श्रीतुरजासहस्रनामस्तोत्रम्

श्रीतुरजासहस्रनामस्तोत्रम्

वरिष्ठ उवाच - कथं नामसहस्रन्तु रामप्रोक्तं वदस्वमे । यानि गौणानि नामानि योगिकानि च शङ्कर ॥ १॥ तानि सर्वाणि कृपया साकल्येन तु कीर्तय । श्रुत्वाहं देव परमां सिद्धिं यास्यामि शाश्वतीम् ॥ २॥ श्रीशङ्कर उवाच - नामानि ते प्रवक्ष्यामि तुरजायाः शुभानि च । एतानि प्रपठेद्विद्वान्नमो तानि मुनेश्वर ॥ ३॥ विनियोगः अङ्गन्यासश्च - ॐ अस्य श्रीतुरजासहस्रनामस्तोत्रमन्त्रस्य श्रीरामचन्द्रऋषीः शिरसि । अनुष्टुपछन्दसे नमः मुखे । श्रीतुरजादेवतायै नमः हृदये । श्रीं बीजायै नमः गुह्ये । ह्रीं शक्तये नमः पादयोः । क्लीं कीलकाय नमः सर्वाङ्गे । श्रीतुरजाप्रीत्यर्थे जपे विनियोगः ॥ अथ करन्यासः - ॐ ह्रीं तुरजायै अङ्गुष्ठाभ्यां नमः । ॐ श्रीं तमजायै तर्जनीभ्यां नमः । ॐ क्लीं तीव्रायै मध्यमाभ्यां नमः । ॐ ब्रीं भैरव्यै अनामिकाभ्यां नमः । ॐ घ्रीं कालिकायै कनिष्ठिकाभ्यां नमः । ॐ फ्रीं भ्रीं स्वाहा सिद्धिप्रदायै करतलकरपृष्ठाभ्यां नमः ॥ अथ हृदयादिन्यासः । ॐ ह्रीं तुरजायै नमः हृदयाय नमः । ॐ श्रीं तमजायै नमः शिरसे स्वाहा । ॐ क्लीं तीव्रायै नमः शिखायै वषट् । ॐ ब्रीं भैरव्यै नमः कवचाय हुम् । ॐ घ्रीं कालिकायै नमः नेत्रत्रयाय वौषट् । ॐ फ्रीं भ्रीं स्वाहा सिद्धिप्रदायै नमः अस्त्राय फट् । ॐ भूर्भुवः स्वरोमिति दिग्बन्धः ॥ अथ ध्यानं - श्यामां पूर्णेन्दुवदनां श्वेताम्बरधरां शिवाम् । महामेघनिनादान्तां निर्वाते दीपवत् स्थिराम् । भुजाष्टकयुतां बाणचापशूलगदाधराम् । खड्गं शङ्खं तथा चक्रं वरदां भयहारिणीम् ॥ १॥ शङ्करप्रियवामाङ्के वैष्णवी भयहारिणी । एवं रूपां तु तुरजां नमामि परमेश्वरीम् ॥ २॥ अथ सहस्रनामस्तोत्रम् । श्रीरामचन्द्र उवाच - ॐ तुरजा तमजा तीव्रा त्रिविधा त्रिगुणात्मिका । पङ्कजा पद्मिनी पद्मा सुगन्धा गन्धवर्धिनी ॥ १॥ रसजा मूलजा धारा घटजा घटसंस्थिता । घटोदरी घटाकारा कर्णिका च निकुम्भिका ॥ २॥ गिरिजा शैलसंस्था च दुर्गजा दुर्गवासिनी । सिद्धिमार्गा मण्डलिनी उत्तरा तरला समा ॥ ३॥ अम्बष्ठा च शिरोनिष्ठा मनोनिष्ठा तु घोषिता । वाटिका मालिनि पुष्पा सुगन्धा मधुपा मधूः ॥ ४॥ बलादिका बलकरी पार्थिवी पार्थिवद्रुमा । रसाधिका तु निरसा स्वादुग्रा हितकाङ्क्षिणी ॥ ५॥ विजिता कुलिता शाखा छाया जटिलमूलिका । विस्तारा स्थावरा मौर्वी जङ्गमा निगमा गमा ॥ ६॥ भवानी भैरवी भूतिः प्रतिमा प्राणदा बलिः । दीपरूपा धूपगन्धा ज्वालामालाप्रकाशिनी ॥ ७॥ पञ्चानना च तिमिरा अरुणा श्यामला शुभा । पानप्रिया भुक्तिदा च पूजादि बलिभक्षिणी ॥ ८॥ महादेवी महामूर्धा दीर्घा चैव कुमारिका । महोदरी महानाभी बलदन्ती महाबला ॥ ९॥ सुरनिद्रा घोरनिद्रा भोगनिद्रा तु भोगदा । महानिद्रा मोहनिद्रा सुखनिद्रा सुखोद्भवा ॥ १०॥ खेटहस्ता पाशहस्ता गदाहस्ता च तोमरा । चक्रहस्ता शङ्खहस्ता चापहस्ता च बाणभृत् ॥ ११॥ सिन्दूरवर्णा उदिता अन्हा अन्धकघातिनी । अपर्णा च विकर्णा च परा चन्द्रकला तथा ॥ १२॥ पूर्णछिन्ना कौमुदी च निरस्ता च नवग्रहा । अक्षानक्ता कङ्कुमाभा कान्ता चैव कुमारिका ॥ १३॥ ॐ क्लीं कुमार्यै नमः । भ्रान्ता तरङ्गिणी काली कङ्काली नलकूबरी । कपालिनी काकमूर्धा करतन्त्री त्रिवादिनी ॥ १४॥ शालिका यन्त्रिणी दण्डी नाठिनी तुम्बरी तथा । तालनादप्रिया चैव मृदङ्गध्वनितत्परा ॥ १५॥ ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः । रक्तपा रक्तलिप्ता च रक्तबीजनिपातिनी ॥ रक्ताक्षी रक्तसर्वा च रक्तदन्ती सुदन्तिका ॥ १६॥ रक्तदन्ता रक्तबिम्बा रक्तधाराप्रवाहिका । रक्तमूर्धा रक्तजिह्वा रसना भद्रकालिका ॥ १७॥ भद्रा सुभद्रा रुद्रार्द्रा सर्वाभद्रविनाशिनी । हिङ्गुला चैव हेमाङ्गी हयग्रीवा तपस्विनी ॥ १८॥ तर्पणा कर्षणा होमा सङ्कल्पा होत्रमन्त्रिका । स्रुवा दर्वी च द्रोणी च स्वाहा कलशवेदिका ॥ १९॥ आहुतिश्च समिद्दर्भा स्रुवा पिङ्गललोचना । प्रकृष्टा फलदा शान्ता पिता वेदोदया तथा ॥ २०॥ अपर्णा सुफला यज्ञा यज्ञाङ्गफलदायिनी । विश्वमाता विश्वबला विश्वगर्भा प्रवर्तिका ॥ २१॥ विश्वोदरी विश्वमुखी विश्वसम्भूतिकारिणी । विश्वेश्वरी विश्वधरा मरुद्भूता च सर्पिणी ॥ २२॥ पृथ्वीधरा पद्मिनी च नागी चैव तथोरगा । पक्षिणी मलयावासा धत्तूरकुसुमप्रिया ॥ २३॥ सलिलार्घ्यप्रिया शैला लिङ्गनिष्ठा च घण्टिका । शिखा दीक्षा च तुलसी सेवासंयमतत्परा ॥ २४॥ निवृत्ता शयना सुप्तासौ सुप्तिकजनप्रिया । वृत्तमाला च नियमा यज्ञिया चैव नन्दिनी ॥ २५॥ नारायणी तथामोघा प्रकटा तरुणी प्रिया । समुद्रा सङ्गमा पूर्णा कल्लोला ऊर्मिमालिनी ॥ २६॥ मुमूर्षा रोषरुष्टा च जुगुप्सितविरोधिनी । इन्दिरा ईडिता इन्द्रा नुता निलाम्बरा तथा ॥ २७॥ महाकृष्णा कृष्णवर्णा कृष्णस्रुक् कृष्णवासिनी । शुक्लाम्बरा कोटिचन्द्रा मार्तण्डा अग्निरुक्तथा ॥ २८॥ रत्नदन्ती रत्ननासा रत्नमालाविभूषणा । रत्नाम्बरा रत्नकञ्चु रत्नाक्षी रत्नकुण्डला ॥ २९॥ रत्नहस्ता रत्ननखा रत्नकङ्कणमण्डिता । रत्नछत्रा रत्नवर्णा रत्नेशा रत्नहेलिका ॥ ३०॥ रत्नासना रत्नराशी रत्नोष्ठी रत्नजिह्वीका । जगत्कर्त्री जगत्कार्या जगद्वासा जगन्निधिः ॥ ३१॥ जगत्प्राणा जगद्द्रष्टा जगज्जिह्वा जगद्रसा । जगच्चक्षुर्जगत्प्राणा जगच्छ्रोत्रा जगन्मुखी ॥ ३२॥ जगद्वन्द्या जगद्रूपा जगत्स्वप्ना च जागृती । जगच्छत्रा जगद्धात्री जगद्भर्त्री जगत्पिता ॥ ३३॥ जगत्पत्नी जगन्माता जगद्भ्राता तथा जगत् । जगज्जाया जगद्वन्द्या जगद्धर्मी जगन्मयी ॥ ३४॥ जगद्धात्री जगत्प्राणा जगद्योनिर्जगन्मयी । जगत्स्थितिर्जगत्सर्गो जगत्सर्वा जगन्मयी ॥ ३५॥ जगच्छाया जयन्ती च जगन्मोहा च जागृती । सर्वस्तम्भी महामाया जगद्दीक्षा तथा जया ॥ ३६॥ भक्तैकलभ्या द्विविधा त्रिविधा च चतुर्विधा । इन्द्राक्षी पञ्चरूपा च सहस्ररूपधारिणी ॥ ३७॥ रुद्राक्षी कमलाक्षी च तिमिरा दीपिका तथा । वर्तिरूपा हडा तैला प्रख्या निर्वाणिका शिवा ॥ ३८॥ मूलाद्रिवासिनी चैव वराटी मूलिका परा । ॐ ह्रां ह्रीं ह्रूं महाकाल्यै नमः । मूलज्वाला मूलमन्त्रा मधुकैटभघातिनी ॥ ३९॥ सप्तज्वाला महाज्वाला तथा वै ज्वालमालिनी । नवकुम्भा नवरुचिः कामज्वाला नवानना ॥ ४०॥ गर्भज्वाला तथा बाला चक्षुर्बाला नवाम्बरा । नवभूतिर्नवबला नवरक्ता नवावृता ॥ ४१॥ नवखण्डा तथा देशा नवदण्डा नवाक्षरा । नवजङ्घा सुवीर्या च नवदुर्गा च जाग्रतिः ॥ ४२॥ नवमार्गा च नवमी नवसस्या नवेश्वरी । नवरूपा नवकला नवनाडी नवानना ॥ ४३॥ नवक्रीडा नवविधा नवयोगिनिका तथा । नवमी मङ्गला चैव विजया दशमी तथा ॥ ४४॥ ॐ ऐं ह्रीं क्लीं त्रिमूर्त्यात्मिकायै नमः । याम्या दिग्वासिनी चैव विदिशा च दिशा तथा । कुलुपाद्यन्तरिक्षा च तथा वै दक्षिणामुखी ॥ ४५॥ दधिवर्णा रामवरदा दशास्यवंशभेदिनी । विन्ध्यासिनी सिद्धिहस्ता अन्नपूर्णा च सुन्दरी ॥ ४६॥ अष्टाक्षरपरानन्दा चामुण्डा मुण्डवाहिनी । पीताम्बरा दीप्तिहस्ता मङ्गला मङ्गलोदया ॥ ४७॥ कालनाशा कर्मनाशा कलिनाशा च कालिका । एणरूपा वृषाश्वा च अजा क्रोडा च कुक्कुटी ॥ ४८॥ सुकण्ठा कोकिला काली मुखरी वैखरी मृगी । मयूरी माक्षिणी गृध्री बलाका च करालिनी ॥ ४९॥ जलनिष्ठा काकजङ्घा निर्गुणा गुरुवन्दिता । भ्रामरी अम्बिका मन्दा अदन्ता च सुदन्तिका ॥ ५०॥ उत्तुङ्गा कलशा शोका चतुर्दन्ता भुशुण्डिनी । ऊर्ध्वनेत्रा ऊर्ध्वमुखी तेजिष्ठा त्राटिका रविः ॥ ५१॥ रथिनी रथसंस्था च चक्रिका रथवाहिनी । भ्रामिता सप्ततुण्डा च भीमा हयमुखी तथा ॥ ५२॥ प्रथिका प्रखुरा अङ्का दक्षिणा परिदक्षिणा । रचना रोचना रामा रमिता शमिता शमा ॥ ५३॥ लता च ललिता लक्ष्मीः कामिता कामना तथा । अग्निधारा सप्तधारा भगधारा त्रिधा स्मृता ॥ ५४॥ अष्टप्रकृत्यष्टभुजा वरदा त्वष्टनायका । अर्धधारा मूलधारा दशधारा तथैव च ॥ ५५॥ गदादि जलदा चैव निगडा मारणा तथा । अविलम्बा तथा वाग्मी प्राखुरा वाग्विवादिनी ॥ ५६॥ उड्डीयमाना ऊर्ध्वाक्षी बुद्बुदा बर्बराम्बरा । धूर्णाक्षी पटला कोपा उत्तीर्णा उल्लसानना ॥ ५७॥ कल्लोला उन्नता बाला शुभा कल्लोलमालिनी । उपलक्षा उमालक्षा परिक्षा रक्षिका तथा ॥ ५८॥ उपेन्द्रा इन्द्रवरदा महाकाली निशाचरी । पापहा पापनाशा च ब्रह्मघ्नी शापमोचनी ॥ ५९॥ शर्वा तृष्णा च उच्छिष्टा चाण्डाली परिघायुधा । ॐ ऐं ह्रीं श्रीं उच्छिष्टचाण्डालिन्यै नमः । अपर्णा पर्णवलिता पतिः पतितपावनी ॥ ६०॥ महाद्वन्द्वा महावादी एकवीरा जगज्जया । पञ्चाली पञ्चपाञ्चाली प्रपञ्ची च प्रचोदयात् ॥ ६१॥ त्रिपदी वेदमाता च त्रिगुणा गुणशाम्भवी । ॐकारी वेदिका वाचा ह्रीङ्कारी सकलागमा ॥ ६२॥ त्रीङ्कारी त्रिपुरा पूजा श्रीङ्कारी सर्वसुन्दरी । क्लीङ्कारी कालिका केशी घ्रीङ्कारी घटवासिनी ॥ ६३॥ ब्रीङ्कारी बगला बाला फ्रीङ्कारी फणिभूषणा । भ्रीङ्कारी भैरवी भूतिर्भगदात्री भगा तथा ॥ ६४॥ ज्रीङ्कारी जलजिह्वा च जृम्भिका जलयोगिनी । दिगम्बरी जटाजूटिः कुमारी पिङ्गकेशिनी ॥ ६५॥ कन्या प्रकन्या कन्दर्पा वेदना वाल्मिकी गुणा । चतुर्भुजा चतुर्वासा चर्चिका चतुरानना ॥ ६६॥ अर्चिता चर्चिका चित्रा चक्रस्था चक्ररूपिणी । आवाह्या च विसर्गा च लिङ्गरूपा विसर्जनी ॥ ६७॥ लिङ्गनिष्ठा लिङ्गसेव्या मथिता लिङ्गसेवया । कर्मरेखा चन्द्ररेखा चित्ररेखा वसन्तिका ॥ ६८॥ सदोदया तालवासा खर्जूरा तालमूर्ध्निका । खण्डजङ्घा ऋतुपदा अङ्गुष्ठा दृढबन्धिनी ॥ ६९॥ ॐ श्रीं क्लीं सिद्धिप्रदायै नमः । प्रबोधा गृन्थिका गाधा ऊहावितर्कवादिनी । विनायकी विनम्रा च प्रसिद्धा विजया जया ॥ ७०॥ लम्बोदरी शिखोर्ध्वा च चित्रवस्त्रावलम्बिनी । षोडशी नारसिंही च शीतला परिशीतला ॥ ७१॥ गुहा किराता कदली कदलीवनवासिनी । महाव्याघ्रवरारोहा धनुर्बाणधराधरा ॥ ७२॥ लम्बिनी च विपाशा च क्षुधा सन्देशिका तथा । विलासिनी विपुलिका कालिका च प्रवेशिका ॥ ७३॥ वाणिका वनवासा च बर्बरा खर्परासना । मौञ्जी भुजङ्गिनी चारा प्रभुघण्टा जलाजरा ॥ ७४। बालाजरा योगवेणी सुकेशी वेणिका तथा । रम्भा प्रखण्डा खंवासी स्वागता स्थानदायका ॥ ७५॥ ॐ ह्रीं श्रीं सरस्वत्यै नमः । श्यामा प्रसन्ना सुमुखी वर्मिका कर्णिका तथा । शुचिका मुग्धिका गाधा भोगदा सुभगा तथा ॥ ७६॥ भुक्तिदा मुक्तिदा देवी ऋद्धिदा सुखदायिनी । सिद्धिदा बुद्धिदा माता वर्मिणी फलदायिनी ॥ ७७॥ क्षुरिका जिरिका जङ्घा आणिका गूढखड्गिनी । ध्वजिनी वाजिनी वाजी पताका वर्मिणी तथा ॥ ७८॥ हस्तिनी कालिका बाणा अत्रिजा वज्रधारिणी । छत्रिणी रणिका रोषा अजिता दलभाजिनी ॥ ७९॥ वाग्देवी छिन्नमूर्धा च गुढेन्द्रा पथिका तथा । लोलिका धूर्णिका धूर्णा स्वशिका निश्वासा व्यथा ॥ ८०॥ हाहा च परिहा चैव वश्यका निर्भया भया । वर्मिणी परिवीरा च उत्कण्ठा मुखमण्डिता ॥ ८१॥ कोटिनी दलिनी दीर्घा धूसुरा बलराक्षसी । ॐ ह्रीं क्रौं भ्रौं अघोररूपिण्यै नमः । नाविका छिद्रिका क्षेपा दुर्गन्धा घोरवासिनी ॥ ८२॥ अघोरा परिघोरा च महाघोरा तिघस्मरा । सुवीर्या घोरमन्त्रा च किरीटी घोरभक्षिणी ॥ ८३॥ पूर्णवक्त्रा पूर्णमुखी परमा परमेश्वरी । मौलिनी बिम्बिनी बिम्बा तर्षिणी तुरजा तृषा ॥ ८४॥ तृतीया चतुरीया च तुरजा भवतारिणी । सुदर्शा तरुणी तारा चरिता चैव दैत्यजा ॥ ८५॥ दक्षिणा कर्णिका काली कङ्काली नलकूबरी । ॐ क्लीं वागीश्वर्यै नमः । नैऋत्या नलिका नित्या नैमित्या निमिषा निशा ॥ ८६॥ इच्छापूर्णा विन्ध्यका च हिङ्गुला पाश्चिमा परा । वायव्या वरदा वन्द्या वृन्दिका वृन्दवर्धिनी ॥ ८७॥ उच्चाटा उत्तरा चण्डी नीलकण्ठी जलाश्रया । दक्षिणा चैव कामाक्षी कामना भुवनेश्वरी ॥ ८८॥ प्रकाशा पिङ्गला पूर्णा श्रीः श्रीम्बीजकरी तथा । अग्निका रुचिका वाचा अज्ञा प्रज्ञा प्रसाददा ॥ ८९॥ चकमा विहङ्गा माण्डा राजका रज्जुका रजा । गौरी च गोमया गेया मातङ्गी महिषाहली ॥ ९०॥ सदातुष्टा सदापुष्टा सन्दिष्टा च सदाशिवा । तिलका रोचना वृक्षा गम्बीजा त्रिपुरा तथा ॥ ९१॥ ईहा च कल्परचना यमुना गिरिवासिनी । दुर्लभाऽतिदुराराध्या दुर्गमा गगनेश्वरी ॥ ९२॥ अरण्या परिरण्या च संयम्या संयमा तथा । कमला कुलजा चैव लवणा सुरघातिनी ॥ ९३॥ दधिजा कल्पसंस्था च कर्मजा फलदायिनी । कामजा केलिजा केशी कर्षा कर्बुरजालिजा ॥ ९४॥ गिरिजा गर्वगोत्रा च अकुला कुलजा तथा । दिनजा दिनमानी च वेदजा वेदसम्भृता ॥ ९५॥ क्रोधजा कुटजा धारा परमा बलगर्विता । शान्ता भ्रान्ता दिगन्ता च गुरुजा छत्रवासिनी ॥ ९६॥ भयान्ता विभ्रमा भ्रान्ता पशुपाला च शूरिणी । भूसुरा भासुरी चैव भग्नदैत्या छिन्दाम्भिदा ॥ ९७॥ क्रोधा क्रोधमुखी दंष्ट्री वज्रदन्ती सुदन्तिका । सस्याचरा जला मेघा प्रवाहा सुरवृक्षजा ॥ ९८॥ ब्रह्मिष्टा ब्रह्मजा ब्राह्मी चतुःशीर्षा चतुर्मुखी । चिरद्वैता द्वैतरूपा अद्वैतप्रतिपादिनी ॥ ९९॥ वेदान्ता वेदवन्द्या च आनन्दी नन्ददानवा । पुरुछाया मखा धुर्या दुर्जया पापहा तथा ॥ १००॥ भीतिर्गतिर्जागरिष्टा हर्म्याक्षी शुक्लहर्मिणी । मेरुजा मेरूसंस्था च कल्लारी कलिकल्पना ॥ १०१॥ किरातिनी भिल्लिरूपा प्रचण्डा चण्डवासिनी । अत्यन्तगुणयुक्ता च चन्द्रास्या चन्द्रवासिनी ॥ १०२॥ चलाचलपदा श‍ऋङ्गी चन्द्रघण्टा घटध्वनी । पार्श्वस्था प्रभुसेव्या च गूढहास्यप्रवर्धिनी ॥ १०३॥ ब्रह्माणी वृत्तसंस्था च चतुर्वर्णा चतुर्विधा । शिवरूपा शैलपुत्री शैलस्था शिववन्दिता ॥ १०४॥ खण्डवादरता खण्डा खण्डिता ब्रह्मचारिणी । नवखण्डा प्रखण्डा च स्वरूपा सर्वरूपिणी ॥ १०५॥ रत्नमण्डलमध्यस्था रत्नकुण्डलमालिनी । क्रौञ्चस्था कुचसंस्था च मत्तमातङ्गगामिनी ॥ १०६॥ ॐ ऐं क्लीं सौः बालायै नमः । कूटस्था नवसंस्था च कदली वज्रकङ्कणा । विदेहा विमला क्रूरा चौण्डा कर्नाटकी तथा ॥ १०७॥ त्रिमात्रा उत्कला गौण्डी वीरेशा वीरवन्दिता । शामला गौरी विपिना मागधेश्वरवन्दिता ॥ १०८॥ गण्डकी कौशिकी गङ्गा नर्मदा यमुना तथा । पार्वती कर्मनाशा च कैलासव्यापिका तथा ॥ १०९॥ कपालमोचना चैव हेमगर्भा शिला तथा । शालग्रामशिलावल्ली शार्दूला पिङ्गकेशिनी ॥ ११०॥ मुग्धबोधप्रवर्गा च कामिता कामना तथा । पुण्याङ्गी पुण्यगन्धा च कुरुक्षेत्रकृतालया ॥ १११॥ केदारस्था भारतस्था मूलस्था मूलदुर्गजा । पुरुदुर्गा मोहदुर्गा प्रज्वाला ज्वालिनी तथा ॥ ११२॥ भस्मकुण्डा तथा गेहा अम्बिका अम्बिकालया । शारदा नारदा चैव रेणुका गगनेश्वरी ॥ ११३॥ धेनुरूपा रुक्मिणी च गोपिका यमुनाश्रया । भूश्रयोन्नताङ्गुष्ठा नखराङ्गविरागिणी ॥ ११४॥ सुकण्ठा कोकिला मैना चिरानन्दा शिवात्मिका । कन्दर्पकोटिलावण्या सुन्दरा सुन्दरस्तनी ॥ ११५॥ विश्वपक्षा विश्वरक्षा विश्वनाथप्रिया सती । भेरिरूपा शङ्खरूपा पणवानकगोमुखी ॥ ११६॥ उर्वशी उरुगर्भा च विवरा पृष्ठसंस्थिता । लहरी महिमा शङ्खा विमला मेखला तथा ॥ ११७॥ क्षमा शीघ्रा चिदानन्दा धराधारा धनुर्धरी । मालिका प्रखुरा छाया प्रणामा अजितापरा ॥ ११८॥ वटरूपा वटाभा च वरारोहा महातपा । शङ्खादि निधिरूपा च औषधी भगमालिनी ॥ ११९॥ पुत्रदा पौत्रदा पौत्री दिव्यादा दिव्यभोगदा । आशापूर्णा चिरञ्जीवी लङ्काभयविवर्धिनी ॥ १२०॥ ॐ सां सीं सुं सैं सौं सः अमृतेश्वर्यै नमः । सुतीक्ष्णा रूक्षलवणा कटुतिक्ता विदाहिनी । प्रतिपन्ना घृता तैला रसारसविवर्धिनी ॥ १२१॥ योगासना योगपीठा मैथिलीशपदानुगा । रुदिता विमला शोका अन्तस्था रसना तथा ॥ १२२॥ दीर्घा स्थूला च सूक्ष्मा च भृशुण्डी च गणेश्वरी । द्वितीया पूर्णकमला पूर्णजा इति कीर्तिता ॥ १२३॥ ॐ श्रीं क्लीं भ्रीं तुरजायै नमः । श्रीशङ्कर उवाच - इति नाम्नां सहस्रं तु रामेण परिकीर्तितम् । यः पठेत्प्रयतो भक्त्या सन्ध्याकाले द्विजोत्तमः ॥ १२४॥ सर्वान्कामानवाप्नोति नात्रकार्या विचारणा । नवरात्रं जिताहारो शतावृत्या पठेन्नरः ॥ १२५॥ रात्रौ मूर्तिमयीं देवीं तद्दिने वाञ्छितं फलम् । विद्याकामस्तु यो मर्त्यः षण्मासं च जितेन्द्रियः ॥ १२६॥ जपन् लभेत् परमां विद्यां लोकोत्तरां तथा । अपुत्रो लभते पुत्रं निर्धनो धनमाप्नुयात् ॥ १२७॥ कुष्टरोगस्तथा दद्रू क्षयापस्मारचर्चिकाः । ते सर्वे नाशमायान्ति पायूपस्थव्रणानि च ॥ १२८॥ बधिरत्वं दिवान्धत्वं मूकत्वं पङ्गुलं तथा । नश्यन्ति तत्क्षणादेव यथा सूर्योदये तमः ॥ १२९॥ दशधा यः पठेन्नित्यं देव्यग्रे स्वस्थमानसः । सर्वानेताँलभेत्कामान् देवैरपि सुदुष्करान् ॥ १३०॥ राजद्वारे पठेद्यस्तु चोरव्याघ्राकुले पथि । पठनात्सिद्धिमाप्नोति विघ्नेभ्योऽपि प्रमुच्यते ॥ १३१॥ अनेन सदृशी विद्या नास्ति त्रैलोक्यमन्दिरे । धर्मार्थी लभते धर्मं कामार्थी लभते सुखम् ॥ १३२॥ धनार्थी लभते द्रव्यं मोक्षार्थी मोक्षमाप्नुयात् । पुरश्चरणधर्मेण पठेन्नामसहस्रकम् ॥ १३३॥ दशांशहवनं कुर्यात् पायसं शर्करान्वितम् । कुमारीं भोजयेद्विप्रान्यथा विभवसारतः ॥ १३४॥ कुबेरसदृशो लक्ष्म्या बुध्या धिषणवान्नरः । भवेत्त्रैलोक्यजठरे देवैरपि सुपूजितः ॥ १३५॥ किमत्र बहुनोक्तेन देवी सायुज्यमाप्नुयात् । इतीदं कथितं विप्र देव्या नामसहस्रकम् ॥ १३६॥ अधिष्वावहितो भूत्वा सर्वैः कामैः सुपूज्यते । इति श्रीस्कन्दपुराणे सह्याद्रिखण्डे तुरजामहात्म्ये श्रीशङ्करवसिष्ठसंवादे तुरजासहस्रनामस्तोत्रं सम्पूर्णमस्तु ॥ अनेन पूर्वसङ्कल्पित श्रीतुरजासहस्रनामपाठाङ्ग ओं तत्सत् । श्रीजगदम्बाप्रणमस्तु । श्रीकृष्णर्पणमस्तु । अपराधसहस्रभाजनं पतितं देवि भवार्णभूतले । आगतं शरणागतं शिवे कृपया केवलमात्मसात्कुरु ॥ १॥ माता भवानी जनको भवानी बन्धुर्भवानी भगिनी भवानी । गोत्रं भवानी सकलं भवानी वीना भवानी नहि किञ्चिदस्ति ॥ २॥ या माता मधुकैटभप्रमथिनी या माहिषोन्मूलिनी या धूम्रेक्षणचण्डमुडमथिनी या रक्तबीजाशनी । शक्तिः शुम्भनिशुम्भदैत्यदलनी या सिद्धलक्ष्मीप्रदा । सा चण्डी नवकोटिशक्तिसहिता मां पातु विश्वेश्वरी ॥ ३॥ मन्दारमालाऽऽकुलितालकायै भाले च मालाङ्कित शेखरायै । दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय ॥ ४॥ यत्रैव यत्रैव मनो मदीयं तत्रैव तत्रैव तवः स्वरूपम् । यत्रैव यत्रैव शिरो मदीयं तत्रैव तत्रैव पदद्वयं ते ॥ ५॥ इति श्रीस्कन्दपुराणे सह्याद्रिखण्डे तुरजामहात्म्ये श्रीशङ्करवसिष्ठसंवादे श्रीतुरजासहस्रनामस्तोत्रं सम्पूर्णमस्तु । शुभं भवन्तु । श्रीजगदम्बार्पणमस्तु । इति श्रीतुरजासहस्रनामस्तोत्रं समाप्तम् । तुलजासहस्रनामस्तोत्रम्, तुळजासहस्रनामस्तोत्रं
% Text title            : Turaja Sahasranama Stotram Tulaja TuLajA
% File name             : turajAsahasranAmastotram.itx
% itxtitle              : turajAsahasranAmastotram athavA tulajA tuLajAsahasranAmastotram (skandapurANAntargatam)
% engtitle              : turajAsahasranAmastotram
% Category              : devii, sahasranAma, otherforms, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : NA, PSA Easwaran
% Description/comments  : shrIskandapurANe sahyAdrikhaNDe turajAmahAtmye shrIshaNkaravariShThasaMvAde See corresponding nAmAvalI
% Indexextra            : (nAmAvalI)
% Latest update         : December 19, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org