॥ श्रीसुभगोदयस्तुती ॥

॥ श्रीः॥ ॥ श्रीसुभगोदयस्तुतिः॥ श्री गौडपादाचार्य विरचिता भवानि त्वां वन्दे भवमहिषि सच्चित्सुखवपुः पराकारां देवीममृतलहरीमैन्दवकलाम् । महाकालातीतां *कलितसरणीकल्पिततनुं var कलितसरणिं कल्पिततनुं सुधासिन्धोरन्तर्वसतिमनिशं वासरमयीम् ॥ १॥ मनस्तत्त्वं जित्वा नयनमथ नासाग्रघटितं *पुनर्व्यावृत्ताक्षः स्वयमपि यदा पश्यति पराम् । varपुनर्व्यावृत्ताक्षिद्वयमपि तदानीमेवास्य स्फुरति बहिरन्तर्भगवती परानन्दाकारा परशिवपरा काचिदपरा ॥ २॥ मनोमार्गं जित्वा मरुत इह नाडीगणजुषो निरुध्यार्कं सेन्दुं दहनमपि सञ्ज्वाल्य शिखया । सुषुम्णां संयोज्य श्लथयति च षड्ग्रन्थि शशिनं तवाज्ञाचक्रस्थं *विलयति महायोगिसमयी ॥ ३॥ varश्लथयति, विलसति यदा तौ चन्द्रार्कौ निजसदनसंरोधनवशा- *दशक्तौ पीयूषस्रवणहरणे सा च भुजगी । varदशक्ता प्रबुद्धा क्षुत्क्रुद्धा दशति शशिनं बैन्दवगतं सुधाधारासारैः स्नपयसि तनुं बैन्दवकले ॥ ४॥ पृथिव्यापस्तेजः पवनगगने तत्प्रकृतयः *स्थितास्तन्मात्रास्ता विषयदशकं मानसमिति । varस्थितास्तन्मात्राप्ता *ततो माया विद्या तदनु च महेशः शिव इतः varतथा परं तत्त्वातीतं मिलितवपुरिन्दोः परकला ॥ ५॥ कुमारी यन्मन्द्रं ध्वनति च ततो योषिदपरा कुलं त्यक्त्वा *रौति स्फुटति च *महाकालभुजगी । varकाचित्; महाकालपतगी, महानीलभुजगी ततः पातिव्रत्यं भजति दहराकाशकमले सुखासीना योषा भवसि भवसीत्काररसिका ॥ ६॥ त्रिकोणं ते कौलाः कुलगृहमिति प्राहुरपरे चतुष्कोणं प्राहुः समयिन इमे बैन्दवमिति । *सुधासिन्धौ तस्मिन्सुरमणिगृहे सूर्यशशिनो- varसुधासिन्धोस्तस्मिन् रगम्ये रश्मीनां समयसहिते त्वं *विहरसे ॥ ७॥ varविहरसि त्रिखण्डं ते चक्रं शुचिरविशशाङ्कात्मकतया मयूखैः *षट्त्रिंशद्दशयुततया खण्डकलितैः । varषट्त्रिंशत्त्रिशतयुतमाखण्ड,षट्त्रिंशच्छतयुततया पृथिव्यादौ तत्त्वे पृथगुदितवद्भिः परिवृतं *भवेन्मूलाधारात्प्रभृति तव षट्चक्रसदनम् ॥ ८॥ varभवेन्मूलाधारप्रभृति शतं चाष्टौ वह्नेः शतमपि कलाः षोडश रवेः शतं *षट् च त्रिंशत्सितमयमयूखाश्चरणजाः । varषट्त्रिंशद्द्वे, षट्त्रिंशद्द्वै सितमयि य एते षष्टिश्च त्रिशतमभवंस्त्वच्चरणजा* varचरणगा *महाकौलेस्तस्मान्न हि तव शिवे कालकलना ॥ ९॥ varमहाकालस्तस्मात् त्रिकोणं चाधारं *त्रिपुरतनु तेऽष्टारमनघे varत्रिभुवननुते, त्रिभुवननुतेष्वार *भवेत्स्वाधिष्ठानं पुनरपि दशारं मणिपुरम् । varतव स्वाधिष्ठानं भगवति दशारं ते संवित्कमलमथ मन्वश्रकमुमे विशुद्धं स्यादाज्ञा शिव इति ततो बैन्दवगृहम् ॥ १०॥ त्रिकोणे ते वृत्तत्रितयमिभकोणे वसुदलं कलाश्रं मिश्ररि भवति भुवनाश्रे *च भुवनम् । varत्रिभुवनम् चतुश्चक्रं शैवं निवसति *भगे शाक्तिकमुमे varदशे शाक्तिकमुमे, भगे शाक्तकमुमे प्रधानैक्यं षोढा भवति च तयोः शक्तिशिवयोः ॥ ११॥ कलायां बिन्द्वैक्यं तदनु च तयोर्नादविभवे तयोर्नादेनैक्यं तदनु च कलायामपि तयोः । तयोर्बिन्दावैक्यं त्रितयविभवैक्यं परशिवे *तदेवं षोढैक्यं भवति हि सपर्या समयिनाम् ॥ १२॥ varतथैवं कला नादो बिन्दुः क्रमश इह व्रणाश्च चरणं षडब्जं चाधारप्रभृतिकममीषां च मिलनम् । *तदेवं षोढैक्यं भवति खलु येषां समयिनां varतथैवं चतुर्धैक्यं तेषां भवति हि सपर्या समयिनाम् ॥ १३॥ तडिल्लेखामध्ये स्फुरति मणिपूरे भगवती चतुर्धैक्यं तेषां भवति च चतुर्बाहुरुदिता । धनुर्बाणानिक्षूद्भवकुसुमजानङ्कुशवरं तथा पाशं बिभ्रत्युदितरविबिम्बाकृतिरुचिः ॥ १४॥ varकृतिरुचिम् भवत्यैक्यं षोढा भवति भगवत्याः समयिनां मरुत्वत्कोदण्डद्युतिनियुतभासा समरुचिः । भवत्पाणिव्रातो दशविध इतीदं मणिपुरे भवानि प्रत्यक्षं तव वपुरुपास्ते न हि परम् ॥ १५॥ इत्यैक्यनिरूपणम्॥ भवानि श्रीहस्तैर्वहसि फणिपाशं सृणिमथो धनुः पौण्ड्रँ पौष्पं शरमथ जपस्रक्षुकवरौ । अथ द्वाभ्यां मुद्रामभयवरदानैकरसिकां varरसिके क्वणद्वीणां द्वाभ्यां *त्वमुरसि कराभ्यां च बिभृषे ॥ १६॥ varउरसि च त्रिकोणैरष्टारं त्रिभिरपि दशारं समुदभू- द्दशारं भूगेहादपि च भुवनाश्रं समभवत् । ततोऽभून्नागारं नृपतिदलमस्मात्त्रिवलयं *चतुर्द्वाःप्राकारत्रितयमिदमेवाम्ब *शरणम् ॥ १७॥ varचतुर्धा; चरणम् चतुःषष्टिस्तन्त्राण्यपि कुलमतं निन्दितमभू- varकुलनुतंनिन्दितमिदं तदेत द्यदेतन्मिश्राख्यं मतमपि भवेन्निन्दितमिह । शुभाख्याः पञ्चैताः श्रुतिसरणिसिद्धाः प्रकृतयो महाविद्यास्तासां भवति *परमार्थो भगवती ॥ १८॥ varपरमार्था, परमार्थो भगवति स्मरो मारो मारः स्मर इति *परो मारमदन - varस्मरो स्मरानङ्गाश्चेति* स्मरमदनमाराः स्मर इति । varश्चैते त्रिखण्डः खण्डान्ते *कलितभुवनेश्यक्षरयुत- varकलितभुवने ते क इति यः श्चतुःपञ्चार्णास्ते त्रय इति च पञ्चाक्षरमनुः* ॥ १९॥ varमनोः त्रिखण्डे त्वन्मन्त्रे शशिसवितृवह्न्यात्मकतया स्वराश्चन्द्रे लीनाः सवितरि कलाः कादय इह । यकाराद्या वह्नावथ कषयुगं बैन्दवगृहे निलीनं सादाख्ये शिवयुवति नित्यैन्दवकले ॥ २०॥ ककाराकाराभ्यां स्वरगणमवष्टभ्य निखिलं कलाप्रत्याहारात्सकलमभवद्व्यञ्जनगणः । त्रिखण्डे स्यात्प्रत्याहरणमिदमन्वक्कषयुगं* varमञ्चत्कषयुगं क्षकारश्चाकारोऽक्षरतनुतया चाक्षरमिति ॥ २१॥ *विदेहेन्द्रापत्यं श्रुत इह ऋषिर्यस्य च मनो- varविदेहो नैरृत्याः सुत इह ऋषिर्यः स च रयं चार्थः सम्यक्ष्रुतिशिरसि तैत्तिर्यकऋउचि । ऋषिं हित्वा चास्या हृदयकमले नैतमृषिमि- त्यृचाभ्युक्तः पूजाविधिरिह भवत्याः समयिनाम् ॥ २२॥ त्रिखण्डस्त्वन्मन्त्रस्तव च सरघायां निविशते श्रियो देव्याः शेषो यत इह समस्ताः शशिकलाः । त्रिखण्डे त्रैखण्ड्यं निवसति समन्त्रे च सुभगे षडब्जारण्यानी त्रितययुतखण्डे निवसति ॥ २३॥ त्रयं चैतत्स्वान्ते परमशिवपर्यङ्कनिलये परे *सादाख्येऽस्मिन्निवसति चतुर्धैक्यकलनात् । varसादाख्यास्मिन् स्वरास्ते लीनास्ते भगवति कलाश्रे च सकलाः ककाराद्या वृत्ते तदनु चतुरश्रे च यमुखाः ॥ २४॥ हलो बिन्दुर्वर्गाष्टकमिभदलं शाम्भववपु- श्चतुश्चक्रं *शक्रस्थितमनुभयं शक्तिशिवयोः । varशक्तास्थित, शक्तौ स्थित निशाद्या दर्शाद्याः श्रुतिनिगदिताः *पञ्चदशधा varपञ्चदश ता *भवेयुर्नित्यास्तास्तव जननि मन्त्राक्षरगणाः ॥ २५॥ varनित्याप्तास्तव इमास्ताः षोडश्यास्तव च सरघायां शशिकला स्वरूपायां लीना निवसति तव श्रीशशिकला । अयं प्रत्याहारः श्रुत इह कलाव्यञ्जनगणः ककारेणाकारः स्वरगणमशेषं कथयति ॥ २६॥ क्षकारः पञ्चाशत्कल इति *हलो बैन्दवगृहं varहरो *ककारादूर्ध्वं स्याज्जननि तव नामाक्षरमिति । varक्षकारा भवेत्पूजाकाले मणिखचितभूषाभिरभितः प्रभाभिर्व्यालीढं भवति मणिपूरं सरसिजम् ॥ २७॥ वदन्त्येके वृद्धा मणिरिति जलं *तेन निबिडं varलीननिबिडं परे तु त्वद्रूपं मणिधनुरितीदं समयिनः । अनाहत्या *नादः प्रभवति सुषुम्णाध्वजनितं- varसादः स्तदा वायोस्तत्र प्रभव इदमाहुः समयिनः ॥ २८॥ तदेतत्ते संवित्कमलमिति संज्ञान्तरमुमे भवेत्संवित्पूजा भवति कमलेऽस्मिन्समयिनाम् । विशुद्ध्याख्ये चक्रे वियदुदितमाहुः समयिनः सदापूर्वो देवः शिव इति हिमानीसमतनुः ॥ २९॥ त्वदीयैरुद्द्योतैर्भवति च विशुद्ध्याख्यसदनं भवेत्पूजा देव्या हिमकरकलाभिः समयिनाम् । सहस्रारे चक्रे निवसति कलापञ्चदशकं तदेतन्नित्याख्यं भ्रमति सितपक्षे समयिनाम् ॥ ३०॥ अतः शुक्ले पक्षे *प्रतिदिनमिह त्वां भगवतीं varप्रतिदिनमहस्त्वां निशायां सेवन्ते निशि चरमभागे समयिनः । शुचिः स्वाधिष्ठाने रविरुपरि संवित्सरसिजे शशी चाज्ञाचक्रे हरिहरविधिग्रन्थय इमे ॥ ३१॥ कलायाः षोडश्याः प्रतिफलितबिम्बेन सहितं तदीयैः पीयूषैः पुनरधिकमाप्लाविततनुः । सिते पक्षे सर्वास्थिथय इह कृष्णेऽपि च समा यदा चामावास्या भवति न हि पूजा समयिनाम् ॥ ३२॥ इडायां पिङ्गल्यां चरत इह तौ सूर्यशशिनौ तमस्याधारे तौ यदि तु *मिलितौ सा तिथिरमा । varतुलिती तदाज्ञाचक्रस्थं शिशिरकरबिम्बे रविनिभं दृढव्यालीढं सद्विगलितसुधासारविसरम् ॥ ३३॥ महाव्योमस्थेन्दोरमृतलहरीप्लाविततनुः *प्रशुषद्वै नाडीप्रकरमनिशं प्लावयति तत् । varप्रशुष्यद्वेशन्त यदाज्ञायां विद्युन्नियुतनियुताभाक्षरमयी *स्थिता विद्युल्लेखा भगवति विधिग्रन्थिमभिनत् ॥ ३४॥ varसिता ततो गत्वा ज्योत्स्नामयसमयलोकं *समयिनां varससमया पराख्या सादाख्या जयति शिवतत्त्वेन मिलिता । सहस्रारे पद्मे शिशिरमहसां बिम्बमपरं तदेव श्रीचक्रं सरघमिति तद्वैन्दवमिति ॥ ३५॥ वदन्त्येके सन्तः परशिवपदे तत्त्वमिलिते ततस्त्वं *षट्विंशी भवसि शिवयोर्मेलनवपुः । varषट्त्रिंशा त्रिखण्डेऽस्मिन्स्वान्ते परमपदपर्यङ्कसदने परे सादाख्येऽस्मिन्निवसति *चतुर्धैक्यकलनात् ॥ ३६॥ varचतुर्थैक्य *क्षितौ वह्निर्वह्नौ वसुदलजले दिङ्मरुति दि- varमहावह्नि *क्कलाश्रे मन्वश्रं दृशि *वसुरथो राजकमले । varक्कलारे, वसुरधो *प्रतिद्वैतग्रन्थिस्तदुपरि चतुर्द्वारसहितं varप्रतिद्वैतद्ग्रन्थि *महीचक्रं चैकं भवति भगकोणैक्यकलनात् ॥ ३७॥ varमहाचक्रं इति मन्त्रचक्रैक्यम्॥ *षडब्जारण्ये त्वां समयिन इमे पञ्चकसमां varषडब्जारण्यैस्त्वां यदा संविद्रूपां विदधति च षोढैक्यकलिताम्* । varकलितम् मनो जित्वा *चाज्ञासरसिज इह पादुरभव- varसरसिजमिह त्तडिल्लेखा नित्या भगवति तवाधारसदनात् ॥ ३८॥ भवत्साम्यं केचित्त्रितयमिति *कौलप्रभृतयः varकौम्भप्र परं तत्त्वाख्यं *चेत्यपरमिदमाहुः समयिनः । varचेत्स पर इद, परमिद क्रियावस्थारूपं प्रकृतिरभिधापञ्चकसमं तदेषां साम्यं *स्यादवनिषु च यो वेत्ति स मुनिः ॥ ३९॥ varत्वामवनिषु इत्यैक्यनिरूपणम्॥ वशिन्याद्या अष्टावकचटतपाद्याः प्रकृतयः स्ववर्गस्थाः स्वस्वायुधकलितहस्ताः स्वविषयाः । *यथावर्गं वर्णप्रचुरतनवो याभिरभवं- varयदा वर्गा वर्णप्रचुरतरवो स्तव प्रस्तारास्ते त्रय इति जगुस्ते समयिनः ॥ ४०॥ इमा नित्या वर्णास्तव चरणसंमेलनवशा- न्महामेरुस्थाः *स्युर्मनुमिलनकैलासवपुषः । varस्थास्यन्मनु वशिन्याद्या एता अपि *तव सबिन्द्वात्मकतया varच सहबि महीप्रस्तारोऽयं क्रम इति रहस्यं समयिनाम् ॥ ४१॥ इति प्रस्तारत्रयनिरूपणम्॥ भवेन्मूलाधारं तदुपरितनं चक्रमपि त- द्द्वयं तामिस्राख्यं शिखिकिरणसंमेलनवशात् । तदेतत्कौलानां प्रतिदिनमनुष्ठेयमुदितं भवत्या वामाख्यं मतमपि परित्याज्यमुभयम् ॥ ४२॥ अमीषां कौलानां भगवति भवेत्पूजनविधि- स्तव स्वाधिष्ठाने तदनु च भवेन्मूलसदने । अतो बाह्या पूजा भवति भगरूपेण च ततो निषिद्धाचारोऽयं निगमविरहोऽनिन्द्यचरिते ॥ ४३॥ नवव्यूहं कौलप्रभृतिकमतं* तेन स विभु- varप्रभृतिकमिदं र्नवात्मा देवोऽयं जगदुदकृद्भैरववपुः* । varकृच्छैशंववपुः नवात्मा वामादिप्रभृतिभिरिदं *भैरववपु- varबैन्दववपुः र्महादेवी ताभ्यां जनकजननीमज्जगदिदम् ॥ ४४॥ भवेदेतच्चक्रद्वितयमतिदूरं समयिनां विसृज्यैतद्युग्मं तदनु मणिपूराख्यसदने । त्वया *सृष्टैर्वारिप्रतिफलितसूर्येन्दुकिरणै- varसृष्टे वारि *र्द्विधा लोके पूजां विदधति भवत्याः समयिनः ॥ ४५॥ varर्विभालोके अधिष्ठानाधारद्वितयमिदमेवं* दशदलं varमेतद्दश सहस्राराज्जातं *मणिपुरमतोऽभूद्दशदलम् । varमणिपुरमितो हृदम्भोजान्मूलान्नृपदलमभूत्स्वान्तकमलं तदेवैको बिन्दुर्भवति जगदुत्पत्तिकृदयम् ॥ ४६॥ सहस्रारं बिन्दुर्भवति च ततो बैन्दवगृहं तदेतस्माज्जातं जगदिदमशेषं *सकरणम् । varन करणम् ततो मूलाधाराद्द्वितयमभवत्तद्दशदलं सहस्राराज्जातं तदिति दशधा बिन्दुरभवत् ॥ ४७॥ तदेतद्बिन्दोर्यद्दशकमभवत्तत्प्रकृतिकं दशारं सूर्यारं नृपदलमभूत्स्वान्तकमलम्* । varन्नेत्रकमलम् रहस्यं कौलानां द्वितयमभवन्मूलसदनं *तथाधिष्ठानं च प्रकृतिमिह *सेवन्त इह ते ॥ ४८॥ varतदा , मथ सेवन्त्विह च ते अतस्ते कौलास्ते भगवति दृढप्राकृतजना इति प्राहुः प्राज्ञाः कुलसमयमार्गद्वयविदः । महान्तः सेवन्ते सकलजननीं बैन्दवगृहे शिवाकारां नित्याममृतझरिकामैन्दवकलाम् ॥ ४९॥ इदं *कालोत्पत्तिस्थितिलयकरं पद्मनिकरं varकौलोत्पत्ति त्रिखण्डं श्रीचक्रं मनुरपि *च तेषां च मिलनम् । varतु तदैक्यं षोढा वा भवति च चतुर्धेति च तथा तयोः साम्यं पञ्चप्रकृतिकमिदं शास्त्रमुदितम् ॥ ५०॥ उपास्तेरेतस्याः फलमपि च सर्वाधिकमभू- त्तदेतत्कौलानां फलमिह हि चैतत्समयिनाम् । सहस्रारे पद्मे सुभगसुभगोदेति* सुभगे varक्तेति सुभगं परं सौभाग्यं यत्तदिह तव सायुज्यपदवी ॥ ५१॥ *अतोऽस्याः संसिद्धौ सुभगसुभगाख्या गुरुकृपा- varअतस्ते संसिद्धा कटाक्षव्यासङ्गात्स्रवदमृतनिष्यन्दसुलभा । तया विद्धो योगी विचरति निशायामपि दिवा *दिवा भानू रात्रौ विधुरिव *कृतार्थीकृतमतिः ॥ ५२॥ varदिवा वा रात्रौ वा, कृतार्थीकृत इति इति श्रीगौडपादाचर्यविरचिता सुभगोदयस्तुतिः सम्पूर्णा । Encoded and proofread by Sunder Hattangadi sunderh at hotmail.com Translation http://www.shivashakti.com/subhatm

% Text title            : Shri Subhagodayastuti
% File name             : subhagodayastuti.itx
% itxtitle              : subhagodayastutiH
% engtitle              : Shrisubhagodayastuti
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Texttype              : stotra
% Author                : Gaudapadacharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism
% Transliterated by     : Sunder Hattangadi (sunderh at hotmail.com)
% Proofread by          : Sunder Hattangadi (sunderh at hotmail.com)
% Translated by         : http://www.shivashakti.com/subha.htm
% Indexextra            : gauDapAdAchArya (meaning)
% Latest update         : Dec. 24, 2013
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP