तुलसीस्तवराजः

तुलसीस्तवराजः

शौनकः -- सूत सूत महाप्राज्ञ सर्वशास्रविशारद । ब्रूहि मे स्तवराजं तु तुलस्याः पुण्यवर्धनम् ॥ १॥ श्री सूतः -- साधु साधु महाभाग कृतः प्रश्नस्त्वयाऽनघ । तुलस्याः स्तवराजं तु को नु वर्णयितुं क्षमः ॥ २॥ इह लोके परत्रापि ब्रह्मणाऽपि न शक्यते । तुलसीकाननं दृष्ट्वा यत्र कुत्रापि वै स्थले ॥ ३॥ स्मरणात्कीर्तनाद् ध्यानात् सर्वपापैः प्रमुच्यते । किमुत स्तवराजेन स्तुवतो मुक्तिरस्य वै ॥ ४॥ भविशष्यतीति सन्देहो रौरवं नरकं व्रजेत् । तुलसीस्तवराजस्य छन्दोऽनुष्टुप् प्रकीर्तितम् । ऋषिर्नारायणो देवो देवता श्रीरुदीरिता ॥ ५॥ श्रीरिति बीजं, तुमिति कीलकं, लमिति शक्तिः, श्रीमिति दिग्बन्धः । नम इति सर्वभूतोच्वाटनम् ॥ अङ्गन्यासः - ॐ श्री हृदयाय नमः । ॐ तुं शिरसे स्वाहा । ॐ लं शिखायै वषट् । ॐ स्यैं कवचाय हुम् । ॐ नं नेत्रत्रयाय वौषट्। ॐ मः अस्राय फट् । भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ ध्यानं - चतुर्बाहुयुतां देवीं शङ्खपुस्तकधारिणीम् । पद्माक्षमालां पुष्पं च धारिणीं पुण्यदायिनीम् ॥ ६॥ अमृताब्धिसमुत्पन्ने सर्वशोकविनाशिनी । सर्वसौभाग्यदात्री(यी ) त्वं तुलसि (सी) रक्षणं कुरु ॥ ७॥ दक्षिणे लोकविख्याते विष्णुधृतशरीरिणि । विश्वरूपी विश्वकर्त्री तुलसी रक्षणं कुरु ॥ ८॥ सर्वलोकमये(यी ) पूज्ये सर्वसम्पत्प्रदायिनि । सर्वतापप्रशमनि तुलसी रक्षणं कुरु ॥ ९॥ महिता लोकपूज्या च महिषासुरभञ्जनि । करवीरपुरावासे तुलसी रक्षणं कुरु ॥ १०॥ मायावती भगवती महिला भद्रकालिका । मोहिनी सङ्गता शौरी तुलसी रक्षणं कुरु ॥ ११॥ महालक्ष्मि महाकाली सर्वत्र विजया जया । अशरीरी शरीरी च तुलसी रक्षणं कुरु ॥ १२॥ ब्रह्माणी शङ्करी सौम्या वैष्णवी च स्वधा तथा । देवसेना महारौद्री तुलसी रक्षणं कुरु ॥ १३॥ चामुण्डा चञ्चला भीमा रेणुका मारिका तथा । पद्माक्षी पञ्ममाला च तुलसी रक्षणं कुरु ॥। १४॥ शुभाशुभप्रदात्री त्वं वृषभासुरभञ्जनी । वञ्जुला जर्झरी क्रूरा तुलसी रक्षणं कुरु ॥ १५॥ अतिगुह्यतमं दिव्यं पुत्रपौत्रप्रवर्धनम् । नास्तिकाय प्रदेयं न नाभक्ताय कदाचन । १६॥ शुश्रूषवे च भक्ताय प्रदेयं हितमिच्छता । विष्णुभक्ताय पूज्याय वैराग्य गुणशालिने ॥ १७॥ भृगुवारे भौमवारे प्रदोषे च विशेषतः । प्रभाते सर्वदा जप्यं लिखित्वा पुस्तकं यदि । १८॥ स्थापितं पूजितं चेत्स्यात् सर्वरोगैः प्रमुच्यते । महालक्ष्मीः सिन्धुतीरे विष्णुना प्रभविष्णुना ॥ १९॥ साऽपि विधये प्रोक्तवती तेनोक्तं नारदाय वै । नारदः प्रोक्तवान्मह्यं तदेतत्प्रोक्तवानहम् ॥ २०॥ एवं परम्पराप्राप्तं सर्वशास्रार्थ सङ्ग्रहम् । तुलसीकवचं पुण्यं तस्मात्स्तोत्रं महात्फलम् ॥ २१॥ तस्मात्कोटिगुणं पुण्यं तुलसीस्तवराजतः । पुत्रार्थी पुत्रमाप्नोति राज्यार्थी राज्यमाप्नुयात् ॥ २२॥ किं तेन बहुनोक्तेन मोक्षार्थी मोक्षामाप्नुयात्त् । सप्तद्वीपवतीं पृथ्वीं दत्वा यत्फलमाप्नुयात् । तत्फलं समवाप्नोति तुलसीपत्रदानतः ॥ २३॥ इति ब्रह्मपुराणान्तर्गतः तुलसीस्तवराजः सम्पूर्णः । Encoded and proofread by Shree Devi Kumar
% Text title            : tulasIstavarAjaH
% File name             : tulasIstavarAjaH.itx
% itxtitle              : tulasIstavarAjaH (brahmapurANAntargataH)
% engtitle              : tulasIstavarAjaH
% Category              : devii, tulasI, devI, stavarAja
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : tulasI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shree Devi Kumar
% Proofread by          : Shree Devi Kumar
% Source                : Brahmapurana
% Indexextra            : (TulasiPuja scanned)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : June 12, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org