तुलसीपूजा ३

तुलसीपूजा ३

तुलसी लघुपूजा १ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ श्रीपरमेश्वरप्रीत्यर्थं तुलसीदेवी प्रीत्यर्थं सर्वारिष्टशान्त्यर्थं सर्वमङ्गलप्राप्त्यर्थं तुलसीपूजां करिष्ये ॥ (अप उपस्पृश्य - पूर्वाङ्गपूजा) ध्यायामि तुलसीं देर्वीं श्यामां कमललोचनाम् । प्रसन्नां पद्मकल्हार वराभय चतुर्भुजाम् ॥ किरीट हार केयूर कुण्डलादिविभूषिताम् । धवलांशुकसंयुक्तां पद्मासन निषेदुषीम् ॥ तुलसीं देवीं ध्यायामि ॥ अस्मिन् तुलसी क्षुपे तुलसीं देवीं आवाहयामि । विष्णुवल्लभायै नमः - आसनं समर्पयामि । सर्वदेवमयायै नमः - पाद्यं समर्पयामि । सर्वतीर्थमयायै नमः - अर्घ्यं समर्पयामि । दैत्यान्तकृत्प्रियायै नमः - आचमनीयं समर्पयामि । सर्वलोकहितायै नमः - स्नानं समर्पयामि । लक्ष्मी सहोदर्यै नमः - वस्रयुग्मं कञ्चुकं च समर्पयामि । महादेव्यै नमः - गन्धं कुङ्कुमं समर्पयामि । रमावासायै नमः - अक्षतान् समर्पयामि । अभीष्टदायै नमः - पुष्पाणि समर्पयामि । अर्चना-- वृन्दायै नमः । वृन्दावन्यै नमः । विश्वपूजितायै नमः । विश्वपावन्यै नमः । पुष्प सारायै नमः । नन्दिन्यै नमः । तुलस्यै नमः । कृष्णजीवन्यै नमः । (षोडशशनामभिः, अष्टोत्तरशनतनामभिः सह्स्रनामभिर्वा) पापहारिण्यै नमः - धूपं समर्पयामि । भगवत्यै नमः - दीपं समर्पयामि । अमृतसम्भूतायै ननः - नैवेद्यं समर्पयामि । जगद्धात्र्यै नमः - ताम्बूलं फलानि च समर्पयामि । सुदक्षिणायै नमः - नीराजनं समर्पयामि । परमेश्वर्यै नमः - पुष्पाञ्जलिं समर्पयामि । अभीष्टदायै नमः - प्रदक्षिणनमस्कारान् समर्पयामि । तुलसीस्तोत्राणि पठेत् । (पृ। १२८- १४०) यानि कानि च पापानि जन्मान्तरकृतानि च । तानि तानि विनश्यन्ति प्रदक्षिणपदे पदे । तुलसी देव्यै नमः - सर्वोपचारान् समर्पयामि । कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् । करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयामि । ॥ ॐ तत्सत् - ब्रह्मार्पणमस्तु । Encoded and proofread by Shree Devi Kumar
% Text title            : tulasIpUjA 3
% File name             : tulasIpUjA3.itx
% itxtitle              : tulasIpUjA 3
% engtitle              : tulasIpUjA 3
% Category              : pUjA, devii, tulasI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : tulasI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shree Devi Kumar
% Proofread by          : Shree Devi Kumar
% Description-comments  : laghupUjA
% Indexextra            : (TulasiPuja scanned)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : June 12, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org