शरणाष्टकम्

शरणाष्टकम्

आर्तत्राणपरायणे ! भगवति ! ब्रह्मेन्द्रनारायण- स्तुत्ये शाणित सत्कृपाणनृशिरोऽभीतिष्टपाणे शिवे !। मातर्मुक्तशिरोरुहे ! नरशिरःस्त्रग्भूषणे भीषणे ! श्यामे ! त्वच्चरणं व्रजामि शरणं गत्यन्तरं नास्ति मे ॥ १॥ आजन्मामरणं च कालहरणं प्रायो ममाकारणं शुद्धान्तःकरणं कदाचन च ना नाम्नस्तवोच्चारणम् । सत्कर्मांचरणं च नाहह वृथा प्राणस्य सन्धारणं श्यामे ! त्वच्चरणं व्रजामि शरणं गत्यन्तरं नास्ति मे ॥ २॥ नाधीतं विधिवन्न वा हरिहरौ भक्त्या समाराधितौ । तप्तं नैव तपो मनागपि मया मायामयेऽस्मिन् भवे । न प्रत्तं न हुतं च सम्यगधुना भीतोऽन्तकालेऽन्तकात् श्यामे ! त्वच्चरणं व्रजामि शरणं गत्यन्तरं नास्ति मे ॥ ३॥ नो तीर्थाण्युपसेवितानि गुरवो भक्त्या न संसेविता नो श्राद्धैरपि तर्पिताः स्वपितरश्चीर्णं न किञ्चिद् व्रतम् । भक्त्या नातिशयोर्चिताः सपदि हा ! हन्तातिचिन्तातुरः श्यामे ! त्वच्चरणं व्रजामि शरणं गत्यन्तरं नास्ति मे ॥ ४॥ नाचारो मम विद्यते न विनयो वैधं न शौचं परं न ज्ञानं न विरागता न च पराभक्तिर्भवत्यामपि । मातः शासनतोऽव मां पितृपते प्रेताकृती शासने श्यामे ! त्वच्चरणं व्रजामि शरणं गत्यन्तरं नास्ति मे ॥ ५॥ स्वं वर्णोचितमाश्रमोचितमपि प्रायेण नानुष्ठितं सत्कृत्यं विधिवन्मया हतधिया शास्त्रोदितं श्रेयसे । चेतः सीदति साम्प्रतं जननि ! मे तत् सव्यथं सर्वथा श्यामे ! त्वच्चरणं ! व्रजामि शरणं गत्यन्तरं नास्ति मे ॥ ६॥ नीतं दुर्व्यसनैर्महद्भिरशिवोदकैः शिवे ! शैशवं तारुण्यञ्च कलत्रपुत्रभरणाद्यर्थेपदर्थेहया । कालत्रासवशेन सम्प्रति जडीभूतो जराजर्जरः श्यामे ! त्वच्चरणं व्रजामि शरणं गन्यन्तरं नास्ति मे ॥ ७॥ सञ्चिन्त्यान्तकमन्ततोऽन्तिकतमं सन्त्रासपर्याकुलं स्वान्तं ध्वान्तमनन्तकं जननि ! मेऽशान्तं समुद्गाहते । हन्ताश्वासय साम्प्रतं सकृदपि व्याहृत्य मा भैरिति श्यामे ! त्वच्चरणं व्रजामि शरणं गत्यन्तरं नास्ति मे ॥ ८॥ माता रुदितमिदं मे मरणासन्न-प्रसन्नमिश्रस्य । श‍ृणु शिवहृदयनिषण्णे बहुदयहृदयेऽवसन्नस्य ॥ ९॥ इति पण्डितश्रीप्रसन्नमिश्रेण विरचितं शरणाष्टकं सम्पूर्णम् । Encoded and proofread by Ameya Sakhare
% Text title            : sharaNAShTakam
% File name             : sharaNAShTakam.itx
% itxtitle              : sharaNAShTakam (ArtatrANaparAyaNe bhagavati)
% engtitle              : sharaNAShTakam
% Category              : devii, aShTaka
% Location              : doc_devii
% Sublocation           : devii
% Author                : Pt. Shri Prasanna Mishra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ameya Sakhare
% Proofread by          : Ameya Sakhare, NA
% Indexextra            : (Scan)
% Latest update         : September 8, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org