श्रीविद्यारत्नसूत्राणि
श्रीविद्यारत्नसूत्राणि ॥
श्रीगौडपादाचार्यकृतम् ॥
अथ शाक्तमन्त्रागमाजिज्ञासा ॥ १॥
आत्मैवाऽखण्डाकारः ॥ २॥
चैतन्यस्वरूपा चिच्छक्तिः ॥ ३॥
सैवेयमनामाख्या श्रीविद्या ॥ ४॥
तत्त्वत्रयेण सा विविधा ॥ ५॥
कोणपत्रसमुच्चयं चक्रम् ॥ ६॥
सा शाम्भवी विद्या श्यामा तत्त्वत्रयाकृतिस्त्रिविधा जाता ॥ ७॥
विद्यायाः पूर्वोत्तराभ्यामनेकविद्या जाताः ॥ ८॥
ता विद्याः परिवारा इति ॥ ९॥
श्यामायाः पूर्वस्मिन् स्थिताः ॥ १०॥
याम्यदिशि स्थिताः सौभाग्यादयः स्वस्या उद्भवाः ॥ ११॥
तथाऽधः स्थिताः पश्चिमदिशि ॥ १२॥
शम्भव्याः परिवारा उत्तरस्मिन् ॥ १३॥
स्वयमूर्ध्वाऽकारेण ॥ १४॥
अथ चिन्तामणिगृहस्थिता त्रिपुरसुन्दरी महाविद्याऽनुत्तरा ॥ १५॥
भण्डासुरहननार्थमेकैवाऽनेका ॥ १६॥
तया मन्त्रा अनेकाश्च तथा यन्त्रतन्त्राणि ॥ १७॥
विविध भक्तिर्विविधोपासनम् ॥ १८॥
तस्मात् फलान्यनेकानि ॥ १९॥
कगजदशारद्वयमन्व
स्राष्टदलस्वरपत्रत्रिवृत्तभूबिम्बसञ्ज्ञाकथितं
श्रीसदनम् ॥ २०॥
मणिगणनवावरणं तस्य ॥ २१॥
स्वस्या जनित सौभाग्यायास्तन्देतत्सदनम् ॥ २२॥
स्वजत्वादेतत्पश्चिमादेः ॥ २३॥
त्रयाणां त्रयाणामावरणान्येकम् ॥ २४॥
अथ ठडतपत्रमनुस्वारधरणि शुद्धाविद्यासदनम् ॥ २५॥
तदेव तत्र वसुद्वययुक्तमनुस्वरं कुमारीसदनम् ॥ २६॥
एतयोरावरणान्ताक्षरगणनं यलषहणदहपत्रधरणि
द्वदशार्द्धासदनम् ॥ २७॥
पभमजकोणस्वरजपत्रगणना धरणी श्यामासदनम् ॥ २८॥
पुष्पिण्याः परिसर्जनमेतत् ॥ २९॥
श्रीइति पुष्पिण्यादिवत् ॥ ३०॥
शारिकाशुकयोः ॥ ३१॥
एतासामावरणं सगणनम् ॥ ३२॥
जगद्रञ्जन्यादिसर्वासामेवम् ॥ ३३॥
कगतजकोणहपत्रधरणिनागाः ॥ ३४॥
तस्यावरणं सगणनम् ॥ ३५॥
समयावद्यश्वयाः सदनं शुद्धविद्यावत् ॥ ३६॥
डततकोणाथ नागनागदलस्यारधरणी सौभाग्यायाः सन्निहितासदनम् ॥ ३७॥
अथ तस्याः पञ्चावरणम् ॥ ३८॥
कहपत्रहकोणस्वरपत्रा धरणी वार्तालिसदनम् ॥ ३९॥
कगजकोणजपत्रस्वरधरणी बटुकस्य ॥ ४०॥
एवमतस्वरदला धहपत्रधरणी तिरोधानस्य ॥ ४१॥
तथैतत्समयायाः ॥ ४२॥
गगनप्रभाषड्वसुकोणपत्रस्य धरणी भुवनेशीसदनम् ॥ ४३॥
यषहकोण स्वरदलहपत्र धरणी सदनमन्नपूर्णायाः ॥ ४३॥
गगनगुणा धर्मा बिम्बविशिष्टकला भुवनेशी गुहवत् समयायाः ॥ ४४॥
गगन वसुकोणद्वयपत्रस्वरधरणी तुर्यासदनम् ॥ ४५॥
खजकोणद्वयपत्रस्वरवसुपत्रयगधरणी महार्द्धायाः ॥ ४६॥
द्वादशार्द्धासदनवत् स्वनायक्याः ॥ ४७॥
कलासदनवन्मिश्रविद्यायाः ॥ ४८॥
वाग्वादिन्याः कुमारिवत् ॥ ४९॥
गगनप्रभा पञ्चकोणाऽथ वसुकलापत्रभूरेखाः परागारम् ॥ ५०॥
तथैव प्रासादविशिष्टयोरुभयोः ॥ ५१॥
तुर्यासदनवच्छाम्भव्याः ॥ ५१॥
परासदनवत् समयायाः ॥ ५२॥
व्योमदहकर्ममनुपत्रा दहकोणा हरिमुखसदनम् ॥ ५३॥
व्योमजलजपत्रत्रिवृत्ता धरणी श्रीगुरोः सदनम् ॥ ५४॥
अकथादित्रिरेखशद्वितत्रिकोणमेव वा श्रीगुरोः सदनम् ॥ ५५॥
अनुत्तरविद्यानां सर्वासाँ शुद्धविद्यावत् ॥ ५६॥
वार्ताल्याः पञ्चावरणम् ॥ ५७॥
बटुकस्य षट् ॥ ५८॥
तद्वात्तित्रोधानस्य ॥ ५९॥
भुवनेशी सप्त ॥ ६०॥
षट्सन्निहितायाः ॥ ६१॥
कामेश्याः कलायास्त्रिः ॥ ६२॥
तुरीयायाः पञ्च ॥ ६३॥
षण्महार्द्धायाः ॥ ६४॥
परा प्रासादस्य च परावत् ॥ ६५॥
शाम्भव्याः पऽच ॥ ६६॥
मृगेश्यास्यस्य षट् ॥ ६७॥
चतुर्भिरावरणैर्विशिष्टं बोधकस्य सदनम् ॥ ६८॥
अथ विद्या एकविंशद्वर्णविशिष्ता ॥ ६९॥
पञ्चदशवर्णाविशिष्टा सौभाग्या ॥ ७०॥
तथैव पश्चिमा विद्या ॥ ७१॥
शतवर्णयुता श्यामा ॥ ७२॥
द्वाविंशदक्षरविशिष्टा पुष्पिणी ॥ ७३॥
द्विचत्वारिंशद्वर्णा विशिष्टा शुकविद्या ॥ ७४॥
अष्टाविंशदक्षरविशिष्टा शारिकाविद्या ॥ ७५॥
पञ्चत्रिंशदक्षरविशिष्टा हसन्ती देवता ॥ ७६॥
अक्षरत्रयविशिष्टा शुद्धविद्या ॥ ७७॥
कुमारी वर्णत्रय विशिष्टा ॥ ७८॥
दशवर्णयुता द्वादशार्द्धा ॥ ७९॥
षट्त्रिंशद्वर्णसमुचिता सौभाग्यसन्निहिता ॥ ८०॥
अष्टाविंशद्वर्णसमुच्चयो महाहेरम्बस्य मनुः ॥ ८१॥
चतुर्विंशद्वर्णसमुच्चयो बटुकस्य मनुः ॥ ८२॥
अष्टाष्टोत्तरनवत्यक्षरसमुचिता कोलवदना ॥ ८३॥
षट्पञ्चाशदक्षरैर्विशिष्टा यवनिका ॥ ८४॥
एकवर्णविशिष्टा भुवनेशी ॥ ८५॥
अथवा सप्तविंशद्वर्णविशिष्टा ॥ ८६॥
ककारादिपञ्चदशाक्षरसमुचिता कादिपञ्चदशी ॥ ८७॥
खण्डद्वययुता चतुर्थस्वरविशिष्टा कामकला ॥ ८८॥
एकाक्षरविशिष्टा मुख्या ॥ ८९॥
त्रयोदशविशिष्टा तुर्या ॥ ९०॥
नवशतवर्णविशिष्टा महार्द्धा ॥ ९१॥
द्वादशाक्षरविशिष्टाऽश्वारूढा ॥ ९२॥
एकाक्षरविशिष्टा मिश्रविद्या ॥ ९३॥
त्रयोदशवर्नविशिष्टा वाग्वादिनी ॥ ९४॥
एकवर्णविशिष्टा परा ॥ ९५॥
पराप्रसादरूपिणी वर्णद्वययुता ॥ ९६॥
वर्णैकविशिष्टा तथैव प्रासादपरा ॥ ९७॥
अथ ह्रस्वदीर्घषट्कसमुच्चयदशैकवर्णविशिष्टः पराशम्भुः ॥ ९८॥
अथ ह्रस्वाक्षरदीर्घपञ्चसमुचिता तथैव सङ्ख्या परा शाम्भवी ॥ ९९॥
अनुत्तरसङ्केतप्रधानविद्या सप्तदशवर्णविशिष्टा ॥ १००॥
अथैतासां परिवाराणामनुपरिवारा असंङ्ख्याकाः ॥ १०१॥
एतानि सूत्राण्यस्माभिर्गौडपादैरुक्तानि ॥
॥ श्रीविद्यारत्नसूत्राणि ॥
Encoded and proofread by Mike Magee (ac70 at cityscape.co.uk)