श्रीशारिकासहस्रनामस्तोत्रम्

श्रीशारिकासहस्रनामस्तोत्रम्

॥ श्रीशारिकासहस्रनामस्तोत्रम् ॥

श्रीभैरव उवाच -

या सा देवी पुराख्याता शारिकारूपधारिणी । जालन्धरराक्षसघ्नी प्रद्युम्नशिखरे स्थिता ॥ १॥ तस्या नामसहस्रं ते मन्त्रगर्भं जयावहम् । कथयामि परां विद्यां सहस्राख्याभिधां शिवे ॥ २॥ शिलायाः शारिकाख्यायाः परसर्वस्वरूपिणीम् । विना नित्यक्रियां देवि विना न्यासं विनाऽर्चनम् ॥ ३॥ विना पुरस्क्रियां जाप्यं विना होमं च तर्पणम् । विना श्मशानगमनं विना समयपूजनम् ॥ ४॥ यया लभेत् फलं सर्वं तां विद्या श‍ृणु पार्वति । या देवी चेतना लोके शिलारूपास्ति शारिका ॥ सृजत्यवति विश्वं तु संहरिष्यति तामसी । सैव संसारिणां देवि परमैश्वर्यदायिनी ॥ ६॥ परं पदं प्रदाप्यान्ते महाविद्यात्मिका शिला । तस्या नामसहस्रं ते वर्णयामि रहस्यकम् ॥ ७॥ रहस्यं मम सर्वस्वं सकलाचारवल्लभम् । यो जपेत् परमां विद्यां पठेदाख्यासहस्रकम् ॥ ८॥ धारयेत् कवचं दिव्यं पठेत स्तोत्रेश्वरं परम् । किं तस्य दुर्लभं लोके नाप्नुयाद् यद्यदीश्वरि ॥ ९॥ अस्य नाम्नां सहस्रस्य महादेव ऋषिः स्मृतः । छन्दोऽनुष्टुप् देवता च शारिका परिकीर्तिता ॥ १०॥ शर्म बीजं रमा शक्तिः सिन्धुरः कीलकं स्मृतम् । धर्मार्थकाममोक्षार्थे विनियोगः प्रकीर्तितः ॥ ११॥ ध्यानमस्याः प्रवक्ष्यामि श‍ृणु पर्वतनन्दिनि ।

॥ विनियोगः ॥

अस्य श्रीशारिकाभगवतीसहस्रनामस्तोत्रस्य, श्रीमहादेव ऋषिः, अनुष्टुप् छन्दः, श्रीशारिका भगवती देवता, शां बीजं, श्रीं शक्तिः, फ्रां कीलकं, धर्मार्थकाममोक्षार्थे विनियोगः ऋष्यादिन्यासं कृत्वा, ह्रांश्रामित्यादिना कराङ्गन्यासौ ॥

॥ ऋष्यादिन्यासः ॥

ॐ श्रीमहादेवऋषये नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे । श्रीशारिकाभगवती देवतायै नमः हृदये ॥ शां बीजाय नमः दक्षस्तने ॥ श्रीं शक्तये नमः वामस्तने ॥ फ्रां कीलकाय नमः नाभौ ॥ श्रीशारिकाभगवती प्रसादसिद्ध्यर्थे पाठे विनियोगाय नमः पादयोः ॥

॥ षडङ्गन्यासः ॥

॥ करन्यासः ॥

ह्रां श्रां अङ्गुष्ठाभ्यां नमः । ह्रीं श्रीं तर्जनीभ्यां नमः । ह्रूं श्रूं मध्यमाभ्यां नमः । हैं श्रैं अनामिकाभ्यां नमः । ह्रौं श्रौं कनिष्ठाभ्यां नमः । ह्रः श्रः करतलकरपुष्ठाभ्यां नमः ।

॥ अङ्गन्यासः ॥

ह्रां श्रां हृदयाय नमः । ह्रीं श्रीं शिरसे स्वाहा । ह्रूं श्रूं शिखायै वषट् । हैं श्रैं कवचाय हुम् । ह्रौं श्रौं नेत्रत्रयाय वौषट् । ह्रः श्रः अस्त्राय फट् ।

॥ ध्यानम् ॥

बालार्ककोटिसदृशीमिन्दुचूडां कराम्बुजैः । वरचक्राभयासींश्च धारयन्तीं हसन्मुखीम् ॥ १॥ सिंहारूढां रक्तवस्त्रां रक्ताभरणभूषिताम् । वामदेवाङ्कनिलया हृत्पद्मे शारिकां भजे ॥ २॥ बालार्ककोटिद्युतिमिन्दुचूडां वरासिचक्राभयबाहुमाद्याम् । सिंहाधिरूढां शिववामदेहलीनां भजे चेतसि शारिकेशीम् ॥ ३॥

॥ स्तोत्रम् ॥

ॐ ह्रीं श्रीं हूं फ्रां आं शां श्रीशारिका श्यामसुन्दरी । शिला शारी शुकी शान्ता शान्तमानसगोचरा ॥ १॥ शान्तिस्था शान्तिदा शान्तिः श्यामा श्यामपयोधरा । देवी शशाङ्कबिम्बाभा शशाङ्ककृतशेखरा ॥ २॥ शशाङ्कशोभिलावण्या शशाङ्कमध्यवासिनी । शार्दूरलवाहा देवेशी शार्दूलस्थितिरुत्तमा ॥ ३॥ शादूलचर्मवसना शक्तिः शार्दूलवाहना । गौरी पद्मावती पीना पीनवक्षोजकुट्मला ॥ ४॥ पीताम्बरा रक्तदन्ता दाडिमीकुसुमोपमा । स्फुरद्रत्नांशुखचिता रत्नमण्डलविग्रहा ॥ ५॥ रक्ताम्बरधरा देवी रत्नमालाविभूषणा । रत्नसंमूर्छितात्मा च दीप्ता दीप्तशिखा दया ॥ ६॥ दयावती कल्पलता कल्पान्तदहनोपमा । भैरवी भीमनादा च भयानकमुखी भगा ॥ ७॥ कारा कारुण्यरूपा च भगमालाविभूषणा । भगेश्वरी भगस्था च कुरुकुल्ला कृशोदरी ॥ ८॥ कादम्बरी पटोत्कृष्टा परमा परमेश्वरी । सती सरस्वती सत्या सत्यासत्यस्वरूपिणी ॥ ९॥ परम्परा पटाकारा पाटला पाटलप्रभा । पद्मिनी पद्मवदना पद्मा पद्माकरा शिवा ॥ १०॥ शिवाश्रया शरच्छान्ता शची रम्भा विभावरी । द्युमणिस्तरणा पाठा पीठेशी पीवराकृतिः ॥ ११॥ अचिन्त्या मुसलाधारा मातङ्गी मधुरस्वना । वीणागीतप्रिया गाथा गारुडी गरुडध्वजा ॥ १२॥ अतीव सुन्दराकारा सुन्दरी सुन्दरालका । अलका नाकमध्यस्था नाकिनी नाकिपूजिता ॥ १३॥ पातालेश्वरपूज्या च पातालतलचारिणी । अनन्ताऽनन्तरूपा च ह्यज्ञाता (१००) ज्ञानवर्धिनी ॥ १४॥ अमेया ह्यप्रमेया च ह्यनन्तादित्यरूपिणी । द्वादशादित्यसम्पूज्या शमी श्यामाकबीजिनी ॥ १५॥ विभासा भासुरवर्णा समस्तासुरघातिनी । सुधामयी सुधामूर्तिः सुधा सर्वप्रियङ्करी ॥ १६॥ सुखदा च सुरेशानी कृशानुवल्लभा हविः । स्वाहा स्वाहेशनेत्रा च ह्यग्निवक्त्राऽग्नितर्पिता ॥ १७॥ सोमसूर्याग्निनेत्रा च भूर्भुवःस्वःस्वरूपिणी । भूमिर्भूदेवपूज्या च स्वयम्भूः स्वात्मपूजका ॥ १८॥ स्वयम्भू पुष्पमालाढ्या स्वयम्भू पुष्पवल्लभा । आनन्दकन्दली कन्दा स्कन्दमाता शिलालया ॥ १९॥ चेतना चिद्भवाकारा भवपत्नी भयापहा । विघ्नेश्वरी गणेशानी विघ्नविध्वंसिनी निशा ॥ २०॥ वश्या वशिजनस्तुत्या स्तुतिः श्रुतिधरा श्रुतिः । शास्त्रविधानविज्ञा च वेदशास्त्रार्थकोविदा ॥ २१॥ वेद्या विद्यामयी विद्या विधातृवरदा वधूः । वधूरूपा वधूपूज्या वधूपानप्रतर्पिता ॥ २२॥ वधूपूजनसन्तुष्टा वधूमालाविभूषणा । वामा वामेश्वरी वाम्या कुलाकुलविचारिणी ॥ २३॥ वितर्कतर्कनिलया प्रलयानलसन्निभा । यज्ञेश्वरी यज्ञमुखा याजका यज्ञपात्रका ॥ २४॥ यक्षेश्वरी यक्षधात्री पार्वती पर्वताश्रया । पिलम्पिला पदस्थाना पददा नरकान्तका ॥ २५॥ नारी नर्मप्रिया श्रीदा श्रीदश्रीदा (२००) शरायुधा । कामेश्वरी रतिर्हूतिराहुतिर्हव्यवाहना ॥ २६॥ हरेश्वरी हरिवधूर्हाटकाङ्गदमण्डिता । हपुषा स्वर्गतिर्वैद्या सुमुखा च महौषधिः ॥ २७॥ सर्वरोगहरा माध्वी मधुपानपरायणा । मधुस्थिता मधुमयी मधुदानविशारदा ॥ २८॥ मधुतृप्ता मधुरूपा मधूककुसुमप्रभा । माधवी माधवीवल्ली मधुमत्ता मदालसा ॥ २९॥ मारप्रिया मारपूज्या मारदेवप्रियङ्करी । मारेशी च मृत्युहरा हरिकान्ता मनोन्मना ॥ ३०॥ महावैद्यप्रिया वैद्या वैद्याचारा सुरार्चिता । सामन्ता पीनवपुषी गुटी गुर्वी गरीयसी ॥ ३१॥ कालान्तका कालमुखी कठोरा करुणामयी । नीला नाभी च वागीशी दूर्वा नीलसरस्वती ॥ ३२॥ अपारा पारगा गम्या गतिः प्रीतिः पयोधरा । पयोदसदृशच्छाया पारदाकृतिलालसा ॥ ३३॥ सरोजनिलया नीतिः कीर्तिः कीर्तिकरी कथा । काशी काम्या कपर्दीशा काशपुष्पोपमा रमा ॥ ३४॥ रामा रामप्रिया रामभद्रदेवसमर्चिता । रामसम्पूजिता रामसिद्धिदा रामराज्यदा ॥ ३५॥ रामभद्रार्चिता रेवा देवकी देववत्सला । देवपूज्या देववन्द्या देवदावनचर्चिता ॥ ३६॥ दूती द्रुतगतिर्दम्भा दामिनी विजया जया । अशेषसुरसम्पूज्या निःशेषासुरसूदिनी ॥ ३७॥ वटिनी वटमूलस्था लास्यहास्यैकवल्लभा । अरूपा निर्गुणा सत्या सदासन्तोषवर्धिनी ॥ ३८॥ सोम्या यजुर्वहा याम्या ( ३००) यमुना यामिनी यमी । दाक्षी दया च वरदा दाल्भ्यसेव्या पुरन्दरी ॥ ३९॥ पौरन्दरी पुलोमेशी पौलोमी पुलकाङ्कुरा । पुरस्था वनभूर्वन्या वानरी वनचारिणी ॥ ४०॥ समस्तवर्णनिलया समस्तवर्णपूजिता । समस्तवर्णवर्णाढ्या समस्तगुरुवल्लभा ॥ ४१॥ समस्तमुण्डमालाढ्या मालिनी मधुपस्वना । कोशप्रदा कोशवासा चमत्कृतिरलम्बुसा ॥ ४२॥ हासदा सदसद्रूपा सर्ववर्णमयी स्मृतिः । सर्वाक्षरमयी विद्या मूलविद्येश्वरीश्वरी ॥ ४३॥ अकारा षोडशाकारा काराबन्धविमोचिनी । ककारव्यञ्जना क्रान्ता सर्वमन्त्राक्षरालया ॥ ४४॥ अणुरूपाऽप्यमला च त्रैगुण्याऽप्यपराजिता । अम्बिकाऽम्बालिका चाम्बा अनन्तगुणमेखला ॥ ४५॥ अपर्णा पर्णशाला च साट्टहासा हसन्तिका । अद्रिकन्याऽप्यट्टहासाऽप्यजराऽस्वाऽप्यरुन्धती ॥ ४६॥ अब्जाक्षी चाब्जिनी देवी ह्यम्बुजासनपूजिता । अब्जहस्ता ह्यब्जपादा चाब्जपूजनतोषिता ॥ ४७॥ अकारमातृका देवी सर्वानन्दकरी कला । आनन्दसुन्दरी आद्या आघूर्णारुणलोचना ॥ ४८॥ आदिदेवान्तकाऽक्रूरा आदित्यकुलभूषणा । आम्बीजमण्डना देवी चाकारमातृकावलिः ॥ ४९॥ इन्दुस्तुतेन्दुबिम्बास्या इनकोटिसमप्रभा । इन्दिरा मन्दुराशाला चेतिहासकथास्मृतिः ॥ ५०॥ इला चेक्षुरसास्वादा इकाराक्षरभूषिता । इन्द्रस्तुता चेन्द्रपूज्या इनभद्रा इनेश्वरी ॥ ५१॥ इभगतिरिभगीतिरिकाराक्षरमातृका । ईश्वरी वैभवप्रख्या चेशानीश्वरवल्लभा ॥ ५२॥ ईशा कामकलादेवी ईकाराश्रितमातृका 400 । उग्रप्रभोग्रचित्ता च उग्रवामाङ्गवासिनी ॥ ५३॥ उषा वैष्णवपूज्या च उग्रतारोल्मुकानना । उमेश्वरीश्वरी श्रेष्ठा उदकस्था ह्युदेश्वरी ॥ ५४॥ उदकाऽच्छोदकदा च उकारोद्भासमातृका । ऊष्मा प्यूषा ऊषणा च तथोचितवरप्रदा ॥ ५५॥ ऋणहर्त्री ऋकारेशी ऋऌवर्णा ऌवर्णभाक् । ॡकारभ्रुकुटिर्बाला बालादित्यसमप्रभा ॥ ५६॥ एणाङ्कमुकुटा चैहा एकाराक्षरबीजिता । एणप्रिया एणमध्यवासिनी एणवत्सला ॥ ५७॥ एणाङ्कमध्यसंस्था च ऐकारोद्भासकूटिनी । ओङ्कारशेखरा देवी औचित्यपदमण्डिता ॥ ५८॥ अम्भोजनिलयस्थाना अःस्वरूपा च स्वर्गतिः । षोडशस्वररूपा च षोडशस्वरगायिनी ॥ ५९॥ षोडशी षोडशाकारा कमला कमलोद्भवा । कामेश्वरी कलाभिज्ञा कुमारी कुटिलालका ॥ ६०॥ कुटिला कुटिलाकारा कुटुम्बसंयुता शिवा । कुला कुलपदेशानी कुलेशी कुब्जिका कला ॥ ६१॥ कामा कामप्रिया कीरा कमनीया कपर्दिनी । कालिका भद्रकाली च कालकामान्तकारिणी ॥ ६२॥ कपालिनी कपालेशी कर्पूरचयचर्चिता । कादम्वरी कोमलाङ्गी काश्मीरी कुङ्कुमद्युतिः ॥ ६३॥ कुन्ता कूर्चार्णबीजाढ्या कमनीया कुलाऽकुला । करालास्या करालाक्षी विकरालस्वरूपिणी ॥ ६४॥ काम्यालका कामदुघा कामिनी कामपालिनी । कन्थाधरा कृपाकर्त्री ककाराक्षरमातृका ॥ ६५॥ खड्गहस्ता खर्परेशी खेचरी खगगामिनी । खेचरीमुद्रया युक्ता खेचरत्वप्रदायिनी ॥ ६६॥ खगासना खलोलाक्षी खेटेशी खलनाशिनी । खेवटकायुधहस्ता (५००) च खरांशुद्युतिसन्निभा ॥ ६७॥ खान्ता खबीजनिलया खकारोल्लासमातृका । वैखरी बीजनिलया खरा खेचरवल्लभा ॥ ६८॥ गुण्या गजास्यजननी गणेशवरदा गया । गोदावरी गदाहस्ता गङ्गाधरवरप्रदा ॥ ६९॥ गोधा गोवाहनेशानी गरलाशनवल्लभा । गाम्भीर्यभूषणा गङ्गा गकारार्णविभूषणा ॥ ७०॥ घृणा घोणाकरस्तुत्या घुर्घुरा घोरनादिनी । घटस्था घटजासेव्या घनरूपा घुणेश्वरी ॥ ७१॥ घनवाहनसेव्या च घकाराक्षरमातृका । ङान्ता ङवर्णनिलया ङाणुरूपा ङणालया ॥ ७२॥ ङेशा ङेन्ता ङनाजाप्या ङवर्णाक्षरभूषणा । चामीकररुचिश्चान्द्री चन्द्रिका चन्द्ररागिणी ॥ ७३॥ चला चलञ्चला चेला चन्द्रा चन्द्रकरा चली । चञ्चुरीकस्वनालापा चमत्कारस्वरूपिणी ॥ ७४॥ चटुली चाटुकी चार्वी चम्पा चम्पकसन्निभा । चीनांशुकधरा चाट्वी चकारार्णविभूषणा ॥ ७५॥ छत्री च्छत्रधरा च्छिन्ना च्छिन्नमस्ता छटच्छविः । छायासुतप्रिया च्छाया छवर्णामलमातृका ॥ ७६॥ जगदम्बा जगज्ज्योतिर्ज्योतीरूपा जटाधरा । जयदा जयकर्त्री च जयस्था जयहासिनी ॥ ७७॥ जगत्प्रिया जगत्पूज्या जगत्कर्त्री जरातुरा । ज्वरघ्नी जम्भदमनी जगत्प्राणा जयावहा ॥ ७८॥ जम्भारवरदा जैत्री जीवना जीववाक्प्रदा । जाग्रती च जगन्निद्रा जगद्योनिर्जलन्धरा ॥ ७९॥ जालन्धरधरा जाया जकाराक्षरमातृका । झम्पा झिञ्झेश्वरी झान्ता झकाराक्षरमातृका ॥ ८०॥ ञाणुरूपा ञिणावासा (६००) ञकोरेशी ञणायुधा । ञवर्गबीजभूषाढ्या ञकाराक्षरमातृका ॥ ८१॥ टङ्कायुधा टकाराढ्या टोटाक्षी टसुकुन्तला । टङ्कायुधा टलीरूपा टकाराक्षरमातृका ॥ ८२॥ ठक्कुरा ठक्कुरेशानी ठकारत्रितयेश्वरी । ठःस्वरूपा ठवर्णाढ्या ठकाराक्षरमातृका ॥ ८३॥ डका डक्केश्वरी डिम्भा डवर्णाक्षरमातृका । ढिणी ढेहा ढिल्लहस्ता ढकाराक्षरमातृका ॥ ८४॥ णेशा णान्ता णवर्गान्ता णकाराक्षरभूषणा । तुरी तुर्या तुलारूपा त्रिपुरा तामसप्रिया ॥ ८५॥ तोतुला तारिणी तारा सप्तविंशतिरूपिणी । त्रिपुरा त्रिगुणा ध्येया त्र्यम्बकेशी त्रिलोकधृत् ॥ ८६॥ त्रिवर्गेशी त्रयी त्र्यक्षी त्रिपदा वेदरूपिणी । त्रिलोकजननी त्राता त्रिपुरेश्वरपूजिता ॥ ८७॥ त्रिकोणस्था त्रिकोणेशी कोणत्रयनिवासिनी । त्रिकोणपूजनतुष्टा त्रिकोणपूजनश्रिता ॥ ८८॥ त्रिकोणदानसंलग्ना सर्वकोणशुभार्थदा । वसुकोणस्थिता देवी वसुकोणार्थवादिनी ॥ ८९॥ वसुकोणपूजिता च षट्चक्रक्रमवासिनी । नागपत्रस्थिता शारी त्रिवृत्तपूजनार्थदा ॥ ९०॥ चतुर्द्वाराग्रगा चक्रबाह्यान्तरनिवासिनी । तामसी तोमरप्रख्या तुम्बुरुस्वननादिनी ॥ ९१॥ तुलाकोटिस्वना तापी तपसां फलवर्धिनी । तरलाक्षी तमोहर्त्री तारकासुरघातिनी ॥ ९२॥ तरी तरणिरूपा च तकाराक्षरमातृका । स्थली स्थविररूपा च स्थूला स्थाली स्थलाब्जिनी ॥ स्थावरेशा स्थूलमूखी थकाराक्षरमातृका । दूतिका शिवदूती च दण्डायुधधरा द्युतिः ॥ ९४॥ दया दीनानुकम्पा च दम्भोलिधरवल्लभा । देशानुचारिणी द्रेक्का द्राविडेशी दवीयसी ॥ ९५॥ दाक्षायणी द्रुमलता (७००) देवमाताऽधिदेवता । दधिजा दुर्लभादेवी देवता परमाक्षरा ॥ ९६॥ दामोदरसुपूज्या च दामोदरवरप्रदा । दनुपुत्रीविनाशा च दनुपुत्रकुलार्चिता ॥ ९७॥ दण्डहस्ता दण्डिपूज्या दमदा च दमस्थिता । दशधेनुसुरूपा च दकाराक्षरमातृका ॥ ९८॥ धर्म्या धर्मप्रसूर्धन्या धनदा धनवर्धिनी । धृतिर्धूती धन्यवधूर्धकाराक्षरमातृका ॥ ९९॥ नलिनी नालिका नाप्या नाराचायुधधारिणी । नीपोपवनमध्यस्था नागरेशी नरोत्तमा ॥ १००॥ नरेश्वरी नृपाराध्या नृपपूज्या नृपार्थदा । नृपसेव्या नृपवन्द्या नरनारायणप्रसूः ॥ १०१॥ नर्तकी नीरजाक्षी च नवर्णाक्षरभूषणा । पद्मेश्वरी पद्ममुखी पत्रयाना परापरा ॥ १०२॥ पारावारसुता पाठा परवर्गविमर्दिनी । पूः पुरारिवधूः पम्पा पत्नी पत्रीशवाहना ॥ १०३ पीवरांसा पतिप्राणा पीतलाक्षी पतिव्रता ॥ पीठा पीठस्थिताऽपीठा पीतालङ्कारभूषणा ॥ १०४॥ पुरूरवःस्तुता पात्री पुत्रिका पुत्रदा प्रजा । पुष्पोत्तंसा पुष्पवती पुष्पमालाविभूषणा ॥ १०५॥ पुष्पमालातिशोभाढ्या पकाराक्षरमातृका । फलदा स्फीतवस्त्रा च फेरवारावभीषणा ॥ १०६॥ फल्गुनी फल्गुतीर्थस्था फवर्णाकृतमण्डला । बलदा बालखिल्या च बाला बलरिपुप्रिया ॥ १०७॥ बाल्यावस्था बर्बरेशी बकाराकृतिमातृका । भद्रिका भीमपत्नी च भीमा भर्गशिखा भया ॥ १०८ भयघ्नी भीमनादा च भयानकमुखेक्षणा । भिल्लीश्वरी भीतिहरा भद्रदा भद्रकारिणी ॥ १०९॥ भद्रेश्वरी भद्रधरा भद्राख्या भाग्यवर्धिनी (८००) । भगमाला भगावासा भवानी भवतारिणी ॥ ११०॥ भगयोनिर्भगाकारा भगस्था भगरूपिणी । भगलिङ्गामृतप्रीता भकाराक्षरमातृका ॥ १११॥ मान्या मानप्रदा मीना मीनकेतनलालसा । मदोद्धता मनोन्मान्या मेना मैनाकवत्सला ॥ ११२॥ मधुमत्ता मधुपूज्या मधुदा मधु माधवी । मांसाहारा मांसप्रीता मांसभक्ष्या च मांसदा ॥ ११३ मारार्ता मत्स्यरूपा च मत्स्यधाता महत्तरा । मेरुश‍ृङ्गाग्रतुङ्गास्या मोदकाहारपूजिता ॥ ११४॥ मातङ्गिनी मधुमत्ता मदमत्ता मदेश्वरी । मञ्जा मुग्धानना मुग्धा मकाराक्षरभूषणा ॥ ११५॥ यशस्विनी यतीशानी यत्नकर्त्री यजुःप्रिया । यज्ञधात्री यज्ञफला यजुर्वेदऋचाम्फला ॥ ११६॥ यशोदा यतिसेव्या च यात्रा यात्रिकवत्सला । योगेश्वरी योगगम्या योगेन्द्रजनवत्सला ॥ ११७॥ यदुपुत्री यमघ्नी च यकाराक्षरमातृका । रत्नेश्वरी रमानाथसेव्या रथ्या रजस्वला ॥ ११८॥ राज्यदा राजराजेशी रोगहर्त्री रजोवती । रत्नाकरसुता रम्या रात्री रात्रिपतिप्रभा ॥ ११९॥ रक्षोघ्नी राक्षसेशानी रक्षोनाथसमर्चिता । रतिप्रिया रतिमुख्या रकाराकृतिशेखरा ॥ १२०॥ लम्बोदरी ललज्जिह्वा लास्यतत्परमानसा । लूतातन्तुवितानास्या लक्ष्मीर्लज्जा लयालिनी ॥ १२१॥ लोकेश्वरी लोकधात्री लाटस्था लक्षणाकृतिः । लम्बा लम्बकचोल्लासा लकाराकारवर्धिनी ॥ १२२॥ लिङ्गेश्वरी लिङ्गलिङ्गा लिङ्गमाला लसद्द्युतिः । लक्ष्मीरूपा रसोल्लासा रामा रेवा रजस्वला ॥ १२३॥ लयदा लक्षणा (९००) लोला लकाराक्षरमातृका । वाराही वरदात्री च वीरसूर्वीरदायिनी ॥ १२४॥ वीरेश्वरी वीरजन्या वीरचर्वणचर्चिता । वरायुधा वराका च वामना वामनाकृतिः ॥ १२४॥ वधूता वधका वध्या वध्यभूर्वाणिजप्रिया । वसन्तलक्ष्मीर्वटुकी वटुका वटुकेश्वरी ॥ १२६॥ वटुप्रिया वामनेत्रा वामाचारैकलालसा । वार्ता वाम्या वरारोहा वेदमाता वसुन्धरा ॥ १२७ वयोयाना वयस्या च वकाराक्षरमातृका । शम्भुप्रिया शरच्चर्या शाद्वला शशिवत्सला ॥ १२८॥ शीतद्युतिः शीतरसा शोणोष्ठी शीकरप्रदा । श्रीवत्सलाञ्छना शर्वा शर्ववामाङ्गवासिनी ॥ १२९॥ शशाङ्कामललक्ष्मीश्च शार्दूलतनुरद्रिजा । शोषहर्त्री शमीमूला शकाराकृतिशेखरा ॥ १३०॥ षोडशी षोडशीरूपा षढा षोढा षडानना । षट्कूटा षड्रसास्वादा षडशीतिमुखाम्बुजा ॥ १३१॥ षडास्यजननी षण्ठा षवर्णाक्षरमातृका । सारस्वतप्रसूः सर्वा सर्वगा सर्वतोमुखा ॥ १३२॥ समा सीता सतीमाता सागराभयदायिनी । समस्तशापशमनी सालभञ्जी सुदक्षिणा ॥ १३३॥ सुषुप्तिः सुरसा साध्वी सामगा सामवेदजा । सत्यप्रिया सोममुखी सूत्रस्था सूतवल्लभा ॥ १३४॥ सनकेशी सुनन्दा च स्ववर्गस्था सनातनी । सेतुभूता समस्ताशा सकाराक्षरवल्लभा ॥ १३४॥ हालाहलप्रिया हेला हाहारावविभूषणा । हाहाहूहूस्वरूपा च हलधात्री हलिप्रिया ॥ १३६॥ हरिनेत्रा घोररूपा हविष्या हूतिवल्लभा । हं क्षं लं क्षः स्वरूपा च सर्वमातृकपूजिता ॥ १३७॥ ॐ ऐं सौः ह्रीं महाविद्या आं शां फ्रां हूंस्वरूपिणी । (१०००) इति श्रीशारिकादेव्या मन्त्रनामसहस्रकम् ॥ १३८॥

॥ फल श्रुति ॥

पुण्यं पुण्यजनस्तुत्यं नुत्यं वैष्णवपूजितम् । इदं यः पठते देवि श्रावयेद्यः श‍ृणोति च ॥ १३९ स एव भगवान् देवः सत्यं सत्यं सुरेश्वरि । एककालं द्विकालं वा त्रिकालं पठते नरः ॥ १४० वामाचारपरो देवि तस्य पुण्यफलं श‍ृणु । मूकत्वं बधिरत्वं च कुष्ठं हन्याच्च श्वित्रिकाम् ॥ १४१॥ वातपित्तकफान् गुल्मान् रक्तस्रावं विषूचिकाम् । सद्यः शमयते देवि श्रद्धया यः पठेन्निशि ॥ १४२॥ अपस्मारं कर्णपीडां शूलं रौद्रं भगन्दरम् । मासमात्रं पठेद्यस्तु स रोगैर्मुच्यते ध्रुवम् ॥ १४३॥ भौमे शनिदिने वापि चक्रमध्ये पठेद्यदि । सद्यस्तस्य महेशानि शारिका वरदा भवेत् ॥ १४४॥ चतुष्पथे पठेद्यस्तु त्रिरात्रं रात्रिव्यत्यये । दत्त्वा बलिं सुरां मुद्रां मत्स्यं मांसं सभक्तकम् ॥ १४५ वब्बोलत्वग्रसाकीर्णं शारी प्रादुर्भविप्यति । यः पठेद् देवि लोलायां चितायां शवसन्निधौ ॥ १४६॥ पायम्पायं त्रिवारं तु तस्य पुण्यफलं श‍ृणु । ब्रह्महत्यां गुरोर्हत्यां मद्यपानं च गोवधम् ॥ १४७॥ महापातकसङ्घातं गुरुतल्पगतोद्भवम् । स्तेयं वा भ्रूणहत्यां वा नाशयेन्नात्र संशयः ॥ १४८॥ स एव हि रमापुत्रो यशस्वी लोकपूजितः । वरदानक्षमो देवि वीरेशो भूतवल्लभः ॥ १४९॥ चक्रार्चने पठेद्यस्तु साधकः शक्तिसन्निधौ । त्रिवारं श्रद्धया युक्तः स भवेद्भैरवेश्वरः ॥ १५०॥ किङ्किं न लभते देवि साधको वीरसाधकः । पुत्रवान् धनवांश्चैव सत्याचारपरः शिवे ॥ १५१॥ शक्तिं सम्पूज्य देवेशि पठेत् स्तोत्रं परामयम् । इह लोके सुखं भुक्त्वा परत्र त्रिदिवं व्रजेत् ॥ १५२॥ इति नामसहस्रं तु शारिकाया मनोरमम् । गुह्याद्गुह्यतमं लोके गोपनीयं स्वयोनिवत् ॥ १५३॥ ॥ इति श्रीरुद्रयामले तन्त्रे दशविद्यारहस्ये श्रीशारिकायाः सहस्रनामस्तोत्रं सम्पूर्णम् ॥
Encoded and proofread by DPD, NA
% Text title            : ShArika SahasranAma Stotra
% File name             : shArikAsahasranAmastotra.itx
% itxtitle              : shArikAsahasranAmastotram (rudrayAmalAntargatam)
% engtitle              : ShArika SahasranAma Stotra
% Category              : sahasranAma, devii, dashamahAvidyA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DPD with help from Alex
% Proofread by          : DPD, NA
% Latest update         : October 16, 2014, July 31, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org