शक्तेः माहात्म्यम्
%११
शिवोऽपि शक्तियुक्तश्चेत्प्रभुः कार्याय नान्यथा ।
स्वमायया विनेशस्य परस्यानुभवात्मनः ॥ १॥
न घटेतार्थसम्बन्धस्ततो माया परावरा ।
यस्याः प्रभावं प्रवक्तुं ब्रह्माद्या अप्यलं बलम् ॥ २॥
वैष्णवीयं महामाया सुरासुरमुनिस्तुता ।
शय्यां देवमयीं कृत्वा शेतेऽसाविति गीयते ॥ ३॥
सर्वे देवाश्च मुनयो विषमे यां स्तुवन्ति हि ।
सृष्टिस्थितिविनाशानां हेतुरेका सनातनी ॥ ४॥
विदुषोऽपि हठाच्चेतो महामोहाय यच्छति ।
अभक्तानां बन्धहेतुर्भक्तानां मुक्तिदा च सा ॥ ५॥
सर्वेष्वपि हि भूतेषु चेतनेत्युच्यते ततः ।
स्वात्मारामो शिवोऽप्यत्र रत्यर्थमनुधावति ॥ ६॥
माया चतुष्कपर्दाऽसौ युवतिर्नित्यनूतना ।
सुपेशा च घृतास्यादौ वस्तेस्य वयुनान्यपि ॥ ७॥
भक्तिश्रद्धाधृति ह्रीश्रीधीमेधाद्यैश्च सत्सु या ।
तृष्णालक्ष्याऽऽर्तिभीनिद्रातन्द्रारूपैरसत्सु च ॥ ८॥
क्षणे क्षणे विमुह्यन्ति वशिनोऽप्यत्र योगिनः ।
सैषानिर्वचनीयार्च्या या ह्यनादिरजा श्रता ॥ ९॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं शक्तेः माहात्म्यं सम्पूर्णम् ।