ ६१॥ नवपुष्पललत्कर्णा नवपुष्पललत्कटिः । नवपुष्पललन्नेत्रा नवपुष्पललन्नसा ॥ ६२॥ नवपुष्पसमाकारा नवपुष्पललद्भुजा । नवपुष्पललत्कण्ठा नवपुष्पार्चितस्तनी ॥ ६३॥ नवपुष्पललन्मध्या नवपुष्पकुलालका । नवपुष्पललन्नाभिः नवपुष्पललत्भगा ॥ ६४॥ नवपुष्पललत्पादा नवपुष्पकुलाङ्गनी । नवपुष्पगुणोत्पीठा नवपुष्पोपशोभिता ॥ ६५॥ नवपुष्पप्रियोपेता प्रेतमण्डलमध्यगा । प्रेतासना प्रेतगतिः प्रेतकुण्डलभूषिता ॥ ६६॥ प्रेतबाहुकरा प्रेतशय्या शयनशायिनी । कुलाचारा कुलेशानी कुलका कुलकौलिनी ॥ ६७॥ स्मशानभैरवी कालभैरवी शिवभैरवी । स्वयम्भूभैरवी विष्णुभैरवी सुरभैरवी ॥ ६८॥ कुमारभैरवी बालभैरवी रुरुभैरवी । शशाङ्कभैरवी सूर्यभैरवी वह्निभैरवी ॥ ६९॥ शोभादिभैरवी मायाभैरवी लोकभैरवी । महोग्रभैरवी साध्वीभैरवी मृतभैरवी ॥ ७०॥ सम्मोहभैरवी शब्दभैरवी रसभैरवी । समस्तभैरवी देवी भैरवी मन्त्रभैरवी ॥ ७१॥ सुन्दराङ्गी मनोहन्त्री महाश्मशानसुन्दरी । सुरेशसुन्दरी देवसुन्दरी लोकसुन्दरी ॥ ७२॥ त्रैलोक्यसुन्दरी ब्रह्मसुन्दरी विष्णुसुन्दरी । गिरीशसुन्दरी कामसुन्दरी गुणसुन्दरी ॥ ७३॥ आनन्दसुन्दरी वक्त्रसुन्दरी चन्द्रसुन्दरी । आदित्यसुन्दरी वीरसुन्दरी वह्निसुन्दरी ॥ ७४॥ पद्माक्षसुन्दरी पद्मसुन्दरी पुष्पसुन्दरी । गुणदासुन्दरी देवी सुन्दरी पुरसुन्दरी ॥ ७५॥ महेशसुन्दरी देवी महात्रिपुरसुन्दरी । स्वयम्भूसुन्दरी देवी स्वयम्भूपुष्पसुन्दरी ॥ ७६॥ शुक्रैकसुन्दरी लिङ्गसुन्दरी भगसुन्दरी । विश्वेशसुन्दरी विद्यासुन्दरी कालसुन्दरी ॥ ७७॥ शुक्रेश्वरी महाशुक्रा शुक्रतर्पणतर्पिता । शुक्रोद्भवा शुक्ररसा शुक्रपूजनतोषिता ॥ ७८॥ शुक्रात्मिका शुक्रकरी शुक्रस्नेहा च शुक्रिणी । शुक्रसेव्या शुक्रसुरा शुक्रलिप्ता मनोन्मना ॥ ७९॥ शुक्रहारा सदाशुक्रा शुक्ररूपा च शुक्रजा । शुक्रसूः शुक्ररम्याङ्गी शुक्रांशुकविवर्धिनी ॥ ८०॥ शुक्रोत्तमा शुक्रपूजा शुक्रेशी शुक्रवल्लभा । ज्ञानेश्वरी भगोत्तुङ्गा भगमालाविहारिणी ॥ ८१॥ भगलिङ्गैकरसिका लिङ्गिनी भगमालिनी । बैन्दवेशी भगाकारा भगलिङ्गादिशुक्रसूः ॥ ८२॥ वात्याली वनिता वात्यारूपिणी मेघमालिनी । गुणाश्रया गुणवती गुणगौरवसुन्दरी ॥ ८३॥ पुष्पतारा महापुष्पा पुष्टिः परमलाघवी । स्वयम्भूपुष्पसङ्काशा स्वयम्भूपुष्पपूजिता ॥ ८४॥ स्वयम्भूकुसुमन्यासा स्वयम्भूकुसुमार्चिता । स्वयम्भूपुष्पसरसी स्वयम्भूपुष्पपुष्पिणी ॥ ८५॥ शुक्रप्रिया शुक्ररता शुक्रमज्जनतत्परा । अपानप्राणरूपा च व्यानोदानस्वरूपिणी ॥ ८६॥ प्राणदा मदिरा मोदा मधुमत्ता मदोद्धता । सर्वाश्रया सर्वगुणाऽव्यस्था सर्वतोमुखी ॥ ८७॥ नारीपुष्पसमप्राणा नारीपुष्पसमुत्सुका । नारीपुष्पलता नारी नारीपुष्पस्रजार्चिता ॥ ८८॥ षड्गुणा षड्गुणातीता शशिनःषोडशीकला । चतुर्भुजा दशभुजा अष्टादशभुजा तथा ॥ ८९॥ द्विभुजा चैक षट्कोणा त्रिकोणनिलयाश्रया । स्रोतस्वती महादेवी महारौद्री दुरन्तका ॥ ९०॥ दीर्घनासा सुनासा च दीर्घजिह्वा च मौलिनी । सर्वाधारा सर्वमयी सारसी सरलाश्रया ॥ ९१॥ सहस्रनयनप्राणा सहस्राक्षसमर्चिता । सहस्रशीर्षा सुभटा शुभाक्षी दक्षपुत्रिणी ॥ ९२॥ षष्टिका षष्टिचक्रस्था षड्वर्गफलदायिनी । अदितिर्दितिरात्मा श्रीराद्या चाङ्कभचक्रिणी ॥ ९३॥ भरणी भगबिम्बाक्षी कृत्तिका चेक्ष्वसादिता । इनश्री रोहिणी चेष्टिः चेष्टा मृगशिरोधरा ॥ ९४॥ ईश्वरी वाग्भवी चान्द्री पौलोमी मुनिसेविता । उमा पुनर्जया जारा चोष्मरुन्धा पुनर्वसुः ॥ ९५॥ चारुस्तुत्या तिमिस्थान्ती जाडिनी लिप्तदेहिनी । लिढ्या श्लेष्मतराश्लिष्टा मघवार्चितपादुकी ॥ ९६॥ मघामोघा तथैणाक्षी ऐश्वर्यपददायिनी । ऐङ्कारी चन्द्रमुकुटा पूर्वाफाल्गुनिकीश्वरी ॥ ९७॥ उत्तराफल्गुहस्ता च हस्तिसेव्या समेक्षणा । ओजस्विनी तथोत्साहा चित्रिणी चित्रभूषणा ॥ ९८॥ अम्भोजनयना स्वातिः विशाखा जननी शिखा । अकारनिलयाधारा नरसेव्या च ज्येष्टदा ॥ ९९॥ मूला पूर्वाषाढेशी चोत्तराषाढ्यावनी तु सा । श्रवणा धर्मिणी धर्म्या धनिष्ठा च शतभिषक् ॥ १००॥ पूर्वभाद्रपदस्थानाऽप्यातुरा भद्रपादिनी । रेवतीरमणस्तुत्या नक्षत्रेशसमर्चिता ॥ १०१॥ कन्दर्पदर्पिणी दुर्गा कुरुकुल्लकपोलिनी । केतकीकुसुमस्निग्धा केतकीकृतभूषणा ॥ १०२॥ कालिका कालरात्रिश्च कुटुम्बजनतर्पिता । कञ्जपत्राक्षिणी कल्यारोपिणी कालतोषिता ॥ १०३॥ कर्पूरपूर्णवदना कचभारनतानना । कलानाथकलामौलिः कला कलिमलापहा ॥ १०४॥ कादम्बिनी करिगतिः करिचक्रसमर्चिता । कञ्जेश्वरी कृपारूपा करुणामृतवर्षिणी ॥ १०५॥ खर्बा खद्योतरूपा च खेटेशी खड्गधारिणी । खद्योतचञ्चला केशी खेचरी खेचरार्चिता ॥ १०६॥ गदाधारी महागुर्वी गुरुपुत्रा गुरुप्रिया । गीतवाद्यप्रिया गाथा गजवक्त्रप्रसूगतिः ॥ १०७॥ गरिष्ठगणपूज्या च गूढगुल्फा गजेश्वरी । गणमान्या गणेशानी गाणापत्यफलप्रदा ॥ १०८॥ घर्मांशुनयना घर्म्या घोरा घुर्घुरनादिनी । घटस्तनी घटाकारा घुसृणोल्लसितस्तनी ॥ १०९॥ घोरारवा घोरमुखी घोरदैत्यनिबर्हिणी । घनच्छाया घनद्युतिः घनवाहनपूजिता ॥ ११०॥ टवकोटेशरूपा च चतुरा चतुरस्तनी । चतुराननपूज्या च चतुर्भुजसमर्चिता ॥ १११॥ चर्माम्बरा चरगतिः चतुर्वेदमयी चला । चतुःसमुद्रशयना चतुर्दशसुरार्चिता ॥ ११२॥ चकोरनयना चम्पा चम्पाबकुलकुन्तला । च्युतचीराम्बरा चारुमूर्तिश्चम्पकमालिनी ॥ ११३॥ छाया छद्मकरी छिल्ली छोटिका छिन्नमस्तका । छिन्नशीर्षा छिन्ननासा छिन्नवस्त्रवरूथिनी ॥ ११४॥ छन्दिपत्रा छन्नछल्का छात्रमन्त्रानुग्राहिणी । छद्मिनी छद्मनिरता छद्मसद्मनिवासिनी ॥ ११५॥ छायासुतहरा हव्या छलरूपा समुज्ज्वला । जया च विजया जेया जयमण्डलमण्डिता ॥ ११६॥ जयनाथप्रिया जप्या जयदा जयवर्धिनी । ज्वालामुखी महाज्वाला जगत्त्राणपरायणा ॥ ११७॥ जगद्धात्री जगद्धर्त्त्री जगतामुपकारिणी । जालन्धरी जयन्ती च जम्भारातिवरप्रदा ॥ ११८॥ झिल्ली झाङ्कारमुखरा झरी झङ्कारिता तथा । ञनरूपा महाञमी ञहस्ता ञिवलोचना ॥ ११९॥ टङ्कारकारिणी टीका टिका टङ्कायुधप्रिया । ठुकुराङ्गी ठलाश्रया ठकारत्रयभूषणा ॥ १२०॥ डामरी डमरूप्रान्ता डमरूप्रहितोन्मुखी । ढिली ढकारवा चाटा ढभूषा भूषितानना ॥ १२१॥ णान्ता णवर्णसम्युक्ता णेयाऽणेयविनाशिनी । तुला त्र्यक्षा त्रिनयना त्रिनेत्रवरदायिनी ॥ १२२॥ तारा तारवया तुल्या तारवर्णसमन्विता । उग्रतारा महातारा तोतुलाऽतुलविक्रमा ॥ १२३॥ त्रिपुरा त्रिपुरेशानी त्रिपुरान्तकरोहिणी । तन्त्रैकनिलया त्र्यस्रा तुषारांशुकलाधरा ॥ १२४॥ तपः प्रभावदा तृष्णा तपसा तापहारिणी । तुषारपरिपूर्णास्या तुहिनाद्रिसुता तु सा ॥ १२५॥ तालायुधा तार्क्ष्यवेगा त्रिकूटा त्रिपुरेश्वरी । थकारकण्ठनिलया थाल्ली थल्ली थवर्णजा ॥ १२६॥ दयात्मिका दीनरवा दुःखदारिद्र्यनाशिनी । देवेशी देवजननी दशविद्या दयाश्रया ॥ १२७॥ द्युनदी दैत्यसंहर्त्री दौर्भाग्यपदनाशिनी । दक्षिणा कालिका दक्षा दक्षयज्ञविनाशिनी ॥ १२८॥ दानवा दानवेन्द्राणी दान्ता दम्भविवर्जिता । दधीचीवरदा दुष्टदैत्यदर्पापहारिणी ॥ १२९॥ दीर्घनेत्रा दीर्घकचा दुष्टारपदसंस्थिता । धर्मध्वजा धर्ममयी धर्मराजवरप्रदा ॥ १३०॥ धनेश्वरी धनिस्तुत्या धनाध्यक्षा धनात्मिका । धीर्ध्वनिर्धवलाकारा धवलाम्भोजधारिणी ॥ १३१॥ धीरसूर्धारिणी धात्री पूः पुनी च पुनीस्तु सा । नवीना नूतना नव्या नलिनायतलोचना ॥ १३२॥ नरनारायणस्तुत्या नागहारविभूषणा । नवेन्दुसन्निभा नाम्ना नागकेसरमालिनी ॥ १३३॥ नृवन्द्या नगरेशानी नायिका नायकेश्वरी । निरक्षरा निरालम्बा निर्लोभा निरयोनिजा ॥ १३४॥ नन्दजाऽनङ्गदर्पाढ्या निकन्दा नरमुण्डिनी । निन्दाऽऽनिन्दफला निष्ठा नन्दकर्मपरायणा ॥ १३५॥ नरनारीगुणप्रीता नरमालाविभूषणा । पुष्पायुधा पुष्पमाला पुष्पबाणा प्रियंवदा ॥ १३६॥ पुष्पबाणप्रियङ्करी पुष्पधामविभूषिता । पुण्यदा पूर्णिमा पूता पुण्यकोटिफलप्रदा ॥ १३७॥ पुराणागममन्त्राढ्या पुराणपुरुषाकृतिः । पुराणगोचरा पूर्वा परब्रह्मस्वरूपिणी ॥ १३८॥ परापररहस्याङ्गा प्रह्लादपरमेश्वरी । फाल्गुनी फाल्गुणप्रीता फणिराजसमर्चिता ॥ १३९॥ फणप्रदा फणेशी च फणाकारा फलोत्तमा । फणिहारा फणिगतिः फणिकाञ्ची फलाशना ॥ १४०॥ बलदा बाल्यरूपा च बालराक्षरमन्त्रिता । ब्रह्मज्ञानमयी ब्रह्मवाञ्छा ब्रह्मपदप्रदा ॥ १४१॥ ब्रह्माणी बृहतिर्व्रीडा ब्रह्मावर्तप्रवर्तनी । ब्रह्मरूपा पराव्रज्या ब्रह्ममुण्डैकमालिनी ॥ १४२॥ बिन्दुभूषा बिन्दुमाता बिम्बोष्ठी बगुलामुखी । ब्रह्मास्त्रविद्या ब्रह्माणी ब्रह्माऽच्युतनमस्कृता ॥ १४३॥ भद्रकाली सदाभद्री भीमेशी भुवनेश्वरी । भैरवाकारकल्लोला भैरवी भैरवार्चिता ॥ १४४॥ भानवी भासुदाम्भोजा भासुदास्यभयार्तिहा । भीडा भागीरथी भद्रा सुभद्रा भद्रवर्धिनी ॥ १४५॥ महामाया महाशान्ता मातङ्गी मीनतर्पिता । मोदकाहारसन्तुष्टा मालिनी मानवर्धिनी ॥ १४६॥ मनोज्ञा शष्कुलीकर्णा मायिनी मधुराक्षरा । मायाबीजवती मानी मारीभयनिसूदिनी ॥ १४७॥ माधवी मन्दगा माध्वी मदिरारुणलोचना । महोत्साहा गणोपेता माननीया महर्षिभिः ॥ १४८॥ मत्तमातङ्गा गोमत्ता मन्मथारिवरप्रदा । मयूरकेतुजननी मन्त्रराजविभूषिता ॥ १४९॥ यक्षिणी योगिनी योग्या याज्ञिकी योगवल्लभा । यशोवती यशोधात्री यक्षभूतदयापरा ॥ १५०॥ यमस्वसा यमज्ञी च यजमानवरप्रदा । रात्री रात्रिञ्चरज्ञी च राक्षसी रसिका रसा ॥ १५१॥ रजोवती रतिः शान्ती राजमातङ्गिनी परा । राजराजेश्वरी राज्ञी रसास्वादविचक्षणा ॥ १५२॥ ललना नूतनाकारा लक्ष्मीनाथसमर्चिता । लक्ष्मीश्च सिद्धलक्ष्मीश्च महालक्ष्मी ललद्रसा ॥ १५३॥ लवङ्गकुसुमप्रीता लवङ्गफलतोषिता । लाक्षारुणा ललत्या च लाङ्गूली वरदयिनी ॥ १५४॥ वातात्मजप्रिया वीर्या वरदा वानरेश्वरी । विज्ञानकारिणी वेण्या वरदा वरदेश्वरी ॥ १५५॥ विद्यावती वैद्यमाता विद्याहारविभूषणा । विष्णुवक्षस्थलस्था च वामदेवाङ्गवासिनी ॥ १५६॥ वामाचारप्रिया वल्ली विवस्वत्सोमदायिनी । शारदा शारदाम्भोजवारिणी शूलधारिणी ॥ १५७॥ शशाङ्कमुकुटा शष्पा शेषशायीनमस्कृता । श्यामा श्यामाम्बरा श्याममुखी श्रीपतिसेविता ॥ १५८॥ षोडशी षड्रसा षड्जा षडाननप्रियङ्करी । षडङ्घ्रिकूजिता षष्टिः षोडशाम्बरपूजिता ॥ १५९॥ षोडशाराब्जनिलया षोडशी षोडशाक्षरी । सौम्बीजमण्डिता सर्वा सर्वगा सर्वरूपिणी ॥ १६०॥ समस्तनरकत्राता समस्तदुरितापहा । सम्पत्करी महासम्पत् सर्वदा सर्वतोमुखी ॥ १६१॥ सूक्ष्माकरी सती सीता समस्तभुवनाश्रया । सर्वसंस्कारसम्पत्तिः सर्वसंस्कारवासना ॥ १६२॥ हरिप्रिया हरिस्तुत्या हरिवाहा हरीश्वरी । हालाप्रिया हलिमुखी हाटकेशी हृदेश्वरी ॥ १६३॥ ह्रींबीजवर्णमुकुटा ह्रीं हरप्रियकारिणी । क्षमा क्षान्ता च क्षोणी च क्षत्रियी मन्त्ररूपिणी ॥ १६४॥ पञ्चात्मिका पञ्चवर्णा पञ्चतिग्मसुभेदिनी । मुक्तिदा मुनिवृन्देशी शाण्डिल्यवरदायिनी ॥ १६५॥ ॐ ह्रीं ऐं ह्रीं च पञ्चार्णदेवता श्रीसरस्वती । ॐ सौं ह्रीं श्रीं शरद्बीजशीर्षा नीलसरस्वती ॥ १६६॥ ॐ ह्रीं क्लीं सः नमो ह्रीं ह्रीं स्वाहा बीजा च शारदा ॥ १६७॥ ॥ फलश्रुतिः ॥ शारदानामसाहस्रमन्त्रं श्रीभैरवोदितम् । गुह्यं मन्त्रात्मकं पुण्यं सर्वस्वं त्रिदिवौकसाम् ॥ १॥ यः पठेत्पाठयेद्वापि श‍ृणुयाच्छ्रावयेदपि । दिवा रात्रौ च सन्ध्यायां प्रभाते च सदा पुमान् ॥ २॥ गोगजाश्वरथैः पूर्णं गेहं तस्य भविष्यति । दासी दासजनैः पूर्णं पुत्रपौत्रसमाकुलम् ॥ ३॥ श्रेयस्करं सदा देवी साधकानां यशस्करम् । पठेन्नामसहस्रं तु निशीथे साधकोत्तमः ॥ ४॥ सर्वरोगप्रशमनं सर्वदुःखनिवारणम् । पापरोगादिदुष्टानां सञ्जीवनिफलप्रदम् ॥ ५॥ यः पठेद्भक्तियुक्तस्तु मुक्तकेशो दिगम्बरः । सर्वागमे सः पूज्यः स्यात्सविष्णुः समहेश्वरः ॥ ६॥ बृहस्पतिसमो वाचि नीत्या शङ्करसन्निभः । गत्या पवनसङ्काशो मत्या शुक्रसमोऽपि च । तेजसा दिव्यसङ्काशो रूपेण मकरध्वजः ॥ ७॥ ज्ञानेन च शुको देवि चायुषा भृगुनन्दनः । साक्षात् स परमेशानि प्रभुत्वेन सुराधिपः ॥ ८॥ विद्याधिषणया कीर्त्या रामो रामो बलेन च । स दीर्घायुः सुखी पुत्री विजयी विभवी विभुः ॥ ९॥ नान्यचिन्ता प्रकर्तव्या नान्यचिन्ता कदाचन ॥ १०॥ वातस्तम्भं जलस्तम्भं चौरस्तम्भं महेश्वरि । वह्निशैत्यं करोत्येव पठनं चास्य सुन्दरि ॥ ११॥ स्तम्भयेदपि ब्रह्माणं मोहयदपि शङ्करम् । वश्ययेदपि राजानं शमयेद्धव्यवाहनम् ॥ १२॥ आकर्षयेद्देवकन्यां उच्चाटयति वैरिणम् । मारयेदपकीर्तिं च संवश्येच्च चतुर्भुजम् ॥ १३॥ किं किं न साधयेदेवं मन्त्रनामसहस्रकम् । शरत्काले निशीथे च भौमे शक्तिसमन्वितः ॥ १४॥ पठेन्नामसहस्रं च साधकः किं न साधयेत् । अष्टम्यामाश्वमासे तु मध्याह्ने मूर्तिसन्निधौ ॥ १५॥ पठेन्नामसहस्रं तु मुक्तकेशो दिगम्बरः । सुदर्शनो भवेदाशु साधकःपर्वतात्मजे ॥ १६॥ अष्टम्यां सर्वरात्रं तु कुङ्कुमेन च चन्दनैः । रक्तचन्दनयुक्तेन कस्तूर्या चापि पावकैः ॥ १७॥ मृगनाभिर्मनःशिलाकल्कयुक्तेनवारिणा । लिखेद्भूर्जे जपेन्मन्त्रं साधको भक्तिपूर्वकम् ॥ १८॥ धारयेन्मूर्ध्नि वा बाहौ योषिद्वामकरे शिवे । रणे रिपून्विजित्याशु मातङ्गानिव केसरी ॥ १९॥ स्वगृहं क्षणमायाति कल्याणि साधकोत्तमः । वन्ध्या वामभुजे धृत्वा चतुर्थेऽहनि पार्वति ॥ २०॥ अमायां रविवारे यः पठेत्प्रेतालये तथा । त्रिवारं साधको देवि भवेत् स तु कवीश्वरः ॥ २१॥ सङ्क्रान्तौ ग्रहणे वापि पठेन्मन्त्रं नदीतटे । स भवेत्सर्वशास्त्रज्ञो वेदवेदाङ्गतत्त्ववित् ॥ २२॥ शारदाया इदं नाम्नां सहस्रं मन्त्रगर्भकम् । गोप्यं गुह्यं सदा गोप्यं सर्वधर्मैकसाधनम् ॥ २३॥ मन्त्रकोटिमयं दिव्यं तेजोरूपं परात्परम् । अष्टम्यां च नवम्यां च चतुर्दश्यां दिने दिने ॥ २४॥ सङ्क्रान्ते मङ्गलौ रात्र्यां योऽर्चयेच्छारदां सुधीः । त्रयस्त्रिंशत्सुकोटीनां देवानां तु महेश्वरि ॥ २५॥ ईश्वरी शारदा तस्य मातेव हितकारिणी । यो जपेत्पठते नाम्नां सहस्रं मनसा शिवे ॥ २६॥ स भवेच्छारदापुत्रः साक्षाद्भैरवसन्निभः । इदं नाम्नां सहस्रं तु कथितं हितकाम्यया ॥ २७॥ अस्य प्रभावमतुलं जन्मजन्मान्तरेष्वपि । न शक्यते मयाऽऽख्यातुं कोटिशो वदनैरपि ॥ २८॥ अदातव्यमिदं देवि दुष्टानामतिभाषिणाम् । अकुलीनाय दुष्टाय दीक्षाहीनाय सुन्दरि ॥ २९॥ अवक्तव्यमश्रोतव्यमिदं नामसहस्रकम् । अभक्तेभ्योऽपि पुत्रेभ्यो न दातव्यं कदाचन ॥ ३०॥ शान्ताय गुरुभक्ताय कुलीनाय महेश्वरि । स्वशिष्याय प्रदातव्यं इत्याज्ञा परमेश्वरि ॥ ३१॥ इदं रहस्यं परमं देवि भक्त्या मयोदितम् । गोप्यं रहस्यं च गोप्तव्यं गोपनीयं स्वयोनिवत् ॥ ३२॥ ॥ इति श्रीरुद्रयामलतन्त्रे पार्वतीपरमेश्वरसंवादे श्रीशारदासहस्रनामस्तवराजः सम्पूर्णः ॥ Proofread by PSA Easwaran
% Text title            : shAradAsahasranAmastotram
% File name             : shAradAsahasranAmastotra.itx
% itxtitle              : shAradAsahasranAmastotram shAradAsahasranAmastavarAjaH (rudrayAmalAntargataH)
% engtitle              : shAradAsahasranAmastotram
% Category              : sahasranAma, devii, sarasvatI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sarasvatI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : PSA Easwaran
% Description-comments  : See corresopnding nAmAvalI
% Indexextra            : (Scan, 2, 3)
% Latest update         : October 18, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org