श्रीशारदास्तोत्रम्
(श्रीशृङ्गाद्रौ श्रीशारदानवरात्रोत्सवसमये)
रत्नावलीनिर्मितशैलशृङ्गविभ्राजदापूर्णसुधाकराभम् ।
आकण्ठरक्ताम्बरसंवृताङ्ग्या मुखाम्बुजं भाति जगज्जनन्याः ॥ १॥
आकण्ठमानम्रजनानुरागो ममेति लोकस्य विबोधनाय ।
आकण्ठरक्ताम्बरसंवृताङ्गी पद्मोत्थजाया प्रविभाति नूनम् ॥ २॥
एवं सर्वजगन्त्यप्युत्सङ्गे सन्निधाय रक्षामि ।
इति बोधनाय जगतामङ्के बालं दधासि मातस्त्वम् ॥ ३॥
शिशुमिव पदनतलोकं परिरक्षामीति बोधनायैव ।
अङ्के निधाय बालं भातीयं पङ्कजातभवदयिता ॥ ४॥
स्थालीपुलाकाख्यनयेन मातर्जगन्ति सर्वाण्यपि पालयामि ।
इत्येतदर्थस्य विबोधनाय बालं निजाङ्के विदधासि किं त्वम् ॥ ५॥
एकमेवाम्बरं वाणि विरूपं च वदन्ति हि ।
नवाम्बराणि धत्से त्वं सुरूपाणि कथं वद ॥ ६॥
आकाशवत्सर्वगतश्च नित्य इत्यादि वेदेऽम्ब किलाम्बरस्य ।
प्रत्नत्वमेकत्वमपि प्रसिद्धं कथं नवत्वं समभूदमुष्मिन् ॥ ७॥
पुराणवस्त्राणि न धारयामि नवाम्बराण्येव तु धारयामि ।
इति प्रबोधाय जनस्य नूनं नवाम्बराण्येव दधाति वाणी ॥ ८॥
भवन्तु विजरामराः पदसरोजनम्रा इति
प्रकृष्टदयया विधेः सखि सरोजतुल्यानने ।
करस्थकलशामृतं नतजनाय दातुं स्वयं
महार्हमणिनिर्मितं चषकमम्ब धत्से किमु ॥ ९॥
त्यक्ष्यामि नैव रागं कालत्रितयेऽपि नम्रवर्गेषु ।
इति बोधनाय वाणी रक्तसुमानां त्रयं धत्ते ॥ १०॥
हंसैरेव परैः सेव्या नाहमन्यैर्जनैरिति ।
प्रबोधनकृते मातर्हंसं वाहं करोषि किम् ॥ ११॥
हंसे हि शब्दे किमु मुख्यवृत्त्या स्थिताहमेवेति विबोधनाय ।
विभासि हंसे जगदम्बिके त्वमित्यस्मदीये हृदये विभाति ॥ १२॥
हंसोऽप्यहंस इति बोधमवाप्य मुक्तिं
प्राप्तः परस्तव पदाम्बुजसंश्रयाद्यत् ।
तस्मात्तवाम्ब पदयुग्ममयं मुमुक्षु-
र्हंसः समाश्रयति वाहनतामवाप्य ॥ १३॥
विरिञ्चिहृदयाम्बुजप्रमददानसूर्यप्रभे
विचित्रगतिचातुरीप्रथितपादपङ्केरुहे ।
करोति किमयं सदा गमनचातुरीप्राप्तये
मरालकुलनायकस्तव पदाब्जसेवां मुदा ॥ १४॥
हंसो बाह्यान्धकारप्रदलनचतुरो ह्यह्नि मोदप्रदायी
पद्मानामेष मेऽन्तःस्थिततिमिरततेर्वारयित्र्याश्च रात्रौ ।
अप्यामोदप्रदात्र्या नतहृदयसरोजातपङ्क्तेरधस्तात्
भूतो हीत्येव बोधं रचयितुमिव किं हंसमारोहसीशे ॥ १५॥
कर्तुमात्मनि सार्था किं वृषेन्द्रः पुर एतु नः ।
इत्यादिकां श्रुतिं वाणि पुरस्तात्कुरुषे वृषम् ॥ १६॥
वृषभो वृषभो नो चेत्कथं तव पदाम्बुजम् ।
वाणि सेवितुमर्हः स्यात्तस्माद्वृषभ एव हि ॥ १७॥
वृषं पुरस्तात्कुरुषे किमद्य वृषप्रदानाय नमज्जनेभ्यः ।
द्रुतं पयोजन्मभवप्रमोदपयोधिराकाशशिबिम्बपङ्के ॥ १८॥
पशुपः शिवोऽयमिति तं विहाय किं वाक्ततिप्रदामाशु ।
पशुतानिवृत्तयेऽयं वृषभस्त्वां सेवते मातः ॥ १९॥
शार्दूलचर्म परिवीक्ष्य भवाङ्गसंस्थं
भीतः पलाय्य तव सन्निधिमागतः किम् ।
उक्षाधिपः सरसिजासनधर्मपत्नि
ब्रूह्यद्य संशयनिमग्नमतेर्ममाशु ॥ २०॥
पुनरुपनयनं पुंसो वृषाधिरोहे न कामिन्याः ।
दर्शयति तत्स्त्रियोऽपि हि वृषभारूढा त्रिनेत्रेयम् ॥ २१॥
नीलकण्ठस्य सार्वज्ञ्यमूलं त्वत्पादसेवनम् ।
इति सम्बोधयन्नीलकण्ठस्त्वां सेवते किमु ॥ २२॥
शिखी मुण्डी जटीत्याद्याः सर्वे त्वत्सेवका इति ।
द्योतनाय शिखी किं वा मातस्त्वामेव सेवते ॥ २३॥
निशम्य सम्प्रेषितवान्मयूरमुद्धर्ष इत्येव पितृष्वसुः किम् ।
षडाननो ब्रूहि गिरां सवित्रि नम्रस्य सन्देहयुजो ममाशु ॥ २४॥
किं वर्णयामि तव सुन्दरतां मनुष्यो
यत्सुन्दरत्वमभिवीक्ष्य मयूरपक्षी ।
हित्वा विरूप इति षण्मुखमाशु मातः
वासं करोति तव पादसरोजमूले ॥ २५॥
दृष्ट्वा त्वदीयकचसन्ततिनीलमेघं
सर्वर्तुषूदयनमेत्य मयूर एष ।
नित्यप्रहर्षदतया विरहासहिष्णुः
नूनं त्वदङ्घ्रिनिकटे स्थितिमातनोति ॥ २६॥
केका न पूजयेयुस्त्वां भुवनेऽस्मिन्महोत्सवे वाणि ।
इति नाम्नैव हि वक्तुं भाति त्वत्सन्निधौ केकी ॥ २७॥
शिखिसूर्यचन्द्रमुख्यानहमेवास्थाय पालयामीदम् ।
जगदिति निबोधनार्थं वागीश्वरि भासि शिखिनमास्थाय ॥ २८॥
शम्भौ सन्ति शशाङ्कसूर्यशिखिनो नेत्रापदेशात्सदा
सागर्भ्यं त इमे निरीक्ष्य गिरिजानाथस्य मातस्त्वयि ।
वक्त्रारक्तपटीसुवाहमिषतः सेवां सदा कुर्वते
मोदादेव हि ते न चात्र विशयः कश्चिद्गिरां देवते ॥ २९॥
केकातोऽपि मनोहरेण वचसा त्वन्निर्जितः केक्ययं
पादाम्भोजयुगं प्रपन्न इति मच्चित्ते विभात्यम्बिके ।
जेतुः पादयुगप्रपत्तिरथवा देशान्तरावस्थितिः
युक्तं चान्यतरज्जितस्य विबुधाः प्राहुर्यतो भारति ॥ ३०॥
शिखिवच्छुद्ध एवेति नाम्नैवाह यतः शिखी ।
तस्मात्त्वद्वाहता चास्य युक्तैव विधिवल्लभे ॥ ३१॥
मुक्ताहारमिमं जगज्जननि ते शुभ्राहिबुद्ध्या किमु
ग्रीवास्थं ह्ययमग्रहीद्भुजगभुग्भोक्तुं ततो लब्धधीः ।
नायं सर्प इति स्वमोहमधुनापह्नोतुमेवात्यज-
न्नैवालङ्कृतिलक्ष्यतः परमहो धत्ते बुधः पूर्ववत् ॥ ३२॥
आद्या मत्समयी तनुर्मधुरिपोः कौर्मं द्वितीयं वपु-
स्तद्युग्मं त्वमिहाम्ब नेत्रपदयोर्व्याजेन धत्से यतः ।
तस्माच्चक्रयुगं तवोरसि कुचव्याजेन भात्यम्बिके
तस्मादेव खगेश्वरश्च सततं त्वां सेवते मोदतः ॥ ३३॥
विष्णौ वीक्ष्य जडाधिवासमथ च स्वामित्रशायित्वम-
प्यण्डोद्भूतपतिर्विहाय तमिमं विज्ञानरूषामयम् ।
त्वामेवाद्य निषेवते खलु मुदा वाग्देवि युक्तं च त-
त्को वा शत्रुसहासिकां हि सहते लोकेषु विद्वज्जनः ॥ ३४॥
भूताकाशचरेट् त्वमेव भुवने सिद्धं हि का तेन मे
वृद्धिश्चाभवदित्यवेत्य खगराण्णूनं गिरां देवते ।
हार्दाकाशचराधिपत्यमपि मे भूयादितीच्छाबशात्
तत्प्राप्त्यै तव पादपङ्कजयुगीसेवां करोत्यादरात् ॥ ३५॥
विनतातनूद्भवत्वं प्रकटं प्रभवेद्विनत्यैव ।
इति बुद्ध्या खगराट् किं विनतस्त्वत्पादपद्मयोर्वाणी ॥ ३६॥
मानसविहरणशीलां देवीं त्यक्त्वान्यदेवतासेवा ।
नैवोचितेति खगराड्वहति त्वां तादृशी नूनम् ॥ ३७॥
सुवर्णनीकाश भवत्प्रतीककान्तेः परिष्वङ्गत एव सार्था ।
मुपर्णतेत्यात्मन आकलय्य खगेट् करोत्यम्ब तवाङ्घ्रिसेवाम् ॥ ३८॥
आगत्य कालाहिधिया हि वेणी
गिहीतुकामः खगराण्णिरीक्ष्य ।
निह्नोतुमिच्छत्ययमम्ब नैजां
भ्रान्तिं त्वदङ्घ्रेः परिसेवनात्किम् ॥ ३९॥
लोके ह्येकः पक्षः शुक्लश्चान्यश्च कृष्ण एवेह ।
द्वावपि शुक्लौ पक्षौ धत्ते गरुडः किमम्ब तव वाहः ॥ ४०॥
हस्तान्तरस्थपरशुं शम्भोर्भूषार्थमागतान्नागान् ।
दृष्ट्वा भीतो हरिणश्चरणं शरणं जगाम तव वाणि ॥ ४१॥
धत्ते कुरङ्गं विधुरेष पूर्णो मदास्यचन्द्रस्तमधः करोति ।
इत्येतयोर्भेदविबोधनाय कुरङ्गमम्ब त्वमधः करोषि ॥ ४२॥
समाश्रयेयं यदि पुष्करस्थ-
मब्जं तदा स्यात्पतनं हि दर्शे ।
ममेति मत्वा मृगशाबकोऽयं
पदाब्जमेवाश्रयते तवाम्ब ॥ ४३॥
शुक्लादौ शशिनं स्वकीयशरणं पूर्ण विचिन्वन्मृगो
वाण्यास्यं तव वीक्ष्य हृष्टहृदयः पूर्णो मया चन्द्रमाः ।
प्राप्तश्चेति तवाङ्घ्रिसन्निधिमसावागत्य वेगात्ततो
नास्मिन्नास्ति ममावकाश इति किं तिष्ठत्ययं भारति ॥ ४४॥
पुरा तव पदाम्बुजं हरिण एष सम्पूज्य यो
जगत्प्रभुशिरःस्थिते शशिनि संस्थितं प्राप्तवान् ।
किमद्य हृदि संस्मरंस्तव पदाब्जसेवाफलं
महोत्सवदिदृक्षया चरणसन्निधिं प्राप्तवान् ॥ ४५॥
पिबेयुरपि मां सुरा यदि वसामि चन्द्रे तदे-
त्यपायरहितं पदं जिगमिषुश्चिरं सञ्चरन् ।
अपायवचनोज्झितं तव पदाब्जयोरन्तरं
विलोक्य मृगशाबको वसति तत्र वाग्देवि किम् ॥ ४६॥
भक्ताज्ञानमहेभा मद्वाहनसन्निरीक्षणादेव ।
निर्यान्त्विति सहसा किं सिंहं वाहं करोषि मातस्त्वम् ॥ ४७॥
लालयति वाणि किं त्वां पञ्चास्यः स्कन्धमारोप्य ।
युक्तमिदं भ्रातृणां सोदर्यालालनं लोके ॥ ४८॥
विष्ण्वर्धत्वात्पालकत्वं ममास्ते
संहर्तृत्वं नैजमेवास्ति किं तु ।
स्रष्टुर्भावो वाणि नास्तीति मत्वा
तत्प्राप्त्यै त्वां सेवते पञ्चवक्त्रः ॥ ४९॥
तवाम्बराभावशशीयशृङ्ग-
नीकाशमध्यत्वमयं निशम्य ।
वलग्नकार्श्याध्ययनाय किं वा
पदाब्जसेवां विदधाति सिंहः ॥ ५०॥
नताय पादाम्बुजयोर्जनाय
राजाधिराजत्वविधित्सया किम् ।
सिंहासनं त्वं वद दातुमम्ब
सिहं सदा सन्निधिगं करोषि ॥ ५१॥
वने जातः सिंहः पुनरपि दरीवासनिरतः
स्वसाम्यं यत्र स्यात्सततवसतिं तत्परिसरे ।
चिकीर्षन्भ्रान्त्या किं तव पदवनेजे नतमनो
गुहावासे दृष्ट्वा वसतिमकरोत्तत्परिसरे ॥ ५२॥
नाथस्यापि ममानिवेद्य हरिणः सेवां कथं प्रातनो-
द्वाग्देव्याश्चरणाब्जयोरिति रुषा सारङ्गबालं भृशम् ।
कृत्वा शीघ्रपलायनोत्सवपरं सेवां करोत्यादराद्-
दृश्येशः स्वयमित्यवैमि करुणावारान्निधे शारदे ॥ ५३॥
कुरङ्गवेगस्तव दृष्टपूर्वस्तुरङ्गवेगं परिपश्य वाणि ।
इतीव गर्वादधिगम्य मातस्तुरङ्गमस्त्वां परिसेवते किम् ॥ ५४॥
तुरङ्गवच्चञ्चलमम्ब चित्तं बद्ध्वा दृढं भक्तिगुणेन शीघ्रम् ।
स्थिरं करोमीति गुणैस्तुरगं नियम्य किं बोधयसे जनांस्त्वम् ॥ ५५॥
त्वमश्वपूर्वां श्रियमानताय ददामि तूर्णं त्विति बोधनाय ।
तुरङ्गमग्रे विदधासि मातरितीव मन्ये वद किं तथैव ॥ ५६॥
उन्नम्य पादद्वितयं तुरङ्गो वदन्नितीवास्ति गिरां सवित्रि ।
विलङ्घ्यतां किं सरिदीश्वरोऽयमुत्प्लुत्य गच्छेयमथाम्बरं वा ॥ ५७॥
पदे पदे दानवश्यता मे भवेच्छचीनाथसमीपवासे ।
उच्चैःश्रवा इत्यधिगम्य मातस्तवाङ्घ्रिसेवां प्रकरोति किं वा ॥ ५८॥
अश्वो वाहनतां न याति दिविषद्वृन्दयस्य वेदा इति
प्राहुस्तं च निशम्य रोषसहितस्त्वत्सन्निधिं प्राप्य किम् ।
मिथ्या कर्तुमहो तदीयवचनं देव्यास्तवाम्बानिशं
वाहत्वं कुतुकी जगाम तुरगाधीशो गिरां देवते ॥ ५९॥
विहङ्गं कुरङ्गं तुरङ्गं च वाहं
विधायाशुगं भ्रान्तिमासाद्य कि त्वम् ।
गजं मन्दगं वाहमद्यातनोषि
प्रणम्रस्य मे ब्रूहि वाचामधीशे ॥ ६०॥
नतेष्टदानाय सदा जलार्द्रकराम्बुजा त्वं यत एव वाणि ।
तस्मादिभोऽप्येष तवाङ्घ्रिसङ्गाद्दानाम्बुसंसिक्तकरो विभाति ॥ ६१॥
केचित्प्राहुरनैपुणास्तु कुचयोः साम्यं हि कुम्भस्थले
शुण्डायामथवोरुतौल्यमिभराडिच्छस्तवागादिति ।
नैतत्सम्भविता तनौ कठिनता यस्मात्ततः शारदे
मन्ये ह्युत्सवसेवनाय हरिणा सम्प्रेषितः स्यादिति ॥ ६२॥
मम कौशिकवाहनता भवेद्धर्यश्वस्य सेवने किमिति ।
शुक्लेभस्तव वाहः समभून्मातर्न सन्देहः ॥ ६३॥
जम्भारौ कौशिकत्वं ह्यथ च तदनुजे वीक्ष्य सम्यग्घरित्वं
त्यक्त्वा ह्रीसाध्वसाभ्यामयमिभकुलराट्टौ शरच्चन्द्रशुभ्रः ।
इन्द्रोपेन्द्रादिसेव्यामपि सकलसुराराध्यपादारविन्दां
त्वामेवातिप्रमोदात्कमलजदयिते सेवते नूनमेतत् ॥ ६४॥
मत्पादाब्जप्रणम्रं नरमतितरसा सेवते चेभमुख्या
लक्ष्मीर्हस्ताग्रराजद्वरकनकमयस्रग्धरेत्येव बोधम् ।
कर्तुं हस्ताग्रराजद्वरकनकसरं नागराजं प्रधत्से
वाणि प्रब्रूहि किं त्वं कमलजहृदयाम्भोजसूर्यप्रभे मे ॥ ६५॥
एकः शुकः प्रसिद्धोऽस्ति पाराशर्यसुतः किल ।
शुकोऽपरस्तु को ब्रूहि शारदे प्रणताय मे ॥ ६६॥
एकं शरीरं परिगृह्य पूर्वभवे शुकोऽयं कृतवान्विचारम् ।
मोक्षाय नालं स इतीह देहद्वयं गृहीत्वा किमु सेवते त्वाम् ॥ ६७॥
दन्तेषु किं दाडिमबीजबुद्ध्या तवाधरे बिम्बधियाथवायम् ।
शुकः कुतस्त्वन्निकटे चकास्ति सन्देहयुक्ताय वदाशु मातः ॥ ६८॥
श्रुत्वा तवाम्ब निनदं किल कीरडिम्भः
कण्ठे तवास्ति शुक इत्ययमाकलय्य ।
इच्छन्विनिर्गमनमस्य बहिस्तवाद्य
हस्ताम्बुजे स्थिरतया वसतीति मन्ये ॥ ६९॥
क्षुधाऽऽतुरः कश्चन कीरडिम्भ-
स्तृषार्दितोऽन्यश्च तयोर्हि मातः ।
एकस्तु कर्णोत्पलमत्तुमिच्छ-
त्यन्यः करस्थामृतपानकामः ॥ ७०॥
पादनम्रपुरुषान्किं बोधयितुं लज्जया गिरां देवि ।
अपिधाय नैजरूपं धत्से पुरुषाकृतिं ब्रूहि ॥ ७१॥
प्रसवित्र्यां हि सुतानां नैव भवेत्साध्वसं कदाचिदपि ।
मत्वेति बोधनकृते गुरुवररूपं दधासि किं मातः ॥ ७२॥
सर्वात्मकत्वमथवा बोधयितुं स्वस्थ सर्वलोकानाम् ।
स्वीकुरुषे किं पौरुषमम्बुजसञ्जातमानिनि ब्रूहि ॥ ७३॥
झषौ स्वजातिदोषं किमबलस्वकुलाशनम् ।
मातर्निवेदनायाक्षिव्याजात्कर्णसमीपगौ ॥ ७४॥
अशक्नुवन्स्तोतुमहीश्वरस्त्वन्मुखस्य सौन्दर्यमयं जगाम ।
रसातलं वक्त्रसहस्रतां च निनिन्द कञ्जातभवस्य जाये ॥ ७५॥
अशक्नुवन्तस्तव सुन्दरत्वं स्तोतुं महेशाग्निभबाब्जजाताः ।
निनिन्दुरास्येषु हि पञ्चकत्वं षट्ट्वं चतुष्ट्वं च गिरां सवित्रि ॥ ७६॥
नीलोप्यलोत्थः खलु नीलमेघो
नम्रास्यमध्यात्कविताप्रवाहम् ।
प्रवर्तयत्याशु वदन्ति चैनं
मातस्तवाक्षिप्रभवं कटाक्षम् ॥ ७७॥
नीलोत्पले त्वन्नयने हि मात-
स्तदुत्थमेघः करुणाकटाक्षः ।
स नम्रवक्त्रात्कविताप्रवाहं
प्रवर्तयत्याशु न संशयोऽत्र ॥ ७८॥
माला विभात्यम्ब तवाद्य कण्ठे
क्वचिच्च रक्ता कचिदच्छवर्णा ।
बिम्बाधरस्य प्रभया हि नासा-
मणेश्च कन्त्येति वितर्कयामि ॥ ७९॥
अक्षीणो नतचित्तसंस्थिततमोनिर्वापणेऽपि क्षम-
श्चाङ्केनाप्ययुतस्तवास्यरजनीनाथो गिरां देवते ।
क्षीणेनाङ्कयुजा बहिःस्थिततमोमात्रापनोदक्षमे-
णाब्जेनायमहो कथं स लभतां साम्यं जगन्मातृके ॥ ८०॥
देबानामनिमेषताद्य सफला जाता तवाम्बानिशं
वक्त्राब्जस्य निरीक्षणात्सुरपतेस्तद्वत्सहस्राक्षता ।
गौरीशस्य दशाक्षता कमलजस्याष्टाक्षता भारति
क्रौञ्चारेर्द्विषडक्षतापि फलयुग्जातेति जानीमहे ॥ ८१॥
अस्याब्जस्य समाश्रये मं भवेन्मोदो रजन्यां परं
नैवाह्नीत्यत एव चम्पकसुमेनालोच्य नीलोत्पले ।
सेवेते तव वक्त्रपद्ममनिशं नेत्रापदेशान्मुदा
रात्रौ वासरमध्यमेऽपि सुखदं वाग्देवि न द्वापरः ॥ ८२॥
चन्द्रः सौहार्दमिच्छंस्तव मुखशशिना प्राप्य वृद्धिं वलक्षे
पक्षे प्राप्येषदम्ब प्रहृषितहृदयश्चाभवत्पूर्णिमायाम् ।
दृष्ट्वाथ त्वन्मुखेन्दुं मृगशिशुरहितं स्वं च चिह्नेन युक्तं
लज्जायुक्तस्ततोऽयं प्रतिदिवसमहो क्षीणतां याति कृष्णे ॥ ८३॥
दृष्टं वाग्देवताया वदनसरसिजं येन भूमौ कदाचि-
च्छृङ्गाद्रौ तस्य वक्त्रात्सरसपदयुता वाक्ततिर्निःसरेद्धि ।
नीहाराद्रेर्गुहातः सुरवरतटिनी यद्वदाश्वप्रयत्ना-
न्निर्गच्छत्येव तद्वन्न हि खलु विशयोऽस्माकमत्रास्ति कश्चित् ॥ ८४॥
एकापि नानाविधरूपधर्त्री-
त्येतादृशार्थस्य विबोधनाय ।
वेण्यां भुजङ्गी नयने कुरङ्गी
मध्ये च सिंही प्रतिभासि किं त्वम् ॥ ८५॥
कम्बौ पद्मं भाति बिम्बं हि तस्मिन्
मल्लीपङ्क्तिश्चापि नीलोत्पले द्वे ।
सर्वं ह्येतद्भाति हैम्यां लतायां
शैले चास्मिन्पश्यतैतद्विचित्रम् ॥ ८६॥
विराजते कश्चन वारिराशि-
र्मीनेन युक्तो न हि कम्बवोऽत्र ।
कम्बूपरिस्थस्त्वयमेव मातः
सनेत्रमास्यं तव चैनमाहुः ॥ ८७॥
अकलङ्कः किमु चन्द्रः किं वा सद्यः प्रफुल्लमम्बुभवम् ।
सौन्दयर्युतवपुष्मद्वक्त्रं किं वा तवाम्ब न हि जाने ॥ ८८॥
भुजगी वा तव वेणी किं वा करपद्मपुष्परसलोभात् ।
आगतमधुलिट्पटली जानीमो नैव विधिकान्ते ॥ ८९॥
नागेन्द्रकुम्भावुत हेमकुम्भौ
किमम्ब कोकौ तव किं कुचौ वा ।
विवेक्तुमत्रास्ति न नोऽद्य शक्ति-
स्त्वमेव मातर्वद धातृजाये ॥ ९०॥
पयोजौ कूर्मौ वा सुरवरशिरोभूषणमणी
तरू वा कल्पाद्यौ नतजनचयाभीष्टवरदौ ।
पदे वा मातस्ते न तदिति विवेक्तुं हि विभवो
वयं तस्माच्छीघ्रं वद कमलजातप्रियतमे ॥ ९१॥
निर्गत्य शैलमध्यात्कुहरं काचिद्गता भुजगी ।
तां शंसन्ति हि सुधियो मातस्तव नाभिरोमालिम् ॥ ९२॥
सरस्या जातेयं न हि खलु कलिन्दाख्यगिरितः
समुद्रं नो याता ह्यपि तु वरशैलद्वयगता ।
विभातीत्थं काचित्त्वयि खलु गिरा देवि यमुना
वदन्त्येनां नाभिप्रसृततनुजालिं कविवराः ॥ ९३॥
किं तत्पयोजयुग्मं रम्भास्तम्भौ ततो व्योम ।
तत्र सरः समृणालं तदुपरि शैलौ ततः पयोजातम् ॥ ९४॥
दृष्टं वाग्देवते ते सरसिजयुगलं पादयुग्मं हि रम्भा-
स्तम्भावूरुद्वयं तत्तदुपरि गगनं मध्यभागो हि नूनं
मन्ये नाभिः सरः स्यात्तदुपरि कलये रोमपङ्क्तिं मृणालं
शैलद्वन्द्वं कुचौ स्यात्तदुपरि कमलं त्वास्यमेवेति मन्ये ॥ ९५॥
मां द्रष्टुमाकाशगतं हि मर्त्या वक्त्रोन्नतेः क्लेशयुता भवेयुः ।
इतीव मत्वा धरणीं गतोऽयमम्बास्यलक्ष्यात्तव पूर्णचन्द्रः ॥ ९६॥
तवास्यलक्ष्याद्धरणीं गतस्य सुधांशुबिम्बस्य निषेवणाय ।
मुक्तासराणां मिषतः समागात्ताराततिर्वाग्जननीति मन्ये ॥ ९७॥
शारदे तव पदं प्रसमीक्ष्य प्राप्तुमस्य सदृशत्वमहो किम् ।
कण्ठदघ्नसलिले प्रतिघस्रं पङ्कजान्युरुतपः प्रचरन्ति ॥ ९८॥
शारदे तव पदाम्बुजयुग्मं ये स्मरन्ति मनुजा भुविलोके ।
श्रीमतां च विदुषां धुरि गण्यास्ते भवन्ति न हि तत्र विचारः ॥ ९९॥
वाताहताब्धिलहरीततितौल्यभाजो
वाचः प्रयत्नमनपेक्ष्य मुखारविन्दात् ।
वादेषु यत्करुणया प्रगलन्ति पुंसां
वाग्देवता भवतु वाञ्छितसिद्धये सा ॥ १००॥
यस्त्वामिन्दुनिबद्धदिव्यमकुटां शुक्लाम्बरालङ्कृतां
मुद्रापुस्तकमालिकामृतघटान्सम्बिभ्रतीं ध्यायति ।
तस्यास्यात्सरसा सुवर्णघटिता सालङ्कृता वाक्तति-
स्तूर्णं निःसरति प्रयत्नरहिता निःसंशयं भारति ॥ १०१॥
अनायासादास्यादमरतटिनीपूरसदृशी
ततिर्वाचामाशु प्रसरति शिशोरप्यनुदिनम् ।
कृपालम्बापाङ्गे कृशतरवलग्नेऽकृशकुचे
न सन्देह्यत्राहं सरसिजभवप्राणदयिते ॥ १०२॥
कदाचिदपि यो नरस्तव पदाम्बुजं भक्तितो
विभावयति शारदे हृदयपङ्कजे तस्य हि ।
व्रजेयुरपि दासतां नृपवरास्तथा वाक्ततिः
सुधाशितटिनीसखी वदनपद्मतो निःसरेत् ॥ १०३॥
जडोऽपि जगदम्बिके तव कृपायुतं वीक्षणं
प्रपद्य सुरनायकं जयति सत्वरं सम्पदा ।
मुखाम्बुजनिरर्गलप्रविगलद्वचोवैखरी-
विनिर्जितसुरापगास्मयभरश्च सञ्जायते ॥ १०४॥
शिवे त्वदङ्घ्रिपङ्कजप्रणम्रवाग्झरीजिता
तुषारशैलगह्वरं जगाम जह्नुकन्यका ।
ततस्ततोऽपि तावकप्रणम्रकीर्तितर्जिता
शिवस्य शैलकन्यका जटाख्यदुर्गमाविशत् ॥ १०५॥
के वा न कुर्युर्भुवि काव्यमम्ब शब्दार्थविज्ञानयुजश्चिराय ।
चित्रं त्वदङ्घ्रिं परिसेवते यो जयेत्स वाचस्पतिमाशु वाग्भिः ॥ १०६॥
पञ्चास्यषण्मुखचतुर्मुखनागराजाः
स्तोतुं न तेऽम्ब चरितं प्रभवन्ति किञ्चित् ।
एकाननः कथमहं तव शक्नुयां तत्
स्तोतुं तथापि चपलं प्रसहस्व सूनोः ॥ १०७॥
यावद्वाचां सवित्रि प्रणतजनवचोदानबद्धादरे ते
पादाम्भोजं प्रणन्तुं कलयति धिषणां जन्ममूकोऽपि लोकः ।
तावद्देवेन्द्रदत्तप्रवरमणिगणाबद्धपीठस्य मध्या-
दुत्थायाशु प्रधावत्यमरगुरुरहो मामयं जेष्यतीति ॥ १०८॥
मुक्ताहारमिषाज्जगज्जननि ते सेवां करोत्यादरात्
देवानां सरिदित्यहो मकरराडालोच्य सेवां स्वयम् ।
कर्तुं हारमिषेण कम्बुसदृशे कण्ठे विभातीति म-
च्चिते भाति पुनर्वदन्तु चतुराः किं तं न जानाम्यहम् ॥ १०९॥
पापीयानिति सञ्जहासि करुणावारान्निधे शारदे
सर्वाघौघपयोधिबाडवशिखे त्वं मामनाथं यदि ।
तर्ह्येतादृशपापकोटिसहितं सर्वैश्च दूरीकृतं
को वा मां परिपालयेत्कमलजप्राणप्रिये ब्रूहि मे ॥ ११०॥
भक्तिहीन इति मां जहासि किं मातरद्य जलजासनप्रिये ।
सन्त्यजन्तु भुवि तर्हि मातरस्तद्वदेव निजकुक्षिजान्सुतान् ॥ १११॥
विरिञ्चिहरिशङ्करप्रभृतिनिर्जराग्र्यार्चिते
प्रणम्रजडतातमस्ततिविभेदसूर्यप्रभे ।
नमत्सुरसतीकचप्रविलसत्प्रसूनस्रव-
न्मरन्दतटिनीप्लवत्पदसरोरुहे पाहि माम् ॥ ११२॥
ज्वरादिनिखिलामयान्करुणया गिरामम्बिके
निवारय विभावरीपतिसमानवक्त्राम्बुजे ।
स्वरादिभुवनाधिपप्रणतपादपाथोरुहे
करादृतसुधेऽनिशं दिश सुखं जनानां मुदा ॥ ११३॥
पद्मासनस्थे सरसीरुहोत्थजाये वस त्वं हृदये सदा मे ।
तेनाहमाशाः सकला जयेयं न तत्र सन्देहलवोऽस्ति मेऽम्ब ॥ ११४॥
यं देववर्याः समुपासते हि तं देहिनामिष्टदमाशु मातः
मन्देतराप्यं सुजडः कथं वा विन्देयमङ्घ्रिं तव वाक्सवित्रि ॥ ११५॥
समस्तवस्तून्यपि सन्ति मातस्त्वत्सनिधौ किं तु न मन्मनोऽस्ति ।
तत्र प्रमाणं जनिरेव मेऽद्य तदप्यतस्त्वं कुरु सन्निधौ ते ॥ ११६॥
लोकप्रसिद्धाब्धिततेस्तु मानमाहुर्द्विलक्षाधिकयोजनानि ।
नाद्राक्ष्म नाश्रौष्म भवत्कृपाब्धेर्मानं पयोजातभवस्य जाये ॥ ११७॥
न पूजिता त्वं कुसुमैर्मनोज्ञैर्न संस्तुता हृद्यपदैश्च पद्यैः ।
न संस्मृता हृत्कमलेऽपि जातु तथापि मातर्दयसे जनेऽस्मिन् ॥ ११८॥
नैवाहमानीय सुमानि दिव्यान्याराधनं तेऽकरवं कदापि ।
तथापि मातः सहजानुकम्पायुतैः कटाक्षैः परिपासि मां त्वम् ॥ ११९॥ var परिपाहि
ये प्राणरोधप्रमुखान्प्रयत्नान्कुर्वन्ति लोकाः स्वसमीहिताय ।
ते नैव जानन्ति परं प्रणामं तवाम्ब कल्पद्रुमबद्धसख्यम् ॥ १२०॥
अव्याजकारुण्यमयि प्रसीद सुव्याहृतीनां ततिमाशु यच्छ ।
नव्यानि काव्यानि करोमि मातः क्रव्यादवैरिप्रमुखामरेड्ये ॥ १२१॥
तिष्ये युगे सङ्घगता हि शक्तिरितीव सम्यक्परिचिन्त्य देव्याः ।
नासासदृक्षत्वमहोऽधिगन्तुं मालात्वमापुः खलु चम्पकानि ॥ १२२॥
चम्पकसुमानि मातर्नूनं नासासदृक्षतां गन्तुम् ।
सततं मालाव्याजात्सेवन्ते पङ्कजातभवजाये ॥ १२३॥
अव जगदम्ब सदा मां सवमुख्यकर्मभिस्तुष्टे ।
नवनवकवित्वदानप्रवणे कञ्जातजन्मसुकृतमयि ॥ १२४॥
करुणापूरितनयने वरुणादिदिगीशसेव्यपदपद्मे ।
अरुणाधरजितबिम्बे तरुणाब्जमुखि प्रदेहि मम सौख्यम् ॥ १२५॥
स्फुर जगदम्ब सदा मे मानसपद्मे सरोजभवजाये ।
वरदाननिरतपाणे वीणापाणेऽधरे शोणे ॥ १२६॥
राकाचन्द्रसदृक्षं तव मुखपद्मं हृदम्बुजे स्मरताम् ।
कविता चेटीभूयात्तत्राम्ब, न मेऽस्ति सदेहः ॥ १२७॥
कन्यां कुलशैलपतेर्मान्यां मुरवैरिमुख्यदेवततेः ।
नौकां भवाम्बुराशेर्नौम्यहमनिशं शशाङ्कशिशुशीर्षाम् ॥ १२८॥
काञ्चन काञ्चनगर्वन्यक्कारधुरीणदेहकान्तिझरीम् ।
कमनीयकवनदात्रीं कमलासनसुकृतसन्ततिं कलये ॥ १२९॥
तनुजितगाङ्गेयरुचिः करधृतरुद्राक्षमालिकाकुम्भा ।
तनुतात्तामरसासनजाया जाड्यौघवारणं शीघ्रम् ॥ १३०॥
मन्मूर्तिनीकाशतनुं सृजाशु प्रविश्य तस्यां कुरु वासमत्र ।
व्याख्यानपीठे जगतां सुखाय चिराय मातर्वचसां सवित्रि ॥ १३१॥
ममास्यमध्यादपशब्दयुग्वाङ् न निःसरेद्वाणि कृपापयोधे । -
स्वप्नेऽपि लीलार्थकृतेषु जल्पेष्वपि प्रपन्नावनबद्धदीक्षे ॥ १३२॥
यां तुष्टुवुः श्रुतिशतैर्मुनिसार्वभौमाः
पाशापनोदचतुरां परमेष्टिपत्नीम् ।
तां तुच्छसर्वविषयेषु विरक्तिदात्रीं
श्रीशारदां कलितचन्द्रकलां नमामि ॥ १३३॥
ये त्वत्पदाम्बुजसमर्चनलब्धहर्षा
रोमाञ्चगद्गदगिरः स्रवदक्षिपद्माः ।
ते पावयन्ति धरणीं स्वपदाञ्जसङ्गा-
न्नास्त्यत्र कोऽपि विशयो वचसां सवित्रि ॥ १३४॥
चन्द्रश्चकोरालिमयं करैः स्वैः करोति तृप्तां सितपक्ष एव ।
तवास्यचन्द्रस्तु नमच्चकोरान् करोति मातः सततं हि तृप्तान् ॥ १३६॥
आगच्छत मत्पादौ प्रणमत भजतेष्टनिखिलसम्पत्तीः ।
इति नम्रांस्त्वयसि किं प्रसारितेनाम्ब हस्तपद्मेन ॥ १३६॥
वाणी वीणां हस्तपद्मे निधाय स्वीयं भावं दर्शयत्यम्बिकासौ ।
स्थित्वा केक्यां भावमप्यन्यदीयं सर्वात्मत्वद्योतनायेति मन्ये ॥ १३७॥
पीताम्बराद्याः सुरनायका मे पदाग्रनम्रा इति बोधनाय ।
पादाग्रलम्बि प्रदधासि मातः पीताम्बरं किं वद धातृजाये ॥ १३८॥
आदर्शमब्जावसतिः कदापि नास्तीति लोकप्रचुरः प्रवादः ।
किमन्यथाकर्तुमिमं करोषि पादाब्जमादर्शकृतप्रचारम् ॥ १३९ ]] ।
आदर्शवत्स्वच्छतरेषु चित्तेष्वेवाङ्घ्रिपद्मं मम भाति सम्यक् ।
इत्यर्थमावेदयितुं नतानामादर्शवृत्तिं प्रकरोषि पादम् ॥ १४० ॥
सकृत्प्रणन्तॄनपि भक्तलोकाननेकधा किं प्रणतान्विभाव्य ।
तदानुगुण्येन फलानि दातुमादर्शमङ्घ्रेः सविधे दधासि ॥ १४१॥
लब्धप्रतिष्ठः परिपूर्णचन्द्रे करोमि वासं कथमर्धचन्द्रे ।
एवं कलङ्कः परिचिन्त्य नीलरत्नापदेशात्किमु भाति शीर्षे ॥ १४२॥
कमलासनस्य पत्युर्ध्यानात्सततं पतिव्रते किमिदम् ।
कमलासनत्वमागाः स्वयमपि वाचां सवित्रि मे ब्रूहि ॥ १४३॥
सतां हृदब्जेषु वसाम्यजस्रमित्यर्थमावेदयितुं जनानाम् ।
पद्मे निवासं प्रकरोषि मातः कि पद्मयोनेर्दयिते वदास्मै ॥ १४४॥
हस्तेनादाय शीघ्रं नतहृदयसरोजातमीशे गिरां किं
चाञ्चल्यं तत्र दृष्ट्वा बहुलमथ निजं ह्यासनत्वं प्रकल्प्य ।
अध्यास्ते स्थैर्यसिद्ध्यै परमिह भवती भर्तृयुक्ता ह्यजस्रं
मातुः पुत्रेषु पूर्णा प्रभवति करुणा हेतुशून्यैव वाणि ॥ १४५॥
रथस्थितां मां मनुजा जगत्या पश्यन्ति ये भक्तियुतान्तरङ्गाः ।
मनोरथावाप्तिरशेषतः स्यात्तेषामिति द्योतयितुं रथस्था ॥ १४६॥
पद्मासनस्थितौ मम पदयोः स्फुटता भवेन्नैव ।
नम्रजनानामिति किं तिष्ठसि पादौ विवृण्वाना ॥ १४७॥
उपविष्टायास्तन्द्री कदाचिदपि मे नतावने प्रभवेत् ।
इति तिष्ठसि किमु नम्रांस्तन्द्राहीनावितुं गिरां देवि ॥ १४८॥
मत्पादाम्बुजसेवकानतिजवात्संसारवारान्निधे-
राकृष्योद्धरणं विधेयमधुनेत्युत्थाय पद्मासनात् ।
यो वा कश्चिदिहेत्य जन्मजलधौ मग्नोऽहमस्मीत्यतो
मां रक्षेति समाह्वयेदिति मुदा तिष्ठस्यहो वाणि किम् ॥ १४९॥
आकर्षति यथायांसि ह्ययस्कान्तमणिर्द्रुतम् ।
तथैव त्वन्मुखाम्भोजं नतचित्तानि शारदे ॥ १५० ॥
धातुः पुण्यततिः काचिद्वाचां धाटीं ददातु मे
यां दृष्ट्वा लज्जितो भूयात्सुराचार्योऽपि तादृशीम् ॥ १५१॥
कटाक्षजितनीलाब्जा करिकुम्भनिभस्तनी ।
करोतु मम कल्याणं कमलासनकामिनी ॥ १५२॥
कञ्जभवपुण्यराशे कम्रस्मितजितचकोरबन्धुचये ।
कंसमदमर्दनचणे कञ्चन पुरुषार्थमर्थयन्नौमि ॥ १५३॥
मतिजितसुरगुरुगर्वान् प्रकुर्वतीं शीघ्रमेव पदनम्रान् ।
कलये हृदि जगदम्बां करपद्मलसत्सुधाकुम्भाम् ॥ १५४॥
उन्नम्योन्नम्य सन्ध्यादिचन्द्रराजतपात्रकम् ।
यामिनीकामिनी ताराकुसुमानि चिनोति किम् ॥ १५५॥
तीरात्तीरं चरन्ती कमलजदयिता पोतवर्येण मोदा-
त्कारुण्याक्रान्तचेता नतनरनिकरं बोधयत्येनमर्थम् ।
संसारापारसिन्धुं मम पदसरसीजातविन्यस्तबुद्धीन्
भक्त्याख्येनोडुपेन द्रुतमिह मनुजांस्तारयामीति नूनम् ॥ १५६॥
वनजासनवरमानिनि सम्यक्कर्तुं किमासनं पत्युः ।
वनजानि पत्रपुष्पाण्यानयसे कक्षपाणिपद्मैस्त्वम् ॥ १५७॥
ग्रामीणपुष्पवृन्दं दृष्ट्वा दृष्ट्वानुघस्रमम्ब किमु ।
वनजानि पुष्पवर्याण्यानयसे किंविधानीति ॥ १५८॥
अवनरतायाः किमु मम पदे पदे नैव भवति वनगमनम् ।
इत्येकदैव वनजान्यानयसे कक्षमध्येन ॥ १५९॥
दण्डधृद्भयनिवारणेच्छुभिर्दम्भमोहमुखदोषवर्जितैः ।
दण्डितेद्रियचयैर्निषेविते दन्तितुल्यगमनेऽव शारदे ॥ १६० ॥
वाचामीशः प्रभवति यदालोकमात्राज्जडाग्र्यो
नाकाधीशः प्रभवति तथा रङ्कवर्योऽपि लोके ।
तच्चन्द्राब्जप्रमुखनिबिडाहङ्कृतेर्भेददक्षं
नित्यं वक्त्रं हृदयकुहरे भावयामि त्वदीयम् ॥ १६१॥
अतिचपलं मम हृदयं तव रूपं चातिसूक्ष्ममिति निगमाः ।
कथमम्ब मामकीनं मन एतद्वेत्तु तावकं रूपम् ॥ १६२॥
ऐङ्कारस्तव बीजं वदने मम वसतु सर्वदा वाणि ।
तेनाहं सकलार्थान्क्षिप्रं संसाधयामि नो विशयः ॥ १६३॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीशारदास्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran psaeaswaran at gmail.com