तुलसीपूजा २

तुलसीपूजा २

विघ्नेश्वरपूजा - (हरिद्राबिम्बे) शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ श्रीपरमेश्वरप्रीत्यर्थं आदौ विघ्नेश्वरपूजां करिष्ये । (हस्तौ प्रक्षाल्य) अस्मिन् हरिद्रा बिम्बे सुमुखं श्रीविघ्नेश्वरं ध्यायामि । आवाहयामि । आसनं समर्पयामि । पादयोः पाद्यं समर्पयामि । हस्तयोरर्घ्यं समर्पयामि । मुखे आचमनीयं समपर्ययामि । मधुपर्कं समर्पयामि । स्नपयामि । स्नानानन्तरं आचमनीयं समर्पयामि । वस्त्रोत्तरीयाभरणानि समर्पयामि । पुष्पैः पूजयामि । सुमुखाय नमः । एकदन्ताय नमः । कपिलाय नमः । गजकर्णकाय नमः । लम्बोदराय नमः । विकटाय नमः । विघ्नराजाय नमः । गणाधिपाय नमः । धूमकेतवे नमः । गणाध्यक्षाय नमः । भालचन्द्राय नमः । गजाननाय नमः । वक्रतुण्डाय नमः । शूर्पकर्णाय नमः । हेरम्बाय नमः । स्कन्दपूर्वजाय नमः । पुष्पाणि समर्पयामि । धूपं समर्पयामि । दीपं समर्पयामि । नैवेद्यं समर्पयामि । कर्पूरनीराजनं समर्पयामि । प्रदक्षिणनमस्कारान् समर्पयामि । वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ । अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ इति प्रार्थयेत् तुलसी पूजा सङ्कल्पः - शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ श्रीपरमेश्वर प्रीत्यर्थं श्री तुलसी देवी प्रीत्यर्थं दीर्घसौमङ्गल्यप्राप्त्यर्थं सर्वाभीष्टसिद्ध्यर्थं श्री तुलसीपूजां करिष्ये । अप उपस्पृश्य - सुमुखं विघ्नेश्वरं यथास्थानं प्रतिष्ठापयामि । शोभनार्थे क्षेमाय पुनरागमनाय च । (विघ्नेश्वरं प्रार्थ्य - उद्वास्य - कलशं पूजयेत्) गङ्गे च यमुने चैव गोदावरी सरस्वति । नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥ (इति प्रार्थ्य कलशजलेन पूजाद्रव्याणि आत्मानं च प्रोक्ष्य) तुलसीं ध्यायेत्- ध्यायामि तुलसीं देवीं श्यामां कमललोचनाम् । प्रसन्नां पद्मकल्हारवराभयचतुर्भुजाम् ॥ किरीटहारकेयूर् कुण्डलादयैर्विभूषिताम् । धवलांशुकसंवीतां पद्मासननिषेविताम् । देवीं त्रैलोक्य जननीं सर्वलोकैकपावनीम् ॥ अस्मिन् क्षुपे श्री तुलसीं ध्यायामि । सर्वदेवमये देवि सर्वदे विष्णुवल्लभै । आगच्छ मम गेहेऽस्मिन् नित्यं सन्निहिता भव । अस्मिन् क्षुपे श्री तुलसीं आवाहयामि । रत्नसिंहासनं चारु भुक्तिमुक्तिफलप्रदे । मया दत्तं महादेवि सङ्गृहाण सुरार्चिते ॥ श्री तुलस्यै नमः । आसनं समर्पयामि । नानागन्धसुपुष्पैश्च वासितं सुरवन्दिते । पाद्यं गृहाण देवि त्चं सर्वकामफलप्रदे ॥ श्री तुलस्यै नमः । पाद्यं समर्पयामि । गङ्गोदकं समानीतं सुवर्णकलशस्थितम् । तुलसि त्वं गृहाणेदं अर्घ्यमैश्वर्यदायकम् ॥ श्री तुलस्यै नमः । अर्घ्यं समर्पयामि । सर्वमङ्गलदेवेशि नवरत्नैर्विभूषिते । मया दत्तमिदं तोयं गृहाणाचमनीयकम् । श्री तुलस्यै नमः । आचमनीयं समर्पयामि । पूर्णेन्दुबिम्बसदृशं दधिखण्डघृतं मधु । मधुपर्कं मयाऽऽनीतं गृहाण परमेश्वरि ॥ श्री तुलस्यै नमः - मधुपर्कं समर्पयामि । गङ्गायमुनयोस्तोयं आनीतं निर्मलं शुभम् । गन्धोदकमिदं देवि स्नानार्थं प्रतिगृह्यताम् ॥ श्री तुलस्यै नमः । शुद्धोदकस्नानं समर्पयामि । क्षौमं काञ्चनसङ्काशं इदं शुभ्रं मनोहरम् । वस्त्रयुग्मं शुभे देवि स्वीकुरुष्वाम्बुजेक्षणे ॥ श्री तुलस्यै नमः - वस्रयुग्मं समर्पयामि । राजतं ब्रहसूत्रं च काञ्चनं चोत्तरीयकम् । गृहाण सर्ववरदे पद्मपत्रनिभेक्षणे । श्री तुलस्यै नमः - उपवीतं समर्पयामि । किरीटहारकटकान् केयूरान्कुण्डलान् शुभान् । नूपुरोदरबन्धं च भूषणानि समर्पये । श्री तुलस्यै नमः - आभरणानि समर्पयामि । चन्दनागरुकस्तूरीकर्पूरेण च संयुतम् । विलेपनं ददामि त्वं गृहाण तुलसीश्वरि ॥ श्री तुलस्यै नमः - गन्धं समर्पयामि । अक्षतान्धवलान्दिव्यान् शालीयान्तण्डुलान् शुभान् । सुधौतानर्पये देवि वृन्दास्थानोद्भवेश्वरि ॥ श्री तुलस्यै नमः - अक्षतान् समर्पयामि । मल्लिकाकुन्दमन्दारजातीवकुलचम्पकैः । शतपत्रैश्च कल्हारैः पूजयामि महेश्वरि ॥ श्री तुलस्यै नमः - पुष्पाणि समर्पयामि । अङ्गपूजा - तुलसीदेव्यै नमः -पादौ पूजयामि । वृन्दावनस्थायै नमः - गुल्फौ पूजयामि । पद्मपत्न निभेक्षणायै नमः - जङ्घे पूजयामि । पद्मकोटिसमप्रभायै नमः - ऊरू पूजयामि । हरिप्रियायै नमः - जानुनी पूजयामि । कुङ्कुमाङ्कितगात्रायै नमः - कटिं पूजयामि । सुरवन्दितायै नमः - नाभिं पूजयामि । लोकानुग्रहकारिण्यै नमः - उदरं पूजयामि । त्रैलोक्यजनन्यै नमः - हृदयं पूजयामि । पद्मप्रियायै नमः - हस्तान् पूजयामि । इन्दिराख्यायै नमः - भुजान् पूजयामि । कम्बुकण्ठ्यै नमः - कण्ठं पूजयामि । कल्मषघ्न्यै नमः - कर्णौ पूजयामि । वरप्रदायै नमः - मुखं पूजयामि । आश्रितरक्षिकायै नमः - शिरः पूजयामि । अभीष्टदायै नमः - सर्वाण्यङ्गानि पूजयामि । यथाशक्ति ८-१६-१०८-१००८ नामभिः कुङ्कुमेन पुष्पैर्वा अर्चयेत् । गुग्गुलं गोघृतं चैव दशाङ्गं सुमनोहरम् । धूपं गृहाण वरदे सर्वाभीष्टफलप्रदे ॥ श्री तुलस्यै नमः - धूपमाघ्रापयामि । साज्यं त्रिवर्तिसंयुक्तं वह्निना योजितं मया । दीपं गृहाण देवेशि त्रैलोक्यतिमिरापहम् ॥ श्री तुलस्यै नमः - दीपं दर्शयामि । नैवेद्यं षड् रसोपेतं फलसूपसमन्वितम् । सघृतं समधुक्षीरं गृहाण तुलसीश्वरि ॥ श्री तुलस्यै नमः - महानैवेद्यं निवेदयामि । पूगीफलसमायुक्तं नागवल्लीदलैर्युतम् । कर्पूरचुर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥ श्री तुलस्यै नमः - ताम्बूलं समर्पयामि । नीराजनं सुमङ्गल्यं दिव्यज्योतिः समन्वितम् । अज्ञानघ्ने गृहाण त्वं ज्ञानमार्गप्रदायिनि । श्री तुलस्यै नमः - कर्पूरनीराजनं दर्शायामि ॥ प्रकृष्टपापनाशाय प्रकृष्टफलसिद्धये । प्रदक्षिणं करोमि त्वां सर्वाभीष्टफलप्रदे । आयुरारोग्यमैश्वर्यं विद्यां ज्ञानं यशः सुखम् । देहि देहि ममाभीष्टं प्रदक्षिणकृतः शुभे । श्री तुलस्यै नमः - प्रदक्षिणं समर्पयामि । नमस्ते तुलसीदेवि सर्वाभीष्टफलप्रदे । नमस्ते त्रिजगद्वन्द्ये नमस्ते लोकरक्षिके ॥ श्री तुलस्यै नमः - नमस्कारान् समर्पयामि । वृन्दावनस्थिते देवि दिव्यभोगप्रदे शुभे । पुष्पाञ्जलिं प्रदास्यामि स्वीकुरुष्वाम्बुजेक्षणे । श्री तुलस्यै नमः - पुष्पाञ्जलिं समर्पयामि । क्षीरार्घ्यप्रदानम्- तुलस्यै तु नमस्तुभ्यां नमस्ते फलदायिनि । इदमर्घ्यं प्रदास्यामि सुप्रीता भव सर्वदा । श्री तुलस्यै नमः - इदमर्घ्यं इदमर्घ्यं इदमर्घ्यम् । लक्ष्मीपतिप्रिये देवि तुलसीदिव्यरूपिणि । इदमर्घ्यं प्रदस्यामि सुप्रीता वरदा भव ॥ श्री तुलस्यै नमः - इदमर्घ्यं इदमर्घ्यं इदमर्घ्यम् । सर्वपापहरे देवि आश्रिताभीष्टदायिनि । मया दत्तं गृहाणार्घ्यं सुप्रीता वरदा भव । श्री तुलस्यै नमः । इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम् । देहि मे विजयं देवि विद्यां देहि महेश्वरि । त्वमिति प्रार्थये नित्यं शीघ्रमेव फलं कुरु ॥ इति सम्प्रार्थ्य तुलसीस्तुतिं पठित्वा मङ्गलारार्तिकं विधाय । श्री तुलसीदेव्यर्पणमस्तु । ॐ तत्सद्ब्रह्मार्पणमस्तु इति साक्षतं जलं भूमौ विसृज्य आचामेत् । Encoded and proofread by Shree Devi Kumar
% Text title            : tulasIpUjA 2
% File name             : tulasIpUjA2.itx
% itxtitle              : tulasIpUjA 2
% engtitle              : tulasIpUjA 2
% Category              : pUjA, devii, tulasI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : tulasI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shree Devi Kumar
% Proofread by          : Shree Devi Kumar
% Description-comments  : pUjA 2
% Indexextra            : (TulasiPuja scanned)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : June 12, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org