ताराकर्पूरस्तोत्रम्

ताराकर्पूरस्तोत्रम्

ॐ नमस्तारिण्यै । श्रीकण्ठामृतकेशवर्णघटितं चन्द्रार्धचूडोज्ज्वलं बीजं यत्परमं गुणत्रयमयं कामप्रदं मुक्तिदम् । मातः ! शङ्करवल्लभे ! प्रतिदिनं ध्यायन्ति ये ये सदा ते ते यान्ति चिदात्मकं हरिहरब्रह्मादिसाम्यं मुदा ॥ १॥ व्योमार्णं वामनेत्रान्वितमनलयुतं बिन्दुचन्द्रार्धयुक्तं बीजं ते गुह्यमेतत्त्रिभुवनजननि ! त्रिक्षणे ये जपन्ति । var त्र्यक्षरं ये जपन्ति तेषां वक्त्रारविन्दे विहरति मधुरा गद्यपद्यावली गी- र्मातश्चन्द्रार्धचूडे ! सकलभयहरे ! सिद्धिभाजां नराणाम् ॥ २॥ शुक्रार्णं पूतनास्थं कलितशशिकलाबिन्दुभूषं सवह्नि भ्राजद्वामाक्षियुक्तं जननि ! तव वधूबीजमेतज्जपन्ति । ते ते लोलेक्षणानां विगलितरसनापीनवक्षोजवासः केशानां चित्तमाशु स्मरहरमहिले ! मोहयन्ति प्रकामम् ॥ ३॥ ईशानं वामकर्णोल्लसितशशिकलाबिन्दुयुक्तं सुगुह्यं ᳚बीजं मातस्त्वदीयं᳚ यदि जपति जनो वारमेकं जडात्मा । var बीजं कूर्चाख्यमन्यद् चञ्चत्पञ्चाशदुग्रग्रथितनरशिरोमालिकाक्रान्तकण्ठे ! मातः शैलेन्द्रपुत्रि ! त्रिभुवनमपि स क्षोभयत्येव शीघ्रम् ॥ ४॥ पश्चादस्त्रं तदन्यत्पुरहरमहिले! बीजमत्यन्तगुह्यं भालोद्यत्पञ्चमुद्रे प्रकटविकटदंष्ट्रोग्रवक्रारविन्दे । नित्यं ये भावयन्ति प्रतिदिनममले! घोररूपाट्टहासे! ते नूनं भावयन्ति त्रिजगदघहरे ! चक्रवद्विश्वमेतत् ॥ ५॥ मायास्त्रीकूर्चबीजैर्नवतपनहरित्सार्धचन्द्रांशुवर्णे मातर्नीलाख्यमेतत्तव मनुमनिशं ये प्रकामं जपन्ति । वित्ते वित्तेशतुल्याः शुकगुरुसदृशास्तर्ककाव्यागमादौ ते ते नीलाम्बुदालीरुचिरुचिरतनो! कामतुल्या भवन्ति ॥ ६॥ भवान्येभिर्बिजैर्हिमगिरिसुते ! चास्त्रसहितै- र्निगूढं ये मातर्मनुमनुजपन्त्येकजटिले!। त्रियामानाथार्धप्रविलसितभाले ! त्रिनयने! गृहे तेषां नित्यं निवसति सदा सिन्धुतनया ॥ ७॥ अमीभिर्बीजैस्ते प्रणवसहितैः शैलतनये ! निजस्वान्ते चास्त्रं परिजपति पञ्चाक्षरमिति । 5 akSharas ॐ ह्रीं स्त्रीं हूं फट् स साक्षात्ते न्यासी स तु पुरहरोऽसौ मुरहरः स धाता यं मुक्तो भवति हि चिदानन्दरसिके ! ॥ ८॥ शवासीनां कण्ठाकलितनृकरोटीं करलसत् कपालासिश्यामोत्पलरुचिरकर्त्रीं त्रिनयनाम् । नवाम्भोदश्यामान्विकटरदभीमान्पृथुकुचां सदैव त्वां ध्यायन् जननि! च जडो वाक्पतिसमः ॥ ९॥ तटे नद्याः सिन्धोर्गिरिशिरसि मालूरगहने श्मशाने गोष्ठे वा गिरिशभवने शून्यसदने । हविष्याशी लक्षं प्रजपति वशी भावनपरः स सर्वज्ञो वाग्मी भवति सुघनापीनजघने! ॥ १०॥ मुदा मातः शुद्धोदकरुचिरगन्धाढ्यसलिलैः स्वयम्भूपुष्पस्रक्कुलतनुभगच्छालन जलैः । var क्षालनं शिवे ! त्वां सन्ध्यायन् हरमहिषि ! सन्तर्पयति यः स दैवस्त्रीवृन्दं वशयति स विद्याधरपतिः ॥ ११॥ जपापुष्पैर्बिल्वैर्मरुबकुलवर्गैश्च कुसुमैः सुगन्धैः कर्पूरैरगरुसहितैर्धूपनिकरैः । प्रदीपैरुज्ज्वालैर्घृतरचितनैवेद्यनिकरै- स्तवार्चां यः कुर्यात्स भवति कवीन्द्रः क्षितितले ॥ १२॥ सदूर्वाभिः पद्मैस्त्रिमधुललितैः श्रीफलदलै- र्घृतैर्गव्यै रक्तैः सुकुलभगलिङ्गामृतरसैः । त्रिकोणे कुण्डे यो हुतवहमखे होमविधिना जुहोति त्वां मातः! स भवति कवीन्द्रः क्षितिपतिः ॥ १३॥ निशीथे कल्याणि ! प्रमुदितमना यः पितृवने बलिं ते मेषाद्यैः सनरमहिषैर्वा परिचरेत् । स राजानं क्षिप्रं वशयति मृगाक्षीसमुदयं त्रिलोकीं वा भूमौ स भवति जनः सत्कविवरः ॥ १४॥ महापूजां मातस्तव वितनुते यस्तु मधुना तथा मांसैर्मत्स्यैर्विविधनवमुद्रादिभिरपि । वरस्त्रीभिः सार्धं निधुवनविनोदेन मुदितो निशीथे संसारात्स भवति विमुक्तः पशुभयात् ॥ १५॥ त्रिकोणे पीठे त्वां वरनिधुवनासङ्गहृदयां महाकालेनोद्यत्पुलकनिचयां स्मेरवदनाम् । स्वयं नक्तं कान्तारतिरससमासक्तहृदयो मनुष्यो यो ध्यायेद्भवति शिवतुल्यः स धरणौ ॥ १६॥ समुत्तुङ्गापीनस्तनजघनराजत्कुलवधू- व्यवायव्यासक्तो जपति तव भक्तो यदि मनुम् । गलद्वासःकेशो जननि ! मनुजो मेदिनितले स सिद्धीशः शक्त्या जयति सुचिरं सर्वसुजनम् ॥ १७॥ भवानि ! श्रीर्मातर्निजगलितवीर्याप्तचिकुर- मथ प्रेम्णा लब्ध्वा वचनभुवनेशीयुतमनुम् । समुच्चार्य क्षोणीतनयदिवसे प्रेतसदने स दीर्घायुर्वाग्मी भवति शतहोमात्क्षितितले ॥ १८॥ अजस्रं यो मन्त्रं तव जपति भूमीधरसुते विचिन्त्याग्रे मातः ! कुसुमललितं मारभवनम् । धरण्यां कन्दर्पप्रतिमतनुभूतः स सकला- न्निजेष्टानाप्नोति प्रविशति मुदा तारिणिपदम् ॥ १९॥ तमोग्रस्ते चन्द्रे यदि जपति लोकस्तव मनुं नवम्यां वा मातर्धरणिधरकन्ये ! वितनुते । तथा सूर्ये पृथ्वीवलयतिलकः काव्यतटिनी पयोधिः सिद्धीनां भवति भवनं सर्वविदितः ॥ २०॥ सदा पादाम्भोजे भजतु हृदयं भृङ्ग इव मे सदा पाणिद्वन्द्वं परिचरतु कर्णस्तव कथाम् । श‍ृणोतु त्वकीर्तिं हरमहिषि ! गीर्गायतु सदा सदा दृष्टिर्भूयाद्भवदनुचरालोकनपरा ॥ २१॥ कदाकाले शैलेश्वरतनुभवे ! पादयुगलं मुदा द्रक्ष्ये ब्रह्मप्रमुखविबुधानां परिणुतम् । कृपापारावारे ! भवजननभीतैकशरणे! शरण्ये ! कारुण्यं मयि वितर दीने भगवति ! ॥ २२॥ सदैव स्तोत्रं यः पठति मुदितः साधकवरो न दारिद्र्यं तस्य प्रभवति कदाचित्क्षितितले । त्रिवर्गो हस्ते स्याज्जगदखिलमेतच्च वशगं चिरं जीवन्नन्ते जननि ! लभते मोक्षपदवीम् ॥ २३॥ इदं स्तोत्रं मातः प्रपठति दिवारात्रिमनिशं स सर्वज्ञो योगीश्वरनिकरचूडामणिसमे ! । जडोऽपि त्वद्रूपं जपति यदि सञ्चित्य मनसा त्वदग्रे भूयोच्चैः क्षितिपतिसमानः क्षितितले ॥ २४॥ महापुण्यं धन्यं सकलपुरुषार्थैकनिलयं यशस्यं चायुष्यं सततभवतापापहमिदम् । रहस्यं प्राकाश्यन्न हि खलु कदाचित्पशुजने पठेत्पूजाकाले जननि ! लभते मोक्षपदवीम् ॥ २५॥ ॥ इति श्रीफेत्कारीतन्त्रे ताराकर्पूरस्तोत्रम् ॥ Encoded and posted by Yash Khasbage
% Text title            : tArAkarpUrastotram
% File name             : tArAkarpUrastotram.itx
% itxtitle              : tArAkarpUrastotram
% engtitle              : Tara Karpura Stotram
% Category              : devii, devI, dashamahAvidyA, AratI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Yash Khasbage
% Proofread by          : Yash Khasbage, NA
% Indexextra            : (Scan)
% Latest update         : June 19, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org