श्यामलानवरत्नमालिकास्तवम्
ध्यानश्लोकौ -
कचाञ्चितविपञ्चिकां कुटिलकुन्तलालङ्कृतां
कुशेशयनिवेशिनीं कुटिलचित्तविद्वेषिणीम् ।
मदालसगतिप्रियां मनसिजारिराज्यश्रियं
मतङ्गकुलकन्यकां मधुरभाषिणीमाश्रये ॥
कुन्दमुकुलाग्रदन्तां कुङ्कुमपङ्केन लिप्तकुचभाराम् ।
आनीलनीलदेहामम्बामखिलाण्डनायिकां वन्दे ॥
अथ स्तोत्रम् -
ओङ्कारपञ्जरशुकीमुपनिषदुद्यानकेलिकलकण्ठीम् ।
आगमविपिनमयूरीमार्यामन्तर्विभावये गौरीम् ॥ १॥
दयमानदीर्घनयनां देशिकरूपेण दर्शिताभ्युदयाम् ।
वामकुचनिहितवीणां वरदां सङ्गीतमातृकां वन्दे ॥ २॥
श्यामलिमसौकुमार्यां सौन्दर्यानन्दसम्पदुन्मेषां
तरुणिमकरुणापूरां मदजलकल्लोललोचनां वन्दे ॥ ३॥
नखमुखमुखरितवीणानादरसास्वादनवनवोल्लासम् ।
मुखमम्ब मोदयतु मां मुक्ताताटङ्कमुग्द्धहसितं ते ॥ ४॥
सरिगमपधनिरतां तां वीणासङ्क्रान्तकान्तहस्तान्ताम् ।
शान्तां मृदुलस्वान्तां कुचभरतान्तां नमामि शिवकान्ताम् ॥ ५॥
अवटुतटघटितचूलीताडिततालीपलाशताटङ्काम् ।
वीणावादनलेशाकम्पितशीर्षां नमामि मातङ्गीम् ॥ ६॥
वीणारवानुषङ्गं विकलकचामोदमाधुरीभृङ्गम् ।
करुणापूरतरङ्गं कलये मातङ्गकन्यकापाङ्गम् ॥ ७॥
मेचकमासेचनकं मिथ्यादृष्टान्तमद्ध्यभागं ते ।
मातस्तव स्वरूपं मङ्गलसङ्गीतसौरभं वन्दे ॥ ८॥
मणिभङ्गमेचकाङ्गीं मातङ्गीं नौमि सिद्धमातङ्गीम् ।
यौवनवनसारङ्गीं सङ्गीताम्भोरुहानुभवभृङ्गीम् ॥ ९॥
नवरत्नमाल्यमेतद्रचितं मातङ्गकन्यकाऽऽभरणम् ।
यः पठति भक्तियुक्तस्सफलस्स भवति शिवाकृपापात्रम् ॥ १०॥
प्रपञ्चपञ्चीकृतकनिदानपदपांसवे ।
वीणावेणुशुकालापप्रवीणमहसे नमः ॥ ११॥
इति श्यामलानवरत्नमालिकास्तवः सम्पूर्णः ।
Encoded and proofread by PSA Easwaran