तुलसीपूजा २
विघ्नेश्वरपूजा - (हरिद्राबिम्बे)
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
श्रीपरमेश्वरप्रीत्यर्थं
आदौ विघ्नेश्वरपूजां करिष्ये । (हस्तौ प्रक्षाल्य) अस्मिन् हरिद्रा बिम्बे
सुमुखं श्रीविघ्नेश्वरं ध्यायामि । आवाहयामि । आसनं समर्पयामि ।
पादयोः पाद्यं समर्पयामि । हस्तयोरर्घ्यं समर्पयामि । मुखे आचमनीयं
समपर्ययामि । मधुपर्कं समर्पयामि । स्नपयामि । स्नानानन्तरं
आचमनीयं समर्पयामि । वस्त्रोत्तरीयाभरणानि समर्पयामि ।
पुष्पैः पूजयामि । सुमुखाय नमः । एकदन्ताय नमः । कपिलाय
नमः । गजकर्णकाय नमः । लम्बोदराय नमः । विकटाय नमः ।
विघ्नराजाय नमः । गणाधिपाय नमः । धूमकेतवे नमः । गणाध्यक्षाय
नमः । भालचन्द्राय नमः । गजाननाय नमः । वक्रतुण्डाय नमः ।
शूर्पकर्णाय नमः । हेरम्बाय नमः । स्कन्दपूर्वजाय नमः । पुष्पाणि
समर्पयामि । धूपं समर्पयामि । दीपं समर्पयामि । नैवेद्यं समर्पयामि ।
कर्पूरनीराजनं समर्पयामि । प्रदक्षिणनमस्कारान् समर्पयामि ।
वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ ।
अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥
इति प्रार्थयेत् तुलसी पूजा सङ्कल्पः -
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
श्रीपरमेश्वर प्रीत्यर्थं श्री
तुलसी देवी प्रीत्यर्थं दीर्घसौमङ्गल्यप्राप्त्यर्थं
सर्वाभीष्टसिद्ध्यर्थं श्री तुलसीपूजां करिष्ये ।
अप उपस्पृश्य - सुमुखं विघ्नेश्वरं यथास्थानं
प्रतिष्ठापयामि । शोभनार्थे क्षेमाय पुनरागमनाय च ।
(विघ्नेश्वरं प्रार्थ्य - उद्वास्य - कलशं पूजयेत्)
गङ्गे च यमुने चैव गोदावरी सरस्वति ।
नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥
(इति प्रार्थ्य कलशजलेन पूजाद्रव्याणि आत्मानं च प्रोक्ष्य)
तुलसीं ध्यायेत्-
ध्यायामि तुलसीं देवीं श्यामां कमललोचनाम् ।
प्रसन्नां पद्मकल्हारवराभयचतुर्भुजाम् ॥
किरीटहारकेयूर् कुण्डलादयैर्विभूषिताम् ।
धवलांशुकसंवीतां पद्मासननिषेविताम् ।
देवीं त्रैलोक्य जननीं सर्वलोकैकपावनीम् ॥
अस्मिन् क्षुपे श्री तुलसीं ध्यायामि ।
सर्वदेवमये देवि सर्वदे विष्णुवल्लभै ।
आगच्छ मम गेहेऽस्मिन् नित्यं सन्निहिता भव ।
अस्मिन् क्षुपे श्री तुलसीं आवाहयामि ।
रत्नसिंहासनं चारु भुक्तिमुक्तिफलप्रदे ।
मया दत्तं महादेवि सङ्गृहाण सुरार्चिते ॥
श्री तुलस्यै नमः । आसनं समर्पयामि ।
नानागन्धसुपुष्पैश्च वासितं सुरवन्दिते ।
पाद्यं गृहाण देवि त्चं सर्वकामफलप्रदे ॥
श्री तुलस्यै नमः । पाद्यं समर्पयामि ।
गङ्गोदकं समानीतं सुवर्णकलशस्थितम् ।
तुलसि त्वं गृहाणेदं अर्घ्यमैश्वर्यदायकम् ॥
श्री तुलस्यै नमः । अर्घ्यं समर्पयामि ।
सर्वमङ्गलदेवेशि नवरत्नैर्विभूषिते ।
मया दत्तमिदं तोयं गृहाणाचमनीयकम् ।
श्री तुलस्यै नमः । आचमनीयं समर्पयामि ।
पूर्णेन्दुबिम्बसदृशं दधिखण्डघृतं मधु ।
मधुपर्कं मयाऽऽनीतं गृहाण परमेश्वरि ॥
श्री तुलस्यै नमः - मधुपर्कं समर्पयामि ।
गङ्गायमुनयोस्तोयं आनीतं निर्मलं शुभम् ।
गन्धोदकमिदं देवि स्नानार्थं प्रतिगृह्यताम् ॥
श्री तुलस्यै नमः । शुद्धोदकस्नानं समर्पयामि ।
क्षौमं काञ्चनसङ्काशं इदं शुभ्रं मनोहरम् ।
वस्त्रयुग्मं शुभे देवि स्वीकुरुष्वाम्बुजेक्षणे ॥
श्री तुलस्यै नमः - वस्रयुग्मं समर्पयामि ।
राजतं ब्रहसूत्रं च काञ्चनं चोत्तरीयकम् ।
गृहाण सर्ववरदे पद्मपत्रनिभेक्षणे ।
श्री तुलस्यै नमः - उपवीतं समर्पयामि ।
किरीटहारकटकान् केयूरान्कुण्डलान् शुभान् ।
नूपुरोदरबन्धं च भूषणानि समर्पये ।
श्री तुलस्यै नमः - आभरणानि समर्पयामि ।
चन्दनागरुकस्तूरीकर्पूरेण च संयुतम् ।
विलेपनं ददामि त्वं गृहाण तुलसीश्वरि ॥
श्री तुलस्यै नमः - गन्धं समर्पयामि ।
अक्षतान्धवलान्दिव्यान् शालीयान्तण्डुलान् शुभान् ।
सुधौतानर्पये देवि वृन्दास्थानोद्भवेश्वरि ॥
श्री तुलस्यै नमः - अक्षतान् समर्पयामि ।
मल्लिकाकुन्दमन्दारजातीवकुलचम्पकैः ।
शतपत्रैश्च कल्हारैः पूजयामि महेश्वरि ॥
श्री तुलस्यै नमः - पुष्पाणि समर्पयामि ।
अङ्गपूजा - तुलसीदेव्यै नमः -पादौ पूजयामि ।
वृन्दावनस्थायै नमः - गुल्फौ पूजयामि ।
पद्मपत्न निभेक्षणायै नमः - जङ्घे पूजयामि ।
पद्मकोटिसमप्रभायै नमः - ऊरू पूजयामि ।
हरिप्रियायै नमः - जानुनी पूजयामि ।
कुङ्कुमाङ्कितगात्रायै नमः - कटिं पूजयामि ।
सुरवन्दितायै नमः - नाभिं पूजयामि ।
लोकानुग्रहकारिण्यै नमः - उदरं पूजयामि ।
त्रैलोक्यजनन्यै नमः - हृदयं पूजयामि ।
पद्मप्रियायै नमः - हस्तान् पूजयामि ।
इन्दिराख्यायै नमः - भुजान् पूजयामि ।
कम्बुकण्ठ्यै नमः - कण्ठं पूजयामि ।
कल्मषघ्न्यै नमः - कर्णौ पूजयामि ।
वरप्रदायै नमः - मुखं पूजयामि ।
आश्रितरक्षिकायै नमः - शिरः पूजयामि ।
अभीष्टदायै नमः - सर्वाण्यङ्गानि पूजयामि ।
यथाशक्ति ८-१६-१०८-१००८ नामभिः कुङ्कुमेन पुष्पैर्वा अर्चयेत् ।
गुग्गुलं गोघृतं चैव दशाङ्गं सुमनोहरम् ।
धूपं गृहाण वरदे सर्वाभीष्टफलप्रदे ॥
श्री तुलस्यै नमः - धूपमाघ्रापयामि ।
साज्यं त्रिवर्तिसंयुक्तं वह्निना योजितं मया ।
दीपं गृहाण देवेशि त्रैलोक्यतिमिरापहम् ॥
श्री तुलस्यै नमः - दीपं दर्शयामि ।
नैवेद्यं षड् रसोपेतं फलसूपसमन्वितम् ।
सघृतं समधुक्षीरं गृहाण तुलसीश्वरि ॥
श्री तुलस्यै नमः - महानैवेद्यं निवेदयामि ।
पूगीफलसमायुक्तं नागवल्लीदलैर्युतम् ।
कर्पूरचुर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥
श्री तुलस्यै नमः - ताम्बूलं समर्पयामि ।
नीराजनं सुमङ्गल्यं दिव्यज्योतिः समन्वितम् ।
अज्ञानघ्ने गृहाण त्वं ज्ञानमार्गप्रदायिनि ।
श्री तुलस्यै नमः - कर्पूरनीराजनं दर्शायामि ॥
प्रकृष्टपापनाशाय प्रकृष्टफलसिद्धये ।
प्रदक्षिणं करोमि त्वां सर्वाभीष्टफलप्रदे ।
आयुरारोग्यमैश्वर्यं विद्यां ज्ञानं यशः सुखम् ।
देहि देहि ममाभीष्टं प्रदक्षिणकृतः शुभे ।
श्री तुलस्यै नमः - प्रदक्षिणं समर्पयामि ।
नमस्ते तुलसीदेवि सर्वाभीष्टफलप्रदे ।
नमस्ते त्रिजगद्वन्द्ये नमस्ते लोकरक्षिके ॥
श्री तुलस्यै नमः - नमस्कारान् समर्पयामि ।
वृन्दावनस्थिते देवि दिव्यभोगप्रदे शुभे ।
पुष्पाञ्जलिं प्रदास्यामि स्वीकुरुष्वाम्बुजेक्षणे ।
श्री तुलस्यै नमः - पुष्पाञ्जलिं समर्पयामि ।
क्षीरार्घ्यप्रदानम्-
तुलस्यै तु नमस्तुभ्यां नमस्ते फलदायिनि ।
इदमर्घ्यं प्रदास्यामि सुप्रीता भव सर्वदा ।
श्री तुलस्यै नमः - इदमर्घ्यं इदमर्घ्यं इदमर्घ्यम् ।
लक्ष्मीपतिप्रिये देवि तुलसीदिव्यरूपिणि ।
इदमर्घ्यं प्रदस्यामि सुप्रीता वरदा भव ॥
श्री तुलस्यै नमः - इदमर्घ्यं इदमर्घ्यं इदमर्घ्यम् ।
सर्वपापहरे देवि आश्रिताभीष्टदायिनि ।
मया दत्तं गृहाणार्घ्यं सुप्रीता वरदा भव ।
श्री तुलस्यै नमः । इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम् ।
देहि मे विजयं देवि विद्यां देहि महेश्वरि ।
त्वमिति प्रार्थये नित्यं शीघ्रमेव फलं कुरु ॥
इति सम्प्रार्थ्य तुलसीस्तुतिं पठित्वा मङ्गलारार्तिकं विधाय ।
श्री तुलसीदेव्यर्पणमस्तु ।
ॐ तत्सद्ब्रह्मार्पणमस्तु इति साक्षतं जलं भूमौ विसृज्य आचामेत् ।
Encoded and proofread by Shree Devi Kumar