श्रीललितात्रिपुरसुन्दरीहृदयस्तोत्रम्

श्रीललितात्रिपुरसुन्दरीहृदयस्तोत्रम्

॥ श्रीललितात्रिपुरसुन्दर्यै नमः ॥ ॥ अथ श्रीमत् ललितात्रिपुरसुन्दरीहृदयस्तोत्रसाधना ॥ ॐ शुद्धस्फटिकसङ्काशं द्विनेत्रं करुणानिधिम् । वराभयकरं वन्दे श्रीगुरुं शिवरूपिणम् ॥ १॥ भक्ताज्ञानतमोभानुं मूर्ध्नि पङ्कजसंस्थितम् । सदाशिवमयं नित्यं श्रीगुरुं प्रणमाम्यहम् ॥ २॥ श्रीविद्यां जगतां धात्रीं सर्गस्थितिलयेश्वरीम् । नमामि ललितां नित्यं महात्रिपुरसुन्दरीम् ॥ ३॥ बिन्दुत्रिकोणसंयुक्तं वसुकोणसमन्वितम् । दशकोणद्वयोपेतं भुवनारसमन्वितम् ॥ ४॥ दलाष्टकसमोपेतं दलषोडशकान्वितम् । वृत्तत्रयान्वितं भूमिसदनत्रयभूषितम् ॥ ५॥ नमामि ललिताचक्रं भक्तानामेतदिष्टदम् । अमृताम्भोनिधौ तत्र रत्नद्वीपं नमाम्यहम् ॥ ६॥ नानावृक्षमहोद्यानं वन्देऽहं कल्पवाटिकाम् । सन्तानवाटिकां वन्दे हरिचन्दनवाटिकाम् ॥ ७॥ मन्दारवाटिकां वन्दे पारिजाताख्यवाटिकाम् । नमामि तव देवेशि कदम्बवनवाटिकाम् ॥ ८॥ पुष्परागमहारत्नप्राकारं प्रणमाम्यहम् । पद्मरागाख्यमणिभिः प्राकारं सर्वदा भजे ॥ ९॥ गोमेदरत्नप्राकारं वज्रप्राकारमाश्रये । वैडूर्यरत्नप्राकारं प्रणमामि तवेश्वरि ॥ १०॥ इन्द्रनीलाख्यरत्नानां प्राकारं प्रणमाम्यहम् । मुक्तारत्नमयं चैव प्राकारं सर्वदा भजे ॥ ११॥ मरकताख्यमहारत्नप्राकाराय नमस्तव । विद्रुमाख्यमहारत्नप्राकारं तु तवाश्रये ॥ १२॥ माणिक्यमण्डपं वन्दे सहस्रस्तम्भमण्डपम् । ललिते तव देवेशि भजाम्यमृतवापिकाम् ॥ १३॥ आनन्दवापिकां वन्दे भजे चैव विमर्शिकाम् । भजे बालातपोद्गारं चन्द्रिकोद्गारमाश्रये ॥ १४॥ महाश‍ृङ्गारपरिखां महापद्माटवीं भजे । चिन्तामणिमहारत्नगृहराजं नमाम्यहम् ॥ १५॥ पूर्वाम्नायमयं पूर्वद्वारं देवि भजामि ते । दक्षिणाम्नाय रूपं ते दक्षिणद्वारमाश्रये ॥ १६॥ नमामि ते परं द्वारं पश्चिमाम्नायरूपकम् । वन्देऽहमुत्तरं द्वारमुत्तराम्नायरूपकम् ॥ १७॥ ऊर्ध्वाम्नायमऽहं वन्दे ऊर्ध्वद्वारं कुलेश्वरि । ललिते तव देवेशि महासिंहासनं भजे ॥ १८॥ ब्रह्मात्मकमञ्चपादमेकं तव नमाम्यहम् । एकं विष्णुमयं मञ्चपादं तव नमाम्यहम् ॥ १९॥ एकं रुद्रमयं मञ्चपादं तव नमाम्यहम् । मञ्चपादं नमाम्येकं तव देवीश्वरात्मकम् ॥ २०॥ मञ्चैकफलकं वन्दे सदाशिवमयं शुभम् । नमामि ते हंसतूलतलिमां परमेश्वरि ॥ २१॥ भजामि ते हंसतूल महोपाधानमुत्तमम् । कौसुम्भास्तरणं देवि तव नित्यं नमाम्यहम् ॥ २२॥ मानसपूजा । महावितानकं वन्दे महाजवनिकां भजे । एवं पूजागृहं ध्यात्वा श्रीचक्रस्य शिवप्रिये ॥ २३॥ मद्दक्षिणे स्थापयामि भागे पुष्पाक्षतादिकम् । अभितस्ते महादेवि दीपाँस्तान् दर्शयाम्यहम् ॥ २४॥ मूलेन त्रिपुराचक्रं तव सम्पूजयाम्यहम् । त्रिभिःखण्डैस्तव त्र्यस्त्रं पूजयामि शिवप्रिये ॥ २५॥ वाय्वग्निजलसंयुक्तप्राणायामैरहं शिवे । शोषणं दाहनं देवि करोम्याप्लावनं तथा ॥ २६॥ त्रिवारं मूलमन्त्रेण प्राणायामं करोम्यहम् । अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः ॥ २७॥ ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया । करोम्यनेन मन्त्रेण तालत्रयमहं शिवे ॥ २८॥ नारायणोऽहं ब्रह्माऽहं भैरवोऽहं शिवोऽस्म्यहम् । देवोऽहं परमात्माऽहं महात्रिपुरसुन्दरि ॥ २९॥ ध्यात्वैवं वज्रकवचं न्यासं तव करोम्यहम् । कुमारीबीजसंयुक्तं महात्रिपुरसुन्दरि ॥ ३०॥ मां रक्ष रक्षेति हृदि करोम्यञ्जलिमीश्वरि । नमो देव्यासनायेति ते करोम्यासनं शिवे ॥ ३१॥ चक्रासनं नमस्यामि सर्वमन्त्रासनं भजे । साध्यसिद्धासनं वन्दे मन्त्रैरेभिर्महेश्वरि ॥ ३२॥ करोम्यस्मिंश्चक्रमन्त्रदेवतासनमुत्तमम् । करोम्यथ षडङ्गाख्यं मातृकाश्च करोम्यहम् ॥ ३३॥ वशिन्याद्यष्टकं न्यासं षोढान्यासं करोम्यहम् । महाषोढां ततः कुर्वे नवयोन्याख्यमुत्तमम् ॥ ३४॥ चक्रन्यासं ततः कुर्वे श्रीकण्ठन्यासमुत्तमम् । केशवादि महान्यासं कामन्यासं करोम्यहम् ॥ ३५॥ कलान्यासं ततः कुर्वे कुर्वे कामकलाह्वयम् । पीठन्यासं ततः कुर्वे तत्त्वन्यासं करोम्यहम् ॥ ३६॥ ततः करोमि स्थित्यादिन्यासं तत् त्रिपुरेश्वरि । ततः शुद्धोदकेनाहं वामभागे महेश्वरि ॥ ३७॥ करोमि मण्डलं वृत्तं चतुरस्रं शिवप्रिये । पुष्पैरभ्यर्च्य साधारं शङ्खं संस्थापयाम्यहम् ॥ ३८॥ अर्चयामि षडङ्गेन जलमापूरयाम्यहम् । ददामि चादिमं बिन्दुं कुर्वे मूलाभिमन्त्रितम् ॥ ३९॥ तज्जलेन जगन्मातस्त्रिकोणं वृत्तसंयुतम् । षट्कोणं चतुरस्त्रं च मण्डलं प्रकरोम्यहम् ॥ ४०॥ विद्यया पूजनं मध्ये खण्डैस्त्र्यस्त्राभिपूजनम् । बीजावृत्या कोणषट्कं पूजयामि शिवप्रिये ॥ ४१॥ तस्मिन् दशकलायुक्तमग्निमण्डलमाश्रये । धूमार्चिषं नमस्यामि ऊष्मां च ज्वलिनीं भजे ॥ ४२॥ ज्वलिनीं च नमस्यामि वन्देऽहं विस्फुल्लिङ्गिनीम् । सुश्रियं च सुरूपां च कपिलां प्रणमाम्यहम् ॥ ४३॥ नौमि हव्यवहां नित्यं भजे कव्यवहां कलाम् । यादिभिः सहिता वह्नेः कला दश तथा भजे ॥ ४४॥ सूर्यस्य मण्डलं तत्र कलाद्वादशकात्मकम् । अर्घ्यपात्रे त्वऽहं वन्दे तपिनीं तापिनीं भजे ॥ ४५॥ धूम्रां मरीचिं वन्देऽहं ज्वालिनीं च रुचिं भजे । सुषुम्णां भोगदां वन्दे भजे विश्वां च बोधिनीम् ॥ ४६॥ धारिणीं च क्षमां वन्दे सौरा एताः कला भजे । सोमस्य मण्डलं तत्र कलाः षोडशकात्मकाः ॥ ४७॥ अर्घ्यामृतात्मकं वन्देऽमृतां मानदां स्तुवे । पूषां तुष्टिं भजे पुष्टिं रतिं धृतिमहं भजे ॥ ४८॥ शशिनीं चन्द्रिकां वन्दे कान्तिं ज्योत्स्नां श्रियं भजे । नौमि प्रीतिं चाङ्गदां च पूर्णां पूर्णामृतां भजे ॥ ४९॥ स्वरैः षोडशभिर्युक्ता भजे सोमस्य वै कलाः । त्रिकोणलेखनं कुर्वे अकथादिसुरेखकम् ॥ ५०॥ हळक्षवर्णसंयुक्तं स्थितान्तर्हंसभास्वरम् । वाक्कामशक्तिसंयुक्तं हंसेनाराधयाम्यहम् ॥ ५१॥ वृत्ताद्बहिः षडस्रे च लेखनं प्रकरोम्यहम् । पुरोभागादि षट्कोणं षडङ्गेनार्चयाम्यहम् ॥ ५२॥ श्रीविद्यायाः सप्तवारं करोम्यत्राभिमन्त्रणम् । समर्पयामि विश्वेशि तस्मिन् गन्धाक्षतादिकम् ॥ ५३॥ ध्यायामि पूजाद्रव्यं ते सर्वं विद्यामयं शुभम् । चतुर्नवति सन्मन्त्रान् स्पृष्ट्वा तत्प्रजपाम्यहम् ॥ ५४॥ वह्नेर्दशकलाः सूर्यकलाद्वादशकं भजे । आश्रये षोडशकलास्तत्र सोमस्य कामदाः ॥ ५५॥ सृष्टिमृद्धिं स्मृतिं वन्दे मेधां कान्तिं नमाम्यहम् । लक्ष्मीं धृतिं स्थिरांवन्दे स्थितिं सिद्धिं भजाम्यहम् ॥ ५६॥ एतां ब्रह्मकलां वन्दे जरां तां पालिनीं भजे । शान्तिं नमामीश्वरीं च रतिं वन्दे च कामिकाम् ॥ ५७॥ वरदां ह्लादिनीं वन्दे प्रीतिं दीर्घां भजाम्यहम् । टादिभिः सहिता विष्णोः कला दश तथा भजे ॥ ५८॥ एता विष्णोः कला वन्दे तीक्ष्णां रौद्रीं भयां तथा । निद्रां तन्द्रां क्षुधां वन्दे नमामि क्रोधिनीं क्रियाम् ॥ ५९॥ उद्गारीं च भजे मृत्युमेता रुद्रकला भजे । पीतां श्वेतां भजे नित्यमरुणां च तथा भजे ॥ ६०॥ भजेऽसितां तथाऽनन्तां षादिभिः सहितास्तथा । ईश्वरस्य कला ह्येता वन्दे नित्यमभीष्टदाः ॥ ६१॥ निवृत्तिं च प्रतिष्ठां च विद्यां शान्तिं नमाम्यहम् । इन्धिकां दीपिकां चैव रेचिकां मोचिकां तथा ॥ ६२॥ परां सूक्ष्मां नमस्यामि नौमि सूक्ष्मामृतां कलाम् । वन्दे ज्ञानां कलां चैव तथा ज्ञानामृतां कलाम् ॥ ६३॥ आप्यायिनीं व्यापिनीं च व्योमरूपां नमाम्यहम् । कलाः सदाशिवस्यैताः षोडश प्रणमाम्यहम् ॥ ६४॥ हांसाख्यं च महामन्त्रं ज्योतिषं हंसमाश्रये । प्रतत्प्रथमविश्वान्तं मन्त्रं ज्योतिषमाश्रये ॥ ६५॥ त्र्यम्बकं च नमस्यामि तद्विष्णोः प्रणमाम्यहम् । विष्णुर्योनिं मूलविद्यां मन्त्रैरेभिरनुत्तमैः ॥ ६६॥ अमृतं मन्त्रितं वन्दे चतुर्नवतिभिस्तव । अखण्डैकरसानन्दकरेऽपरसुधात्मनि ॥ ६७॥ स्वच्छन्दस्फुरणामत्र निधेह्यकुलरूपिणि । अकुलस्थामृताकारे शुद्धज्ञानकरे परे ॥ ६८॥ अमृतत्वं निधेह्यस्मिन् वस्तुनि क्लिन्नरूपिणि । तद्रूपिण्यैकरस्यत्वं कृत्वा ह्येतत्स्वरूपिणि ॥ ६९॥ भूत्वा परामृताऽऽकारा मयि चित्स्फुरणं कुरु । अमृतेशीं नमस्यामि सर्वदामृतवर्षिणीम् ॥ ७०॥ वाग्वादिनीं नमस्यामि श्रीविद्यां प्रणमाम्यहम् । एभिर्मनूत्तमैर्वन्दे मन्त्रितं परमामृतम् ॥ ७१॥ ज्योतिर्मयमिदं कुर्वे परमर्घ्यं महेश्वरि। तद्बिन्दुभिर्मे शिरसि त्रिगुरून् पूजयाम्यहम् ॥ ७२॥ ब्रह्माऽहमस्मि तद्बिन्दुं कुण्डलिन्या जुहोम्यहम् । हृच्चक्रस्था महादेवीं महात्रिपुरसुन्दरीम् ॥ ७३॥ निरस्तमोहतिमिरां साक्षात् संवित्स्वरूपिणीम् । नासापुटे परकलामथ निर्गमयाम्यहम् ॥ ७४॥ समानयामि तां हस्ते त्रिखण्डकुसुमाञ्जलौ । जगन्मातर्महादेवि महात्रिपुरसुन्दरि ॥ ७५॥ सुधाचैतन्यमूर्तिं ते कल्पयामि नमः शिवे । अनेन मनुना देवि यन्त्रे त्वां स्थापयाम्यहम् ॥ ७६॥ महापद्मवनान्तःस्थे कारणानन्दविग्रहे । सर्वभूतहिते मातरेह्येहि परमेश्वरि ॥ ७७॥ देवेशि भक्तिसुलभे सर्वावरणसंयुते । यावत् त्वां पूजयिष्यामि तावत् त्वं सुस्थिरा भव ॥ ७८॥ अनेन मन्त्रयुग्मेन त्वामत्रावाहयाम्यहम् । कल्पयामि नमः पाद्यमर्घ्यं ते कल्पयाम्यहम् ॥ ७९॥ सुगन्धतैलाभ्यङ्गं च मज्जशालाप्रवेशनम् । कल्पयामि नमस्तस्मिन् मणिपीठोपवेशनम् ॥ ८०॥ दिव्यस्नानीयमीशानि गृहाणोद्वर्तनं शुभम् । गृहाणोष्णोदकस्नानं कल्पयामि नमस्तव ॥ ८१॥ हेमकुम्भच्युतैस्तीर्थैः कल्पयाम्यभिषेचनम् । कल्पयामि नमस्तुभ्यं धौतेन परिमार्जनम् ॥ ८२॥ बालभानुप्रतीकाशं दुकूलपरिधानकम् । अरुणेन दुकूलेनोत्तरीयं कल्पयामि ते ॥ ८३॥ प्रवेशनं कल्पयामि तवालेपनमण्डपम् । नमस्ते कल्पयाम्यत्र मणिपीठोपवेशनम् ॥ ८४॥ अष्टगन्धैः कल्पयामि सर्वाङ्गेषु विलेपनम् । कालागरु महाधूपस्तव केशभरस्य हि ॥ ८५॥ मल्लिकामालतीजातीचम्पकादिमनोरमैः । रचिताःकुसुमैर्मालाः कल्पयामि नमस्तव ॥ ८६॥ प्रवेशनं कल्पयामि नमो भूषणमण्डपम् । उपवेशं रत्नपीठे तत्र ते कल्पयाम्यहम् ॥ ८७॥ नवमाणिक्यमुकुटं तच्चन्द्रशकलं ततः । ततः सीमन्तसिन्दूरं ततस्तिलकमुत्तमम् ॥ ८८॥ कालाञ्जनं कल्पयामि पालीयुगलमुत्तमम् । मणिकुण्डलयुग्मं ते नासाभरणमीश्वरि ॥ ८९॥ ते कल्पयामि त्रिपुरे ललिताऽधरयावकम् । अथाऽऽद्यभूषणं कण्ठे हेमचिन्ताकमुत्तमम् ॥ ९०॥ पदकं ते कल्पयामि महापदकमुत्तमम् । कल्पयामि नमो मुक्तावलिमेकावलिं च ते ॥ ९१॥ छन्नवीरं च केयूरयुगलानां चतुष्टयम् । वलयावलिमीशानि ऊर्मिकावलिमीश्वरि ॥ ९२॥ काञ्चीदामकटीसूत्रं सौभाग्याभरणं च ते । त्रिपुरे पादकटकं कल्पये रत्ननूपुरम् ॥ ९३॥ पादाङ्गुलीयकं तुभ्यं पाशमेककरे तव । अन्यस्मिन्नङ्कुशं देवि पुण्ड्रेक्षुधनुषं परे ॥ ९४॥ अपरे पुष्पबाणाँश्च श्रीमन्माणिक्यपादुके । नवावरणदेवीभिर्महाचक्राधिरोहणम् ॥ ९५॥ कामेश्वराङ्कपर्यङ्क उपवेशनमुत्तमम् । सुधासवाख्यं चषकं ततः आचमनीयकम् ॥ ९६॥ कर्पूरवीटिकां तुभ्यं कल्पयामि नमः शिवे । आनन्दोल्लासवेलासहासं ते कल्पयाम्यहम् ॥ ९७॥ मङ्गलारार्तिकं देवि छत्रं ते कल्पयाम्यहम् । ततश्चामरयुग्मं ते दर्पणं कल्पयाम्यहम् ॥ ९८॥ तालवृन्तं कल्पयामि गन्धं पुष्पं महेश्वरि । धूपं दीपं च नैवेद्यं कल्पयामि नमस्तव ॥ ९९॥ अथाऽहं वैन्दवे चक्रे सर्वानन्दमयात्मिके । रत्नसिंहासने रम्ये समासीनां शिवप्रियाम् ॥ १००॥ ध्यानम् । उद्यद्भानुसहस्राभ्यां जपापुष्पसमप्रभाम् । नवरत्नप्रभादीप्तमुकुटेन विराजिताम् ॥ १०१॥ चन्द्ररेखासमोपेतां कस्तूरीतिलकाञ्चिताम् । कामकोदण्डसौन्दर्यनिर्जितभ्रूलतायुगाम् ॥ १०२॥ अञ्जनाञ्चितनेत्रां तां पद्मपत्रनिभेक्षणाम् । मणिकुण्डलसंयुक्तकर्णद्वयविराजिताम् ॥ १०३॥ मुक्तामाणिक्यखचितनासिकाभरणान्विताम् । मदपाटलसंयुक्तकपोलयुगलान्विताम् ॥ १०४॥ पक्वबिम्बफलाभासाधरद्वयविराजिताम् । शुद्धमुक्तावलिप्रख्यदन्तपङ्क्तिविराजिताम् ॥ १०५॥ ताम्बूलपूरितमुखीं सुस्मितास्यविराजिताम् । आद्यभूषणसंयुक्तां हेमचिन्ताकसंयुताम् ॥ १०६॥ पदकेन समोपेतां महापदकसंयुताम् । मुक्तावलिसमोपेतामेकावलिविराजिताम् ॥ १०७॥ केयूराङ्गदसंयुक्तचतुर्बाहुविराजिताम् । अष्टगन्धसमोपेतां श्रीचन्दनविलेपनाम् ॥ १०८॥ हेमकुम्भसमप्रख्यस्तनद्वयविराजिताम् । रक्तवस्त्रपरीधानां रक्तकञ्चुकसंयुताम् ॥ १०९॥ सूक्ष्मरोमावलीयुक्ततनुमध्यविराजिताम् । मुक्तामाणिक्यखचितकाञ्चीयुतनितम्बिनीम् ॥ ११०॥ सदाशिवाङ्कस्थपृथुमहाजघनमण्डलाम् । कदलीस्तम्भसङ्काशऊरुयुग्मविराजिताम् ॥ १११॥ कदलीकान्तिसङ्काशजङ्घायुगलशोभिताम् । गूढगुल्फद्वयोपेतां रक्तपादयुगान्विताम् ॥ ११२॥ ब्रह्माविष्णुमहादेवशिरोमुकुटजातया । कान्त्या विराजितपदां भक्तत्राणपरायणाम् ॥ ११३॥ इक्षुकार्मुकपुष्पेषु पाशाङ्कुशधरां पराम् । संवित्स्वरूपिणीं देवीं ध्यायामि परमेश्वरीम् ॥ ११४॥ इति ध्यानम् । प्रदर्शयाम्यथ शिवे नवमुद्रा वरप्रदाः । त्वां तर्पयामि त्रिपुरे त्रिधा मूलेन पार्वति ॥ ११५॥ आग्नेय्यामीशदिग्भागे नैरृत्यां मारुते तथा । मध्ये दिक्षु षडङ्गानि क्रमादभ्यर्चयाम्यहम् ॥ ११६॥ आद्यां कामेश्वरीं वन्दे नमामि भगमालिनीम् । नित्यक्लिन्नां नमस्यामि भेरुण्डां प्रणमाम्यहम् ॥ ११७॥ वह्निवासां नमस्यामि महावज्रेश्वरीं स्तुवे । शिवदूतीं नमस्यामि त्वरितां कुलसुन्दरीम् ॥ ११८॥ नित्यां नीलपताकां च विजयां सर्वमङ्गलाम् । ज्वालामालां च चित्रां च महानित्यां च संस्तुवे ॥ ११९॥ दिव्यौघेभ्यो नमस्यामि परेशपरमेश्वरीम् । मित्रेशमथ षष्ठीशमुड्डीशं प्रणमाम्यहम् ॥ १२०॥ चर्यानाथं नमस्यामि लोपामुद्रामहं भजे । अगस्त्यं प्रणमस्यामि सिद्धौघे कालतापनम् ॥ १२१॥ धर्माचार्यं नमस्यामि मुक्तकेशीश्वरं भजे । भजे दीपकलानाथं मानवौघे ततः परम् ॥ १२२॥ विष्णुदेवं नमस्यामि प्रभाकरमहं भजे । तेजोदेवं नमस्यामि मनोजमथ संस्तुवे ॥ १२३॥ कल्याणदेवं कलये रत्नदेवं भजाम्यहम् । वासुदेवं नमस्यामि श्रीरामानन्दमाश्रये ॥ १२४॥ परमेष्ठिगुरुं वन्दे परमं गुरुमाश्रये । श्रीगुरुं प्रणमस्यामि मूर्ध्नि ब्रह्मबिले स्थितम् ॥ १२५॥ कं बिलेऽहं नमस्यामि श्रीगुरोः पादुकां ततः । अथ प्राथमिके देवि चतुरस्रे तवेश्वरि ॥ १२६॥ अणिमां लघिमां वन्दे महिमां प्रणमाम्यहम् । ईशित्वसिद्धिं वन्देऽहं वशित्वं च नमाम्यहम् ॥ १२७॥ प्राकाम्यसिद्धिं वन्देऽहं भुक्तिमिच्छामहं भजे । प्राप्तिसिद्धिं सर्वकामप्रदासिद्धिमहं भजे ॥ १२८॥ मध्यमे चतुरस्रेऽहं ब्राह्मीं माहेश्वरीं भजे । कौमारीं वैष्णवीं वन्दे वाराहीं प्रणमाम्यहम् ॥ १२९॥ माहेन्द्रीमपि चामुण्डां महालक्ष्मीमहं भजे । तृतीये चतुरस्रेऽहं सर्वसंक्षोभिणीं भजे ॥ १३०॥ सर्वविद्राविणीं मुद्रां सर्वाकर्षिणिकां भजे । मुद्रां वशङ्करीं वन्दे सर्वोन्मादिनिकां भजे ॥ १३१॥ भजे महाङ्कुशां मुद्रां खेचरीं प्रणमाम्यहम् । बीजमुद्रां योनिमुद्रां भजे सर्वत्रिखण्डिनीम् ॥ १३२॥ त्रैलोक्यमोहनं चक्रं नमामि ललिते तव । नमामि योगिनीं तत्र प्रकटाख्यामभीष्टदाम् ॥ १३३॥ सुधार्णवासनं वन्दे तत्र ते परमेश्वरि । चक्रेश्वरीं तत्र वन्दे त्रिपुरां परमेश्वरीम् ॥ १३४॥ सर्वेसंक्षोभिणीं मुद्रां ततोऽहं कलये शिवे । अथाऽहं षोडशदले कामाकर्षणिकां भजे ॥ १३५॥ बुद्ध्याकर्षणिकां वन्देऽहङ्काराकर्षणीं भजे । शब्दाकर्षणिकां वन्दे स्पर्शाकर्षणिकां भजे ॥ १३६॥ रूपाकर्षणिकां वन्दे रसाकर्षणिकां भजे । गन्धाकर्षणिकां वन्दे चित्ताकर्षणिकां भजे ॥ १३७॥ धैर्याकर्षणिकां वन्दे स्मृत्याकर्षणिकां भजे । नामाकर्षणिकां वन्दे बीजाकर्षणिकां भजे ॥ १३८॥ आत्माकर्षणिकां वन्दे ह्यमृताकर्षणीं भजे । शरीराकर्षणीं वन्दे नित्यां श्रीपरमेश्वरीम् ॥ १३९॥ सर्वाशापूरकं चक्रं कलयेऽहं तवेश्वरि । गुप्ताख्यां योगिनीं वन्दे तत्राऽहं गुप्तपूजिताम् ॥ १४०॥ पीताम्बुजासनं तत्र नमामि ललिते तव । त्रिपुरेशीं महादेवीं भजामीष्टार्थंसिद्धिदाम् ॥ १४१॥ सर्वंविद्राविणीं मुद्रां तत्राऽहं तां विचिन्तये । शिवे तवाष्टपत्रेऽहमनङ्गकुसुमां भजे ॥ १४२॥ अनङ्गमेखलां वन्दे ह्यनङ्गमदनां भजे । ततोऽहं प्रणमस्यामि ह्यनङ्गमदनातुराम् ॥ १४३॥ अनङ्गरेखां कलये भजे तेऽनङ्गवेगिनीम् । भजेऽनङ्गाङ्कुशां देवि तव चानङ्गमालिनीम् ॥ १४४॥ सर्वसंक्षोभणं चक्रं तत्राऽहं कलये सदा । वन्दे गुप्ततराख्यां तां योगिनीं सर्वकामदाम् ॥ १४५॥ तत्राऽहं प्रणमस्यामि देव्यात्मासनमुत्तमम् । नमामि जगदीशानीमऽहं त्रिपुरसुन्दरीम् ॥ १४६॥ सर्वाकर्षणिकां मुद्रां तत्राऽहं कलयामि ते । भुवनारे तव शिवे सर्वसंक्षोभिणीं भजे ॥ १४७॥ सर्वविद्राविणीं वन्देऽहं सर्वाकर्षिणिकां भजे । सकलाह्लादिनीं वन्दे सर्वसम्मोहिनीं भजे ॥ १४८॥ सकल स्तम्भिनीं वन्दे कलये सर्वजृम्भिनीम् । वशङ्करीं नमस्यामि सर्वरञ्जनिकां भजे ॥ १४९॥ सकलोन्मादिनीं वन्दे भजे सर्वार्थसाधिनीम् । सम्पत्तिपूरिणीं वन्दे सर्वमन्त्रमयीं भजे ॥ १५०॥ भजाम्यहं ततः शक्तिं सर्वद्वन्द्वक्षयङ्करीम् । तत्राऽहं कलये चक्रं सर्वसौभाग्यदायकम् ॥ १५१॥ नमामि जगतां धात्रीं सम्प्रदायाख्ययोगिनीम् । शिवे तव नमस्यामि श्रीचक्रासनमुत्तमम् ॥ १५२॥ नमामि जगदीशानीमहं त्रिपुरवासिनीम् । कलयेऽहं तव शिवे मुद्रां सर्ववशङ्करीम् ॥ १५३॥ बहिर्दशारे ते देवि सर्वसिद्धिप्रदां भजे । सर्वसम्पत्प्रदां वन्दे भजे सर्वप्रियङ्करीम् ॥ १५४॥ नमाम्यहं ततो देवीं सर्वमङ्गलकारिणीम् । सर्वकामप्रदां वन्दे सर्वदुःखविमोचिनीम् ॥ १५५॥ सर्वमृत्युप्रशमनीं सर्वविघ्ननिवारिणीम् । सर्वाङ्गसुन्दरीं देवीं सर्वसौभाग्यदायिनीम् ॥ १५६॥ सर्वार्थसाधकं चक्रं तथाऽहं कलये सदा । कलयामि ततो देवीं कुलोत्तीर्णाख्ययोगिनीम् ॥ १५७॥ सर्वमन्त्रासनं वन्दे त्रिपुराश्रीयमाश्रये । कलयामि ततो मुद्रां सर्वोन्मादनकारिणीम् ॥ १५८॥ अन्तर्दशारे ते देवि सर्वज्ञां प्रणमाम्यहम् । सर्वशक्तिं नमस्यामि सर्वैश्वर्यप्रदां भजे ॥ १५९॥ सर्वज्ञानमयीं वन्दे सर्वव्याधिविनाशिनीम् । सर्वाधारस्वरूपां च सर्वपापहरां भजे ॥ १६०॥ सर्वानन्दमयीं वन्दे सर्वरक्षास्वरूपिणीम् । प्रणमामि महादेवीं सर्वेप्सितप्रदां भजे ॥ १६१॥ सर्वरक्षाकरं चक्रं तत्राऽहं कलये सदा । निगर्भयोगिनीं वन्दे तत्राऽहं परमेश्वरीम् ॥ १६२॥ साध्यसिंहासनं वन्दे भजे त्रिपुरमालिनीम् । कलयामि ततो देवि मुद्रां सर्वमहाङ्कुशाम् ॥ १६३॥ अष्टारे वशिनीं वन्दे भजे कामेश्वरीं सदा । मोदिनीं विमलां वन्दे ह्यरुणां जयिनीं भजे ॥ १६४॥ सर्वेश्वरीं नमस्यामि कौलिनीं प्रणमाम्यहम् । सर्वरोगहरं चक्रं तवाऽहं देवि चिन्तये ॥ १६५॥ रहस्ययोगिनीं देवीं सदाऽहं कलयामि ते । नमामि त्रिपुरासिद्धां भजे मुद्रां च खेचरीम् ॥ १६६॥ महात्रिकोणस्य बाह्ये चतुर्दिक्षु महेश्वरि । नमामि जृम्भ्णान् बाणान् चापं सम्मोहनं भजे ॥ १६७॥ पाशं वशङ्करं वन्दे भजे स्तम्भनमङ्कुशम् । त्रिकोणेऽहं जगद्धात्रीं महाकामेश्वरीं भजे ॥ १६८॥ महावज्रेश्वरीं वन्दे महाश्रीमालिनीं भजे । महाश्रीसुन्दरीं वन्दे सर्वकामफलप्रदाम् ॥ १६९॥ सर्वसिद्धिप्रदं चक्रं तव देवि नमाम्यहम् । नमाम्यतिरहस्याख्यां योगिनीं तत्र कामदाम् ॥ १७०॥ त्रिपुराम्बां नमस्यामि बीजमुद्रां नमाम्यहम् । मूलमन्त्रेण ललिते त्वां बिन्दौ पूजयाम्यहम् ॥ १७१॥ सर्वानन्दमयं चक्रं नमामि ललिते तव । परापररहस्याख्यां योगिनीं कलये सदा ॥ १७२॥ महाचक्रेश्वरीं वन्दे योनिमुद्रामहं भजे । धूपादिकं सर्वमयि ते कल्पयाम्यहम् ॥ १७३॥ त्वत्प्रीतये महामुद्रां दर्शयामि ततः शिवे । त्रिधा त्वां मूलमन्त्रेण तर्पयामि ततः शिवे ॥ १७४॥ शाल्यन्नं मधुसंयुक्तं पायसापूपसंयुतम् । घृतसूपसमायुक्तं सर्वभक्ष्यसमन्वितम् ॥ १७५॥ ससितं क्षीरसंयुक्तं बहुशाकसमन्वितम् । निक्षिप्य काञ्चने पात्रे नैवेद्यं कल्पयामि ते ॥ १७६॥ सङ्कल्प्य बिन्दुना वक्त्रं कुचौ बिन्दुद्वयेन च । योनिं तु सपरार्धेन कृत्वा श्रीत्रिपुरे तव ॥ १७७॥ एतत् कामकलारूपं भक्तानां सर्वकामदम् । सर्वसम्पत्प्रदं वन्दे नमस्ते त्रिपुरेश्वरि ॥ १७८॥ वामभागे त्रिकोणं च वृत्तं च चतुरस्रकम् । कृत्वा गन्धाक्षताद्यैश्च ह्यर्चयामि महेश्वरि ॥ १७९॥ वाग्भवाद्यं नमस्यामि तत्र व्यापकमण्डलम् । जलयुक्तार्द्रान्नयुक्तं मकारत्रयभाजनम् ॥ १८०॥ तत्र विन्यस्य दास्यामि भूतेभ्यो बलिमुत्तमम् । नमस्ते देवदेवेशि नमस्त्रैलोक्यवन्दिते ॥ १८१॥ नमः परशिवाङ्कस्थे नमस्त्रिपुरसुन्दरि । प्रदक्षिणां नमस्कारं मनसाऽहं करोमि ते ॥ १८२॥ ततः सकलमन्त्राणां सम्राज्ञीं परमेश्वरीम् । प्रजपामि महाविद्यां त्वत्प्रीत्यार्थमहं सदा । तव विद्यां प्रजप्त्वाऽथ स्तौमि त्वां परमेश्वरीम् ॥ १८३॥ महादेवि महेशानि सदाशिव महाप्रिये । महानित्ये महासिद्धे त्वामहं शरणं व्रजे ॥ १८४॥ जय त्वं त्रिपुरे देवि ललिते जगदीश्वरि । सदाशिवप्रियकरि पाहि मां करुणाकरि ॥ १८५॥ जगन्मातर्जगद्रूपे जगदीश्वरवल्लभे । जगन्मये जगस्तुल्ये गौरि त्वामहमाश्रये ॥ १८६॥ अनाद्ये सर्वलोकानामाद्ये भक्तेष्टदायिनि । गिरिराजस्य तनये नमस्ते त्रिपुरेश्वरि ॥ १८७॥ जयादिदेवदेवेशि ब्रह्ममातर्नमोऽस्तु ते । विष्णुमातरनाद्यन्ते हरमातः सुरेश्वरि ॥ १८८॥ ब्रह्मादिसुरसंस्तुत्ये लोकत्रयवशङ्करि । सर्वसम्पत्प्रदे नित्ये त्वामहं कलये सदा ॥ १८९॥ नित्यानन्दे निराधारे चिद्रूपिणि शिवप्रिये । अणिमादिगुणाधारे त्वां सदा कलयाम्यहम् ॥ १९०॥ ब्राह्म्यादिमातृसंस्तुत्ये सर्वावरणसंयुते । ज्योतिर्मये महारूपे पाहि मां त्रिपुरे सदा ॥ १९१॥ लक्ष्मीवाण्यादिसम्पूज्ये ब्रह्मविष्णुशिवस्तुते । भजामि तव पादाब्जं सर्वकामफलप्रदम् ॥ १९२॥ सर्वशक्तिसमोपेतं सर्वाभीष्टफलप्रदे । नमामि तव पादाब्जं देवि त्रिपुरसुन्दरि ॥ १९३॥ त्वत्प्रियार्थं ततः कांश्चिच्छक्तिं सम्पूजयाम्यहम् । मपञ्चकेन तां शक्तिं तर्पयामि महेश्वरि ॥ १९४॥ तयोपेतं हविःशेषं चिदग्नौ प्रजुहोम्यहम् । त्वत्प्रियार्थं महादेवि ममाभीष्टार्थसिद्धये ॥ १९५॥ बद्ध्वा तां खेचरीं मुद्रां क्षमस्वोद्वासयाम्यहम् । तिष्ठ मे हृदये नित्यं त्रिपुरे परमेश्वरि ॥ १९६॥ जगदम्बे महाराज्ञि महाशक्ति शिवप्रिये । हृच्चक्रे तिष्ठ सततं महात्रिपुरसुन्दरि ॥ १९७॥ सर्वलोकैकसम्पूज्ये सकलावरणैर्युते । हृच्चक्रे तिष्ठ मे नित्यं महात्रिपुरसुन्दरि ॥ १९८॥ ॥ फलश्रुति ॥ एतत् त्रिपुरसुन्दर्या हृदयं सर्वकामदम् । महारहस्यं परमं दुर्लभं दैवतैरपि ॥ १॥ साक्षात् सदाशिवेनोक्तं गुह्याद्गुह्यमनुत्तमम् ॥ २॥ यः पठेन्नित्यमेकाग्रः श‍ृणुयाद् वा समाहितः । नित्यपूजाफलं देव्याः स लभेन्नात्र संशयः ॥ ३॥ पापैः स मुच्यते सद्यः कायवाक्चित्तसम्भवैः । सर्वजन्मसमुद्भूतैर्ज्ञानकृतैरपि ॥ ४॥ missing letter or word सर्वक्रतुषु यत्पुण्यं सर्वतीर्थेषु यत् फलम् । तत्पुण्यं लभते नित्यं मानवो नात्र संशयः ॥ ५॥ अचलां लभते लक्ष्मीं त्रैलोक्ये चापि दुर्लभाम् । साक्षाद् विष्णुसमो मर्त्यो शीघ्रमेव भवेत् सदा ॥ ६॥ अष्टैश्वर्यमवाप्नोति स शीघ्रं मानवोत्तमः । गुटिकापादुकासिद्ध्याद्यष्टकं शीघ्रमश्नुते ॥ ७॥ शङ्खाद्या निध्यो वाऽपि तं नित्यं पर्युपासते । वश्यादीन्यष्टकर्माणि शीघ्रं सिद्ध्यन्ति सर्वदा ॥ ८॥ भूलोकस्थाः सर्वनार्यः पातालस्थाः सदाङ्गनाः । सर्वलोकस्थिताः सर्वा याश्चान्यारूपगर्विताः ॥ ९॥ रमन्ते तेन सततं शीघ्रं वश्या न संशयः । राजाद्याः सकला मर्त्याः हरहर्यादयः सुराः ॥ १०॥ अनन्ताद्या महानागाः सिद्धयोगेश्वरादयः । ऋषयो मुनयो यक्षास्तं नित्यं पर्युपासते ॥ ११॥ महतीं कीर्तिमाप्नोति शिवविष्णुसमप्रभाम् । परमं योगमासाद्य खेचरो जायते सदा ॥ १२॥ अपमृत्युविनिर्मुक्तः कालमृत्युविवर्जितः । परमायुष्यमाप्नोति हरहर्यादिदुर्लभम् ॥ १३॥ अश्रुतानि च शास्त्राणि व्याचष्टे विधिवत् सदा । मूढोऽपि सर्वविद्यावान् दक्षिणामूर्तिवद्भवेत् ॥ १४॥ ग्रहभूतपिशाचाद्या यक्षगन्धर्वराक्षसाः । एतस्य स्मरणादेव विनश्यन्ति हि सर्वदा ॥ १५॥ तद्गात्रं प्राप्य सकलं विषं सद्यो विनश्यति । सहस्रकामसङ्काशः कान्त्या यः सर्वदा भवेत् ॥ १६॥ तस्मादेतत् पठेत् स्तोत्रं त्रिपुराहृदयं शुभम् । जपेद् यः सर्वदा साक्षाद् भवेद् देवीस्वरूपकः ॥ १७॥ साङ्गं त्रिपुरसुन्दर्या नित्यपूजाफलं लभेत् । विमुक्तो रोगसङ्घातैरारोग्यं महदश्नुते ॥ १८॥ प्राप्नोति महदैश्वर्यं सर्वविद्यानिधिर्भवेत् । तत्करस्पर्शमात्रेण नरो ब्राह्मणतां लभेत् ॥ १९॥ मुच्यते सकलैर्विघ्नैः स नित्यं मानवोत्तमः । स भुङ्क्ते सकलान् भोगान् दुर्लभांश्च दिने दिने ॥ २०॥ लभते पुत्रपौत्रांश्च महालक्ष्मीसमन्वितान् । परमायुष्यसंयुक्तान् साक्षच्छिवसमान् गुणैः ॥ २१॥ सृष्टिपालनसंहारकर्तेवायं सदा भवेत् । यस्ते कृपावान् भवति स त्रिमूर्तिर्न संशयः ॥ २२॥ तत्समीपस्थितः शीघ्रं सदा जातिस्मरोभवेत् । तस्य गेहे सदा कामधेनुः कल्पतरुस्तथा ॥ २३॥ चिन्तामणिश्च सततं तिष्ठत्येव न संशयः । महाजयमवाप्नोति सदा सर्वत्र मानवः ॥ २४॥ वज्रकायसमो भूत्वा चरत्येव जगत्ययम् । महासुखी भवेन्नित्यं परमात्मा भवेत् सदा ॥ २५॥ मुच्यते सकलेभ्योऽपि बन्धनैः श‍ृङ्खलादिभिः । तं पूजयन्ति सततं हरिरुद्रादयोऽपि च ॥ २६॥ शुभमेव भवेन्नित्यं सदापद्भिर्विमुच्यते । देवगन्धर्वरक्षाद्यैर्ब्रह्माद्यैरपि दुर्लभान् ॥ २७॥ प्राप्नोति सकलान् कामान् शीघ्रमेव न संशयः । दिव्यभोगयुतो दिव्यकन्याभिः सह संयुतः ॥ २८॥ विमानं स समास्थाय दिव्याभरणभूषितः । दिव्यचन्दनलिप्ताङ्गः सदा विंशतिवार्षिकः ॥ २९॥ स भुङ्क्ते सकलान् भोगान् देवलोके नरः सदा । तस्मादेतत् पठेत् स्तोत्रं त्रिपुराहृदयं शुभम् । जपेद्यः सततं भक्त्या भवेत् साक्षात् सदा शिवः ॥ ३०॥ ॥ इति श्री रुद्रयामले ईश्वरपार्वतीसंवादे श्रीललितात्रिपुरसुन्दरीहृदयस्तोत्रम् ॥ Encoded and proofread by PP From Shrividya Sadhana.
% Text title            : shrIlalitAtripurasundarihRRidayastotram
% File name             : shrIlalitAtripurasundarihRRidayastotram.itx
% itxtitle              : lalitAtripurasundarIhRidayastotram
% engtitle              : Lalitatripurasundari Hridayastotram
% Category              : hRidaya, devii, dashamahAvidyA, lalitA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Subcategory           : lalitA
% Language              : Sanskrit
% Subject               : hinduism/religion
% Transliterated by     : PP
% Proofread by          : PP
% Description-comments  : from Kalyan-Mandir magazine
% Indexextra            : (Hindi)
% Latest update         : October 19, 2014
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org