श्रीललितात्रिशतिनामावलिः

श्रीललितात्रिशतिनामावलिः

॥ न्यासम् ॥

अस्य श्रीललितात्रिशती स्तोत्रनामावलिः महामन्त्रस्य भगवान् हयग्रीव ऋषिः, अनुष्टुप्छन्दः, श्रीललितामहात्रिपुरसुन्दरी देवता, ऐं बीजम्, सौः शक्तिः, क्लीं कीलकम्, मम चतुर्विधफलपुरुषार्थ जपे (वा) परायणे विनियोगः ॥ ऐं अङ्गुष्ठाभ्यां नमः । क्लीं तर्जनीभ्यां नमः । सौः मध्यमाभ्यां नमः । ऐं अनामिकाभ्यां नमः । क्लीं कनिष्ठिकाभ्यां नमः । सौः करतलकरपृष्ठाभ्यां नमः ॥ ऐं हृदयाय नमः । क्लीं शिरसे स्वाहा । सौः शिखायै वषट् । ऐं कवचाय हुं । क्लीं नेत्रत्रयाय वौषट् । सौः अस्त्राय फट् । भूर्भुवस्सुवरोमिति दिग्बन्धः ॥

॥ ध्यानम्॥

अतिमधुरचापहस्ताम्परिमितामोदसौभाग्याम् । अरुणामतिशयकरुणामभिनवकुलसुन्दरीं वन्दे ॥

॥ लं इत्यादि पञ्चपूजा ॥

लं पृथिव्यात्मिकायै श्रीललिताम्बिकायै गन्धं समर्पयामि । हं आकाशात्मिकायै श्रीललिताम्बिकायै पुष्पैः पूजयामि । यं वाय्वात्मिकायै श्रीललिताम्बिकायै कुङ्कुमं आवाहयामि । रं वह्यात्मिकायै श्रीललिताम्बिकायै दीपं दर्शयामि । वं अमृतात्मिकायै श्रीललिताम्बिकायै अमृतं महानैवेद्यं निवेदयामि । सं सर्वात्मिकायै श्रीललिताम्बिकायै सर्वोपचारपूजां समर्पयामि ॥

॥ अथ श्रीललितात्रिशती नामावलिः ॥

ॐ ऐं ह्रीं श्रीं ॐ ककाररूपायै नमः । ॐ कल्याण्यै नमः । ॐ कल्याणगुणशालिन्यै नमः । ॐ कल्याणशैलनिलयायै नमः । ॐ कमनीयायै नमः । ॐ कलावत्यै नमः । ॐ कमलाक्ष्यै नमः । ॐ कल्मषघ्न्यै नमः । ॐ करुणामृतसागरायै नमः । ॐ कदम्बकाननावासायै नमः । ॐ कदम्बकुसुमप्रियायै नमः । ॐ कन्दर्पविद्यायै नमः । ॐ कन्दर्पजनकापाङ्गवीक्षणायै नमः । ॐ कर्पूरवीटीसौरभ्यकल्लोलितककुप्तटायै नमः । ॐ कलिदोषहरायै नमः । ॐ कञ्जलोचनायै नमः । ॐ कम्रविग्रहायै नमः । ॐ कर्मादिसाक्षिण्यै नमः । ॐ कारयित्र्यै नमः । ॐ कर्मफलप्रदायै नमः । २० ॐ एकाररूपायै नमः । ॐ एकाक्षर्यै नमः । ॐ एकानेकाक्षराकृत्यै नमः । ॐ एतत्तदित्यनिर्देश्यायै नमः । ॐ एकानन्दचिदाकृत्यै नमः । ॐ एवमित्यागमाबोध्यायै नमः । ॐ एकभक्तिमदर्चितायै नमः । ॐ एकाग्रचितनिर्ध्यातायै नमः । ॐ एषणारहितादृतायै नमः । ॐ एलासुगन्धिचिकुरायै नमः । ॐ एनकूटविनाशिन्यै नमः । ॐ एकभोगायै नमः । ॐ एकरसायै नमः । ॐ एकैश्वर्यप्रदायिन्यै नमः । ॐ एकातपत्रसाम्राज्यप्रदायै नमः । ॐ एकान्तपूजितायै नमः । ॐ एधमानप्रभायै नमः । ॐ एजदनेकजगदीश्वर्यै नमः । ॐ एकवीरादिसंसेव्यायै नमः । ॐ एकप्राभवशालिन्यै नमः । ४० ॐ ईकाररूपायै नमः । ॐ ईशित्र्यै नमः । ॐ ईप्सितार्थप्रदायिन्यै नमः । ॐ ईदृगित्याविनिर्देश्यायै नमः । ॐ ईश्वरत्वविधायिन्यै नमः । ॐ ईशानादिब्रह्ममय्यै नमः । ॐ ईशित्वाद्यष्टसिद्धिदायै नमः । ॐ ईक्षित्र्यै नमः । ॐ ईक्षणसृष्टाण्डकोट्यै नमः । ॐ ईश्वरवल्लभायै नमः । ॐ ईडितायै नमः । ॐ ईश्वरार्धाङ्गशरीरायै नमः । ॐ ईशाधिदेवतायै नमः । ॐ ईश्वरप्रेरणकर्यै नमः । ॐ ईशताण्डवसाक्षिण्यै नमः । ॐ ईश्वरोत्सङ्गनिलयायै नमः । ॐ ईतिबाधाविनाशिन्यै नमः । ॐ ईहाविरहितायै नमः । ॐ ईशशक्त्यै नमः । ॐ ईषत्स्मिताननायै नमः । ६० ॐ लकाररूपायै नमः । ॐ ललितायै नमः । ॐ लक्ष्मीवाणीनिषेवितायै नमः । ॐ लाकिन्यै नमः । ॐ ललनारूपायै नमः । ॐ लसद्दाडिमपाटलायै नमः । ॐ ललन्तिकालसत्फालायै नमः । ॐ ललाटनयनार्चितायै नमः । ॐ लक्षणोज्ज्वलदिव्याङ्ग्यै नमः । ॐ लक्षकोट्यण्डनायिकायै नमः । ॐ लक्ष्यार्थायै नमः । ॐ लक्षणागम्यायै नमः । ॐ लब्धकामायै नमः । ॐ लतातनवे नमः । ॐ ललामराजदलिकायै नमः । ॐ लम्बिमुक्तालताञ्चितायै नमः । ॐ लम्बोदरप्रसवे नमः । ॐ लभ्यायै नमः । ॐ लज्जाढ्यायै नमः । ॐ लयवर्जितायै नमः । ८० ॐ ह्रींकाररूपायै नमः । ॐ ह्रींकारनिलयायै नमः । ॐ ह्रींपदप्रियायै नमः । ॐ ह्रींकारबीजायै नमः । ॐ ह्रींकारमन्त्रायै नमः । ॐ ह्रींकारलक्षणायै नमः । ॐ ह्रींकारजपसुप्रीतायै नमः । ॐ ह्रींमत्यै नमः । ॐ ह्रींविभूषणायै नमः । ॐ ह्रींशीलायै नमः । ॐ ह्रींपदाराध्यायै नमः । ॐ ह्रींगर्भायै नमः । ॐ ह्रींपदाभिधायै नमः । ॐ ह्रींकारवाच्यायै नमः । ॐ ह्रींकारपूज्यायै नमः । ॐ ह्रींकारपीठिकायै नमः । ॐ ह्रींकारवेद्यायै नमः । ॐ ह्रींकारचिन्त्यायै नमः । ॐ ह्रीं नमः । ॐ ह्रींशरीरिण्यै नमः । १०० ॐ हकाररूपायै नमः । ॐ हलधृत्पूजितायै नमः । ॐ हरिणेक्षणायै नमः । ॐ हरप्रियायै नमः । ॐ हराराध्यायै नमः । ॐ हरिब्रह्मेन्द्रवन्दितायै नमः । ॐ हयारूढासेवितांघ्र्यै नमः । ॐ हयमेधसमर्चितायै नमः । ॐ हर्यक्षवाहनायै नमः । ॐ हंसवाहनायै नमः । ॐ हतदानवायै नमः । ॐ हत्त्यादिपापशमन्यै नमः । ॐ हरिदश्वादिसेवितायै नमः । ॐ हस्तिकुम्भोत्तुङ्गकुचायै नमः । ॐ हस्तिकृत्तिप्रियाङ्गनायै नमः । ॐ हरिद्राकुङ्कुमादिग्धायै नमः । ॐ हर्यश्वाद्यमरार्चितायै नमः । ॐ हरिकेशसख्यै नमः । ॐ हादिविद्यायै नमः । ॐ हालामदालसायै नमः । १२० ॐ सकाररूपायै नमः । ॐ सर्वज्ञायै नमः । ॐ सर्वेश्यै नमः । ॐ सर्वमङ्गलायै नमः । ॐ सर्वकर्त्र्यै नमः । ॐ सर्वभर्त्र्यै नमः । ॐ सर्वहन्त्र्यै नमः । ॐ सनातन्यै नमः । ॐ सर्वानवद्यायै नमः । ॐ सर्वाङ्गसुन्दर्यै नमः । ॐ सर्वसाक्षिण्यै नमः । ॐ सर्वात्मिकायै नमः । ॐ सर्वसौख्यदात्र्यै नमः । ॐ सर्वविमोहिन्यै नमः । ॐ सर्वाधारायै नमः । ॐ सर्वगतायै नमः । ॐ सर्वावगुणवर्जितायै नमः । ॐ सर्वारुणायै नमः । ॐ सर्वमात्रे नमः । ॐ सर्वभूषणभूषितायै नमः । १४० ॐ ककारार्थायै नमः । ॐ कालहन्त्र्यै नमः । ॐ कामेश्यै नमः । ॐ कामितार्थदायै नमः । ॐ कामसञ्जीविन्यै नमः । ॐ कल्यायै नमः । ॐ कठिनस्तनमण्डलायै नमः । ॐ करभोरवे नमः । ॐ कलानाथमुख्यै नाम्ः ॐ कचजिताम्बुदायै नमः । ॐ कटाक्षस्यन्दिकरुणायै नमः । ॐ कपालिप्राणनायिकायै नमः । ॐ कारुण्यविग्रहायै नमः । ॐ कान्तायै नमः । ॐ कान्तिधूतजपावल्यै नमः । ॐ कलालापायै नमः । ॐ कम्बुकण्ठ्यै नमः । ॐ करनिर्जितपल्लवायै नमः । ॐ कल्पवल्लीसमभुजायै नमः । ॐ कस्तूरीतिलकाञ्चितायै नमः । १६० ॐ हकारार्थायै नमः । ॐ हंसगत्यै नमः । ॐ हाटकाभरणोज्ज्वलायै नमः । ॐ हारहारिकुचाभोगायै नमः । ॐ हाकिन्यै नमः । ॐ हल्यवर्जितायै नमः । ॐ हरित्पतिसमाराध्यायै नमः । ॐ हठात्कारहतासुरायै नमः । ॐ हर्षप्रदायै नमः । ॐ हविर्भोक्त्र्यै नमः । ॐ हार्दसन्तमसापहायै नमः । ॐ हल्लीसलास्यसन्तुष्टायै नमः । ॐ हंसमन्त्रार्थरूपिण्यै नमः । ॐ हानोपादाननिर्मुक्तायै नमः । ॐ हर्षिण्यै नमः । ॐ हरिसोदर्यै नमः । ॐ हाहाहूहूमुखस्तुत्यायै नमः । ॐ हानिवृद्धिविवर्जितायै नमः । ॐ हय्यङ्गवीनहृदयायै नमः । ॐ हरिकोपारुणांशुकायै नमः । १८० ॐ लकाराख्यायै नमः । ॐ लतापूज्यायै नमः । ॐ लयस्थित्युद्भवेश्वर्यै नमः । ॐ लास्यदर्शनसन्तुष्टायै नमः । ॐ लाभालाभविवर्जितायै नमः । ॐ लंघ्येतराज्ञायै नमः । ॐ लावण्यशालिन्यै नमः । ॐ लघुसिद्धदायै नमः । ॐ लाक्षारससवर्णाभायै नमः । ॐ लक्ष्मणाग्रजपूजितायै नमः । ॐ लभ्येतरायै नमः । ॐ लब्धभक्तिसुलभायै नमः । ॐ लांगलायुधायै नमः । ॐ लग्नचामरहस्त श्रीशारदा परिवीजितायै नमः । ॐ लज्जापदसमाराध्यायै नमः । ॐ लम्पटायै नमः । ॐ लकुलेश्वर्यै नमः । ॐ लब्धमानायै नमः । ॐ लब्धरसायै नमः । ॐ लब्धसम्पत्समुन्नत्यै नमः । २०० ॐ ह्रींकारिण्यै नमः । ॐ ह्रींकाराद्यायै नमः । ॐ ह्रींमध्यायै नमः । ॐ ह्रींशिखामणये नमः । ॐ ह्रींकारकुण्डाग्निशिखायै नमः । ॐ ह्रींकारशशिचन्द्रिकायै नमः । ॐ ह्रींकारभास्कररुच्यै नमः । ॐ ह्रींकाराम्भोदचञ्चलायै नमः । ॐ ह्रींकारकन्दाङ्कुरिकायै नमः । ॐ ह्रींकारैकपरायणायै नमः । ॐ ह्रींकारदीर्घिकाहंस्यै नमः । ॐ ह्रींकारोद्यानकेकिन्यै नमः । ॐ ह्रींकारारण्यहरिण्यै नमः । ॐ ह्रींकारावालवल्लर्यै नमः । ॐ ह्रींकारपञ्जरशुक्यै नमः । ॐ ह्रींकाराङ्गणदीपिकायै नमः । ॐ ह्रींकारकन्दरासिंह्यै नमः । ॐ ह्रींकाराम्भोजभृङ्गिकायै नमः । ॐ ह्रींकारसुमनोमाध्व्यै नमः । ॐ ह्रींकारतरुमञ्जर्यै नमः । २२० ॐ सकाराख्यायै नमः । ॐ समरसायै नमः । ॐ सकलागमसंस्तुतायै नमः । ॐ सर्ववेदान्त तात्पर्यभूम्यै नमः । ॐ सदसदाश्रयायै नमः । ॐ सकलायै नमः । ॐ सच्चिदानन्दायै नमः । ॐ साध्यायै नमः । ॐ सद्गतिदायिन्यै नमः । ॐ सनकादिमुनिध्येयायै नमः । ॐ सदाशिवकुटुम्बिन्यै नमः । ॐ सकलाधिष्ठानरूपायै नमः । ॐ सत्यरूपायै नमः । ॐ समाकृत्यै नमः । ॐ सर्वप्रपञ्चनिर्मात्र्यै नमः । ॐ समानाधिकवर्जितायै नमः । ॐ सर्वोत्तुङ्गायै नमः । ॐ सङ्गहीनायै नमः । ॐ सगुणायै नमः । ॐ सकलेष्टदायै नमः । २४० ॐ ककारिण्यै नमः । ॐ काव्यलोलायै नमः । ॐ कामेश्वरमनोहरायै नमः । ॐ कामेश्वरप्राणनाड्यै नमः । ॐ कामेशोत्सङ्गवासिन्यै नमः । ॐ कामेश्वरालिङ्गिताङ्ग्यै नमः । ॐ कामेश्वरसुखप्रदायै नमः । ॐ कामेश्वरप्रणयिन्यै नमः । ॐ कामेश्वरविलासिन्यै नमः । ॐ कामेश्वरतपस्सिद्ध्यै नमः । ॐ कामेश्वरमनःप्रियायै नमः । ॐ कामेश्वरप्राणनाथायै नमः । ॐ कामेश्वरविमोहिन्यै नमः । ॐ कामेश्वरब्रह्मविद्यायै नमः । ॐ कामेश्वरगृहेश्वर्यै नमः । ॐ कामेश्वराह्लादकर्यै नमः । ॐ कामेश्वरमहेश्वर्यै नमः । ॐ कामेश्वर्यै नमः । ॐ कामकोटिनिलयायै नमः । ॐ काङ्क्षितार्थदायै नमः । २६० ॐ लकारिण्यै नमः । ॐ लब्धरूपायै नमः । ॐ लब्धधिये नमः । ॐ लब्धवाञ्छितायै नमः । ॐ लब्धपापमनोदूरायै नमः । ॐ लब्धाहङ्कारदुर्गमायै नमः । ॐ लब्धशक्त्यै नमः । ॐ लब्धदेहायै नमः । ॐ लब्धैश्वर्यसमुन्नत्यै नमः । ॐ लब्धबुद्धये नमः । ॐ लब्धलीलायै नमः । ॐ लब्धयौवनशालिन्यै नमः । ॐ लब्धातिशयसर्वाङ्गसौन्दर्यायै नमः । ॐ लब्धविभ्रमायै नमः । ॐ लब्धरागायै नमः । ॐ लब्धपत्यै नमः । ॐ लब्धनानागमस्थित्यै नमः । ॐ लब्धभोगायै नमः । ॐ लब्धसुखायै नमः । ॐ लब्धहर्षाभिपूरितायै नमः । २८० ॐ ह्रींकारमूर्तये नमः । ॐ ह्रींकारसौधश‍ृङ्गकपोतिकायै नमः । ॐ ह्रींकारदुग्धाब्धिसुधायै नमः । ॐ ह्रींकारकमलेन्दिरायै नमः । ॐ ह्रींकरमणिदीपार्चिषे नमः । ॐ ह्रींकारतरुशारिकायै नमः । ॐ ह्रींकारपेटकमणये नमः । ॐ ह्रींकारादर्शबिम्बितायै नमः । ॐ ह्रींकारकोशासिलतायै नमः । ॐ ह्रींकारास्थाननर्तक्यै नमः । ॐ ह्रींकारशुक्तिका मुक्तामणये नमः । ॐ ह्रींकारबोधितायै नमः । ॐ ह्रींकारमयसौवर्णस्तम्भविद्रुमपुत्रिकायै नमः । ॐ ह्रींकारवेदोपनिषदे नमः । ॐ ह्रींकाराध्वरदक्षिणायै नमः । ॐ ह्रींकारनन्दनारामनवकल्पक वल्लर्यै नमः । ॐ ह्रींकारहिमवद्गङ्गायै नमः । ॐ ह्रींकारार्णवकौस्तुभायै नमः । ॐ ह्रींकारमन्त्रसर्वस्वायै नमः । ॐ ह्रींकारपरसौख्यदायै नमः । ३०० इति श्रीललितात्रिशतिनामावलिः समाप्ता । ॐ तत् सत् । Encoded and proofread by Bala vengtec@vsnl.com
% Text title            : 300 names of Goddess Lalita
% File name             : trishatinaamaavali.itx
% itxtitle              : lalitAtrishatInAmAvalI
% engtitle              : lalitA trishati nAmAvalI
% Category              : shatInAmAvalI, devii, lalita, nAmAvalI, devI, trishatI
% Location              : doc_devii
% Sublocation           : devii
% Subcategory           : lalita
% Texttype              : nAmAvalI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Bala vengtech at vsnl.com
% Proofread by          : Bala vengtech at vsnl.com
% Indexextra            : (manuscript, text, meaning, shAnkarabhAShyam)
% Latest update         : May 28, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org