श्रीवासवीकन्यकापरमेश्वरीसहस्रनामस्तोत्रम्

श्रीवासवीकन्यकापरमेश्वरीसहस्रनामस्तोत्रम्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ न्यासः । अस्य श्रीवासवीकन्यकापरमेश्वरीसहस्रनामस्तोत्रमहामन्त्रस्य, समाधि ऋषिः, श्रीवासवीकन्यकापरमेश्वरी देवता, अनुष्टुप्छन्दः, वं बीजम्, स्वाहा शक्तिः, सौभाग्यमिति कीलकम्, श्रीवासवीकन्यकापरमेश्वरी प्रसादसिद्धयर्थे जपे विनियोगः ॥ ध्यानम् । वन्दे सर्वसुमङ्गलरूपिणीं वन्दे सौभाग्यदायिनीम् । वन्दे करुणामयसुन्दरीं वन्दे कन्यकापरमेश्वरीम् ॥ वन्दे भक्तरक्षणकारिणीं वासवीं वन्दे श्रीमन्त्रपुरवासिनीम् । वन्दे नित्यानन्दस्वरूपिणीं वन्दे पेनुकोण्डापुरवासिनीम् ॥ अथ सहस्रनामस्तोत्रम् । ॐ श्रीकन्यका कन्यकाम्बा कन्यकापरमेश्वरी । कन्यकावासवीदेवी माता वासवकन्यका ॥ १॥ मणिद्वीपादिनेत्रा च मङ्गला मङ्गलप्रदा । गौतमीतीरभूमिस्था महागिरिनिवासिनी ॥ २॥ सर्वमन्त्रात्मिका चैव सर्वयन्त्रादिनायिका । सर्वतन्त्रमयी भद्रा सर्वमन्त्रार्थरूपिणी ॥ ३॥ सर्वज्ञा सर्वगा सर्वा ब्रह्मविष्णुशिवार्चिता । नव्या दिव्या च सेव्या च भव्या सव्या सतव्यया ॥ ४॥ चित्रघण्टमदच्छेद्री चित्रलीलामयी शुभा । वेदातीता वराश्रीदा विशालाक्षी शुभप्रदा ॥ ५॥ शुभश्रेष्ठिसुता ईषा विश्वा विश्वम्भरावनी । कन्या विश्वमयी पुण्याऽगण्या च रूपसुन्दरी ॥ ६॥ सगुणा निर्गुणा चैव निर्द्वन्द्वा निर्मलाऽनघा । सत्या सत्यस्वरूपा च सत्या सत्यस्वरूपिणी ॥ ७॥ चराचरमयी चैव योगनिद्रा सुयोगिनी । नित्यधर्मा निष्कलङ्का नित्यधर्मपरायणा ॥ ८॥ कुसुमश्रेष्ठिपुत्री च कुसुमालयभूषणा । कुसुमाम्बा कुमारी च विरूपाक्षसहोदरी ॥ ९॥ कर्ममयी कर्महन्त्री कर्मबन्धविमोचनी । शर्मदा बलदा निष्ठा निर्मला निस्तुलप्रभा ॥ १०॥ इन्दीवरसमानाक्षी इन्द्रियाणां वशङ्करी । कृपासिन्दुः कृपावार्ता मणिनूपुरमण्डिता ॥ ११॥ त्रिमूर्तिपदवीधात्री जगद्रक्षणकारिणी । सर्वभद्रस्वरूपा च सर्वभद्रप्रदायिनी ॥ १२॥ मणिकाञ्चनमञ्जीरा ह्यरुणाङ्ग्रिसरोरुहा । शून्यमध्या सर्वमान्या धन्याऽनन्या समाद्भुता ॥ १३॥ विष्णुवर्दनसम्मोहकारिणी पापहारिणी । सर्वसम्पत्करी सर्वरोगशोकनिवारिणी ॥ १४॥ आत्मगौरवसौजन्यबोधिनी मानदायिनी । मानरक्षाकरीमाता भुक्तिमुक्तिप्रदायिनी ॥ १५॥ शिवप्रदा निस्समा च निरतिका ह्यनुत्तमा । योगमाया महामाया महाशक्तिस्वरूपिणी ॥ १६॥ अरिवर्गापहारिणी भानुकोटिसमप्रभा । मल्लीचम्पकगन्धाढ्या रत्नकाञ्चनभूषिता ॥ १७॥ चन्द्रचूडा शिवमयी चन्द्रबिम्बसमानना । रागरूपकपाशाढ्या मृगनाभिविशेषका ॥ १८॥ अग्निपूज्या चतुर्भुजा नासाचाम्पेयपुष्पका । नासामौक्तिकसुज्वाला कुरुविन्दकपोलका ॥ १९॥ इन्दुरोचिस्मिता वीणा वीणास्वरनिवासिनी । अग्निशुद्धा सुकाञ्चिता गूढगुल्फा जगन्मयी ॥ २०॥ मणिसिम्हासनस्थिता करुणामयसुन्दरी । अप्रमेया स्वप्रकाशा शिष्टेष्टा शिष्टपूजिता ॥ २१॥ चिच्छक्तिः चेतनाकारा मनोवाचामगोचरा । चतुर्दशविद्यारूपा चतुर्दशकलामयी ॥ २२॥ महाचतुष्षष्टिकोटियोगिनीगणसेविता । चिन्मयी परमानन्दा विज्ञानघनरूपिणी ॥ २३॥ ध्यानरूपा ध्येयरूपा धर्माधर्मविवर्जिता । चारुरूपा चारुहासा चारुचन्द्रकलाधरा ॥ २४॥ चराचरजगन्नेत्रा चक्रराजनिकेतना । ब्रह्मादिसृष्टिकर्ती च गोप्त्री तेजस्वरूपिणी ॥ २५॥ भानुमण्डलमध्यस्था भगवतीसदाशिवा । ब्रह्माण्डकोटिजननी पुरुषार्थप्रदाम्बिका ॥ २६॥ आदिमध्यान्तरहिता हरिब्रह्मेश्वरार्चिता । नारायणी नादरूपा सम्पूर्णा भुवनेश्वरी ॥ २७॥ राजराजार्चिता रम्या रञ्जनी मुनिरञ्जनी । कल्याणी लोकवरदा करुणारसमञ्जुला ॥ २८॥ वरदा वामनयना महाराज्ञी निरीश्वरी । रक्षाकरी राक्षसघ्नी दुष्टराजमदापहा ॥ २९॥ विधात्री वेदजननी राका चन्द्रसमानना । तन्त्ररूपा तन्त्रिणी च तन्त्रवेद्या तपस्विनी ॥ ३०॥ शास्त्ररूपा शास्त्राधारा सर्वशास्त्रस्वरूपिणी । रागपाशा मनश्श्याभा पञ्चभूतमयी तथा ॥ ३१॥ पञ्चतन्मात्रसायका क्रोधाकाराङ्कुशाञ्चिता । निजकान्तिपराजण्डा मण्डला भानुमण्डला ॥ ३२॥ कदम्बमयताटङ्का चाम्पेयकुसुमप्रिया । सर्वविद्याङ्कुराकारा दन्तपङ्क्तिद्वयाञ्चिता ॥ ३३॥ सरसालापमाधुरी जितवाणी विपञ्चिका । ग्रैवेयमणिभूषिता कूर्मपृष्ठपदद्वया ॥ ३४॥ नखकान्तिपरिच्छिन्ना कामिनी कामरूपिणी । मणिकिङ्किणिका दिव्यरचना दामभूषिता ॥ ३५॥ रम्भा स्तम्भमनोज्ञा च मार्दवोरुद्वयान्विता । पदशोभाजिताम्बोजा महागिरिपुरीश्वरी ॥ ३६॥ देवरत्नगृहान्तस्था सर्वज्ञा ज्ञानमोचना । महापद्मासनस्था च कदम्बवनवासिनी ॥ ३७॥ निजांशभोगसरोल्लसितलक्ष्मीगौरीसरस्वती । मञ्जुकुञ्जन्मणिमञ्जीराऽलङ्कृतपदाम्भुजा ॥ ३८॥ हंसिका मन्दगमना महासौन्दर्यवारदी । अनवद्याऽरुणा गण्याऽगण्या दुर्गुणदूरका ॥ ३९॥ सम्पत्दात्री सौख्यदात्री करुणामयसुन्दरी । अश्विनिदेवसन्तुष्टा सर्वदेवसुसेविता ॥ ४०॥ गेयचक्ररथारूढा मन्त्रिण्यम्बासमर्चिता । कामदाऽनवद्याङ्गी देवर्षिस्तुतवैभवा ॥ ४१॥ विघ्नयन्त्रसमोभेदा करोत्यन्नैकमाधवा । सङ्कल्पमात्रनिर्धूता विष्णुवर्दनमर्दिनी ॥ ४२॥ मूर्तित्रयसदासेवा समयस्था निरामया । मूलाधारा भवाऽपारा ब्रह्मग्रन्थिविभेदिनी ॥ ४३॥ मणिपूरान्तरा वासा विष्णु ग्रन्थिविभेदिनी । आज्ञाचक्रगदामाया रुद्रग्रन्थिविभेदिनी ॥ ४४॥ सहस्रारसमारूढा सुधासाराभिवर्षिणी । तटिन्रेखा समापासा षट्चक्रोपरिवासिनी ॥ ४५॥ भक्तिवश्या भक्तिगम्या भक्तरक्षणकारिणी । भक्तिप्रिया भद्रमूर्तिः भक्तसन्तोषदायिनी ॥ ४६॥ सर्वदा कुण्डलिनी अम्बा शारदा शर्मदा शुभा । साध्वी श्रीकर्युदारा च धीकरी शम्भुमानिता ॥ ४७॥ शम्भु मानसिकामाता शरच्चन्द्रमुखी तथा । शिष्टा शिवा निराकारा निर्गुणाम्बा निराकुला ॥ ४८॥ निर्लेपा निस्तुलाकन्या निरवद्या निरन्तरा । निष्कारणा निष्कलङ्का नित्यबुद्धा निरीश्वरा ॥ ४९॥ नीरागा रागमथनी निर्मदा मदनाशिनी । निर्ममा सममाया च अनन्या जगदीश्वरी ॥ ५०॥ निरोगा निराबाधा च निजानन्दा निराश्रया । नित्यमुक्ता निगममा नित्यशुद्धा निरुत्तमा ॥ ५१॥ निर्व्याधा व्याधिमथना निष्क्रिया निरुपप्लवा । निश्चिन्ता निरहङ्कारा निर्मोहा मोहनाशिनी ॥ ५२॥ निर्बाधा ममताहन्त्री निष्पापा पापनाशिनी । अभेदा साक्षिरूपा च निर्भेदा भेदनाशिनी ॥ ५३॥ निर्नाशा नाशमथनी पुष्कला लोभहारिणी । नीलवेणी निरालम्बा निरपाया भयापहा ॥ ५४॥ निस्सन्देहा संशयज्ञी निर्भवा च निरञ्जिता । सुखप्रदा दुष्टदूरा निर्विकल्पा निरत्यया ॥ ५५॥ सर्वज्ञाना दुःखहन्त्री समानाधिकवर्जिता । सर्वशक्तिमयी सर्वमङ्गला सत्गतिप्रदा ॥ ५६॥ सर्वेश्वरी सर्वमयी सर्वतत्त्वस्वरूपिणी । महामाया महाशक्तिः महासत्वा महाबला ॥ ५७॥ महावीर्या महाबुद्धिः महैश्वर्या महागतिः । मनोन्मणी महादेवी महापातकनाशिनी ॥ ५८॥ महापूज्या महासिद्धिः महायोगीश्वरेश्वरी । महातन्त्रा महामन्त्रा महायन्त्रा महासना ॥ ५९॥ महायागक्रमाराध्या महायोगसमर्चिता । प्रकृतिर्विकृतिर्विद्या सर्वभूतहितप्रदा ॥ ६०॥ शुचिस्वाहा हिरण्मयी धन्या सुता स्वधा तथा । मान्या श्रद्धा विभूदिता ब्रह्मविष्णुशिवात्मिका ॥ ६१॥ दीप्ता कान्ता च कामाक्षी भाविताऽनुग्रहप्रदा । शिवप्रिया रमाऽनघा अमृताऽऽनन्दरूपिणी ॥ ६२॥ लोकदुःखविनाशिनी करुणा धर्मवर्धिनी । पद्मिनी पद्मगन्धिनी सुप्रसन्ना सुनन्दिनी ॥ ६३॥ पद्माक्षी पुण्यगन्धा च प्रसादाभिमुखीप्रभा । आह्लादजननी पुष्टा लोकमातेन्दुशीतला ॥ ६४॥ पद्ममालाधराऽत्भुता अर्धचन्द्रविभूषिणी । आर्यवैश्यसहोदरी वैश्यसौख्यप्रदायिनी ॥ ६५॥ तुष्टिः पुष्टिश्शिवारूढा दारिद्र्यविनाशिनी । शिवधात्री च विमलास्वामिनी प्रीतिपुष्कला ॥ ६६॥ आर्या श्यामा सती सौम्या श्रीदा मङ्गलदायिनी । भक्तकोटिपरानन्दा सिद्धिरूपा वसुप्रदा ॥ ६७॥ भास्करी ज्ञाननिलया ललिताङ्गी यशस्विनी । ऊर्जिता च त्रिकालज्ञा सर्वकालस्वरूपिणी ॥ ६८॥ दारिद्र्यनाशिनी चैव सर्वोपद्रवहारिणी । अन्नदा चान्नदात्री च अच्युदानन्दकारिणी ॥ ६९॥ अनन्ता अच्युता व्यक्ता व्यक्ताव्यक्तस्वरूपिणी । शारदम्बोजभद्राक्षी अजया भक्तवत्सला ॥ ७०॥ आशा चाश्रिता रम्या च अवकाशस्वरूपिणी । आकाशमयपद्मस्था अनाद्या च द्वयोनिजा ॥ ७१॥ अबला चागजा चैव आत्मजा चात्मगोचरा । अनाद्या चादिदेवी च आदित्यदयभास्वरा ॥ ७२॥ कार्तेश्वरमनोज्ञा च कालकण्ठनिभस्वरा । आधारा चात्मदयिता अनीशा चात्मरूपिणी ॥ ७३॥ ईशिका ईशा ईशानी ईश्वरैश्वर्यदायिनी । इन्दुसुता इन्दुमाता इन्द्रिया इन्दुमन्दिरा ॥ ७४॥ इन्दुबिम्बसमानास्या इन्द्रियाणां वशङ्करी । एका चैव एकवीरा एकाकारैकवैभवा ॥ ७५॥ लोकत्रयसुसम्पूज्या लोकत्रयप्रसूतिता । लोकमाता जगन्माता कन्यका परमेश्वरी ॥ ७६॥ वर्णात्मा वर्णनिलया षोडषाक्षररूपिणी । काली कृत्या महारात्री मोहरात्री सुलोचना ॥ ७७॥ कमनीया कलाधारा कामिनी वर्णमालिनी । काश्मीरद्रवलिप्ताङ्गी काम्या च कमलार्चिता ॥ ७८॥ माणिक्यभासालङ्कारा कनका कनकप्रदा । कम्बुग्रीवा कृपायुक्ता किशोरी च ललाटिनी ॥ ७९॥ कालस्था च निमेषा च कालदात्री कलावती । कालज्ञा कालमाता च कन्यका क्लेशनाशिनी ॥ ८०॥ कालनेत्रा कलावाणी कालदा कालविग्रहा । कीर्तिवर्धिनी कीर्तिज्ञा कीर्तिस्था कीर्तिदायिनी ॥ ८१॥ सुकीर्तिता गुणातीता केशवानन्दकारिणी । कुमारी कुमुदाबा च कर्मदा कर्मभञ्जनी ॥ ८२॥ कौमुदी कुमुदानन्दा कालाङ्गी कालभूषणा । कपर्दिनी कोमलाङ्गी कृपासिन्धुः कृपामयी ॥ ८३॥ कञ्चस्था कञ्चवदना कूटस्था कुलरूपिणी । लोकेश्वरी जगद्धात्री कुशला कुलसम्भवा ॥ ८४॥ चितज्ञा चिन्तितपदा चिन्तस्था चित्स्वरूपिणी । चम्पकापमनोज्ञा च चारु चम्पकमालिनी ॥ ८५॥ चण्डस्वरूपिणी चण्डी चैतन्यघनकेहिनी । चितानन्दा चिताधारा चिताकारा चितालया ॥ ८६॥ चबलापाङ्गलतिका चन्द्रकोटिसुभास्वरा । चिन्तामणिगुणाधारा चिन्तामणिविभूषिता ॥ ८७॥ भक्तचिन्तामणिलता चिन्तामणिसुमन्दिरा । चारुचन्दनलिप्ताङ्गी चतुरा चतुरानना ॥ ८८॥ छत्रदा छत्रदारी च चारुचामरवीजिता । भक्तानां छत्ररूपा च छत्रछाया कृतालया ॥ ८९॥ जगज्जीवा जगद्धात्री जगदानन्दकारिणी । यज्ञरता च जननी जपयज्ञपरायणा ॥ ९०॥ यज्ञदा यज्ञफलदा यज्ञस्थानकृतालया । यज्ञभोक्त्री यज्ञरूपा यज्ञविघ्नविनाशिनी ॥ ९१॥ कर्मयोगा कर्मरूपा कर्मविघ्नविनाशिनी । कर्मदा कर्मफलदा कर्मस्थानकृतालया ॥ ९२॥ अकालुष्यसुचारित्रा सर्वकर्मसमञ्चिता । जयस्था जयदा जैत्री जीविता जयकारिणी ॥ ९३॥ यशोदा यशसाम्राज्या यशोदानन्दकारिणी । ज्वलिनी ज्वालिनी ज्वाला ज्वलद्पावकसन्निभा ॥ ९४॥ ज्वालामुखी जनानन्दा जम्बूद्वीपकृतालया । जन्मदा च जन्महता जन्मनी जन्मरञ्जनी ॥ ९५॥ जननी जन्मभूः चैव वेदशास्त्रप्रदर्शिनी । जगदम्बा जनित्री च जीवकारुण्यकारिणी ॥ ९६॥ ज्ञातिदा जातिदा जातिज्ञानदा ज्ञानगोचरा । ज्ञानमयी ज्ञानरूपा ईश्वरी ज्ञानविग्रहा ॥ ९७॥ ज्ञानविज्ञानशालिनी जपापुष्पसमष्टिता । जिनजैत्री जिनाधारा जपाकुसुमशोभिता ॥ ९८॥ तीर्थङ्करी निराधारा जिनमाता जिनेश्वरी । अमलाम्बरधारिणी च विष्णुवर्दनमर्दिनी ॥ ९९॥ शम्भुकोटिदुराधर्षा समुद्रकोटिगम्भीरा । सूर्यकोटिप्रतीकाशा वायुकोटिमहाबला ॥ १००॥ यमकोटिपराक्रमा कामकोटिफलप्रदा । रतिकोटिसुलावण्या चक्रकोटिसुराज्यदा ॥ १०१॥ पृथ्विकोटिक्षमाधारा पद्मकोटिनिभानना । अग्निकोटिभयङ्करी श्रीकन्यकापरमेश्वरी ॥ १०२॥ ईशानादिकचिच्छक्तिः धनाधारा धनप्रदा । अणिमा महिमा प्राप्तिः करिमा लधिमा तथा ॥ १०३॥ प्राकाम्या वशित्वा चैव ईशित्वा सिद्धिदायिनी । महिमादिगुणैर्युक्ता अणिमाद्यष्टसिद्धिदा ॥ १०४॥ यवनाङ्गी जनादीना अजरा च जरावहा । तारिणी त्रिगुणा तारा तारिका तुलसीनता ॥ १०५॥ त्रयीविद्या त्रयीमूर्तिः त्रयज्ञा तुरीया तथा । त्रिगुणेश्वरी त्रिविदा विश्वमाता त्रपावती ॥ १०६॥ तत्त्वज्ञा त्रिदशाराद्या त्रिमूर्तिजननी तथा । त्वरा त्रिवर्णा त्रैलोक्या त्रिदिवा लोकपावनी ॥ १०७॥ त्रिमूर्ती त्रिजननी चैव त्रिभूः तारा तपस्विनी । तरुणी तापसाराध्या तपोनिष्टा तमोपहा ॥ १०८॥ तरुणा त्रिदिवेशाना तप्तकाञ्चनसन्निभा । तापसी तारारूपिणी तरुणार्कप्रदायिनी ॥ १०९॥ तापज्ञी तर्किका तर्कविद्याऽविद्यास्वरूपिणी । त्रिपुष्करा त्रिकालज्ञा त्रैलोक्यव्यापिनीश्वरी ॥ ११०॥ तापत्रयविनाशिनी तपस्सिद्धिप्रदायिनी । गुणाराध्या गुणातीता कुलीना कुलनन्दिनी ॥ १११॥ तीर्थरूपा तीर्थकरी शोकदुःखविनाशिनी । अदीना दीनवत्सला दीनानाथप्रियङ्करी ॥ ११२॥ दयात्मिका दयापूर्णा देवदानवपूजिता । दक्षिणा दक्षिणाराध्या देवानां मोदकारिणी ॥ ११३॥ दाक्षायणी देवसुता दुर्गा दुर्गतिनाशिनी । घोराग्निदाहदमनी दुःखदुःस्वप्नवारिणी ॥ ११४॥ श्रीमतिः श्रीमयी श्रेष्ठा श्रीकरी श्रीविभावरी । श्रीदा श्रीशा श्रीनिवासा परमानन्ददायिनी ॥ ११५॥ श्रीयुता श्रीमतिः माताधनदा दामिनी दया । दान्ता धर्मदा शान्ता च दाडिमीकुसुमप्रभा ॥ ११६॥ धरणी धारणी धैर्या धैर्यदा धनशालिनी । धनञ्जया धनाकारा धर्मा धात्री च धर्मिणी ॥ ११७॥ देदीप्यमाना धर्मिणी दुरावारा दुरासदा । नानारत्नविचित्राङ्गी नानाभरणमण्डिता ॥ ११८॥ नीरजास्या निरातङ्गा नवलावण्यसुन्दरी । दमना निधिता नित्या निजा निर्णयसुन्दरी ॥ ११९॥ परमा च निर्विकारा निर्वैरा निखिला तथा । प्रमदा प्रथमा प्राज्ञा सर्वपावनपावनी ॥ १२०॥ सर्वप्रिया सर्वव्रता पावना पापनाशिनी । वासव्यंशभागाऽपूर्वा परञ्ज्योतिस्वरूपिणी ॥ १२१॥ परोक्षा पारगा कन्या परिशुद्धाऽपारगा । परासिद्धिः परागतिः पशुपाशविमोचनी ॥ १२२॥ पद्मगन्धा च पद्माक्षी परब्रह्मस्वरूपिणी । पद्मकेसरमन्दिरा परब्रह्मनिवासिनी ॥ १२३॥ परमानन्दमुदिता पूर्णपीठनिवासिनी । परमेशी पृथ्वी चैव परचक्रनिवासिनी ॥ १२४॥ परावरा पराविद्या परमानन्ददायिनी । वाग्रूपा वाग्मयी वाग्दा वाग्नेत्री वाग्विशारदा ॥ १२५॥ धीरूपा धीमयी धीरा धीदात्री धीविशारदा । वृन्दारकवृन्दवन्द्या वैश्यवृन्दसहोदरी ॥ १२६॥ राजराजेश्वरार्चिता भक्तसर्वार्थसाधका । पणिभूषा बालापूजा प्राणरूपा प्रियंवदा ॥ १२७॥ भक्तिप्रिया भवाराध्या भवेशी भयनाशिनी । भवेश्वरी भद्रमुखी भवमाता भवा तथा ॥ १२८॥ भट्टारिका भवागम्या भवकण्टकनाशिनी । भवानन्दा भावनीया भूतपञ्चकवासिनी ॥ १२९॥ भगवती च भूदात्री भूतेशी भूतरूपिणी । भूतस्था भूतमाता च भूतज्ञा भवमोचनी ॥ १३०॥ भक्तशोकतमोहन्त्री भवभारविनाशिनी । भूगोपचारकुशला दात्री च भूचरी तथा ॥ १३१॥ भीतिहा भक्तिरम्या च भक्तानामिष्टदायिनी । भक्तानुकम्पिनी भीमा भक्तानामार्तिनाशिनी ॥ १३२॥ भास्वरा भास्वती भीतिः भास्वदुत्थानशालिनी । भूतिदा भूतिरूपा च भूतिका भुवनेश्वरी ॥ १३३॥ महाजिह्वा महादंष्ट्रा मणिपूरनिवासिनी । मानसी मानदा मान्या मनःचक्षुरगोचरा ॥ १३४॥ महाकुण्डलिनीमाता महाशत्रुविनाशिनी । महामोहान्तकारज्ञा महामोक्षप्रदायिनी ॥ १३५॥ महाशक्तिः महाविर्या महिषासुरमर्दिनी । मधुरा च मेधा मेध्या महावैभववर्धिनी ॥ १३६॥ महाव्रता महामूर्ता मुक्तिकाम्यार्थसिद्धिदा । महनीया माननीया महादुःखविनाशिनी ॥ १३७॥ मुक्ताहारालतोभेता मत्तमातङ्गकामिनी । महाघोरा मन्त्रमाता महाचोरभयापहा ॥ १३८॥ मालिनी च महासूक्ष्मा मकराकृतिकुण्डला । महाप्रभा महाचिन्त्या महामन्त्रमहौषधिः ॥ १३९॥ मणिमण्डलमध्यस्था मणिमालाविराजिता । मनोरमा महारूपा राज्ञी राजीवलोचना ॥ १४०॥ विद्यार्थिनी रमामाता विष्णुरूपाविनोदिनी । वीरेश्वरी च वरदा विशालनयनोत्पला ॥ १४१॥ वीरसुता वीरवन्द्या विश्वभूः वीरनन्दिनी । विश्वेश्वरी विशालाक्षी विष्णुमायाविमोहिनी ॥ १४२॥ विख्याता विलसत्कचा ब्रह्मेशी ब्रह्मरूपिणी । ब्रह्मविद्या च ब्रह्माणी विश्वा च विश्वरूपिणी ॥ १४३॥ विश्ववन्द्या विश्वशक्तिः वीरा विचक्षणा तथा । बाला बालिका बिन्दुस्था विश्वपाशविमोचनी ॥ १४४॥ शिशुप्राया वैद्यविद्या शीलाशीलप्रदायिनी । क्षेत्रा क्षेमङ्करी वैश्या आर्यवैश्यकुलेश्वरी ॥ १४५॥ कुसुमश्रेष्ठिसत्पुत्री कुसुमाम्बाकुमारिका । बालनगरसम्पूज्या विरूपाक्षसहोदरी ॥ १४६॥ सर्वसिद्धेश्वराराद्या सर्वाभीष्टफलप्रदा । सर्वदुःखप्रशमनी सर्वरक्षास्वरूपिणी ॥ १४७॥ विभुदा विष्णुसङ्कल्पा विज्ञानघनरूपिणी । विचित्रिणी विष्णुपूज्या विष्णुमायाविलासिनी ॥ १४८॥ वैश्यदात्री वैश्यगोत्रा वैश्यगोत्रविवर्धिनी । वैश्यभोजनसन्तुष्टा महासङ्कल्परूपिणी ॥ १४९॥ सन्ध्या विनोदिनीवेद्या सत्यज्ञानप्रबोधिनी । विकाररहितामाता विजया विश्वसाक्षिणी ॥ १५०॥ तत्त्वज्ञा च तत्त्वाकारा तत्त्वमर्थस्वरूपिणी । तपस्वाध्यायनिरता तपस्वीजनसन्नुता ॥ १५१॥ विपुला विन्ध्यवासिनी नगरेश्वरमानिता । कमलादेविसम्पूज्या जनार्दनसुपूजिता ॥ १५२॥ वन्दिता वररूपा च मतिता मत्तकाशिनी । माधवी मालिनी मान्या महापातकनाशिनी ॥ १५३॥ वरा च वरवर्णिनी वारिताकारवर्षिणी । सत्कीर्तिगुणसम्पन्ना वैश्यलोकवशङ्करी ॥ १५४॥ तत्त्वासना तपोफला तरुणादित्यपाटला । तन्त्रसारा तन्त्रमाता तपोलोकनिवासिनी ॥ १५५॥ तन्त्रस्था तन्त्रसाक्षिणी तन्त्रमार्गप्रदर्शिनी । सर्वसम्पत्तिजननी सत्पथा सकलेष्टदा ॥ १५६॥ असमाना सामदेवी समर्हा सकलस्तुता । सनकादिमुनिद्येया सर्वशास्त्रार्थगोचरा ॥ १५७॥ सदाशिवा समुत्तीर्णा सात्विका शान्तरूपिणी । सर्ववेदान्तनिलया समया सर्वतोमुखी ॥ १५८॥ सहस्रदलपद्मस्था सर्वचैतन्यरूपिणी । सर्वदोषविनिर्मुक्ता सच्चिदानन्दरूपिणी ॥ १५९॥ सर्वविश्वम्बरावेद्या सर्वज्ञानविशारदा । विद्याविद्याकरी विद्या विद्याविद्यप्रबोधिनी ॥ १६०॥ विमला विभवा वेद्या विश्वस्था विवितोज्वला । वीरहत्यप्रशमनी विनम्रजनपालिनी ॥ १६१॥ वीरमध्या विराट्रूपा वितन्त्रा विश्वनायिका । विश्वम्बरा समाराध्या विक्रमा विश्वमङ्गला ॥ १६२॥ विनायकी च वासवी कन्यका परमेश्वरी । नित्यकर्मफलप्रदा नित्यमङ्गलरूपिणी ॥ १६३॥ क्षेत्रपालसमर्चिता ग्रहपीडानिवारिणी । क्षेमकारुण्यकारिणी रुद्रलक्षणधारिणी ॥ १६४॥ सर्वानन्दमयी भद्रा वैश्यसौख्यप्रदायिनी । नित्यानन्दस्वरूपिणी वैश्यसम्पत्प्रदायिनी ॥ १६५॥ क्षेत्रज्येष्ठाचलस्थिता श्रीमन्त्रपुरवासिनी । सौमङ्गल्यादिदेवता श्रीकन्यकापरमेश्वरी ॥ १६६॥ फलश्रुतिः । सहस्रनामकं स्तोत्रं वासव्याः यः पठेन्नरः । पुत्रपौत्रमवाप्नोति सर्वसिद्धिञ्चविन्दति ॥ १॥ सर्वरोगप्रशमनं दीर्घायुष्यप्रदायकम् । अनेन सदृशं स्तोत्रं न भूतं न भविष्यति ॥ २॥ यं यं कामयते कामं तं तं प्राप्नोति निश्चितम् । तस्यैव भवति श्रद्धा कन्यका नामकीर्तने ॥ ३॥ ॥ इति श्रीवासवीकन्यकापरमेश्वरी सहस्रनामस्तोत्रं सम्पूर्णम् ॥ समर्पणम् । यदक्षरपदभ्रष्टं मात्राहीनं तु यद्भवेत् । तत्सर्वं क्षम्यतां देवी वासवाम्बा नमोऽस्तुते ॥ १॥ विसर्गबिन्दुमात्राणि पदपादाक्षराणि च । न्यूनानि चातिरिक्तानि क्षमस्व परमेश्वरी ॥ २॥ अन्यथा शरणं नास्ति त्वमेव शरणं मम । तस्मात्कारुण्यभावेन रक्ष रक्ष महेश्वरी ॥ ३॥ Composed and proofread by Bala Umamaheshwari
% Text title            : Vasavi Kanyaka Parameshvari Sahasranama Stotra
% File name             : vAsavIkanyakAparameshvarIsahasranAmastotram.itx
% itxtitle              : vAsavIkanyakAparameshvarIsahasranAmastotram
% engtitle              : vAsavIkanyakAparameshvarIsahasranAmastotram
% Category              : devii, sahasranAma, devI
% Location              : doc_devii
% Sublocation           : devii
% Author                : Bala Umamaheshwari from nAmAvalI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : Bala Umamaheshwari
% Description/comments  : See corresponding nAmAvalI
% Indexextra            : (1, 2, Audio)
% Latest update         : May 26, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org