तुरजापुरनिवसिनीस्तोत्रम्
श्रीगणेशाय नमः ।
नमस्तेऽस्तु ते महादेवि शिवे कल्याणशाम्भवि ।
प्रसीद वेदविनुते जगदम्ब नमोऽस्तु ते ॥ १॥
जगतामादिभूता त्वं जगत्त्वं जगदाश्रया ।
एकाऽप्यनेकरूपाऽसि जगदम्ब नमोऽस्तु ते ॥ २॥
सृष्टिस्थिते विनाशानां हेतुभूते मुनिस्तुते ।
प्रसीद देवविनुते जगदम्ब नमोऽस्तु ते ॥ ३॥
सर्वेश्वरि नमस्तुभ्यं सर्वसौभाग्यदायिनि ।
सर्वशक्तियुतेऽनन्ते जगदम्ब नमोऽस्तु ते ॥ ४॥
विविधारिष्टशमनि त्रिविधोत्पातनाशिनि ।
प्रसीद देवि ललिते जगदम्ब नमोऽस्तु ते ॥ ५॥
प्रसीद करुणासिन्धो त्वत्तः कारुणिका परा ।
यतो नास्ति महादेवि जगदम्ब नमोऽस्तु ते ॥ ६॥
शत्रूञ्जहि जयं देहि सर्वान् कामांश्च देहि मे ।
भयं नाशय रोगांश्च जगदम्ब नमोऽस्तु ते ॥ ७॥
जगदम्ब नमोऽस्तु ते हिते जय शम्भोर्दयिते महामते ।
कुलदेवि नमोऽस्तु ते सदा हृदि मे तिष्ठ यतोऽसि सर्वदा ॥ ८॥
तुलजापुरनिवासिन्याः देव्याः स्तोत्रमिदं परम् ।
यः पठेत्प्रयतो भक्त्या सर्वान् कामान् स आप्नुयात् ॥ ९॥
इति श्रीवासुदेवानन्दसरस्वतीपण्डितविरचितं
तुरजापुरनिवसिन्या देव्याः स्तोत्रं सम्पूर्णम् ॥
तुलजापुरनिवसिनीस्तोत्रम्, तुळजापुरनिवसिनीस्तोत्रम्
Encoded and proofread by Kaushal S. Kaloo