श्रीवानाद्रिनाथदयितास्तोत्रम्
मातः समस्तजगतां वनशैलनाथ-
वक्षोविहारिणि मनोहरदिव्यवक्त्रे ।
श्रीभूषणैर्मणिमयैः शुभदिव्यगात्रे
त्वत्पादपङ्कजयुगं शरणं प्रपद्ये ॥ १॥
श्रीमद्वनाद्रितटगस्य सुसुन्दरस्य
दोर्दण्डषण्डसुविहारिणि सिन्धुकन्ये ।
त्वद्वीक्षणैर्विलसितैः स्तिमितैः शुभैश्च
लक्ष्मि त्वमेव परिपालय दुर्बलं माम् ॥ २॥
दयानिधे कोमलदिव्यगात्रे
शुचिस्मिते निर्मलचन्द्रवक्त्रे ।
सरोजकान्तायतलोचने त्वं
ममाब्धिकन्ये सुमुखं प्रदेहि ॥ ३॥
पिता च भाता च गुरुश्च बन्धुः
त्वमेव सर्वं मम सिन्धुकन्ये ।
पदारविन्दे शरणं गतं मां
ततस्तु ते पालय लोकमातः ॥ ४॥
मणिसङ्घभूषणगणैरलङ्कृते
गणनाविहीनसुगुणैर्विभूषिते ।
अपि मां सुधाब्धितनये शुचिस्मिते
गुणहीनकं च परिपालयेन्दिरे ॥ ५॥
वनशैलनाथदयिते दयानिधे
भुवनाधिपेश्वरि शुचिस्मितानने ।
नलिनायताक्षि नमतां सुखप्रदे
तव पादपङ्कजयुगं भजे सदा ॥ ६॥
वृषाचलेशस्य सुसुन्दरस्य
भुजान्तरारामयथेच्छलीले ।
गुणेन रूपेण विलासितैस्त्वं
रमे सदानन्दयसे मुकुन्दम् ॥ ७॥
मुकुन्दवक्षःस्थलदिव्यलीला-
विलासितस्त्वं वनशैलराजम् ।
त्वदङ्गसौन्दर्यसदाविमुग्धं
हरिप्रिये नन्दयसे त्वदीशम् ॥ ८॥
सर्वाङ्गसुन्दरहरिस्तव दिव्यागात्र-
सौन्दर्यमज्जितहृदस्तमितान्यभावः ।
त्वां वीक्षते सततमब्धिसुते सुशीले
सौन्दर्यवल्लि कमले परिपाहि मां त्वम् ॥ ९॥
सौन्दर्यवल्लि कमले सकलैकमातः
सर्वाङ्गसुन्दरमनोहरदिव्यरूपे ।
पद्मे मनोज्ञवदने सुभगे सुशीले
त्वत्पादपङ्कजयुगं शरणं गतोऽस्मि ॥ १०॥
वितर वितर भद्रं सम्पदं भक्तिरूपा-
मिह च मम परत्र श्रीपतौ भाष्यकारे ।
वरवरमुनिवर्ये त्वत्पदाम्भोजयुग्मे
मम तु जलधिकन्ये निश्चलां लोकमातः ॥ ११॥
कलशजलधिकन्ये लोकमातः सुशीले
स्मितविलसितवक्त्रे कल्पवल्लि श्रितानाम् ।
दिवि भुवि वनशैलक्ष्मापतेर्वल्लभे श्रीः
मम तु तव पदाब्जे निश्चला भक्तिरस्तु ॥ १२॥
दिवि भुवि मम पझे सम्पदं भक्तिरूपां
वितर तव पदाब्जे सुन्दरश्रीपदाब्जे ।
शठरिपुपदपद्मे भाष्यकारे यतीन्द्रे
वरवरमुनिवर्ये लक्ष्मि कल्याणशीले ॥ १३॥
कल्याणशीले रमणीयगात्रे
लावण्यसौन्दर्यनिधे मनोज्ञे ।
कल्याणदे कल्पलते श्रितानां
पझे प्रयच्छ प्रियमब्धिकन्ये ॥ १४॥
प्रियमिह मम पद्मे सम्प्रयच्छ प्रयच्छ
तव तु चरणपद्मे संस्मरामि स्मरामि ।
गतिरिह मम नास्ति त्वत्पदाम्भोजयुग्मा-
दशरणमतिदीनं पाहि मां सिन्धुकन्ये ॥ १५॥
शरणमिह परत्र त्वत्पदाम्भोजयुग्मं
मम वनगिरिराजः पादकैङ्कर्यलक्ष्म्याः ।
सपदि किल ततस्त्वं लक्ष्मि पद्मायताक्षि
सकलभुवनमातः पाहि मां सिन्धुकन्ये ॥ १६॥
नमो लोकमातो न माता विना त्वां
रमे सिन्धुकन्ये सरोजायताक्षि ।
ततस्त्वं सुशीले प्रसीद प्रसीद
प्रियं विष्णुकान्ते प्रयच्छ प्रयच्छ ॥ १७॥
कृतान्मे सुशीले तनुस्वान्तवाग्भिः
समस्तापचारान् ममाम्ब क्षमस्व ।
वनाद्रीश्वरि त्वं पयस्सिन्धुकन्ये
सरोजाक्षि पद्मे प्रसन्नाब्जवक्त्रे ॥ १८॥
न माता पिता वा विना त्वां सुशीले
न नाथः प्रियो वा बिना सुन्दरेशम् ।
कलानाथवक्त्रे कटाक्षैस्ततस्त्वं
सुधासिन्धुकाये रमे रक्ष मां त्वम् ॥ १९॥
श्रियै सुन्दरराजस्य महिष्यै नित्यमङ्गलम् ।
माणिक्यभूषणोद्दीप्रतन्वङ्ग्यै जयमङ्गलम् ॥ २०॥
इति श्रीवानाद्रिनाथदयितास्तोत्रं सम्पूर्णम् ।
Proofread by Rajesh Thyagarajan