श्रीशिवकामसुन्दरीसहस्रनामस्तोत्रम्

श्रीशिवकामसुन्दरीसहस्रनामस्तोत्रम्

॥ पूर्वपीठिका ॥ यस्यास्सर्वं समुत्पन्नं चराचरमिदं जगत् । इदं नमो नटेशान्यै तस्यै कारुण्यमूर्तये ॥ कैलासाद्रौ सुखासीनं शिवं वेदान्तगोचरम् । सर्वविद्येश्वरं भूतिरुद्राक्षालङ्कृतं परम् ॥ १॥ सर्वलक्षणसम्पन्नं सनकादिमुनीडितम् । संसारारण्यदावाग्निं योगिराजं यतेन्द्रियम् ॥ २॥ मुकुटेन्दुसुधापूरलब्धजीवकशीर्षकम् । व्याघ्रचर्माम्बरधरं नीलकण्ठं कपर्दिनम् ॥ ३॥ सव्यहस्ते वह्निधरं मन्दस्मितमुखाम्बुजम् । ढक्कां च दक्षिणे हस्ते वहन्तं च त्रिलोचनम् ॥ ४॥ अभयं दक्षहस्तेन दर्शयन्तं मनोहरम् । डोलहस्तेन वामेन दर्शयन्तं पदाम्बुजम् ॥ ५॥ कुचितं दक्षपादेन तिष्ठन्तं मुसलोपरि । ब्रह्मविष्ण्वादिविनुतं वेदवेद्यं नटेश्वरम् ॥ ६॥ प्रणम्य पार्वती गौरी पप्रच्छ मुदितानना । सर्वलक्षणसम्पन्ना सर्वदा सर्वदा नृणाम् ॥ ७॥ पार्वत्युवाच - शिव! शङ्कर! विश्वेश! महादेव! दयानिधे! सर्वासां चैव देवीनां नामसाहस्रमुत्तमम् ॥ ८॥ पुरा प्रोक्तं सदानन्द ! मह्यं श्रीपतिपूजित ! । शिवकामसुन्दरीनाम्नां सहस्रं वद सुन्दर! ॥ ९॥ सद्यस्सम्पत्करं पुण्यं सर्वपापप्रणाशनम् । इत्युक्त्वा पार्वती देवी तुष्टाव नटनेश्वरम् ॥ १०॥ सत्यप्रबोधसुखसन्ततिरूप विश्व - मायेन्द्रजालिकवरेण्य समस्तसाक्षिन् । सृष्टिस्थितिप्रलयहेतुकविष्णुरुद्र श्रीमन्नटेश मम देहि करावलम्बम् ॥ ११॥ भूवारिवह्निपवनाम्बरचन्द्रसूर्य - यज्वाष्टमूर्तिविमलीकृतविग्रहेदश । स्वाङ्घ्र्यम्बुजद्वयनिषस्तहृदां प्रसन्न ! श्रीमन्नटेश मम देहि करावलम्बम् ॥ १२॥ लिङ्गाकृते पशुपते गिरिजापते त्वं नारायणेश गिरिवास विधीश शम्भो फालाक्ष शङ्कर! महेश्वर मन्मथारे श्रीमन्नटेश मम देहि करावलम्बम् ॥ १३॥ श्रीनीलकण्ठ शमनान्तक पञ्चवक्त्र पञ्चाक्षरप्रिय परात्पर! विश्ववन्द्य । श्रीचन्द्रचूड गजवक्त्रपितः परेश श्रीमन्नटेश मम देहि करावलम्बम् ॥ १४॥ गङ्गाधर प्रमथनाथ सदाशिवार्या - जाने! जलन्धररिपो जगतामधीश । शर्वोग्र भर्ग मृड शाश्वत! शूलपाणे श्रीमन्नटेश मम देहि करावलम्बम् ॥ १५॥ स्थाणो त्रिणेत्र शिपिविष्ट! महेश! तात नारायणप्रिय कुमारगुरो कपर्दिन् । शम्भो! गिरीश! शिव लोकपते! पिनाकिन् श्रीमन्नटेश मम देहि करावलम्बम् ॥ १६॥ खड्गाङ्गिन् अन्धकरिपो भव भीम रुद्र देवेश! खण्डपरशो! करुणाम्बुराशे । भस्माङ्गराग परमेश्वर! विश्वमूर्ते श्रीमन्नटेश देहि करावलम्बम् ॥ १७॥ विश्वेश्वरात्मक विवेकसुखाभिराम श्रीवीरभद्र! मखहन्तरुमासहाय । वीरेश्वरैणकर शुभ्रवृषाधिरूढ श्रीमन्नटेश मम देहि करावलम्बम् ॥ १८॥ एवं स्तुत्वा महादेवी पञ्चाङ्गं प्रणनाम ह । ततस्तुष्टो नटेशश्च प्रोवाच वचनं शुभम् ॥ १९॥ एवमेव पुरा देवी महालक्ष्मीः पतिव्रता । शङ्खचक्रगदापाणिः सर्वलोकहितावहः ॥ २०॥ धर्मसंस्थापनार्थायावतारान्युगे युगे । करिष्यति महा विष्णुः मम भर्ता दश श‍ृणु ॥ २१॥ मत्स्यः कूर्मो वराहश्च नारसिंहोऽथ वामनः । रामो दाशरथिश्चैव रामः परशुधारकः ॥ २२॥ हलभृत् बलरामश्च कृष्णः कल्किः दश स्मृताः । अवतारेषु दशसु मद्भर्तुर्नाशशङ्कया ॥ २३॥ प्राप्ता भवन्त शरणं भवानेव परा गतिः । इत्युक्त्वा च महालक्ष्मीर्भस्तानामिष्टदायकम् ॥ २४॥ वेदपादस्तवं चारु मधुरं मधुराक्षरम् । उक्त्वा तुष्टाव मुदिता नटेशानं महेश्वरम् ॥ २५॥ विघ्नेश्वरं वीतविरागसेवितम् विधीन्द्रविष्ण्वादिनताङ्घ्रिपङ्कजम् । सभासदामाशु सुखार्थसिद्धिदं गणानां त्वां गणपतिं हवामहे ॥ २६॥ नगेन्द्रतनयारम्यस्तन्यपानरताननम् । माणिक्यकुण्डलधरं कुमारं पुष्करस्रजम् ॥ २७॥ नमः शिवाय साम्बाय सगणाय ससूनवे । नमो ज्ञानसभेशाय दिशां च पतयेनमः ॥ २८॥ नमो ब्रह्मादिदेवाय विष्णुकान्ताय शम्भवे । पीताम्बराय च नमः पशुनां पतये नमः ॥ २९॥ सन्मार्गदाय शिष्टानामाश्रितानां द्विजन्मनाम् । अभक्तानां मोहदात्रे पथीनां पतये नमः ॥ ३०॥ अपस्मारमधः कृत्य नृत्यन्तं तस्य पृष्ठके । सर्वाभरणरम्यं तं पश्येम शरदश्शतम् ॥ ३१॥ सुन्दरं स्मेरवदनं नटराजमुमापतिम् । सम्पूज्य नृत्यपादं ते जीवेम शरदश्शतम् ॥ ३२॥ कुभीन्द्रदैत्यं हतवानिति शम्भुर्जगत्पतिः । श्रुत्वा ते कीर्तिममलां नन्दाम शरदश्शतम् ॥ ३३॥ मन्मथान्धकसंहारकथाश्रुतिमनोहरम् । श्रुत्वा ते विक्रमयुतं मोदाम शरदश्शतम् ॥ ३४॥ सर्वदुःखान्विहायाशु शिव तेऽङ्घ्रियुगाम्बुजम् । अर्चयन्तः सदा धन्या भवाम शरदश्शतम् ॥ ३५॥ त्वत्कीर्तनं सदा भक्त्या सर्वकल्मषनाशनम् । शङ्कराघहर स्वामिन् श‍ृणवाम शरदश्शतम् ॥ ३६॥ त्वच्चरित्रं पवित्रं च सर्वदारिद्र्यनाशनम् । अस्मत्पुत्रप्रणप्तॄणां प्रब्रवाम शरदश्शतम् ॥ ३७॥ त्वद्भक्तकल्पकतरुमाश्रयन्तस्सदा वयम् । इन्द्रियाघौघनिचयैरजीतास्स्याम शरदश्शतम् ॥ ३८॥ एवं स्तुत्वा महादेवी महालक्ष्मीर्मनोहरा । प्रणम्य चित्सभानाथं तिष्ठन्ती मुदितानना ॥ ३९॥ मन्माङ्गल्यस्य रक्षायै मन्त्रमेकं ममादिश । तां दृष्ट्वा च महादेवः प्रहसन्निदमब्रवीत् ॥ ४०॥ त्वं शीघ्रं गच्छ देवेशीं शिवकामां च सुन्दरीम् । तत्र गत्वा महेशानीं पूजय त्वं विशेषतः ॥ ४१॥ सहस्रकुसुमैः पद्मैः नैवेद्यैश्च मनोहरैः । इत्युक्त्वा परमप्रीतो भगवान्भक्तवत्सलः ॥ ४२॥ शिवकामसुन्दरीनाम्नां सहस्रं प्रजगाद ह । उपदिश्य च तां देवीं प्रेषयामास शङ्करः ॥ ४३॥ लक्ष्मीर्गत्वा महेशानीं शिवकामीं मुदान्विता । शिवोक्तेन प्रकारेण सहस्रैः पङ्कजैः क्रमात् ॥ ४४॥ नामभिश्च त्रितारैश्च युक्त्वैश्च सुमहत्तरैः । पूजयामास विधिवत् शिवाचिन्तनतत्परा ॥ ४५॥ तदा शिवः शोधनाय तस्याः चित्तं जगत्प्रभुः । आनीतेषु च पद्मेषु न्यूनमेकं चकार हि ॥ ४६॥ अतीव दुःखितालक्ष्मीः पूर्तिकामेच्छया स्वयम् । अभावपुष्पसम्पूर्त्यै नेत्रमुत्पाट्य वामकम् ॥ ४७॥ अर्चयामास लक्ष्मीश्च भक्त्या परमया युता । दृष्टेवदं सुन्दरीदेवी शिवकाममनोहरी ॥ ४८॥ पूर्वस्मादपि सौन्दर्यं नेत्रं दत्वाऽतिहर्षतः । तुष्टाऽहमिष्टं व्रियतां वरमित्याह शङ्करी ॥ ४९॥ तदा वव्रे महालक्ष्मीः सर्वलोकप्रियङ्करम् । सौमङ्गल्यं कुरु मम दीर्घं च भवतु धुवम् । तथा भवतु भद्रं ते विष्णुं गच्छ यथासुखम् ॥ ५०॥ इत्युक्त्वाऽन्तर्दधे देवी शिवकामी महेश्वरी । लक्ष्मीश्च विष्णुं गत्वाऽथ यथापूर्वं स्थितोरसि ॥ ५१॥ तादृशं नामसाहस्रं शिवकाम्याः मनोहरम् । वदामि श‍ृणु हे देवीनामसाहस्रमुत्तमम् ॥ ५२॥ ऋषिः छन्दो देवता च बीजं शक्तिश्च कीलकम् । कराङ्गन्यासकौ पूर्वं सुरहस्यं महेश्वरि ॥ ५३॥ नाम्नां त्रिपुरसुन्दर्याः यत्प्रोस्तं तद्वदेव हि । शिवकामसुन्दरीप्रीत्यै विनियोगो जपे स्मृतः ॥ ५४॥ दिग्बन्धं ततो ध्यायेत् शिवकामीं महेश्वरीम् । ततश्च पञ्चपूजा च कर्तव्या मनुजापिना ॥ ५५॥ ततः परं स्तोत्रमेतज्जप्तव्यं भद्रकामिना । स्तोत्रान्ते च प्रकर्तव्यमङ्गन्यासं च पूर्ववत्त् ॥ ५६॥ कृत्वा च दिग्विमोकं च ततोध्यायेच्च सुन्दरीम् । लमित्यादिममन्त्रैश्च पञ्चपूजां च संवदेत् ॥ ५७॥ ॐ अस्य श्री शिवकामसुन्दरीसहस्रनामस्तोत्रमहा मन्त्रस्य । आनन्दभैरवदक्षिणामूर्तिः ऋषिः । देवी गायत्री छन्दः । श्रीशिवकामसुन्दरी देवता । बीजं शक्तिः कीलकं कराङ्गन्यासौ च श्रीमहात्रिपुरसुन्दरीमहामन्त्रवत् । ॥ ध्यानम् ॥ पद्मस्थां कनकप्रभां परिलसत्पद्माक्षियुग्मोत्पलाम् अक्षस्रक्षुकशारिकाकटिलसत् कल्हार हस्ताब्जिनीम् । रक्तस्रक्सुविलेपनाम्बरधरां राजीवनेत्रार्चितां ध्यायेत् श्रीशिवकामकोष्ठनिलयां नृत्तेश्वरस्य प्रियाम् ॥ मुक्ताकुन्देन्दुगौरां मणिमयमकुटां रत्नताण्टङ्कयुक्तां अक्षस्रक्पुष्पहस्ता सशुककटिकरां चन्द्रचूडां त्रिनेत्रीम् । नानालङ्कारयुक्तां सुरमकुटमणिद्योतित स्वर्णपीठां यासापद्मासनस्थां शिवपदसहितां सुन्दरीं चिन्तयामि ॥ रत्नताटङ्कसंयुक्तां सुवर्णकवचान्विताम् । दक्षिणोर्ध्वकराग्रेण स्वर्णमालाधरां शुभाम् ॥ दक्षाधः करपद्मेन पुल्लकल्हार धारिणीम् । वामेनोएध्वकराब्जेन शुकार्भकधरां वराम् । कटिदेशे वामहस्तं न्यस्यन्तीं च सुदर्शनाम् ॥ शिवकामसुन्दरीं नौमि प्रसन्नवदनां शिवाम् । लमित्पादिपञ्चपूजा ॥ ॥ श्री शिवकामसुन्दरीसहस्रनामस्तोत्रम् ॥ ॐ ऐं ह्रीं श्रीं अं - १॥ अगण्याऽगण्यमहिमाऽसुरप्रेतासनस्थिता । अजराऽमृत्युजननाऽप्यकालान्तक भीकरा ॥ १॥ अजाऽजांशसमुद्भूताऽमरालीवृतगोपुरा । अत्युग्राजिनटच्छत्रुकबन्धानेककोटिका ॥ २॥ अद्रिदुर्गाऽणिमासिद्धिदापितेष्टामरावलिः । अनन्ताऽनन्यसुलभप्रियाऽद्भुतविभूषणा ॥ ३॥ अनूरुकरसङ्काशाऽखण्डानन्दस्वरूपिणी । अन्धीकृतद्विजारातिनेत्राऽत्युग्राट्टहासिनी ॥ ४॥ अन्नपूर्णाऽपराऽलक्ष्याऽम्बिकाऽघविनाशिनी । अपारकरुणापूरनिभरेखां जनाक्षिणी ॥ ५॥ अमृताम्भोधिमध्यस्थाऽणिमासिद्धिमुखाश्रिता । अरविन्दाक्षमालालिपात्रशूलधराऽनघा ॥ ६॥ अश्वमेधमखावाप्तहविःपुजकृतादरा । अश्वसेनावृताऽनेकपारूढाऽप्यगजन्मभूः ॥ ७॥ ओं ऐं ह्रीं श्रीं आं - २॥ आकाशविग्रहाऽऽनन्ददात्री चाज्ञाब्जभासुरा । आचारतत्परस्वान्तपद्मसंस्थाऽऽढ्यपूजिता ॥ ८॥ आत्मायत्तजगच्चक्रा चात्मारामपरायणा । आदित्यमण्डलान्तस्था चादिमध्यान्तवर्जिता ॥ ९॥ आद्यन्तरहिताऽचार्या चादिक्षान्तार्णरूपिणी । आद्याऽमात्युनुता चाज्यहोमप्रीताऽऽवृताङ्गना ॥ १०॥ आधारकमलारूढा चाधाराधेयविवर्जिता । आधिहीनाऽऽसुरीदुर्गाऽऽजिसङ्क्षोभितासुरा ॥ ११॥ आधोरणाज्ञाशुण्डाग्राकृष्टासुरगजावृता । आश्चर्यवियहाऽऽचार्यसेविताऽऽगमसंस्तुता ॥ १२॥ आश्रिताखिलदेवादिवृन्दरक्षणतत्परा । ॐ ऐं ह्रीं श्रीं इं - ३॥ इच्छाज्ञानक्रियाशक्तिरूपेरावतिसंस्तुता ॥ १३॥ इन्द्राणीरचितश्वेतच्छत्रेडाभक्षणप्रिया । इन्द्राक्षीन्द्रार्चितेन्द्राणी चेन्दिरापतिसोदरी ॥ १४॥ इन्दिरेन्दीवरश्यामा चेरम्मदसमप्रभा । इभकुम्भाभवक्षोजद्वया चेक्षुधनुर्धरा ॥ १५॥ इभदन्तोरुनयना चेन्द्रगोपसमाकृतिः । इभशुण्डोरुयुगलाचेन्दुमण्डलमध्यगा ॥ १६॥ इष्टार्तिघ्नीष्टवरदा चेभवक्त्रप्रियङ्करी । ॐ ऐं ह्रीं श्रीं ईं - ४॥ ईशित्वसिद्धिसम्प्रार्थितापसेषत्स्मितानना ॥ १७॥ ईश्वरीशप्रिया चेशताण्डवालोकनोन्तुका । ईक्षणोत्पन्नभुवनकदम्बा चेड्यवैभवा ॥ १८॥ ॐ ऐं ह्रीं श्रीं उं - ५॥ उच्चनीचादिरहिताऽप्युरुकान्तारवासिनी । उत्साहरहितेन्द्रारिश्चोरुसन्तोषितामरा ॥ १९॥ उदासीनोडुरावक्त्राऽप्युग्रकृत्यविदूषणी । उपाधिरहितोपादानकारणोन्मत्तनृत्तकी ॥ २०॥ उरुस्यन्दनसम्बद्धकोट्यश्वोरुपराक्रमा । उल्कामुखी ह्युमादेवी चोन्मत्तक्रोधभैरवी ॥ २१॥ ॐ ऐं ह्रीं श्रीं ऊं - ६॥ ऊर्जितज्ञोढभुवनकदम्बोर्ध्वमुखावलिः । ऊर्ध्वप्रसारिताङ्घ्रीशदर्शनोद्विग्रमानसा ॥ २२॥ ऊहापोहविहीनोरुजितरम्भामनोहरा । ॐ ऐं ह्रीं श्रीं ऋं - ७॥ ऋग्वेदसंस्तुता ऋद्धिदायिनी ऋणमोचिनी ॥ २३॥ ऋजुमार्गपरप्रीता ऋषभध्वजभासुरा । ऋद्धिकाममुनिव्रातसत्रयागसमर्चिता ॥ २४॥ ॐ ऐं ह्रीं श्रीं ॠं - ८॥ ॠकारवाच्या ॠक्षादिवृता ॠकारनासिका । ॐ ऐं ह्रीं श्रीं लृं - ९॥ लृकरिणी लृकारोष्ठा ॐ ऐं ह्रीं श्रीं लॄं - १०॥ लॄवर्णाधरपल्लवा ॥ २५॥ ॐ ऐं ह्रीं श्रीं एं - ११॥ एकाकिन्येकमन्त्राक्षरैधितोत्साहवल्लभा । ॐ ऐं ह्रीं श्रीं ऐं - १२॥ ऐश्वर्यदात्री ॐ ऐं ह्रीं श्रीं ओं - १३॥ चोङ्कारवादिवागीशसिद्धिदा ॥ २६॥ ओजःपुञ्जघनीसान्द्ररूपिण्योङ्कारमध्यगा । ओषधीशमनुप्रीता ॐ ऐं ह्रीं श्रीं औं - १४॥ चौदार्यगुपावारिधिः ॥ २७॥ औपम्यरहिताचैव ॐ ऐं ह्रीं श्रीं अं - १५॥ अम्बुजासनसुन्दरी । अम्बराधीशनटनसाक्षिणी ॐ ऐं ह्रीं श्रीं अः - १६॥ अः पददायिनी ॥ २८॥ ॐ ऐं ह्रीं श्रीं कं - १७॥ कबरीबन्धमुखरीभमरभ्रमरालका । करवाललताधाराभीषणा कौमुदीनिभा ॥ २९॥ कर्पूराम्बा कालरात्रिः काली कलिविनाशिनी । कादिविद्यामयी काम्या काञ्चनाभा कलावती ॥ ३०॥ कामेश्वरी कामराजमनुप्रीता कृपावती । कार्तवीर्यद्विसाहस्रदोर्दण्डपटहध्वनिः ॥ ३१॥ किटिवक्त्राधिकारोद्यद्गणप्रोत्साहिताङ्गना । कीर्तिप्रदा कीर्तिमती कुमारी कुलसुन्दरी ॥ ३२॥ कुन्तायुधधरा कुब्जिकाम्बा कुध्रविहारिणी । कुलागमरहस्यज्ञवाञ्छादानपरायणा ॥ ३३॥ कूटस्थितिजुषी कूर्मपृष्ठजित्प्रपदान्विता । केकाशब्दतिरस्कारिबाणासनमणीरवा ॥ ३४॥ केशाकेशिचणा केशिराक्षसाधिपमर्दिनी । कैतकच्छदसन्ध्याभपिशङ्गितकचाम्बुदा ॥ ३५॥ कैलासोत्तुङ्गश‍ृङ्गाद्रविलासेशपराजिता । कैशिक्यारभटीरीतिस्तुतरक्तेश्वरीप्रिया ॥ ३६॥ कोकाहितकरस्पर्धिनखा कोकिलवादिनी । कोपहुङ्कारसन्त्रस्तससेनासुरनायका ॥ ३७॥ कोलाहलरवोद्रेकरिङ्खज्जम्बुकमण्डला । कौणिडन्यान्वयसम्भूता करिचर्माम्बरप्रिया ॥ ३८॥ कौपीनशिष्टविप्रर्षिस्तुता कौलिकदेशिका । कौसुम्भास्तरणा कौलमार्गनिष्ठान्तरास्थिता ॥ ३९॥ कङ्कणाहिगणक्षेमवचनोद्विग्नतार्क्ष्यका । कञ्जाक्षी कञ्जविनुता कञ्जजातिप्रियङ्करी ॥ ४०॥ ॐ ऐं ह्रीं श्रीं खं - १८॥ खड्गखेटकदोर्दण्डा खट्वाङ्गी खड्गसिद्धिदा । खण्डितासुरगर्वाद्रिः खलादृष्टस्वरूपिणी ॥ ४१॥ खण्डेन्दुमौलिहृदया खण्डितार्केन्दुमण्डला । खरांशुतापशमनी खस्था खेचरसंस्तुता ॥ ४२॥ खेचरी खेचरीमुद्रा खेचराधीशवाहना । खेलापारावतरतिप्रीता खाद्यायितान्तका ॥ ४३॥ ओं ऐं ह्रीं श्रीं गं - १९॥ गगना गगनान्तस्था गगनाकारमध्यमा । गजारूढा गजमुखी गाथागीतामराङ्गना ॥ ४४॥ गदाधरी गदाऽऽधातमूर्छितानेकपासुरा । गरिमालघिमासिद्धिवृता ग्रामादिपालिनी ॥ ४५॥ गर्विता गन्धवसना गन्धवाहसमर्चिता । गर्वितासुरदाराश्रुपङ्किताजिवसुन्धरा ॥ ४६॥ गायत्री गानसन्तुष्टा गन्धर्वाधिपतीडिता । गिरिदुर्गा गिरीशानसुता गिरिवराश्रया ॥ ४७॥ गिरीन्द्रक्रूरकठिनकर्षद्धलवरायुधा । गीतचारित्रहरितशुकैकगतमानसा ॥ ४८॥ गीतिशास्त्रगुरुः गीतिहृदया गीर्गिरीश्वरी । गीर्वाणदनुजाचार्यपूजिता गृध्रवाहना ॥ ४९॥ गुडपायससन्तुष्टहृद्यप्ततरयोगिनी । गुणातीता गुरुर्गौरी गोप्त्री गोविन्दसोदरी ॥ ५०॥ गुरुमूतिर्गुणाम्भोधिर्गुणागुणविवर्जिता । गुहेष्टदा गुहावासियोगिचिन्तितरूपिणी ॥ ५१॥ गुह्यागमरहस्यज्ञा गुह्यकानन्ददायिनी । गुह्या गुह्यार्चिता गुह्यस्थानबिन्दुस्वरूपिणी ॥ ५२॥ गोदावरीनदीतीरवासिनी गुणवर्जिता । गोमेदकमणीकर्णकुण्डला गोपपालिनी ॥ ५३॥ गोसवासक्तहृदया गोश‍ृङ्गध्यानमोदिनी । गङ्गागर्वङ्कषोद्युक्तरुद्रप्रोत्साहवादिनी ॥ ५४॥ गन्धर्ववनितामालामोदिनी गर्वनाशिनी । गुञ्जामणिगणप्रोतमालाभासुरकन्धरा ॥ ५५॥ ओं ऐं ह्रीं श्रीं घं - २०॥ घटवाद्यप्रिया घोरकोणपघ्नी घटार्गला । घटिका घटिकामुख्यषट्पारायणमोदिनी ॥ ५६॥ घण्टाकर्णादिविनुता घनज्योतिर्लतानिभा । घनश्यामा घटोत्भूततापसात्मार्थदेवता ॥ ५७॥ घनसारानुलिप्ताङ्गी घोणोद्धृतवसुन्धरा । घनस्फटिकसङ्क्लृप्तसालान्तरकदम्बका ॥ ५८॥ घनाल्युद्भेदशिखरगोपुरानेकमन्दिरा । घूर्णीताक्षी घृणासिन्धुः घृणिविद्या घटेश्वरी ॥ ५९॥ घृतकातिन्यहृद्धण्टामणिमालाप्रसाधना । घोरकृत्या घोरवाद्या घोराघौघविनाशिनी ॥ ६०॥ घोराघनकृपायुक्ता घननीलाम्बरान्विता । घोरास्या घोरशूलाग्रप्रोतासुरकलेवरा ॥ ६१॥ घोषत्रस्तान्तकभटा घोरसङ्घोषकृद्बला । ॐ ऐं ह्रीं श्रीं ङं - २१॥ ङान्तार्णाद्यमनुप्रीता ङाकाराडीम्परायणा ॥ ६२॥ ङीकारिममञ्जुमञ्जीरचरणा ङाङ्कित्ताङ्गुलिः । ओं ऐ ह्रीं श्रीं चं - २२॥ चक्रवर्तिसमाराध्या चक्रनेमिरवोन्तुका ॥ ६३॥ चण्डमार्ण्डधिक्कारिप्रभा चक्राधिनायिका । चण्डालास्यपरामोदा चण्डवादपटीयसी ॥ ६४॥ चण्डिका चण्डकोदण्डा चण्डघ्नी चण्डभैरवी । चतुरा चतुराम्नायशिरोलक्षितरूपिणी ॥ ६५॥ चतुरङ्गबलोपेता चराचरविनोदिनी । चतुर्वक्त्रा चक्रहस्ता चक्रपाणिसमर्चिता ॥ ६६॥ चतुष्षष्टिकलारूपा चतुष्षष्यचर्चनोस्तुका । चन्द्रमण्डलन्ध्ययस्था चतुर्वर्गफलप्रदा ॥ ६७॥ चमरीमृगयोद्युक्ता चिरञ्जीवित्वदायिनी । चम्पकाशोकस्रद्बद्धचिकुरा चरुभक्षिणी ॥ ६८॥ चराचरजगद्धात्री चन्द्रिकाधवलस्मिता । चर्माम्बरधरा चण्डक्रोधहुङ्कारभीकरा ॥ ६९॥ चाटुवादप्रिया चामीकरपर्वतवासिनी । चापिनी चापमुक्तेषुच्छन्नदिग्भ्रान्तपन्नगा ॥ ७०॥ चित्रभानुमुखी चित्रसेना चित्राङ्गदेष्टदा । चित्रलेखा चिदाकाशमध्यगा चिन्तितार्थदा ॥ ७१॥ चिन्त्या चिरन्तनी चित्रा चित्राम्बा चित्तवासिनी । चैतन्यरूपा चिच्छक्तिश्चिदम्बरविहारिणी ॥ ७२॥ चोरघ्नी चीर्यविमुखा चतुर्दशमनुप्रिया । ओं ऐं ह्रीं श्रीं छं - २३॥ छत्रचामरभृल्लक्ष्मीवागिन्द्राणीरतीवृता ॥ ७३॥ छन्दश्शास्त्रमयी छन्दोलक्ष्याच्छेदविवर्जिता । छन्दोरूपाछन्दगतिः छन्दश्शिरविहारिणी ॥ ७४॥ छद्महृत्छविसन्दीप्तसूर्यचन्द्राग्नितारका । छर्दिताण्डावलिश्छादिताकारा छिन्नसंशया ॥ ७५॥ छायापतिसमाराध्या छायाम्बा छत्रसेविता । छिन्नमस्ताबिका छिन्नशीर्षशत्रुश्छलान्तकी ॥ ७६॥ छेदितासुरजिह्वाग्रा छत्रीकृतयशस्विनी । ॐ ऐं ह्रीं श्रीं जं - २४॥ जगन्माता जगत्साक्षी जगद्योनिर्जगद्गुरुः ॥ ७७॥ जगन्माया जगन्त्वृन्दवन्दिता जयिनीजया । जनजाड्यप्रतापघ्नी जितासुरमहाव्रजा ॥ ७८॥ जननी जगदानन्ददात्री जह्नुसमर्चिता । जपमालावराभीतिमुद्रापुस्तकधारिणी ॥ ७९॥ जपयज्ञपराधीनहृदया जगदीश्वरी । जपाकुसुमसङ्काशा जन्मादिध्वंसकारणा ॥ ८०॥ जालध्रपूर्णकामोड्याणचतुष्पीठरूपिणी । जीवनार्थिद्विजव्रातत्राणनाबद्धकङ्कणा ॥ ८१॥ जीवब्रह्मैकताकाङ्क्षि जनताकीर्णपार्वभूः । जम्भिनी जम्भभित्पूल्या जाग्रदादित्रयातिगा ॥ ८२॥ जलदग्रिधरा ज्वालाप्रोच्चकेशी ज्वरार्तिहृत् । ज्वालामालिनिका ज्वालामुखी जैमिनिसंस्तुता ॥ ८३॥ ॐ ऐं ह्रीं श्रीं झं - २५॥ झलञ्झलकृतस्वर्णमञ्जीरा झषलोचना । झषकुण्डलिनी झल्लरीवाद्यमुदितानना ॥ ८४॥ झषकेतुसमाराध्या झषमांसान्नभक्षिणी । झषोपद्रवकृद्धन्त्री झ्म्रूम्मन्त्राधिदेवता ॥ ८५॥ झञ्झानिलातिगमना झषराण्णीतसागरा । ॐ ऐं ह्रीं श्रीं ज्ञं - २६॥ ज्ञानमुद्राधरा ज्ञानिहृत्पद्मकुहरास्थिता ॥ ८६॥ ज्ञानमूर्तिज्ञनिगम्या ज्ञानदा ज्ञातिवर्जिता । ज्ञेया ज्ञेयादिरहिता ज्ञात्री ज्ञानस्वरूपिणी ॥ ८७॥ ओं ऐं ह्रीं श्रीं टं - २७॥ टङ्कपुष्पालिस्रङ्मञ्जुकन्धरा टङ्किताचला । टङ्कवेत्रादिकानेकशस्त्रभृद्दोर्लतावलिः ॥ ८८॥ ओं ऐ ह्रीं श्रीं ठं - २८॥ ठकारनिभवक्षोजद्वयाधोवृत्तभासुरा । ठकाराङ्कितजान्वग्रजितकोरकिताम्बुजा ॥ ८९॥ ओं ऐं ह्रीं श्रीं शं - २९॥ डाकिनी डामरीतन्त्ररूपा डाडिमपाटला । डम्बघ्नी डम्बराऽऽडम्बरोन्मुखी डमरुप्रिया ॥ ९०॥ डिम्बदानचणा डोलामुदिता डुण्ठिपूजिता । ओं ऐं ह्रीं श्रीं ढं - ३०॥ ढकानिनदसन्तुष्टशिखिनृत्तसमुत्सुका ॥ ९१॥ ओं ऐं ह्रीं श्रीं णं - ३१॥ णकारपञ्जरशुकी णकारोद्यानकोकिला । ओं ऐं ह्रीं श्रीं तं - ३२॥ तत्त्वातीता तपोलक्ष्या तप्तकाञ्चनसन्निभा ॥ ९२॥ तन्त्री तत्त्वमसीवाक्यविषया तरुणीवृता । तर्जन्यङ्गुष्ठसंयोगज्ञानब्रह्ममुनीश्वरा ॥ ९३॥ तर्जितानेकदनुजा तक्षकी तडितालिभा । ताम्रचूडध्वजोत्सङ्गा तापत्रयविनाशिनी ॥ ९४॥ ताराम्बा तारकी तारापूज्या ताण्डवलोलुपा । तिलोत्तमादिदेवस्त्रीशारीरोन्सुकमानसा ॥ ९५॥ तिल्वद्रुसङ्कुलाभोगकान्तारान्तरवासिनी । त्रयीद्विड्रसनारक्तपानलोलासिधारिणी ॥ ९६॥ त्रयीमयी त्रयीवेद्या त्र्यय्यन्तोद्गीतवैभवा । त्रिकोणस्था त्रिकालज्ञा त्रिकूटा त्रिपुरेश्वरी ॥ ९७॥ त्रिचत्वारिंशदश्राङ्कचक्रान्तर्बिन्दुसंस्थिता । त्रितारा तुम्बुरूद्गीता तार्क्ष्याकारा त्रिकाग्निजा ॥ ९८॥ त्रिपुरा त्रिपुरध्वंसिप्रिया त्रिपुरसुन्दरी । त्रिस्था त्रिमूर्तिसहजशक्तिस्त्रिपुरभैरवी ॥ ९९॥ ॐ ऐं ह्रीं श्रीं थं - ३३॥ थां थीकरमृदगादिभृद्विष्णुमुखसेविता । थां थीं तक्तक थिं तोकृत्तालध्वनिसभाङ्गणा ॥ १००॥ ॐ ऐं ह्रीं श्रीं दं - ३४॥ दक्षा दाक्षायणी दक्षप्रजापतिमखान्तकी । दक्षिणाचाररसिका दयासम्पूर्णमानसा ॥ १०१॥ दारिद्र्योन्मूलिनी दानशीला दोषविवर्जिता । दारुकान्तकरी दारुकारण्यमुनिमोहिनी ॥ १०२॥ दीर्घदंष्ट्रानना दीर्घरसनागीर्णदानवा । दीक्षिता दीक्षिताराध्या दीनसंरक्षणोद्यता ॥ १०३॥ दुःखाब्धिबडबा दुर्गा दुम्बीजा दुरितापहा । दुष्टदूरा दुराचारशमनी द्यूतवेदिनी ॥ १०४॥ द्विजावगूरणस्वान्तपिशितामोदिताण्डजा । ॐ ऐं ह्रीं श्रीं धं - ३५॥ धनदा धनदाराध्या धनदाप्तकुटुम्बिनी ॥ १०५॥ धराधरात्मजा धर्मरूपा धरणिधूर्धरा । धात्री धातृशिरच्छेत्री धीध्येया धुवपूजिता ॥ १०६॥ धूमावती धूम्रनेत्रगर्वसंहारिणी धृतिः । ॐ ऐं ह्रीं श्रीं नं - ३६॥ नखोत्पन्नदशाकारमाधवा नकुलीश्वरी ॥ १०७॥ नरनारायणस्तुत्या नलिनायतलोचना । नरास्थिस्रग्धरा नारी नरप्रेतोपरिस्थिता ॥ १०८॥ नवाक्षरीनाममन्त्रजपप्रीता नटेश्वरी । नादचामुण्डिका नानारूपकृन्नास्तिकान्तकी ॥ १०९॥ नादब्रह्ममयी नामरूपहीना नतानना । नारायणी नन्दिविद्या नारदोद्गीतवैभवा ॥ ११०॥ निगमागमसंवेद्या नेत्री नीतिविशारदा । निर्गुणा नित्यसन्तुष्टा नित्याषोडशिकावृता ॥ १११॥ नृसिंहदर्पशमनी नरेन्द्रगणवन्दिता । नौकारूढासमुत्तीर्णभवाम्भोधि निजाश्रिता ॥ ११२॥ ओं ऐं ह्रीं श्रीं पं - ३७॥ परमा परमं ज्योतिः परब्रह्ममयी परा । परापरमयी पाशबाणाङ्कुशधनुर्धरा ॥ ११३॥ पराप्रासादमन्त्रार्था पतञ्जलिसमर्चिता । पापघ्नी पाशरहिता पार्वती परमेश्वरी ॥ ११४॥ पुण्या पुलिन्दिनीपूज्या प्राज्ञा प्रज्ञानरूपिणी । पुरातना पराशक्तिः पञ्चवर्णस्वरूपिणी ॥ ११५॥ प्रत्यङ्गिराः पानपात्रधरा पीनोन्नतस्तनी । ओं ऐं ह्रीं श्रीं फं - ३८॥ फडर्णध्वस्तपापौघदासा फणिवरेडिता ॥ ११६॥ फणिरत्नासनासीनकामेशोत्सङ्गवासिनी । फलदा फल्गुनप्रीता फुल्लाननसरोरुहा ॥ ११७॥ फुल्लोत्तप्ताङ्गसाहस्रदलपङ्कजभासुरा । ओं ऐं ह्रीं श्रीं बं - ३९॥ बन्धूकसुमनोरागा बादरायणदेशिका ॥ ११८॥ बालाम्बा बाणकुसुमा बगलामुखिरूपिणी । बिन्दुचक्रस्थिता बिन्दुतर्पणप्रीतमानसा ॥ ११९॥ बृहत्सामस्तुता ब्रह्ममाया ब्रह्मर्षिपूजिता । बृहदैश्वर्यदा बन्धहीना बुधसमर्चिता ॥ १२०॥ ब्रह्मचामुण्डिका ब्रह्मजननी ब्राह्मणप्रिया । ब्रह्मज्ञानप्रदा ब्रह्मविद्या ब्रह्माण्डनायिका ॥ १२१॥ ब्रह्मतालप्रिया ब्रह्मपञ्चमञ्चकशायिनी । (??) ब्रह्मादिविनुता ब्रह्मपत्नी ब्रह्मपुरस्थिता ॥ १२२॥ ब्राह्मीमाहेश्वरीमुख्यशक्तिवृन्दसमावृता । ओं ऐं ह्रीं श्रीं भं - ४०॥ भगाराध्या भगवती भार्गवी भार्गवार्चिता ॥ १२३॥ भण्डासुरशिरश्छेत्री भाषासर्वस्वदर्शिनी । भद्रा भद्रार्चिता भद्रकाली भर्गस्वरूपिणी ॥ १२४॥ भवानी भाग्यदा भीमा भामती भीमसैनिका । भुजङ्गनटनोद्युक्ता भुजनिर्जितदानवा ॥ १२५॥ भ्रुकुटीक्रूरवदना भ्रूमध्यनिलयस्थिता । भेतालनटनप्रीता भोगिराजाङ्गुलीयका ॥ १२६॥ भेरुण्डा भेदनिर्मुक्ता भैरवी भैरवार्चिता । ओं ऐं ह्रीं श्रीं मं - ४१॥ मणिमण्डपमध्यस्था माणिक्याभरणान्विता ॥ १२७॥ मनोन्मनी मनोगम्या महादेवपतित्रता । मन्त्ररूपा महाराज्ञी महासिद्धालिसंवृता ॥ १२८॥ मन्दरादिकृतावासा महादेवी महेश्वरी । महाहिधमेखला मार्गदुर्गा माङ्गल्यदायिनी ॥ १२९॥ महावतक्रतुप्रीता माणिभद्रसमर्चिता । (??) महिषासुरशिरश्छेदनर्तकी मुण्डखमिडनी ॥ १३०॥ माता मरकटश्यामा मातङ्गी मतिसाक्षिणी । (??) माधवी माधवाराध्या मधुमांसप्रिया मही ॥ १३१॥ मारी मारान्तक क्षोभकारिणी मीनलोचना । मालतीकुन्दमालाढ्या माषौदनसमुन्सुका ॥ १३२॥ मिथुनासक्तहृदया मोहिताशेषविष्टपा । मुद्रा मुद्राप्रिया मूर्खनाशिनी मेषभक्षिणी ॥ १३३॥ मूकाम्बा मुखजा मोदजनकालोकनप्रिया । मौनव्याख्यापरा मौनसत्यचिन्मात्रलक्षणा ॥ १३४॥ मौञ्जीकच्छधरा मौर्वीद्विरेफमुखरोन्मुखा । ओं ऐं ह्रीं श्रीं यं - ४२॥ यज्ञवृन्दप्रिया यष्ट्री यान्तवर्णस्वरूपिणी ॥ १३५॥ यन्त्ररूपा यशोदात्मजातसजुतवैभवा । यशस्करी यमाराध्या यजमानाकृतिर्यतिः ॥ १३६॥ याकिनी यक्षरक्षादिवृता यजनतर्पणा । याथार्थ्यविग्रहा योग्या योगिनी योगनायिका ॥ १३७॥ यामिनी यजमोत्साहा यामिनीचरभक्षिणी । यायजूकर्चितपदा यज्ञेशी यक्षिणीश्वरी ॥ १३८॥ यासापद्मधरा यासापद्मान्तरपरिष्कृता । योषाऽभयङ्करी योषिद्वृन्दवन्दितपादुका ॥ १३९॥ ॐ ऐं ह्रीं श्रीं रं - ४३॥ रक्तचामुण्डिका रात्रिदेवता रागलोलुपा । रक्तबीजप्रशमनी रजोगन्धनिवारिणी ॥ १४०॥ रणरगनटीरत्त्रमज्जीरचरणाम्बुजा । रजध्ववस्ताचला रागहीनमानसहंसिनी ॥ १४१॥ रसनालेपितक्रूररक्तबीजकलेवरा । रक्षाकरी रमा रम्या रञ्जिनी रसिकावृता ॥ १४२॥ राकिण्यम्बा रामनुता रमावाणीनिषेविता । रागालापपरब्रह्म शिरो मालाप्रसाधना ॥ १४३॥ राजराजेश्वरी राज्ञी राजीवनयनप्रिया । राजव्रातकिरीटांशुनीराजितपदाम्बुजा ॥ १४४॥ रुद्रचामुण्डिका रुक्मसदृशा रुधिरप्रिया । रुद्रताण्डवसामर्थ्यदर्शनोत्सुकमानसा ॥ १४५॥ रुद्राट्टहाससङ्क्षुभ्यज्जगन्तुष्टिविधायिनी । रुद्राणी रुद्रवनिता रुरुराजहितैषिणी ॥ १४६॥ रेणुका रेणुकासूनुस्तुत्या रेवाविहारिणी । रोगघ्नी रोषनिर्दग्धशत्रुसेनानिवेशिनी ॥ १४७॥ रोहिणीशांशुसम्भूतझरीरत्नवितानका । रौद्री रौद्रास्त्रनिर्दग्धराक्षसा राहुपूजिता ॥ १४८॥ ओं ऐं ह्रीं श्रीं लं - ४४॥ लघूक्तिवल्गुस्तिमितवाणीत्यक्तविपञ्चिका । लज्जावती ललत्प्रोच्चकेशा लम्बिपयोधरा ॥ १४९॥ लयादिकर्त्री लोमालिलतानाभीसरः कटी । ललदोष्ठदलद्वन्द्ववदना लक्ष्यदूरगा ॥ १५०॥ ललन्तिकामणीभास्वन्निटिलश्रीमुखाम्बुजा । ललाटार्धनिशानाथकलङ्कोद्भासिलोचना ॥ १५१॥ ललिता लोभिनी लोभहीना लोकेश्वरी लघुः । लक्ष्मीर्लक्ष्मीशसहजा लक्ष्मणाग्रजवन्दिता ॥ १५२॥ लाकिनी लघितापृभोधिनिवहा ललिताग्बिका । लाजहोमप्रिया लम्बमुक्ताभासुरनासिका ॥ १५३॥ लाभालाभादिरहिता लास्यदर्शनकोविदा । लावण्यदर्शनोद्विग्नरतीशा लधुभाषिणी ॥ १५४॥ लाक्षारसाञ्चितपदा लधुश्यामा लतातनुः । लाक्षालक्ष्मीतिरस्कारियुगलाधरपल्लवा ॥ १५५॥ लीलागतिपराभूतहंसा लीलाविनोदिनी । लीलानन्दनकल्पद्रुमलताडोलाविहारिणी ॥ १५६॥ लीलापीताब्धिविनुता लीलास्वीकृतवियहा । लीलाशुकोस्तिमुदिता लीलामृगविहारिणी ॥ १५७॥ लोकमाता लोकसृष्टिस्थितिसंहारकारिणी । लोकातीतपदा लोकवन्द्या लोकैकसाक्षिणी ॥ १५८॥ लोकातीताकृतिर्लब्धा मार्गत्यागपरान्तकी । (??) लोकानुल्लङ्घितनिजशासना लब्धवियहा ॥ १५९॥ लोमावलि लता लम्बिस्तनयुग्मनतानना । लोलचित्तविदूरस्था लोमलम्ब्यण्डजालका ॥ १६०॥ लबितारिशिरोहस्ता लोकरक्षापरायणा । ॐ ऐं ह्रीं श्रीं वं - ४५॥ वनदुर्गा विन्ध्यदलवासिनी वामकेश्वरी ॥ १६१॥ वशिन्यादिस्तुता वह्निज्वालोद्गारिमुखी वरा । वक्षोजययुग्मविरहासहिष्णुकरशङ्करा ॥ १६२॥ वाङ्मनोतीतविषया वामाचारसमुत्सुका । वाजपेयाध्वरानन्दा वासुदेवेष्टदायिनी ॥ १६३॥ वादित्रध्वनिसम्भ्रान्तदिग्गजालिर्विधीडिता । वामदेववसिष्ठादिपूजिता वारिदप्रभा ॥ १६४॥ वामस्तनाश्लिष्द्धस्तपद्मशम्भुविहारिणी । वाराही वास्तुमध्यस्था वासवान्तः पुरेष्टदा ॥ १६५॥ वाराङ्गनानीतपूर्णकुम्भदीपालिमण्टपा । वारिजासनशीर्षालिमाला वार्धिसरोवरा ॥ १६६॥ वारितासुरदर्पश्रीः वार्धघ्नीमन्त्ररूपिणी । वार्ताली वारुणी विद्या वरुणारोग्यदायिनी ॥ १६७॥ विजया विजयास्तुत्या विरूपा विश्वरूपिणी । विप्रशत्रुकदम्बघ्नी विप्रपूज्या विषापहा ॥ १६८॥ विरिञ्चिशिक्षणोद्युक्तमधुकैटभनाशिनी । विश्वमाता विशालाक्षी विरागा वीशवाहना ॥ १६९॥ वीतरागवृता व्याघ्रपाद नृत्तप्रदर्शिनी । वीरभद्रहतोन्मत्तदक्षयज्ञाश्रितामरा ॥ १७०॥ वेदवेद्या वेदरूपा वेदाननसरोरुहा । वेदान्तविषया वेणुनादज्ञा वेदपूजिता ॥ १७१॥ वौषट्मन्त्रमयाकारा व्योमकेशी विभावरी । ?? वन्द्या वाग्वादिनी वन्यमांसाहारा वनेश्वरी ॥ १७२॥ वाञ्छाकल्पलता वाणी वाक्प्रदा वागधीश्वरी । ओं ऐं ह्रीं श्रीं शं - ४६॥ शक्तिवृन्दावृता शब्दमयी श्रीचक्ररूपिणी ॥ १७३॥ शबरी शबरीदुर्गा शरभेशच्छदाकृतिः । शब्दजालोद्भवढ्ढक्कारवासन्दिग्धतापसा ॥ १७४॥ शरणागतसन्त्राणपरायणपटीयसी । शशाङ्कशेखरा शस्त्रधरा शतमुखाम्बुजा ॥ १७५॥ शातोदरी शान्तिमती शरच्चन्द्रनिभानना । शापापनोदनचणा शङ्कादोषादिनाशिनी ॥ १७६॥ शिवकामसुन्दरी श्रीदा शिववामाङ्गवासिनी । शिवा श्रीदाननिपुणलोचना श्रीपतिप्रिया ॥ १७७॥ शुकादिद्विजवृन्दोक्तिस्तब्धमानसगीष्पतिः । शुक्रमण्डलसङ्काशमुक्तामाला शुचिस्मिता ॥ १७८॥ शुक्लदंष्ट्राग्रसन्दीप्तपातालभ्रान्तपन्नगा । शुभ्रासना शूरसेनावृता शूलादिनाशिनी ॥ १७९॥ शूकवृश्चिकनागाखुर्वृकह्रिंस्रालिसंवृता । शूलिनी शूलड्गाहिशङ्खचक्रगदाधरा ॥ १८०॥ शोकाब्धिशोषणोद्युक्तबडवा श्रोत्रियावृता । शङ्करालिङ्गनानन्दमेदुरा शीतलाम्बिका ॥ १८१॥ शङ्करी शङ्करार्धाङ्गहरा शाक्करवाहना । शम्भुकोपाग्निनिर्दग्धमदनोत्पादकेक्षणा ॥ १८२॥ शाम्भवी शम्भुहस्ताब्जलीलारुणकरावलिः । श्रीविद्या शुभदा शुभवस्त्रा शुम्भासुरान्तकी ॥ १८३॥ ओं ऐं ह्रीं श्रीं षं - ४७॥ षडाधाराब्जनिलया षाड्गुण्यश्रीप्रदायिनी । षडूर्मिघ्नि षडध्वान्तपदारूढस्वरूपिणी ॥ १८४॥ षट्कोणमध्यनिलया षडर्णा षान्तरूपिणी । षड्जादिस्वरनिर्मात्री षडङ्गयुवतीश्वरी ॥ १८५॥ षड्भावरहिता षण्डकण्टकी षण्मुखप्रिया । षड्सास्वादमुदिता षष्ठीशादिमदेवता ॥ १८६॥ षोढान्यासमयाकारा षोडशाक्षरदेवता । ओं ऐं ह्रीं श्रीं सं - ४८॥ सकला सच्चिदानन्दलक्षणा सौख्यदायिनी ॥ १८७॥ सनकादिमुनिध्येया सन्ध्यानाट्यविशारदा । समस्तलोकजननी सभानटनरञ्जिनी ॥ १८८॥ सरः पुलिनलीलार्थियुवतीनिवहोत्सुका । सरस्वती सुराराध्या सुरापानप्रियासुरा ॥ १८९॥ सरोजलविहारोद्यत्प्रियाकृष्टोत्तरांशुका । साध्या साध्यादिरीहता स्वतन्त्रा स्वस्तिरूपिणी ॥ १९०॥ साध्वी सङ्गीतरसिका सर्वदा सर्वमङ्गला । सामोद्गीतनिजानन्दमहिमालिस्सनातना ॥ १९१॥ सारस्वतप्रदा सामा संसारार्णवतारिणीम् । सावित्री सङ्गनिर्मुक्ता सतीशी सर्वतोमुखी ॥ १९२॥ साख्यतत्वज्ञनिवहव्यापिसाला सुखेश्वरी । सिद्धसङ्घावृता सान्ध्यवन्दिता साधुसत्कृता ॥ १९३॥ सिंहासनगता सर्वश‍ृङ्गाररसवारिधिः । सुधाब्धिमध्यनिलया स्वर्णद्वीपान्तरस्थिता ॥ १९४॥ सुधासिक्तालवालोद्यत्कायमानलतागृहा । सुभगा सुन्दरी सुभ्रूः समुपास्यत्वलक्षणा ॥ १९५॥ सुरदुसङ्कुलाभोगतटा सौदामिनीनिभा । सुरभीकेशसम्भ्रान्तद्विरेफमुखरान्विता ॥ १९६॥ सूर्यचन्द्रांशुधिक्कारिप्रभारत्नालिमण्डपा । सोमपानोद्भवामोदविप्रगीतापदानका ॥ १९७॥ सोमयागप्रिया सोमसूर्यवह्निविलोचना । सौगन्धिकमरुद्वेगमोदिता सद्विलासिनी ॥ १९८॥ सौन्दर्यमोहिताधीनवल्लभा सन्ततिप्रदा । सौभाग्यमन्त्रिणी सत्यवादा सागरमेखला ॥ १९९॥ स्वश्वासोच्छवासभुवनमोचनोन्मोचना स्वधा । ॐ ऐं ह्रीं श्रीं हं - ४९॥ हयारूढा हयग्रीवविनुता हतकिल्बिषा ॥ २००॥ हरालिङ्गनशीतांशून्मिषन्नेत्रमुद्वती । हरिनाभिसमुद्भूतविरिञ्चिविनुता हरा ॥ २०१॥ हादिविद्या हानिहीना हाकिनी हरिचण्डिका । हारावलिप्रभादीप्त हरिदन्तदिगम्बरा ॥ २०२॥ हालाहलविषोद्विग्रविष्टापानेकरक्षकी । हाहाकाररवोद्गीतदनुजा हारमञ्जुला ॥ २०३॥ हिमाद्रितनया हीरमकुटा हारपन्नगा । हुताशनधरा होमप्रिया होत्री हयेश्वरी ॥ २०४॥ हेमपद्मधरा हेमवर्मराजसमर्चिता । हंसिनी हंसमन्त्रार्था हंसवाहा हराङ्गभृत् ॥ २०५॥ हृद्या हृद्यमनोनित्यवासा हरकुटुम्बिनी । (??) ह्रीमतिः हृदयाकाशतरणिः ह्रिम्परायणा ॥ २०६॥ ॐ ऐं ह्रीं श्रीं क्षं - ५०॥ क्षणदाचरसंहारचतुरा क्षुद्रदुर्मुखा । क्षणदार्च्या क्षपानाथसुधार्द्रकबरी क्षितिः ॥ २०७॥ क्षमा क्षमाधरसुता क्षामक्षोभविनाशिनी । क्षिप्रसिद्धिम्प्रदा क्षिप्रगमना क्षुण्णिवारिणी ॥ २०८॥ क्षीणपुण्यासुहृत् क्षीरवर्णा क्षयविवर्जिता । क्षीरान्नाहारमुदिता क्ष्म्र्यूम्मन्त्राप्तेष्टयोगिराट् ॥ २०९॥ क्षीराब्धितनया क्षीरघृतमध्वासवार्चिता । क्षुधार्तिदीनसन्त्राणा क्षितिसंरक्षणक्षमा ॥ २१०॥ क्षेमङ्करी क्षेत्रपालवन्दिता क्षेत्ररूपिणी । क्षौमाम्बरधरा क्षत्रसम्प्रार्थितजयोत्सवा ॥ २११॥ क्ष्वेलभुग्रसनास्वाद जात वाग्रसवैभवा । इति श्रीभृङ्गिरिटिसंहितायां शक्त्युत्कर्षप्रकरणे शिवगौरीसंवादे श्रीशिवकामसुन्दरीसहस्रनामस्तोत्रं सम्पूर्णम् ॥ उत्तरपीतिका ॥ इत्येतत्ते मयाऽऽख्यातं नाम साहस्रमुत्तमम् । शिवकामसुन्दरीदेव्याः शिवायाः परमेश्वरि ॥ १॥ चतुर्वेदस्य तात्पर्यसारभूतं सुखप्रदम् । सहस्रनामक स्तोत्ररत्नाभिधमिदं प्रिये । श्रुत्यन्तवाक्यनिचयबद्धं शीघ्रप्रसिद्धिदम् ॥ २॥ आयुरारोग्यदं पुण्यवर्धनं भुक्तिमुक्तिदम् । विघ्नवारणविघ्नेशं संसारध्वान्तभास्करम् ॥ ३॥ शोककान्तारदावाग्निमज्ञानाब्धिघटोद्भवम् । रोगपर्वतदभ्भोलिं शत्रुवर्गाहितार्क्ष्यकम् ॥ ४॥ सर्वविद्याप्रदं नॄणां तुष्टिदं पुष्टिदं प्रिये । भूताः प्रेताः पिशाचाश्च ब्रह्मरक्षोगणोरगाः ॥ ५॥ जटामुनिगणाः क्षुद्रज्वरकृद्ग्रहमण्डलाः । कोटरारेवतीज्येष्ठापूतनामातृकादयः ॥ ६॥ महाज्वरकराश्चान्ये भेतालाग्निधराश्शिवे । अपस्मारादिमाश्चान्ये दृष्टा हिंसाराराश्शिवे ॥ ७॥ राक्षसा मनुजा यज्ञविघ्नभूताश्च पन्नगाः । सालुवाः शरभाः सिंहाः व्याघ्रा ऋक्षा गजा वृषाः । शाक्करा महिषाच्छगाः गवयावृकजम्बुकाः । अन्ये वन्या मृगा देवि हिंसकाश्शूकवृश्चिकाः ॥ ९॥ अण्डजास्स्वेदजा देवि चोद्भिदाश्च जरायुजाः । ये ये हिंसाकरास्सर्वे नामसाहस्रजापिनम् ॥ १०॥ दृष्ट्वा भीत्या परिभ्रान्ताः स्खलन्तश्च विदूरतः । पतन्तश्च पलायन्ते प्राणत्राणपरायणाः ॥ ११॥ अम्बिकानामसाहस्रजपशीलस्य योगिनः । द्रव्याणि योऽपहरते तं भक्षयति योगिनी ॥ १२॥ शिवकामसुन्दरीभस्तिशालिनं द्वेष्टि यो नरः । तं नाशयति सा देवी सपुत्रगणबान्धवम् ॥ १३॥ शिवकामसुन्दरीभक्ते चाभिचारादिदुष्कृतिम् । यः प्रेरयति मूढात्मा तं देवी शिवसुन्दरी ॥ १४॥ मुखाग्निज्वालया देवी दाहयत्यञ्जसा धुवम् । अनेन सदृशं स्तोत्रं नास्ति नास्त्यद्रिकन्यके ॥ १५॥ एतत्स्तोत्रजपेनैव विष्णुर्लक्ष्मीश्वरोऽभवत् । जगद्रक्षककर्तृत्वं ब्रह्मणो वेधसः प्रिये ॥ १६॥ सृष्टिकर्तृत्वमप्यम्बे वेदानां च विधायकः । अभूदन्येऽमराश्चैव वह्नीन्द्रयमराक्षसाः ॥ १७॥ जलवाय्वीशधनदाः योगिनश्च महर्षयः । जपादस्य स्वयं सिद्धिं लेभिरे सततं शिवे ॥ १८॥ मम शक्तिमयी त्वं हि देवी सा कामसुन्दरी । तस्याः प्रभावं नान्येन वस्तुं शक्यं हि सुन्दरि! ॥ १९॥ त्वयैव चिन्तनीयं तत् त्वत्तो नान्यास्ति हि प्रिया । एतन्नामसहस्रस्य जपे त्रैवर्णिकः प्रिये ॥ २०॥ मयाधिक्रियतेऽन्येषां च भवेदधिकारता । अन्ये तु पाठयेद्विप्रैः लभेरन्दवेष्टकामनाम् ॥ २१॥ यो विप्रश्शान्तहृदयः नामसाहस्रमुत्तमम् । जपति श्रद्धया युक्तः सर्वान्कामानवाप्नुयात् ॥ २२॥ शुक्रवारे सौमवारे भौमवारे गुरोर्दिने । दर्शे पर्वणि पञ्चम्यां नवम्यां कुलसुन्दरि ॥ २३॥ कृष्णाङ्गारचतुर्दश्यां सङ्क्रान्तावयने विषौ । वृषे शुक्लनवम्यां च श्रावण्यां मूलभे शुभे ॥ २४॥ आषाढे च तुलायां च नक्षत्रे पूर्वफल्गुने । ज्येष्ठे च फाल्गुने मासि उत्तरे फल्गुने शुभे ॥ २५॥ नक्षत्रे च शुभां देवीं गौरीनामभिरम्बिकाम् । अर्चयेत्सततं प्रीता सुन्दरी भवति प्रिये ॥ २६॥ प्रतिपन्मुखराकान्तदिनरात्रिषु चाम्बिकाम् । अर्चयेत्कुसुमैर्बिल्वैः हारिद्रैः कुकुमैः शुभैः ॥ २७॥ हरिद्राचूर्णसम्पृक्तैरक्षतैर्तुलसीदलैः । केसरैः केतकैश्चैव मन्दारैश्चम्पकैरपि ॥ २८॥ प्रथमं गन्धतैलेनाभिषिच्य ततः परम् । पयसा मधुना दघ्ना घृतेन लिकुचेन च ॥ २९॥ नारिकेलाम्रपनसकदलीनां फलत्रयम् । शर्करामधुसम्पृक्तं पञ्च्जामृतमथाम्बिकाम् ॥ ३०॥ अभिषिच्य ततः पश्चात्सगन्धीश्चन्दनैः शुभैः । अन्नैश्च कुङ्कुमैश्चैव फलानां च रसैस्तथा ॥ ३१॥ गङ्गाम्बुभिस्ततः कुर्यात्वासितैः सलिलैश्शुभैः । सम्यगुन्मार्ज्य वस्त्रैश्च पीताम्बरमुखैः शिवैः ॥ ३२॥ आच्छाद्य कञ्चुकैश्चैवालङ्कृत्याभरणैस्सुमैः । शुद्धान्नैः पायसान्नैश्च रसखण्डान्नैश्च भक्ष्यकैः ॥ ३३॥ गुडान्नेः पायसापूपैर्माषापूपैश्च लेह्यकैः । खाद्यैश्च विविधैरन्नैः चित्रान्नैश्च विशेषतः ॥ ३४॥ लड्डुकैर्मोदकैश्चापि करम्भैश्च शरावकैः । फलैश्च विविधैश्चापि कुर्यान्नैवेद्यमादरात् ॥ ३५॥ षोडशैरुपचारैश्च पूजयेच्छिवसुन्दरीम् । सुवासिनीः कन्यकाश्च वस्त्रान्नैश्च प्रपूजयेत् ॥ ३६॥ एभिर्नामभिरेवैतां मूर्ते यन्त्रे घटेऽपि वा । आवाह्याभ्यर्च्ययेद्देवीं जपेद्वा सन्निधौ स्तुतिम् ॥ ३७॥ यं यं कामयते शीघ्रं तं तं प्राप्नोत्यसंशयः । विद्यार्थी लभते विद्यां पुत्रार्थी पुत्रमाप्नुयात् ॥ ३८॥ कन्यार्थी लभते कन्यां अप्सरस्सदृशीं शिवे । धनार्थी लभते शीघ्रं धनं भूरि महेश्वरि ॥ ३९॥ श्रीविद्योपास्तिशीलानामात्मरक्षार्थमादरात् । शत्रुनिर्घातनार्थञ्च स्वदासानुग्रहाय च ॥ ४०॥ जप्तव्यं सततं भद्रे श्रुतिवद्वाग्यतश्शुचिः । सर्वमन्त्राधिकारत्वात् श्रीविद्योपासकस्य तु ॥ ४१॥ गुरुं स्वयं जप्यं विना सुन्दर्येवास्य देशिका । तेषामेव विधिः प्रोक्तो नान्येषां मेनकात्मन्ते ॥ ४२॥ उपदेशादेव च गुरोः जप्तव्यं शिवभाषितम् । श्रीचक्रपुरसमाजस्त्रिपुरातुष्टिकारणम् ॥ ४३॥ तत्त्वमस्यादिवाक्यार्थपरब्रह्मपदप्रदम् । शिवज्ञानप्रदं देवि शीघ्रसिद्धिकरं परम् ॥ ४४॥ श्रौतस्मार्तादिकर्मादौ भक्त्येदं यो जपेत्प्रिये । अविघ्नेन च तत्कर्म साफल्यं चैति निश्चयः ॥ ४५॥ युद्धे प्रयाणे दुर्द्धर्षे स्वप्ने वाते जले भये । जप्तव्यं सततं भद्रे तत्तच्छान्त्यै महेश्वरि ॥ ४६॥ तत्तन्मातृकया पुस्तं त्रितारेण समन्वितम् । स्तोत्रमेतज्जपेद्देवीमर्चयेच्च विशेषतः ॥ ४७॥ सदा तस्य हृदम्भोजे सुन्दरी वसति धुवम् । अणिमादिमहासिद्धीः लभते नात्र संशयः ॥ ४८॥ अश्वमेधादिभिर्यज्ञैः यत्फलं तत् सुदुर्लभम् । अणिमादिममहासिद्धीः लभते नात्र संशयः ॥ ४९॥ एभिर्नामभिरेवं यः कालीं दुर्गाञ्च चण्डिकाम् । अर्चयेत्सततं भक्त्या ये सर्वान्कामांल्लभेन्नरः ॥ ५०॥ सुन्दरीमूर्तिभेदाश्च काली दुर्गा च चण्डिका ॥ ५१॥ एकैव शक्तिः परमेश्वरस्य भिन्ना चतुर्धा विनियोगकाले । भोगे भवानी पुरुषेषु विष्णुः कोपेषु काली समरेषु दुर्गा ॥ ५२॥ एका शक्तिश्च शम्भोर्विनिमयनविधौ सा चतुर्धा विभिन्ना क्रोधे काली विजाताच समरसमये सा च चण्डी च दुर्गा । भोगे सृष्टौ नियोगे च सकलजगतां सा भवानी च जाता सर्वेषां रक्षणानुग्रहकरणविधौ तस्य विष्णुर्भवेत्सा ॥ ५२॥ सम्प्रयच्छति तस्येष्टमचिरादेव सुन्दरी । स्तोत्ररत्नमिदं भद्रे सदा निष्कामनायुतः ॥ ५३॥ यो जपेन्मामकं धाम ब्रह्मविष्ण्वादिदुर्लभम् । सत्यज्ञानमनन्ताख्यं ब्राह्मं कैवल्यसञ्ज्ञकम् ॥ ५४॥ भवाब्धितारकं सोऽपि प्राप्नोति मदनुग्रहात् । चित्सभायां नृत्यमाननटराजस्य साक्षिणी ॥ ५५॥ तस्यैव महिषी नाम्रा शिवकामा च सुन्दरी । सा परब्रह्ममहिषी सदानन्दा शुभप्रदा ॥ ५६॥ शिवकामसुन्दरीनाम्नां सहस्रं प्रोक्तमम्बिके । एतस्य सदृशं स्तोत्रं नास्ति नास्ति जगत्त्रये ॥ ५७॥ सत्यं सत्यं पुनस्सत्यं त्वां शपेऽहं वदामि ते । नास्तिकाय कृतघ्नाय विप्रद्वेषपराय च ॥ ५८॥ न देयं वेदविप्रर्षिभक्तियुक्ताय शाम्भवि । देयं त्रिपुरविद्येशीत्यथर्वश्रुति चोदितम् ॥ ५९॥ विस्तृतेन किमन्यच्च श्रोतुकामासि सुन्दरि । इति निगदितवन्तं राजते पर्वतेऽस्मिन् नवमणिगणपीठे संस्थितं देवमीशम् । मुहुरपि कृतनम्रा भक्तिनम्रा भवानी करयुगसरसिजेनालिलिङ्गातिगाढम् ॥ ६०॥ इति श्रीभृङ्गिरिटिसंहितायां शक्त्युत्कर्षप्रकरणे शिवगौरीसंवादे श्रीशिवकामसुन्दरीसहस्रनामस्तोत्रोत्तरपीठिका सम्पूर्णा ॥ ॥ शिवमस्तु ॥ Proofread by DPD
% Text title            : shrI shivakAmasundarI sahasranAmastotra 1
% File name             : shivakAmasundarIsahasranAmastotra.itx
% itxtitle              : shivakAmasundarIsahasranAmastotram 1 (bhRiNgiriTisaMhitAyAM)
% engtitle              : shivakAmasundarIsahasranAmastotra 1
% Category              : sahasranAma, devii, stotra, devI, pArvatI
% Location              : doc_devii
% Sublocation           : devii
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : DPD
% Description-comments  : From bhRiNgiriTisaMhitAyAM
% Indexextra            : (Scan)
% Latest update         : August 23, 2015
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org