ताराकर्पूरस्तोत्रम्
ॐ नमस्तारिण्यै ।
श्रीकण्ठामृतकेशवर्णघटितं चन्द्रार्धचूडोज्ज्वलं
बीजं यत्परमं गुणत्रयमयं कामप्रदं मुक्तिदम् ।
मातः ! शङ्करवल्लभे ! प्रतिदिनं ध्यायन्ति ये ये सदा
ते ते यान्ति चिदात्मकं हरिहरब्रह्मादिसाम्यं मुदा ॥ १॥
व्योमार्णं वामनेत्रान्वितमनलयुतं बिन्दुचन्द्रार्धयुक्तं
बीजं ते गुह्यमेतत्त्रिभुवनजननि ! त्रिक्षणे ये जपन्ति । var त्र्यक्षरं ये जपन्ति
तेषां वक्त्रारविन्दे विहरति मधुरा गद्यपद्यावली गी-
र्मातश्चन्द्रार्धचूडे ! सकलभयहरे ! सिद्धिभाजां नराणाम् ॥ २॥
शुक्रार्णं पूतनास्थं कलितशशिकलाबिन्दुभूषं सवह्नि
भ्राजद्वामाक्षियुक्तं जननि ! तव वधूबीजमेतज्जपन्ति ।
ते ते लोलेक्षणानां विगलितरसनापीनवक्षोजवासः
केशानां चित्तमाशु स्मरहरमहिले ! मोहयन्ति प्रकामम् ॥ ३॥
ईशानं वामकर्णोल्लसितशशिकलाबिन्दुयुक्तं सुगुह्यं
᳚बीजं मातस्त्वदीयं᳚ यदि जपति जनो वारमेकं जडात्मा । var बीजं कूर्चाख्यमन्यद्
चञ्चत्पञ्चाशदुग्रग्रथितनरशिरोमालिकाक्रान्तकण्ठे !
मातः शैलेन्द्रपुत्रि ! त्रिभुवनमपि स क्षोभयत्येव शीघ्रम् ॥ ४॥
पश्चादस्त्रं तदन्यत्पुरहरमहिले! बीजमत्यन्तगुह्यं
भालोद्यत्पञ्चमुद्रे प्रकटविकटदंष्ट्रोग्रवक्रारविन्दे ।
नित्यं ये भावयन्ति प्रतिदिनममले! घोररूपाट्टहासे!
ते नूनं भावयन्ति त्रिजगदघहरे ! चक्रवद्विश्वमेतत् ॥ ५॥
मायास्त्रीकूर्चबीजैर्नवतपनहरित्सार्धचन्द्रांशुवर्णे
मातर्नीलाख्यमेतत्तव मनुमनिशं ये प्रकामं जपन्ति ।
वित्ते वित्तेशतुल्याः शुकगुरुसदृशास्तर्ककाव्यागमादौ
ते ते नीलाम्बुदालीरुचिरुचिरतनो! कामतुल्या भवन्ति ॥ ६॥
भवान्येभिर्बिजैर्हिमगिरिसुते ! चास्त्रसहितै-
र्निगूढं ये मातर्मनुमनुजपन्त्येकजटिले!।
त्रियामानाथार्धप्रविलसितभाले ! त्रिनयने!
गृहे तेषां नित्यं निवसति सदा सिन्धुतनया ॥ ७॥
अमीभिर्बीजैस्ते प्रणवसहितैः शैलतनये !
निजस्वान्ते चास्त्रं परिजपति पञ्चाक्षरमिति । 5 akSharas ॐ ह्रीं स्त्रीं हूं फट्
स साक्षात्ते न्यासी स तु पुरहरोऽसौ मुरहरः
स धाता यं मुक्तो भवति हि चिदानन्दरसिके ! ॥ ८॥
शवासीनां कण्ठाकलितनृकरोटीं करलसत्
कपालासिश्यामोत्पलरुचिरकर्त्रीं त्रिनयनाम् ।
नवाम्भोदश्यामान्विकटरदभीमान्पृथुकुचां
सदैव त्वां ध्यायन् जननि! च जडो वाक्पतिसमः ॥ ९॥
तटे नद्याः सिन्धोर्गिरिशिरसि मालूरगहने
श्मशाने गोष्ठे वा गिरिशभवने शून्यसदने ।
हविष्याशी लक्षं प्रजपति वशी भावनपरः
स सर्वज्ञो वाग्मी भवति सुघनापीनजघने! ॥ १०॥
मुदा मातः शुद्धोदकरुचिरगन्धाढ्यसलिलैः
स्वयम्भूपुष्पस्रक्कुलतनुभगच्छालन जलैः । var क्षालनं
शिवे ! त्वां सन्ध्यायन् हरमहिषि ! सन्तर्पयति यः
स दैवस्त्रीवृन्दं वशयति स विद्याधरपतिः ॥ ११॥
जपापुष्पैर्बिल्वैर्मरुबकुलवर्गैश्च कुसुमैः
सुगन्धैः कर्पूरैरगरुसहितैर्धूपनिकरैः ।
प्रदीपैरुज्ज्वालैर्घृतरचितनैवेद्यनिकरै-
स्तवार्चां यः कुर्यात्स भवति कवीन्द्रः क्षितितले ॥ १२॥
सदूर्वाभिः पद्मैस्त्रिमधुललितैः श्रीफलदलै-
र्घृतैर्गव्यै रक्तैः सुकुलभगलिङ्गामृतरसैः ।
त्रिकोणे कुण्डे यो हुतवहमखे होमविधिना
जुहोति त्वां मातः! स भवति कवीन्द्रः क्षितिपतिः ॥ १३॥
निशीथे कल्याणि ! प्रमुदितमना यः पितृवने
बलिं ते मेषाद्यैः सनरमहिषैर्वा परिचरेत् ।
स राजानं क्षिप्रं वशयति मृगाक्षीसमुदयं
त्रिलोकीं वा भूमौ स भवति जनः सत्कविवरः ॥ १४॥
महापूजां मातस्तव वितनुते यस्तु मधुना
तथा मांसैर्मत्स्यैर्विविधनवमुद्रादिभिरपि ।
वरस्त्रीभिः सार्धं निधुवनविनोदेन मुदितो
निशीथे संसारात्स भवति विमुक्तः पशुभयात् ॥ १५॥
त्रिकोणे पीठे त्वां वरनिधुवनासङ्गहृदयां
महाकालेनोद्यत्पुलकनिचयां स्मेरवदनाम् ।
स्वयं नक्तं कान्तारतिरससमासक्तहृदयो
मनुष्यो यो ध्यायेद्भवति शिवतुल्यः स धरणौ ॥ १६॥
समुत्तुङ्गापीनस्तनजघनराजत्कुलवधू-
व्यवायव्यासक्तो जपति तव भक्तो यदि मनुम् ।
गलद्वासःकेशो जननि ! मनुजो मेदिनितले
स सिद्धीशः शक्त्या जयति सुचिरं सर्वसुजनम् ॥ १७॥
भवानि ! श्रीर्मातर्निजगलितवीर्याप्तचिकुर-
मथ प्रेम्णा लब्ध्वा वचनभुवनेशीयुतमनुम् ।
समुच्चार्य क्षोणीतनयदिवसे प्रेतसदने
स दीर्घायुर्वाग्मी भवति शतहोमात्क्षितितले ॥ १८॥
अजस्रं यो मन्त्रं तव जपति भूमीधरसुते
विचिन्त्याग्रे मातः ! कुसुमललितं मारभवनम् ।
धरण्यां कन्दर्पप्रतिमतनुभूतः स सकला-
न्निजेष्टानाप्नोति प्रविशति मुदा तारिणिपदम् ॥ १९॥
तमोग्रस्ते चन्द्रे यदि जपति लोकस्तव मनुं
नवम्यां वा मातर्धरणिधरकन्ये ! वितनुते ।
तथा सूर्ये पृथ्वीवलयतिलकः काव्यतटिनी
पयोधिः सिद्धीनां भवति भवनं सर्वविदितः ॥ २०॥
सदा पादाम्भोजे भजतु हृदयं भृङ्ग इव मे
सदा पाणिद्वन्द्वं परिचरतु कर्णस्तव कथाम् ।
शृणोतु त्वकीर्तिं हरमहिषि ! गीर्गायतु सदा
सदा दृष्टिर्भूयाद्भवदनुचरालोकनपरा ॥ २१॥
कदाकाले शैलेश्वरतनुभवे ! पादयुगलं
मुदा द्रक्ष्ये ब्रह्मप्रमुखविबुधानां परिणुतम् ।
कृपापारावारे ! भवजननभीतैकशरणे!
शरण्ये ! कारुण्यं मयि वितर दीने भगवति ! ॥ २२॥
सदैव स्तोत्रं यः पठति मुदितः साधकवरो
न दारिद्र्यं तस्य प्रभवति कदाचित्क्षितितले ।
त्रिवर्गो हस्ते स्याज्जगदखिलमेतच्च वशगं
चिरं जीवन्नन्ते जननि ! लभते मोक्षपदवीम् ॥ २३॥
इदं स्तोत्रं मातः प्रपठति दिवारात्रिमनिशं
स सर्वज्ञो योगीश्वरनिकरचूडामणिसमे ! ।
जडोऽपि त्वद्रूपं जपति यदि सञ्चित्य मनसा
त्वदग्रे भूयोच्चैः क्षितिपतिसमानः क्षितितले ॥ २४॥
महापुण्यं धन्यं सकलपुरुषार्थैकनिलयं
यशस्यं चायुष्यं सततभवतापापहमिदम् ।
रहस्यं प्राकाश्यन्न हि खलु कदाचित्पशुजने
पठेत्पूजाकाले जननि ! लभते मोक्षपदवीम् ॥ २५॥
॥ इति श्रीफेत्कारीतन्त्रे ताराकर्पूरस्तोत्रम् ॥
Encoded and posted by Yash Khasbage