श्रीशूलिनीकवचम्

श्रीशूलिनीकवचम्

श्रीशिवः उवाच - अथ वक्ष्ये महागुह्यं कवचं सर्वसिद्धिदम् । समाहितेन मनसा श‍ृणु कल्याणि तादृशम् ॥ १॥ शूलिन्याः कवचं दिव्यं जगद्रक्षणवर्धनम् । सर्वसिद्धिप्रदं श्रेष्ठं सर्वपापप्रणाशनम् ॥ २॥ सर्वमङ्गलमाङ्गल्यं सर्वैश्वर्यप्रदायकम् । ब्रह्मज्ञानप्रदं हृद्यं भीषणं जयवर्धनम् ॥ ३॥ सर्वरोगहरं शान्तं सर्वरक्षाकरं परम् । कवचस्य ऋषिर्देव्या मृत्युञ्जय उदाहृतः ॥ ४॥ उष्णिक् छन्दस्तथा देवि देवता जगदम्बिका । दुं कारं बीजमित्युक्तं स्वाहा शक्तिस्ततः परम् ॥ ५॥ सर्वाभीष्टार्थसिध्यर्थे विनियोगो वरानने । मायार्णैश्च करन्यासं षडङ्गं प्रणवान्वितम् ॥ ६॥ ॐ अस्य श्री शूलिनीकवचस्य मृत्युञ्जय ऋषिः । उष्णिक् छन्दः । श्रीजगदम्बिका शूलिनी देवता । दुं बीजम् । स्वाहा शक्तिः । सर्वाभीष्टार्थसिद्ध्यर्थे (जपे) विनियोगः ॥ ॐ ह्रां ॐ ह्रीमित्यादिभिः कराङ्गन्यासाः ॥ ध्यानम् - तापिञ्छस्निग्धवर्णां दशशतवदनां चन्द्ररेखावतंसां हर्यक्षस्कन्धरूढां द्विदशशतभुजां हाटवासोवृताङ्गीम् । ध्यायेऽहं वैरिलोकग्रसनपरिणता क्रीडनालोलजिह्वां देवीं क्रुद्धां सुमेधां प्रणतभयहरां शिक्षिताशेषलोकाम् ॥ जयेश्वर्यग्रतः पातु पृष्ठतो विजयेश्वरी । अजिता वामतः पातु दक्षिणं मेऽपराजिता ॥ १॥ ब्रह्माणी पातु केशाग्रं शिवा पातु शिरो मम । अम्बिका मेऽलकं पातु मुखं हैमवती तथा ॥ २॥ भवानी पातु नासाग्रं घ्राणं माहेश्वरी तथा । वाराही नयनं पातु मानस्तोका च दक्षिणम् ॥ ३॥ जिह्वां पातु महाविद्या लम्बिकाग्रं सरस्वती । सत्यम्बिका ममोर्ध्वोष्ठं लक्ष्मीमेऽर्धरपल्लवम् ॥ ४॥ श्रुत्यम्बा पातु मे दन्तान् कौमारी चिबुकं तथा । ज्वाला (कण्ठं) भीमस्वना पातु कपोलौ मे (ऽ)भयङ्करी ॥ ५॥ इन्द्राणी पातु मे कर्णौ इन्द्रनाथा हनू मम । ग्रीवापार्श्वं महाशक्तिः ग्रीवां मे परमेश्वरी ॥ ६॥ कराली दक्षिणस्कन्धं वैष्णवी पातु वामकम् । शिवेशी दक्षदोर्मूलं शिवदूती च वामकम् ॥ ७॥ अच्युता दक्षदोर्दण्डं अनन्ता पातु वामकम् । दक्षकूर्परमीशानी त्रिशूली पातु वामकम् ॥ ८॥ ज्वालामुखी प्रकोष्ठं मे पातु भद्रा च वामकम् । भैरवी मणिबन्धं मे वामं पातु महेश्वरी ॥ ९॥ करपृष्ठं तु वाराही विकटाङ्गी तु वामकम् । अघोरा दक्षिणाङ्गुष्ठं घोररूपा तु तर्जनीम् ॥ १०॥ मध्यमां रक्तकेशी चाऽनामिकां तु महाबला । माया कनिष्ठिकां पातु पर्वाणि विषनाशिनी ॥ ११॥ नखानि मे करालास्या वामाङ्गुष्ठं महोदरी । तर्जनीं रक्तचामुण्डी मेघनादा तु मध्यमाम् ॥ १२॥ अनामिकां रौद्रमुखी काली पातु कनिष्ठिकाम् । पर्वाणि कालरात्रिर्मे नारसिह्मी नखानि मे ॥ १३॥ जटिला दक्षिण कक्षं वामकक्षं पयस्विनी । वक्षो ज्वालामुखी पातु हृदयं कृष्णपिङ्गला ॥ १४॥ नारायणी स्तनद्वन्द्वं रुद्राणी मस्तकाग्रकम् । जठरं भद्रकाली मे चण्डिका उदरं तथा ॥ १५॥ तद्दक्षिणमनन्ता मे तद्वामः ब्रह्मवादिनी । सावित्री पातु नाभिं मे गायत्री मे कटिद्वयम् ॥ १६॥ त्वरिता पातु मे गुह्यं पृष्ठभागं शतानना । योगेश्वरी गुदं पातु जघनं लोकमोहिनी ॥ १७॥ ऊरुयुग्मं वसुमतीं चण्डमुण्डा तु जानुनी । जङ्घे कात्यायनी पातु गुल्फे महिषमर्दिनी ॥ १८॥ शाकम्भरीं पादपृष्ठे गौरी पादाङ्गुलीर्मम । सूक्ष्मा पादतलं पातु पादपार्ष्वं धनञ्जया ॥ १९॥ सर्वाङ्गं पातु मे पुष्टिः सर्वसन्दिं मदप्रिया । ज्वालिनी रोमकूपाणि वसुधारा त्वचं मम ॥ २०॥ वसुधा चर्म मे पातु रुधिरं मदनावती । तीव्रा मांसद्वयं पातु भेदो मे विघ्ननाशिनी ॥ २१॥ ममास्थि भोगदा पातु मज्जां पातु परात्परा । पञ्चभूतं रतिःपातु शुक्लं मे कामरूपिणी ॥ २२॥ मूलाधारमुमा पातु स्वाधिष्ठानं चिदङ्कुरा । अमृता मणिपूरं मेऽनाहतं कमलेक्षणा ॥ २३॥ विशुद्धि पातु मे नादा(ऽथा) पातु चाज्ञां परा मम । जातवेदोग्निदुर्गा मे ब्रह्मरन्ध्रं सदावतु ॥ २४॥ शूलिनौ सकलं पातु अनुक्ताङ्गं महाबला । जागरूकास्ववस्थासु मम पद्मावती तथा ॥ २५॥ शङ्करी पातु मे पुत्रान् पुत्रीं च कमलासना । सहजान् शाम्भवी पातु सुभगा सुमुखं मम ॥ २६॥ व्योमकेशी कुलद्वन्द्वं इष्टान्दुष्टापहारिणी । भवनं भुवनाकारा नगरं नगरेश्वरी ॥ २७॥ द्राविणी पातु राज्य मे राजानं क्षोभनाशिनी । राष्ट्रं च महती पातु प्रजां सर्ववशङ्करी ॥ २८॥ श्रीदेवी धनधान्यं मे सर्वदा सर्वसम्पदः । इति गुह्यं महावीर्यं देव्या कवचमद्भुतम् ॥ २९॥ पावनं सर्वविजयं परमायुष्यवर्धनम् । अभेद्यमतुलं नानाभूतप्रेतनिबर्हणम् ॥ ३०॥ किमत्र बहुनोक्तेन चतुर्वर्गफलप्रदम् । त्रिसन्ध्यं यो जपेन्नित्यं न्यासभावयुतं शिवे ॥ ३१॥ तस्य सर्वभयं नास्ति विजय च करस्थले । कवचेनाऽऽवृतो विद्वान् स पूज्यः सकलैरपि । अनेनैव शरीरेण जीवन्मुक्तो भवेच्छिवे ॥ ३२॥ इति श्रीशूलिनीकवचं सम्पूर्णम् ॥ Proofread by Aruna Narayanan narayanan.aruna at gmail.com
% Text title            : shUlinIkavacham
% File name             : shUlinIkavacham.itx
% itxtitle              : shUlinIkavacham (AkAshabhairavakalpAntargatam)
% engtitle              : shUlinIkavacham
% Category              : devii, otherforms, kavacha, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : Shulinikalpam, Tanjavur Saraswati Mahal Series No. 403
% Indexextra            : (Scan)
% Latest update         : December 9, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org