उत्कण्ठादशकम्
छिन्नस्वर्णविनिन्दिचिक्कणरुचिं स्मेरां वयःसन्धितो
रम्यां रक्तसुचीनपट्टवसनां वेशेन विभ्राजिताम् ।
उद्घूर्णाच्छितिकण्ठपिञ्छविलसद्वेणीं मुकुन्दं मनाक्
पश्यन्तीं नयनाञ्चलेन मुदितां राधां कदाहं भजे ॥ १॥
यस्याः कान्ततनूल्लसत्परिमलेनाकृष्ट उच्चैः स्फुर-
द्गोपीवृन्दमुखारविन्दमधुतत्प्रीत्या धयन्नप्यदः ।
मुञ्चन्वर्त्मनि बम्भ्रमीति मदतो गोविन्दभृङ्गः सतां
वृन्दारण्यवरेण्यकल्पलतिकां राधां कदाहं भजे ॥ २॥
श्रीमत्कुण्डतटीकुडुङ्गभवने क्रीडाकलानां गुरुं
तल्पे मञ्जुलमल्लिकोमलदलैः कॢप्ते मुहुर्माधवम् ।
जित्वा मानिनमक्षसङ्गरविधौ स्मित्वा दृगन्तोत्सवै-
र्युञ्जानां हसितुं सखीं परमहो राधां कदाहं भजे ॥ ३॥
रासे प्रेमरसेन कृष्णविधुना सार्धं सखीभिर्वृतां
भावैरष्टभिरेव सात्त्विकतरैर्लास्यं रसैस्तन्वतीम् ।
वीणावेणुमृदङ्गकिङ्किणिचलन्मञ्जीरचूडोच्छल-
द्ध्वानैः स्फीतसुगीतमञ्जुनितरां राधां कदाहं भजे ॥ ४॥
उद्दामस्मरकेलिसङ्गरभरे कामं वनान्तःखले
कृष्णेनाङ्कितपीनपर्वतकुचद्वन्द्वां नखैरस्त्रकैः ।
तद्दर्पेण तथा मदोद्धुरमहो तं विद्धमाकुर्वतीं
दूरे स्वालिकुलैः कृताशिषमहो राधां कदाहं भजे ॥ ५॥
मित्राणां निकरैर्वृतेन हरिणा स्वैरं गिरीन्द्रान्तिके
शुल्कादानमिषेण वर्त्मनि हठाद्दम्भेन रुद्धाञ्चलाम् ।
सार्धं स्मेरसखीभिरुद्धुरगिरां भङ्ग्या क्षिपन्तीं रुषा
भ्रूदर्पैर्विलसच्चकोरनयनां राधां कदाहं भजे ॥ ६॥
पारावारविहारकौतुकमनःपूरेण कंसारिणा
स्फारे मानसजाह्नवीजलभरे तर्यां सौमुत्थापिताम् ।
जीर्णा नौर्मम चेत्स्खलेदिति मिषाच्छायाद्वितीयां मुदा
पारे खण्डितकञ्चुलीं धृतकुचां राधां कदाहं भजे ॥ ७॥
उल्लासैर्जलकेलिलोलुपमनःपूरे निदाघोद्गमे
क्ष्वेलीलम्पटमानसाभिरमितः सायं सखीभिर्वृताम् ।
गोविन्दं सरसि प्रियेऽत्र सलिलक्रीडाविदग्धं कणैः
सिञ्चन्तीं जलयन्त्रकेण पयसां राधां कदाहं भजे ॥ ८॥
वासन्तीकुसुमोत्करेण परितः सौरभ्यविस्तारिणा
स्वेनालङ्कृतिसञ्चयेन बहुधाविर्भावितेन स्फुटन्।
सोत्कम्पं पुलकोद्गमैर्मुरभिदा द्राग्भूषिताङ्गीं क्रमै-
र्मोदेनाश्रुभरैः प्लुतां पुलकितां राधां कदाहं भजे ॥ ९॥
प्राणेभ्योऽप्यधिकप्रिया मुररिपोर्या हन्त यस्या अपि
स्वीयप्राणपरार्धतोऽपि दयितास्तत्पादरेणोः कणाः ।
धन्यां तां जगतीत्रये परिलसज्जङ्घालकीर्तिं हरेः
प्रेष्ठावर्गशिरोऽग्रभूषणमणिं राधां कदाहं भजे ॥ १०॥
उत्कण्ठादशकस्तवेन नितरां नव्येन दिव्यैः स्वरै-
र्वृन्दारणयमहेन्द्रपट्टमहिषीं यः स्तौति सम्यक्सुधीः ।
तस्मै प्राणसमागुणानुरसनात्सञ्ज्तहर्षोत्सवैः
कृष्णोऽनर्घमभीष्टरत्नमचिरादेतत्स्फुटं यच्छति ॥ ११॥
इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यामुत्कण्ठादशकं सम्पूर्णम् ।