तुलसीपूजा ४
तुलसी लघुपूजा २
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
परमेश्वरप्रीत्यर्थं श्री तुलसीदेवीप्रीत्यर्थं
दीर्घसौमङ्गल्यप्राप्यर्थं सत्सन्तानसिद्ध्यर्थं
समस्तसम्पत्प्राप्त्यर्थं सर्वाभीष्टसिद्ध्यर्थं तुलसीपूजां करिष्ये ।
(अप उपस्पृश्य)
अस्मिन् तुलसीक्षुपे तुलसीं वृन्दां ध्यायामि । आवाहयामि ।
वृन्दावन्यै नमः - आसनं समपर्ययामि । विश्वपूजितायै नमः -
पाद्यं समर्पयामि । विश्वपावन्यै नमः - अर्घ्यं समर्पयामि ।
पुष्पसारायै नमः - आचमनीयं समर्पयामि । नन्दिन्यै नमः -
स्नानं समर्पयामि । तुलस्यै नमः - वस्रं समर्पयामि ।
कृष्णजीवन्यै नमः - गन्धं समर्पयामि । कुङ्कमं समर्पयामि ।
अर्चना - वृन्दायै नमः । गोलोकवासिन्यै नमः । कृष्णप्रियायै
नमः । सर्वरोगहरायै नमः । सन्ततिप्रदायै नमः । सौमङ्गल्यदायै
नमः । सौभाग्यप्रदायै नमः । पतिव्रतायै नमः । अतुलायै नमः ।
वृन्दावन्यै नमः ।
विश्वपूजितायै नमः - धूपं दर्शयामि । दीपं दर्शयामि ।
विश्वपावन्यै नमः - नैवेद्यं समर्पयामि । पुष्पसारायै नमः -
कर्पूरनीराजनं दर्शयामि । नन्दिन्यै नमः - पुष्पाञ्जलिं समर्पयामि ।
तुलस्यै नमः । प्रदक्षिणं करोमि । कृष्णजीविन्यै नमः - नमस्कारं
समर्पयामि ।
ओङ्कारपूर्विके देवि सर्ववेदस्वरूपिणि ।
सर्वदेवमये देवि सौमङ्गल्यं प्रयच्छ मे ॥
वृन्दे मां सर्वदा देवि कृपादृष्ट्या विलोकय ।
पत्युरायुश्च भाग्यं च सदा देहि हरिप्रिये ॥
प्रसीद मम देवेशि प्रसीद हरिवल्लभे ।
इति प्रार्थ्य द्वादशवारं नमस्कुर्यात् तुलसीस्तुतिं पठेत् । पूजां
तुलसीचरणयोरर्पयेत् ।
Encoded and proofread by Shree Devi Kumar