त्रिपुरसुन्दरीप्रातःस्मरणम्

त्रिपुरसुन्दरीप्रातःस्मरणम्

श्रीगणेशाय नमः । ॐ क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं श्रीं । कस्तूरिकाकृतमनोज्ञललामभास्व- दर्धेन्दुमुग्धनिटिलाञ्चलनीलकेशीम् । प्रालम्बमाननवमौक्तिकहारभूषां प्रातः स्मरामि ललितां कमलायताक्षीम् ॥ १॥ एणाङ्कचूडसमुपार्जितपुण्यराशि- मुत्तप्तहेमतनुकान्तिझरीपरीताम् । एकाग्रचित्तमुनिमानसराजहंसीं प्रातः स्मरामि ललितापरमेश्वरीं ताम् ॥ २॥ ईषद्विकासिनयनान्तनिरीक्षणेन साम्राज्यदानचतुरां चतुराननेड्याम् । ईशाङ्कवासरसिकां रससिद्धिदात्रीं प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ ३॥ लक्ष्मीशपद्मभवनादिपदैश्चतुर्भिः संशोभिते च फलकेन सदाशिवेन । मञ्चे वितानसहिते ससुखं निषण्णां प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ ४॥ ह्रीं‍कारमन्त्रजपतर्पणहोमतुष्टां ह्रीं‍कारमन्त्रजलजातसुराजहंसीम् । ह्रीं‍कारहेमनवपञ्जरसारिकां तां प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ ५॥ हल्लीसलास्यमृदुगीतिरसं पिबन्ती- माकूणिताक्षमनवद्यगुणाम्बुराशिम् । सुप्तोत्थितां श्रुतिमनोहरकीरवाग्भिः प्रातः स्मरामि मनसा ललिताधिनाथाम्॥ ६॥ सच्चिन्मयीं सकललोकहितैषिणी च सम्पत्करीहयमुखीमुखदेवतेड्याम् । सर्वानवद्यसुकुमारशरीररम्यां प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ ७॥ कन्याभिरर्धशशिमुग्धकिरीटभास्व- च्चूडाभिरङ्कगतहृद्यविपञ्चिकाभिः । संस्तूयमानचरितां सरसीरुहाक्षीं प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ ८॥ हत्वाऽसुरेन्द्रमतिमात्रबलावलिप्त- भण्डासुरं समरचण्डमघोरसैन्यम् । संरक्षितार्तजनतां तपनेन्दुनेत्रां प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ ९॥ लज्जावनम्ररमणीयमुखेन्दुबिम्बां लाक्षारुणाङ्घ्रिसरसीरुहशोभमानाम् । रोलम्बजालसमनीलसुकुन्तलाड्यां प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ १०॥ ह्रीं‍कारिणी हिममहीधरपुण्यराशिं ह्रीं‍कारमन्त्रमहनीयमनोज्ञरूपाम् । ह्रीं‍कारगर्भमनुसाधकसिद्धिदात्रीं प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ ११॥ सञ्जातजन्ममरणादिभयेन देवीं सम्फुल्लपद्मविलयां शरदिन्दुशुभ्राम् । अर्धेन्दुचूडवनितामणिमादिवन्द्यां प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ १२॥ कल्याणशैलशिखरेषु विहारशीलां कामेश्वराङ्कनिलयां कमनीयरूपाम् । काद्यर्णमन्त्रमहनीयमहानुभावां प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ १३॥ लम्बोदरस्य जननीं तनुरोमराजीं बिम्बाधरां च शरदिन्दुमुखीं मृडानीम् । लावण्यपूर्णजलधिं जलजातहस्तां प्रातः स्मरामि मनसा ललीताधिनाथाम् ॥ १४॥ ह्रीं‍कारपूर्णनिगमैः प्रतिपाद्यमानां ह्रीं‍कारपद्मनिलयां हतदानवेन्द्राम् । ह्रीं‍कारगर्भमनुराजनिषेव्यमाणां प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ १५॥ श्रीचक्रराजनिलयां श्रितकामधेनुं श्रीकामराजजननीं शिवभागधेयाम् । श्रीमद्गुहस्य कुल्यमङ्गलदेवतां तां प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ १६॥ इति श्रीत्रिपुरसुन्दरीप्रातःस्मरणं समाप्तम् ॥ Proofread by Pallasena Narayanaswami ppnswami at gmail.com
% Text title            : tripurasundarIprAtaHsmaraNam
% File name             : tripurasundarIprAtaHsmaraNam.itx
% itxtitle              : tripurasundarIprAtaHsmaraNam
% engtitle              : tripurasundarIprAtaHsmaraNam
% Category              : suprabhAta, devii, dashamahAvidyA, devI, panchadashI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Pallasena Narayanaswami ppnswami at gmail.com
% Latest update         : December 27, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org