उमाऽष्टोत्तरशतनामस्तोत्रम्
श्रीगणेशाय नमः ।
श्रीउमामहेश्वराभ्यां नमः ।
पातु नः पार्वती दुर्गा हैमवत्यम्बिका शुभा ।
शिवा भवानी रुद्राणी शङ्करार्धशरीरिणी ॥ १॥
ॐ उमा कात्यायनी गौरी काली हैमवतीश्वरी ।
शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला ॥ २॥
अपर्णा पार्वती दुर्गा मृडानी चण्डिकाऽम्बिका ।
आर्या दाक्षायणी चैव गिरिजा मेनकात्मजा ॥ ३॥
स्कन्दामाता दयाशीलासुन्दरी भक्तरक्षका ।
भक्तवश्या च लावण्यनिधिः सर्वसुखप्रदा ॥ ४॥
महादेवी भक्तमनोह्वलादिनी कठिनस्तनी ।
कमलाक्षी दयासारा कामाक्षी नित्ययौवना ॥ ५॥
सर्वसम्पत्प्रदा कान्ता सर्वसंमोहिनी मही ।
शुभप्रिया कम्बुकण्ठी कल्याणी कमलप्रिया ॥ ६॥
सर्वेश्वरी च कमलहस्ताविष्णुसहोदरी ।
वीणावादप्रिया सर्वदेवसम्पूजिताङ्घ्रिका ॥ ७॥
कदम्बारण्यनिलया विन्ध्याचलनिवासिनी ।
हरप्रिया कामकोटिपीठस्था वाञ्छितार्थदा ॥ ८॥
श्यामाङ्गा चन्द्रवदना सर्ववेदस्वरूपिणी ।
सर्वशास्त्रस्वरूपाच सर्वदेवमयी तथा ॥ ९॥
पुरुहूतस्तुता देवी सर्ववेद्या गुणप्रिया ।
पुण्यस्वरूपिणी वेद्या पुरुहूतस्वरूपिणी ॥ १०॥
पुण्योदया निराधारा शुनासीरादिपूजिता ।
नित्यपूर्णा मनोगम्या निर्मलाऽऽनन्दपूरिता ॥ ११॥
वागीश्वरी नीतिमती मञ्जुला मङ्गलप्रदा ।
वाग्मिनी वञ्जुला वन्द्या वयोऽवस्थाविवर्जिता ॥ १२॥
वाचस्पतिर्महालक्ष्मीर्महामङ्गलनायिका ।
सिंहासनमयी सृष्टिस्थितिसंहारकारिणी ॥ १३॥
महायज्ञानेत्ररूपा सावित्री ज्ञानरूपिणी ।
वररूपधरायोगा मनोवाचामगोचरा ॥ १४॥
दयारूपा च कालज्ञा शिवधर्मपरायणा ।
वज्रशक्तिधरा चैव सूक्ष्माङ्गी प्राणधारिणी ॥ १५॥
हिमशैलकुमारी च शरणागतरक्षिणी ।
सर्वागमस्वरूपा च दक्षिणा शङ्करप्रिया ॥ १६॥
दयाधारा महानागधारिणी त्रिपुरभैरवी ।
नवीनचन्द्रचूडस्य प्रिया त्रिपुरसुन्दरी ॥ १७॥
नाम्नामष्टोत्तरशतं उमायाः कीर्तितं सकृत् ।
शान्तिदं कीर्तिदं लक्ष्मीयशोमेधाप्रदायकम् ॥ १८॥
॥ इति श्रीउमाऽष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
Encoded and proofread by Gopal Upadhyay gopal.j.upadhyay at gmail.com