॥ श्रीनारायणभट्टपादविरचिता श्रीपादसप्ततिः ॥

दक्षाधःकरपल्लवे लसदसिं दक्षोर्ध्वगे शूलिनीं वामोर्ध्वे फलकोज्ज्वलां कटितटन्यस्तान्यहस्ताम्बुजाम् । शूलाग्राहतकासरासुरशिरोनिष्ठां प्रहृष्टां सुरैर्- जुष्टामिष्टफलप्रदां भगवतीं मुक्तिस्थलस्थां भजे ॥ १॥ यत्संवाहनलोभिनः शशिकलाचूडस्य हस्ताम्बुज- स्पर्शेनापि च लोहितायति मुहुस्त्वत्पादपङ्केरुहम् । तेनैवोद्धतकासरासुरशिरश्शृङ्गाग्रसञ्चूर्णन- प्राचण्ड्यं तदनुष्ठितं किल कथं मुक्तिस्थलस्थे! शिवे! ॥ २॥ त्वत्पादं निजमस्तके घटयितुं के के नु लोके जनाः किं किं नारचयन्ति दुश्चरतपश्चर्यासपर्यादिकम् । मन्ये धन्यतमं तु देवि! महिषं वैरस्थयैव त्वया यन्मूर्ध्नि स्वयमेव पातकहरं पादाम्बुजं पातितम् ॥ ३॥ त्वत्पादाम्बुजमर्पितं क्व नु शिवे! किन्नु त्रयीमस्तके? नित्यं तत्त्वविचारदत्तमनसां चित्ताम्बुजाग्रेषु वा? । किं वा त्वत्प्रणयप्रकोपविनमन्मारारिमौलिस्थले? किं प्रोत्खण्डितघोरसैरिभमहादैत्येन्द्रमूर्द्धान्तरे? ॥ ४॥ त्वत्पादाञ्चलरूपकल्पलतिकाबालप्रवालद्वयं ये तावत्कलयन्ति जातु शिरसा नम्रेण कम्रोज्ज्वलम् । तेषामेव हि देवि! नन्दनवनक्रीडासु लभ्यं पुनः स्वर्वल्लीतरुणप्रवालभरणं सेवानुरूपं फलम् ॥ ५॥ धावल्यं परिलाल्यते पुररिपोरङ्गेन तुङ्गश्रीया किञ्च श्यामलिमापि कोमलतरे भात्येव गात्रे हरेः । तत्तादृक्पदवीं ममापि जनयेत्यस्तोकसेवारसा- दारुण्यं तव लीयते चरणयोः कारुण्यमूर्ते! शिवे! ॥ ६॥ आरुण्यं यदिदं त्वदीयपदयोराभाति, तत्केचन प्राहुस्तुङ्गनितम्बभारभरणक्लान्त्या किलोपागतम् । अन्ये माहिषमूर्द्धपेषमिलितं रक्तद्रवं मन्वते मन्येऽहं तु नतेषु सान्द्रमनुरागोद्गारमेवानयोः ॥ ७॥ प्राहुः पद्मसमाश्रयं शतधृतिं त्वत्पादपद्माश्रया- दन्तस्त्वत्पदपद्मवीक्षणवशात्कृष्णो।पि पद्मेक्षणः । यत्पद्मार्चनमामनन्ति सुधियो दारिद्र्यविद्रावणं मुक्तिक्षेत्रगते! भवानि! तदपि त्वत्पादपद्मार्चनम् ॥ ८॥ पादं ते सरसीरुहद्रुहमिमं यत्सेवते पद्मभू- र्नूनं तत्स्वनिवासपङ्कजवरश्रीलङ्घनाशङ्कया । गोविन्दोऽपि च वारिराशिदुहितुर्वासाब्जबाधाभिया स्वस्यैवाग्रकरोद्गृहीतकमलत्राणाभिलाषेण वा ॥ ९॥ सेवन्ते कुलसम्पदे नखमयाः शीतांशवस्त्वत्पदं तत्पाको ननु वीक्ष्यते हि नितरामन्येषु शीतांशुषु । एको बालक एव मौलिमयि! ते यातो, ललाटात्मता- मन्यो निर्मलमण्डलदशामन्यौ तु धन्यौ गतौ ॥ १०॥ घोरं पादसहस्रकं प्रकटयन्नाशासु भासां पति- र्ध्वान्तं नो पुनरान्तरं शमयितुं शक्नोति शैलात्मजे! । त्वत्पादद्वितयेन कोमलतरेणानेन चेतःस्पृशा जन्तूनां बहिरन्तरन्धतमसं कृन्तत्यनन्तं शिवे! ॥ ११॥ सुर्येन्द्वग्निसमीरणादिसकलस्वर्वासिनामुन्मदः सर्वाण्येव पदानि यो मथितवान् दुर्वारशौर्योष्मणा । तं घोरं महिषासुरं निजपदेनैकेन सम्मृद्नती यत्त्वं प्रत्यकृथास्ततः किमपरं त्वद्वैभवं ब्रूमहे ॥ १२॥ एकं वामतयैव, दक्षिणतयैवान्यत्पदं देहिनां ख्यातं मुक्तिपुराधिवासिनि! शिवे!, चित्रं त्वयि त्वीदृशम् । आनम्रेषु जनेष्वभीष्टकरणे पादावुभौ दक्षिणा- वानम्रे तु कृतागसि स्मरहरे वामाक्षि! वामावुभौ ॥ १३॥ आनम्रस्य पुरद्रुहः शिरसि ते पादाब्जपातः शिवे! जीयाद्येन बभूव पङ्कजवती मौलिस्रवन्ती क्षणम् । किञ्चोदञ्चितबालपल्लववती जाता जटावल्लरी लाक्षापातवशेन सान्ध्यसुषमासान्द्रा च चान्द्री कला ॥ १४॥ दृष्ट्वा रात्रिषु चन्द्रपादजनितां पाथोरुहाणां व्यथां देवि! त्वं करुणाकुलेव कुरुषे तद्वैरनिर्यातनम् । मानानम्रमहेशमौलिवलभीवासस्य शीतत्विषो नित्यं पङ्कजपादघातजनिता बाधा यदाधीयते ॥ १५॥ सम्भ्रान्तिस्तव देवि! सा विजयते मानावनम्रे शिवे! त्वत्पादाम्बुरुहप्रहारमुदिते मन्दं समुत्थायिनि । लाक्षारागरसारुणं निपतितं गङ्गापयश्शीकरं दृष्ट्वा शोणितशङ्कया तरलिता कान्तं यदालम्बथाः ॥ १६॥ सा पादद्वितयाहतिर्जयति ते, यस्यां गिरीन्द्रात्मजे! प्राचीनेन्दुयुते नखेन्दुदशके मौलिस्थलीसङ्गते । स्वस्यैकादशमूर्तितासमुचितानेकादशैवोडुपा- नाबिभ्राण इवाबभौ स भगवानेकोऽपि रुद्रः स्वयम् ॥ १७॥ किं वैरिञ्चकरोटिकोटिनिहतं किं वा फणिग्रामणी- निश्वासानिलखेदितं न्विदमिति प्रेमार्द्रसल्लापिना । मानस्योपशमे करेण शनकैरामृद्नता शम्भुना भूयश्चुम्बितमम्बुजद्युति पदं ध्यायामि माये! तव ॥ १८॥ पूर्वं जह्नुसुता सकृन्मुररिपोः श्रीपादसङ्क्षालना- पुण्यादीदृशवैभवा समभवत्गोविन्दवन्द्ये! शिवे! । सेयं सम्प्रति शम्भुमौलिनिलया मानप्रसङ्गानतौ नित्यं त्वच्चरणावसेचनभुवा पुण्येन कीदृग्भवेत्? ॥ १९॥ पूर्वं व्याकरणप्रपञ्चनविधौ लब्ध्वाप्यनेकं पदं किं नो तृप्तिमगादगाधिपसुते! शेषः फणिग्रामणीः । आलीनः शशिमौलिमूर्द्धनि चिरं प्रेमप्रकोपानतौ लब्धुं ते पदमेकमेव कुतुकी नित्यं यतो वर्तते ॥ २०॥ तिष्ठन्त्यां प्रणयप्रकोपवशतो बाष्पाकुलाक्ष्यां त्वयि श्रीकण्ठे नखदर्पणप्रतिफलद्रूपे पुरोवर्त्तिनि । पादाग्रे पतितोऽयमित्यभिहिते सख्या, तवालोकनं लोलं पादतले विभाति सहसा साकोपमालीमुखे ॥ २१॥ कान्तालोकनलज्जया विनमिते कान्ते मुखाम्भोरुहे यासौ भूतलपातुका नयनयोः शोभा तवाभासते । सा तावत्तरुणारुणाम्बुजयुगभ्रान्त्या त्वदङ्घ्रिद्वय- प्रान्ते भाति मरन्दपानकुतुकभ्रान्तेव भृङ्गावली ॥ २२॥ किं ब्रूमः कुटिलात्मकोऽपि कबरीभारस्त्वदीयः शिवे! केलीविश्लथितस्तनोति यदयं त्वत्पादसंस्पर्शनम् । तत्भूयः सुमनोगणादृतगुणस्त्वन्मौलिसंलाल्यतां धत्ते; चित्रमसौ, त्वदङ्घ्रिभजनात्किं केन नो लभ्यते? ॥ २३॥ रागद्वेषमुखा हि विभ्रमभरा नश्यन्ति विश्वेश्वरि! त्वत्सङ्गादिति मुक्तिदेशनिलये! मिथ्या जनैः कथ्यते । उद्यद्द्वेषमुदारविभ्रमभरं गात्रं दधत्या त्वया रागोऽपि ध्रियतेऽधिकं चरणयोः शोणाम्बुजच्छाययोः ॥ २४॥ देवि! त्वत्पदसत्परागमनिशं मौलौ समाबिभ्रतां साधूनामपरागतैव भवतीत्याश्चर्यमास्तामिदम् । पादस्ते नखरप्रभावलसितो जागर्ति सोऽयं पुन- श्चित्रं नाम खरप्रभावलसितो दुष्टासुरं पिष्टवान् ॥ २५॥ द्वित्वेन स्थितयोस्त्वदीयपदयोर्द्वैतं निरस्य स्फुटं कैवल्यप्रतिपादने कुशलता जातेति कोऽयं क्रमः ? । किं वा युक्तिभिरत्र, मुक्तिकरता व्यक्तैव ते पादयो- र्मुक्ता एव हि विस्फुरन्ति विमलास्तत्सङ्गिनोऽमी नखाः ॥ २६॥ पादाग्रं तव कामदं सुरलताशाखाग्रमाचक्ष्महे जाता यत्र हि बालपल्लवरुचिः स्वैरेव रागोदयैः । उत्सर्पन्नखमण्डलीसुषमया पुष्पालिरुत्पादिता सञ्जातालिरुतिश्च मञ्जुलतरैर्मञ्जीरशिञ्जारवैः ॥ २७॥ देवीयं तव सन्नतेशमकुटस्वर्लोककल्लोलिनी- कल्लोलाहतिभिर्विशेषविमला जीयान्नखश्रेणिका । यद्धावल्यमवाप्तुमात्तकुतुकास्तोये तपस्यन्त्यमी दीनाः फेनकणाश्च मौक्तिकगणाः शङ्खाश्च शङ्कामहे ॥ २८॥ माने शम्भुशिरःप्रहारचरितं नैव त्वदिच्छाकृतं जाने देवि! पदाब्जयोस्तु पुरजिन्मूर्द्ध्ना विरोधादिदम् । एते पादनखांशुबद्धकलहाः शीतांशुमन्दाकिनी- भोगीन्द्राः किल शङ्करस्य शिरसा शङ्कां विना रक्षिताः ॥ २९॥ देवि! त्वच्चरणोच्चलन्नखघृणिश्रेणीषु लीनो नम- न्नाभाति स्फटिकाचलस्फुटतटीशायीव सायन्नटः । हंसालीन इव स्वयं कमलभूः क्षीराब्धिशायीव च श्रीभर्ता मघवापि नाकसरिति स्नायन्निवालोक्यते ॥ ३०॥ डोलाकेलिविधौ हिमाचलशिलादेशे समभ्याहतात्- पादाग्रात्तव यानि यावकरसप्रस्यन्दनान्यम्बिके! । तान्यभ्यागतसुम्भसङ्गरभवद्रक्ताम्बुविस्तारणा- बिन्दुक्षेपनिभानि नन्ददमरीवन्द्यानि वन्दामहे ॥ ३१॥ डोलाकेलिषु यं हिमाचलशिलालग्नं वनेवासिनो भक्त्या योगिवरास्त्रिपुण्ड्रकलिते लिम्पन्ति फालान्तरे । यं सिद्धप्रमदाः समेत्य तिलकं कुर्वन्ति नत्वा मुहु- स्तं दाक्षायणि! ते कदा नु पदयोरीक्षेय लाक्षारसम् ? ॥ ३२॥ देवि! त्वं मुरवैरिणः प्रणमने यत्किञ्चिदाकुञ्चय श्रीपादाम्बूजमन्यथास्य शिरसि त्वत्पादलाक्षाञ्चिते । श्रीभूम्योरितरप्रणामकृतमित्यन्योन्यमाशङ्कया रोषव्याकुलयोश्चिरं स भगवान् जायेत पर्याकुलः ॥ ३३॥ प्रागुद्वाहविधौ हिमाचलसदस्यश्माधिरोपाय य- न्न स्प्रक्ष्यामि वियद्धुनीमिति पुनः सत्यं विधातुं च यत् । दैत्योत्क्षेपणसाहसे विरचिते संवाहनार्थं च यत्- तत्पादग्रहणत्रयं विजयते शर्वेणि शर्वाणि! ते ॥ ३४॥ सुम्भस्ते किल देवि! रागकलहे पादप्रहारोत्सवं लब्धुं काङ्क्षितवानुपायमिह खल्वज्ञो न विज्ञातवान् । यद्यायोत्स्यत घोरमाहिषवपुर्धारी स वैरी ततः प्राघानिष्यत मूर्ध्नि कोमलरुचा पादारविन्देन ते ॥ ३५॥ आनम्रे गिरिशे पदप्रहरणे दत्ते भवत्या रुषा ``नाथे! किं महिषोहा''मित्यभिहिते देवेन तस्मिन् क्षणे । आलिष्वाकलितस्मितासु, पुनरप्युद्दामपुष्यद्रुष- स्तन्मौलौ जयति द्वितीयमपि ते पादाब्जसन्ताडनम् ॥ ३६॥ पादाग्रं तव सङ्गरश्रमवशादाक्षारिलाक्षारसं विन्यस्तं मृगनायकोपरि चिराज्जीयादगेन्द्रात्मजे! । यत्कान्त्यैव च लोहितो मृगपतिर्दैत्यप्रहारोद्गल- द्रक्ताम्भःकणिका वहन्नपि तथा नामानि वैमानिकैः ॥ ३७॥ नैवालिम्प निलिम्पमूर्द्धसु, न वा सिंहोपरि त्यज्यतां मा चेदं महिषस्य मूर्द्ध्नि रभसादालिप्य लोलुप्यताम् । पत्युर्मौलिनदीजले परमिदं सङ्क्षालनीयं त्वये- त्यालीकेलिगिरो जयन्ति गिरिजे! त्वत्पादलाक्षार्पणे ॥ ३८॥ नत्वैव प्रथमं त्वदङ्घ्रिकमलं तौ पुष्पवन्तावुभौ त्रैलोक्यं महसाभिभूय चरतो व्योमान्तरप्रान्तरे । नाथे! तौ कथमन्यथा परिगलल्लाक्षारसक्षालितौ वीक्ष्येते भृशशोणिबिम्बमुदयारम्भे प्रियम्भावुकौ ॥ ३९॥ त्रैलोक्यं वशयन्ति, पापपटलीमुच्चाटयन्त्युच्चकै- र्विद्वेषं जनयन्त्यधर्मविषये प्रस्तम्भयन्त्यापदः । आकर्षन्त्यभिवाञ्छितानि महिषस्वर्वैरिणो मारणा- श्चित्रं! त्वत्पदसिद्धचूर्णनिवहाः षट्कर्मणां साधकाः ॥ ४०॥ किं कल्पद्रुमपञ्चकं प्रणमतामाकाङ्क्षितापादने किं पञ्चायुधबाणपञ्चकमिदं मारारिसम्मोहने । सूक्ष्मं किञ्चन पञ्चभूतवपुषो विश्वस्य किं कारणं त्वत्पादाङ्गुलिपञ्चकात्मकमिदं किं भाति शम्भोः प्रिये! ॥ ४१॥ डोलाकेलिषु दूरदूरगमने प्रेङ्खोलनाविभ्रमे मेदिन्यामनिपातितं जयति ते नाथे! पदाम्भोरुहम् । भक्त्या सन्नमतां त्वदाननगलद्गानामृतामूर्च्छया भूपृष्ठे चिरशायिनां दिविषदामाघट्टनासाध्वसात् ॥ ४२॥ मञ्जीरप्रसरन्मसारसुषमारूपा कलिन्दात्मजा स्वच्छच्छायनखांशुसञ्चयमयी गङ्गा च सङ्गामुका । शोणः पादरुचां चयश्च मिलितो येन त्वदग्रे, ततो मज्जन्तीव नमन्ति तत्र मुनयः सर्वेऽपि शर्वाङ्गने ॥ ४३॥ मञ्जीरार्पितशक्रनीलशकलश्रीचञ्चलीकाञ्चितं राजद्रेणुविभूषितं परमहंसालीभिरासेवितम् । त्वत्पादाग्रसरोजमङ्गुलिदलच्छायभिराभासुरं विष्वग्रोचिनखांशुजालपयसि स्वच्छे समुच्छोभते ॥ ४४॥ मञ्जीरस्वनमञ्जुविष्किररवे तत्सङ्गिनीलोपल- च्छायारूपतमोलवे नखमिषादक्षीणतारागणे । सन्ध्यारागनिभस्वकान्तिपटले त्वत्पादमूलात्मक- प्रत्यूषोपगमे हि देवि! लभते लोकः प्रबोधोदयम् ॥ ४५॥ विद्यामुक्तिरमावधूषु नितरां कामातुरा मानवा- स्तप्तास्त्वन्नखकान्तिचन्दनरसैरालिप्य गात्रं निजम् । त्वत्पादाब्जरुचिप्रवालनिचिते भूमीतले शेरते नित्यं देवि! भवत्कृपाप्रियसखीविश्वासतः केवलम् ॥ ४६॥ मञ्जीरक्वणितैः क्षिपन्निव मुहुः श्रीमन्नखांशूद्गमै- र्दैत्येन्द्रं प्रहसन्निवारुणरुचा रुष्यन्निवास्मै भृशम् । धीरायां त्वयि निर्विकारमनसि त्वत्पाद एव स्फुटं पुष्णन् वैरिविकारमेष महिषध्वंसी परित्रायताम् ॥ ४७॥ क्षिप्रं देवि! शिरस्पन्दने महिषं पिष्ट्वा ततोऽधः पदं दित्सन्त्यां त्वयि कण्ठभञ्जनभिया कण्ठीरवे विद्रुते । मेदिन्यामपि भीतिकम्पिततनौ प्रेमत्वराशालिना शर्वेणैव निजाङ्कसीम्नि निहितं पादद्वयं ते जयेत् ॥ ४८॥ पूर्वं देवि! पदाम्बुजेन महिषप्रध्वंसनाभ्यासतः पश्चात्कुत्सितसुम्भदैत्यविजयोऽप्येवं कृतः किं त्वया? । नो चेद्भाति कथं कुसुम्भविजयी पादाब्जदेशोऽयमि- त्यालापे गिरिशस्य तद्विजयते मन्दस्मितं देवि! ते ॥ ४९॥ बिभ्राणेन मनोज्ञयावकरसं मञ्जुध्वनन्नूपुर- श्लेषालङ्कृतिशालिना नखमणीजातप्रसादश्रिया । एकेनैव पदेन देवि! महिषध्वंसे महीयस्तरः श्लोकोयं रचितस्त्वयेति विबुधाः संश्लाघनं कुर्वते ॥ ५०॥ त्वं शम्भोर्महिषी भवस्यगसुते! तेनोपहासाय ते दैत्योऽयां महिषीभवन्नुपगतः, सोऽयं कथं क्षम्यते ? । इत्थं नूपुरनिःस्वनैरिव वदन् पादस्त्वदीयो रुषा शस्त्रप्रग्रहणात्पुरैव महिषं पिष्णन् परित्रायताम् ॥ ५१॥ देव्या पङ्कशयोऽद्य कोऽपि महिषच्छद्मा महान् कण्टकः पादेनाहत इत्युदूढहसितं सख्या समावेदिते । सद्यः कण्टकशालिना करतलेनासाद्य पादाम्बुजं गृह्णन्नार्तिविनोदनाय गिरिशो जीयात्प्रियस्ते शिवे! ॥ ५२॥ त्वत्पादाङ्गुलिपल्लवैरगसुते! देवि! स्वयं पञ्चभिः पञ्चत्वं गमितो महासुर इति स्वात्मानुरूपं कृतम् । एतैरेव नतो जनस्त्रिदशतां नीतो, महेशः पुन- र्लक्षत्वं गमितः प्रसूनधनुषो विस्मापनं तद्द्वयम् ॥ ५३॥ ब्राह्मं माघवनं च वाहनमहो मन्दैर्गतैर्निन्दितं धावल्येन नखत्विषां विहसितो वाहोऽपि माहेश्वरः । इत्थं वाहनवैरितां भजति ते पादस्ततो मन्महे कात्यायन्यमुना न्यघानि महिषः कार्त्तान्तवाहभ्रमात् ॥ ५४॥ सीमन्तप्रकरे सुरेन्द्रसुदृशां सिन्दूररेखात्मना माणिक्यद्युतिसञ्ज्ञयैव मकुटीकोटीषु दैत्यद्रुहाम् । शम्भोर्मूर्ध्नि जटाघटारुणरुचिव्याजेन पादप्रभै- वैका ते परिणाममेति करुणामूर्ते! गिरीन्द्रात्मजे! ॥ ५५॥ नो केशः परमाश्रयः सुमनसां, पादाब्जरेणुश्च ते नो मन्दारसिता परं स्मितरुचिर्मञ्जीरयोश्च द्वयी । नो बाहुः कलहं समेत्य जयति, त्वद्यानलीलाप्यसौ नो शुम्भत्तरलाक्षमाननमिदं, पादाम्बुजं चाम्बिके! ॥ ५६॥ नाथे! तावकवाहसिंहचकितास्त्वत्पादमूले नता नूनं बभ्रमुरभ्रमुप्रियमुखा दिक्कुम्भिवीराश्चिरम् । नोचेदेष कथं तदुन्नतशिरस्सिन्दूरसन्दोहजो रागस्ते चरणाम्बुजे परिणमन्नद्यापि विद्योतते ॥ ५७॥ त्वत्पादोऽयमजाश्रितश्च रुचिरस्पर्शान्वितो योगिना- मन्तःस्थाकृतिरूष्मभाक् च महिषप्रध्वंसनप्रक्रमे । एवं खल्वखिलाक्षरात्मकममुं शैलेन्द्रकन्ये! कथं भाषन्ते नतवर्गबन्धुमपवर्गालम्बनं वा जनाः? ॥ ५८॥ उन्मीलन्नखमण्डलीहिमकणः, शोणप्रभागैरिकं बिभ्राणः, परिशोभमानकटको, भूयो वनैकाश्रयः । गायत्सिद्धवधूनिषेविततलः पादस्त्वदीयः शिवे! राजत्येष हिमाद्रिपादवदिदं युक्तं हिमाद्रेः सुते! ॥ ५९॥ दिक्पालैर्दशभिः पृथक्पृथगयं त्वत्पादयोरर्पितो दृश्यो भक्त्यनुराग एव दशधा शोणाङ्गुलिश्रीमिषात् । पादाभ्यामपि तान् प्रति प्रकटिता नूनं प्रसादाङ्कुरा दृश्यन्ते नखकान्तिपङ्क्तिदशकव्याजेन शैलात्मजे! ॥ ६०॥ मेघानां कुलिशस्य चाप्रतिहता धाराः क्रमन्तां चिरं नो नश्येन्मददानवारिविभवो नाकस्य नागस्य च । पुत्रोऽयं मम सैनिकाश्च दधतां नित्यं जयन्तः सुखं त्वत्पादाम्बुजपातिनः सुरपतेरित्थं जयन्त्यर्त्थनाः ॥ ६१॥ आज्यासक्तकरैर्द्विजन्मभिरहं हूयेय, नो दानवैः स्वाहारोचितमस्तु पार्श्वमनिशं, तादृक् च हव्यं लभै । रक्षावानिति भूतिमानिति च मे शब्दप्रसिद्ध्या शिवे! नोपेक्ष्योऽहमिति त्वदङ्घ्रिनमने जीयासुरग्नेर्गिरः ॥ ६१॥ ``त्वत्भक्ताघमबुद्धिपूर्वलिखितं स्याच्चेत्क्षमेथाः शिवे! कान्तस्ते मयि रोषवान्, कुरु पुनस्तस्यार्द्रभावं शनैः । देवि त्वं महिषाभिहन्त्रि! चकितं त्रायस्व मे वाहनं'', कालस्येति जयन्ति ते पदनतौ लोलस्य सम्प्रार्थनाः ॥ ६३॥ धर्माचारपरोऽहमित्यवमतो रक्षोभिरेकान्वयै- र्मह्यं देवि विनिन्दिता दिशमदुर्जातिद्विषश्चामराः । दैवादित्युभयच्युतो विशरणो रक्ष्योऽहमित्यादय- स्त्वत्पादप्रणतौ जयन्ति निरृतेरत्याकुलाः प्रार्थनाः ॥ ६४॥ मत्पुत्र्या मम वा मुकुन्दगृहताभाग्यं न सङ्क्षीयतां माहं पायिषि कुम्भजेन मुनिना कल्पान्तसूर्येण वा । द्वेधा मे सुरवाहिनीदयितता साधु त्वया रक्ष्यतां त्वत्पादाम्बुजपातिनो जलपतेरित्थं जयन्त्यर्त्थनाः ॥ ६५॥ विश्वप्राणमयी त्वमेव, मम तु प्राहुर्जगत्प्राणतां सर्वस्यापि सदा गतिर्हि भवती, मामेवमाहुर्जनाः । लज्जापादकमीदृशं जननि! नः, किं कुर्महे, पाहिमा- मित्येवं पवनस्य ते पदनतौ वाचो जयन्त्याकुलाः ॥ ६६॥ शङ्खोल्लासिगलोज्ज्वले! समकरे! पद्मेन, कुन्दस्मिते! पादाग्रादृतकच्छपे! मुखमहापद्मे! मुकुन्दाश्रिते! । इत्यस्मन्निधिगात्रि! नीलनयने! चर्चात्मिके! पाहिमा- मित्थं पादनतिः शिवे! विजयते सख्युः कुबेरस्य ते ॥ ६७॥ सन्नामेषु भवत्पदाम्बुजनखच्छायां जटासङ्गिनीं गङ्गेत्यालिजना वदन्ति वितथं मा भूर्मुधा कोपिनी । दृष्टिर्मय्ययि! नीयतां, परुषमप्येकं वचो दीयता- मीशानस्य भवानि! ते पदनतावित्थं जयन्त्यर्त्थनाः ॥ ६८॥ नाभीतोऽभवमादितस्तव बलात् पश्चादभीतोऽस्म्यहं त्र्यक्षेण त्रिमुखीकृतोऽपि चतुरास्योऽहं तवैव स्तवैः । त्वं विश्वात्मतयोपजन्य न पुनः स्रष्टारमाख्याहि मा- मित्थं देवि! जयन्ति ते पदनतौ वाणीपतेर्वाणयः ॥ ६९॥ आशीरस्ति मुखे, विडम्बयति मां भूयोऽपि चाशीःस्पृहा भोगाः सन्ति सहस्रधा, पुनरहं भोगान् कथं प्रार्थये? । शेषोऽहं स्पृहयाम्यशेषसुखमित्येतच्च हासास्पदं, नाथे! चिन्तय सर्वमित्यहिपतेस्त्वत्पादपातो जयेत् ॥ ७०॥ पार्वत्याः पदमत्र दृश्यमिति वा पादे भवत्वेन वा साधुत्वात्तदुपास्तये हिततया पद्यान्यमूनि स्फुटम् । सैषा मुक्तिपुरीगिरीन्द्रतनया भक्तेन नारायणे- नाबद्धा खलु सप्ततिर्दिशतु वः कल्याणहल्लोहलम् ॥ Shri Narayana Bhatta, the author of this work is more famous for his work ᳚Narayaneeyam᳚. Narayaneeyam was composed in his younger days. It is said that he had a vision (dream) in which Krishna appeared to him and commanded him to go to Mukkola Bhagavati (Devi) temple in north Kerala. He went there and stayed there worshipping the Goddess till his last days. This temple is also known as Muktisthala. It is said that the poet attained Mukti there. It was during his stay at Mukkola that he composed ᳚Sripadasaptati᳚, seventy verses on the divine feet of the Goddess. It is assumed that he composed only 70 verses because he was 70 years old when he composed this work. Encoded by Ramu, Ramesh Natarajan, Shibin PK, Sugesh, Achari, Rajmohan, Ranjana, Jayati, and Shankara Proofread by Shankara, PSA Easwaran psaeaswaran at gmail.com

% Text title            : nArAyaNabhaTTapAdavirachitA shrIpAdasaptatiH
% File name             : shrIpAdasaptati.itx
% itxtitle              : shrIpAdasaptatiH (nArAyaNabhaTTapAdavirachitA)
% engtitle              : shrIpAdasaptati by shrInArAyaNabhaTTa
% Location              : doc_devii
% Sublocation           : devii
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ramu, Ramesh Natarajan, Shibin PK, Sugesh, Achari, Rajmohan, Ranjana, Jayati, Shankara
% Proofread by          : Shankara shankara_2000 at yahoo.com , PSA Easwaran
% Indexextra            : (sri-narayana-guru)
% Latest update         : August 13, 2011, June 14, 2015
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP