स्वस्ति-हस्ते ! नमस्ते (देवी-स्तोत्रम्)
सम्मान्या स्वीय-नाम्ना महति जगति या दुर्गतेर्नाशयित्री
दैत्यानां दारयित्री दर-दुरित-कृतां चण्ड-मुण्डादि-हन्त्री ।
चण्डी वै खण्डिताघा प्रहरण-निवहैर्मण्डिताङ्गी प्रचण्डा
दुर्गे ! त्वं दुःख-दाहं कुरु भुवि कृपया लोक-कल्याणमार्गे ॥ १॥
आशीर्वादं प्रदेहि प्रणतजन-कृते सर्वदा शर्वजाया
रुद्राणी त्वं सुभद्रं वितर चिरदिनं शक्तिराद्या सुविद्या ।
नित्या कात्यायनी त्वं दह कलि-कलुषं कालिका कालरूपा
मूर्त्तिस्ते सौम्य-भीमा तिरयतु नितरां भीतिमातङ्कजालम् ॥ २॥
सिंहासीना सुहासा विदलित-महिषा दिव्यभासा विभान्ती
मह्यां मोहादि-हन्त्री गणपति-जननी मोहिनी माननीया ।
मन्दारैर्मोदयन्ती रुचिर-हिमगिरेर्नन्दिनी स्कन्दमाता
वन्द्या गीर्वाण-वृन्दैर्हर हर-दयिते ! स्वान्त-सन्तापजातम् ॥ ३॥
हिंसा-द्वेषादि-वैरं क्षपयतु नियतं तेऽनुकम्पा प्रकामं
भक्ति-प्रेम-प्रसूनं प्रवितरतु जने स्वस्ति-हस्ते ! नमस्ते ।
सौहार्दं हास्य-मोदं प्रदिशतु करुणा पावनी तावकीना
मध्येविश्वं सुराध्यं प्रसरतु सरसं साम्मनस्यं प्रशस्यम् ॥ ४॥
सौन्दर्यानन्द-धात्री त्वमिह सुमहिता वन्दनीया वदान्या
हे मातः ! प्रार्थनेयं विनय-समुदिता पाद-पद्मे त्वदीये ।
सर्वान् दोषान् क्षमस्व प्रशमय सदयं वेदना-दैन्य-भारं
बुद्धिर्विद्या समृद्धिर्विलसतु सबलं सादरं ते प्रसादैः ॥ ५॥
इति ``स्वस्ति-हस्ते ! नमस्ते'' नाम देवीस्तोत्रं सम्पूर्णम् ।
-- रचयिता : डाॅ हरेकृष्ण-मेहेरः
Copyright Dr.Harekrishna Meher