त्रिवेणीस्तोत्रम्
मुक्तामयालङ्कृतमुद्रवेणी भक्ताभयत्राणसुबद्धवेणी ।
मत्तालिगुञ्जन्मकरन्दवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥ १॥
लोकत्रयैश्वर्यनिदानवेणी तापत्रयोच्चाटनबद्धवेणी ।
धर्मा-ऽर्थकामाकलनैकवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥ २॥
मुक्ताङ्गनामोहन-सिद्धवेणी भक्तान्तरानन्द-सुबोधवेणी ।
वृत्त्यन्तरोद्वेगविवेकवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥ ३॥
दुग्धोदधिस्फूर्जसुभद्रवेणी नीलाभ्रशोभाललिता च वेणी ।
स्वर्णप्रभाभासुरमध्यवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥ ४॥
विश्वेश्वरोत्तुङ्गकपर्दिवेणी विरिञ्चिविष्णुप्रणतैकवेणी ।
त्रयीपुराणा सुरसार्धवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥ ५॥
माङ्गल्यसम्पत्तिसमृद्धवेणी मात्रान्तरन्यस्तनिदानवेणी ।
परम्परापातकहारिवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥ ६॥
निमज्जदुन्मज्जमनुष्यवेणी त्रयोदयोभाग्यविवेकवेणी ।
विमुक्तजन्माविभवैकवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥ ७॥
सौन्दर्यवेणी सुरसार्धवेणी माधुर्यवेणी महनीयवेणी ।
रत्नैकवेणी रमणीयवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥ ८॥
सारस्वताकार-विघातवेणी कालिन्दकन्यामयलक्ष्यवेणी ।
भागीरथीरूप-महेशवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥ ९॥
श्रीमद्भवानीभवनैकवेणी लक्ष्मीसरस्वत्यभिमानवेणी ।
माता त्रिवेणी त्रयीरत्नवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥ १०॥
त्रिवेणीदशकं स्तोत्रं प्रातर्नित्यं पठेन्नरः ।
तस्य वेणी प्रसन्ना स्याद् विष्णुलोकं स गच्छति ॥ ११॥
इति श्रीमच्छङ्कराचार्यविरचितं त्रिवेणीस्तोत्रं सम्पूर्णम् ।
Proofread by Aruna Narayanan narayanan.aruna at gmail.com