श्रीवासवीकन्यकापरमेश्वरीसहस्रनामस्तोत्रम् (३)

श्रीवासवीकन्यकापरमेश्वरीसहस्रनामस्तोत्रम् (३)

ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेद्सर्वविघ्नोपशान्तये ॥ गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुस्साक्षात्परब्रह्म तस्मै श्रीगुरवे नमः ॥ आयुर्देहि धनं देहि विद्यां देहि महेश्वरी । समस्तमखिलां देहि देहि मे कन्यकापरमेश्वरी ॥ वन्दे मातरं अम्बिकां भगवतीं वारीरमा सेवितां कल्याणीं कमनीय कल्पलतिकां कैलासनाथप्रियाम् । वेदान्त प्रतिपाद्यमानविभवां विद्वन् मनोरञ्जनीं श्रीचक्राङ्कित पद्मपीठनिलयां श्रीराजराजेश्वरी ॥ ॐ वासव्यै च विद्महे कुसुमपुत्र्यै च धीमहि तन्नो कन्यका प्रचोदयात् ॥ ध्यानम् - सर्वसौभाग्यजननी नमोऽस्तुते । वैश्यवंशिकुलोद्भवि नमोऽस्तुते । तुलाश्रितकुलेदेवि नमोऽस्तुते । श्रीमत्कन्याशिरोमणि नमोऽस्तुते । पनुकोण्डापुरवासिनि नमोऽस्तुते । नित्यमहोत्सवविलासिनि नमोऽस्तुते । साम्राज्यसुखदायिनि नमोऽस्तुते । सर्वभक्तप्रपालिनि नमोऽस्तुते ॥ अथ श्रीवासवीकन्यकापरमेश्वरीसहस्रनामस्तोत्रम् । ॐ श्रीकन्यकाम्बा च श्रीकन्यकापरमेश्वरी । कन्यका वासवी देवी माता वासवकन्यका ॥ १॥ मणिद्विभात्रिनेत्री मङ्गला मङ्गलायिनी । गौतमितीरभूमिस्था महागिरिनिवासिनी ॥ २॥ सर्वमन्त्रात्मिका चैव सर्वयन्त्रातिनायिका । सर्वतन्त्रमयी भद्रा सर्वमन्त्रार्थरूपिणी ॥ ३॥ सर्वज्ञा सर्वगा सर्वा ब्रह्मविष्णुसमर्चिता । नव्या दिव्या च सेव्या च भव्या सव्या स्तव्यया ॥ ४॥ चित्रकण्ठमदच्छेत्री चित्रलीलामहीशुभा । वेदातीता वराश्रीता विशालाक्षी शुभप्रदा ॥ ५॥ शम्भुश्रेष्ठी सुधाभूता विश्वविश्वाम्भरावनी । कन्या विश्वमयी पुण्या अगण्यारूपसुन्दरी ॥ ६॥ सगुणा निर्गुणा चैव निर्द्वन्द्वा निर्मलानघा । सत्या सत्यस्वरूपा च सत्यासत्यस्वरूपिणी ॥ ७॥ चराचरमयी चैव योगनिद्रा सयोगिनी । नित्यधर्मा निष्कला च नित्यधर्मपरायणा ॥ ८॥ कुसुमश्रेष्ठिपुत्री च कुसुमालयभूषणा । कुसुमाम्बाकुमारी च विरूपाक्षसहोदरी ॥ ९॥ कर्ममयी कर्महन्त्री कर्मबन्धविमोचनी । सर्मदा सर्मवर्माङ्गी निर्मला निस्तुलप्रभा ॥ १०॥ इन्दीवरसमानाची(क्षी?) इन्दीम्प्रथमालका । कृपलिन्ता कृपावर्तिनिर्मणिनूपुरमण्डिता ॥ ११॥ त्रिमूर्तिपदवीदात्री त्रिजगत्रक्षणकादरा । सर्वभद्रस्वरूपा च सर्वभद्रप्रदायिनी ॥ १२॥ मणिकाञ्चनमञ्जीरा अरुणाङ्घ्रिसरोरुहा । शून्यमध्या सर्वमान्या धन्याऽनन्या समाद्भुता ॥ १३॥ विष्णुवर्धनसम्मोहकारिणी पापवारिणी । सर्वसम्पत्करी सर्वरोगशोकनिवारिणी ॥ १४॥ आत्मगौरवसौजन्यबोधिनी मानदायिनी । मानुषरक्षाकरी भुक्तिमुक्तिदात्री शिवप्रदा ॥ १५॥ निस्समा निराधिका चैव योगमाया ह्यनुत्तमा । महामाया महाशक्तिर्हरिवर्गापहारिणी ॥ १६॥ भानुकोटिसहस्राभा मल्लिचम्पकगन्धिका । रत्नकाञ्चनकोटीरचन्द्रकण्ठयुदालका ॥ १७॥ चन्द्रबिम्बसमास्याङ्गा मृगनापि विशेषका । रागस्वरूपा पाषाद्या अग्निपूज्या चतुर्भुजा ॥ १८॥ नासचाम्पेयपुष्पा च नासामौक्तिकसूज्ज्वला । गुरुविन्दकपोला च इन्दुरोचिस्मिताञ्चिता ॥ १९॥ वीणा निश्वनसल्लाभा अग्निसुत्तां शुकाञ्चिता । गूढकुल्पा जगन्माया मणिसिंहासनस्थिता ॥ २०॥ अप्रमेया स्वप्रकाशा शिष्टेष्टा शिष्टपूजिता । चित्शक्तिचेतनाकारा मनोवाचामगोचरा ॥ २१॥ चतुर्दशविद्यारूपा चतुर्दशकलामयी । महाचतुष्षष्टिकोटियोगिनी गणसेविता ॥ २२॥ चिन्मयी परमानन्दा विज्ञानगणरूपिणी । ध्यानरूपा ध्येयाकारा धर्माधर्मविदायिनी ॥ २३॥ चारुरूपा चारुहासा चारुचन्द्रकलाधरा । चराचरजगन्नेत्री चक्रराजनिकेतना ॥ २४॥ ब्रह्मादिकसृष्टिकर्त्री गोप्त्री तेजस्वरूपिणी । भानुमण्डलमध्यस्था भगवती सदाशिवा ॥ २५॥ आब्रह्मकोटिजननी पुरुषार्थप्रदाम्बिका । आदिमध्यान्तरहिता हरिर्ब्रह्मेश्वरार्चिता ॥ २६॥ नारायणी नादरूपा सम्पूर्णा भुवनेश्वरी । राजराजार्चिता रम्या रञ्चनी मुनिरञ्चिनी ॥ २७॥ कल्याणी लोकवरदा करुणारसमञ्जुला । वरदा वामनयना महाराज्ञी निरीश्वरी ॥ २८॥ रक्षाकरी राक्षसघ्नी तुष्टराजामदापहा । विधात्री वेदजननी रागचन्द्रसमानना ॥ २९॥ तन्त्ररूपा तन्त्रिणी च तन्त्रवेद्या तन्त्रिका । शास्त्ररूपा शास्त्रधारा सर्वशास्त्रस्वरूपिणी ॥ ३०॥ रागभाषा मनश्चाभा पञ्चभूतमयी तथा । पञ्चतन्मात्रसायका क्रोधाकारा कुशाञ्चिता ॥ ३१॥ निजकान्तिपराचाण्डमण्डला अखण्डलार्चिता । कदम्बमयताटङ्का पद्मचाम्पेयकन्दिला ॥ ३२॥ सर्वविद्याङ्कुराशङ्क्यदन्तपङ्क्तीत्वयाञ्चिता । सरसल्लाभमाधुर्यजितवाणीविपञ्चिका ॥ ३३॥ क्रैवेयमणिचिन्ताककूर्मपृष्ठपदत्वया । नखकान्तिपरिच्छिन्ना समत्रावाततमोगुणा ॥ ३४॥ मणिकिङ्किणिका दिव्यतृष्णा दामभूषिता । रम्भास्तम्भमनोज्ञाती मनोज्ञारुत्याञ्चिता ॥ ३५॥ पदशोभा जिताम्भोजा महागिरिपुरीश्वरी । देवरत्नगृहान्तस्था सर्वब्रह्मासमस्थिता ॥ ३६॥ महापद्मवनस्थाना कदम्बवनवासिनी । निजांषभागसरोल्लसी लक्ष्मी गौरी सरस्वती ॥ ३७॥ मञ्जुकुञ्जनमणिमञ्जिरा अलङ्कृतपदाम्बुजा । हंसिका मन्दगमना महासौदर्यवारधी ॥ ३८॥ अनवद्यारुणकन्या च अकन्या गुणतूरगा । सम्पद्दात्रा विश्वनेयौकदेवव्रातासुसेविता ॥ ३९॥ गेयचक्ररथारूढा मन्त्रिन्यम्बा समर्चिता । कामदा अनवत्याङ्गी देवर्षिस्तुतवैभवा ॥ ४०॥ विघ्न्यन्त्रसमूभेत्री करोत्यनैकमादवा । सङ्कल्पमात्रनिर्धूता विष्णुवर्धनवैभवा ॥ ४१॥ मूर्तित्रया सदासेव्या समयस्था निरामया । मूलाधारभवाब्रह्मग्रन्थिसम्भेदिनी परा ॥ ४२॥ मणिपूरान्तरावासा विष्णुग्रन्थिविभेदिनी । अज्ञाचक्रागतामाया रुद्रग्रन्थिविमोक्षदा ॥ ४३॥ सहस्रारसमारूढा सुधासारप्रवर्षिणी । दशत्रेकासमाभासा षट्चक्रोपरिवासिनी ॥ ४४॥ भक्तिवस्या भक्तिगम्या भक्तरक्षणकादरा । भक्तिप्रिया भद्रमूर्ती भक्तसन्तोषदायिनी ॥ ४५॥ सर्वदाकुण्डलिन्यम्बा सारदेव्या च शर्मदा । साध्वी श्रीकरीयुतारा च श्रीकरी शम्भुमोदिता ॥ ४६॥ शरच्चन्द्रमुखी शिष्टा निराकारा निराकुला । निर्लेपा निस्तुला चैव निरवद्या निरन्तरा ॥ ४७॥ निष्कारणा निष्कलङ्का नित्यबुद्धा निरीश्वरी । नीरागा रागमदना निर्मदा मदनाशिनी ॥ ४८॥ निर्ममा समया चान्य अनन्या जगदीश्वरी । नीरोगा निरूपाधिश्च निरानन्दा निराष्रया ॥ ४९॥ नित्यमुक्ता निगममा नित्यशुद्धा निरुत्तमा । निर्व्याधी च व्याधिमदना निष्क्रीया निरुपप्लवा ॥ ५०॥ निरहङ्कारा च निश्चिन्ता निर्मोहा मोहनाशिनी । निर्पादा ममताहन्त्री निष्पापा पापानाशिनी ॥ ५१॥ अभेदा च साक्षिरूपा निर्भेदा भेदनाशिनी । निर्नाशा नाशमथनी निष्पापापापहारिणी ॥ ५२॥ नीलवेणी निरालम्बा निरपाया भवापहा । निःसन्देहा संशयज्ञी निर्लोपा लोपहारिणी ॥ ५३॥ शुकप्रदा दुष्टदूरा निर्विकल्पा निरद्यया । सर्वज्ञाना दुःखहन्त्री समानाधिकवर्जिता ॥ ५४॥ सर्वशक्तिमयी सर्वमङ्गला सद्गतिप्रदा । सर्वेश्वरी सर्वमयी सर्वत्वस्वरूपिणी ॥ ५५॥ महामाया महाशक्तिः महासत्वा महाबला । महावीर्या महाबुद्धिर्महेश्वर्यमहागतिः ॥ ५६॥ मनोन्मणिमहादेवी महापातकनाशिनी । महापूज्या महासिद्धिः महायोगीश्वरेश्वरी ॥ ५७॥ महातन्त्रा महामन्त्रा महायन्त्रा महासना । महायागक्रमाराध्या महायोगसमर्चिता ॥ ५८॥ प्रकृतिर्विकृतिर्विद्या सर्वभूतहितप्रदा । सुचिस्वाहा च धन्या च स्वधा सुधा हिरण्मयी ॥ ५९॥ मान्या श्रद्धा विभूतिश्च ब्रह्मविष्णुशिवात्मिका । दीप्ता कान्ता च कामाक्षी नित्यपुष्टा विभावरी ॥ ६०॥ अनुग्रहप्रदा रामा अनका लोकवल्लभा । अमृता च शोकमूर्तिर्लोकदुःखविनाशिनी ॥ ६१॥ करुणाधर्मनिलया पद्मिनी पद्मकन्दिनी । ह्लादजननी पुष्टा पद्ममालाधराद्भुता ॥ ६२॥ पद्माक्षी पद्ममुखी च लोकमातेन्दुशीतला । सुप्रसन्ना पुण्यकन्ता प्रसादापि मुखिप्रभा ॥ ६३॥ अर्धचन्द्रसूडाला च चारा वैश्यसहोदरी । वैश्यसौख्यप्रदातुष्टिः शिवा दारिद्र्यनाशिनी ॥ ६४॥ शिवादात्री च विमला स्वामिनी प्रीतिपुष्कला । आर्याव्यामासती सौम्या श्रीदा मङ्गलदायिनी ॥ ६५॥ भक्तकेहपरानन्दा सिद्धिरूपा वसुप्रदा । भास्करी ज्ञाननिलया ललिताङ्गी यशस्विनी ॥ ६६॥ त्रिकालज्ञोऽरुसम्पन्ना सर्वकालस्वरूपिणी । दारिद्र्यध्वंसिनी कान्ती सर्वोऽभद्रनिवारिणी ॥ ६७॥ अन्नदा अन्नदात्री च अच्युतानन्दकारिणी । अनन्ताच्युता व्युप्ता व्यक्ताव्यक्तस्वरूपिणी ॥ ६८॥ शारदाम्भोज प्रत्यक्षी शरच्चन्द्ररुचिस्थिता । जया जयापकाशा अवकाशस्वरूपिणी ॥ ६९॥ आकाशमयपद्मस्था अनाद्या सत्यो निजा । अपलां चण्डिका अगाधा आत्मज्ञा च आत्मगोचरा ॥ ७०॥ आद्यानद्यादिदेवी च आदित्याचयभास्वरा । कर्तस्वरमनोज्ञाङ्गी कालकण्ठनिभास्वरा ॥ ७१॥ आत्मनो आत्मदयिता आधाराचात्मरूपिणी । आनीशाकाष्यभैशानी ईश्वरैश्वर्यदायिनी ॥ ७२॥ इन्द्रसूरिन्दुमाता च इन्द्रिया इन्दुमण्डिता । इन्दुबिम्बसमाश्रिया इन्द्रियाणां वशङ्करी ॥ ७३॥ एका चैक वीरा च एकाकारैकवैभवा । एकत्रयसुपूज्या च एकनूरेकदायिनी ॥ ७४॥ वर्णात्मा वर्णनिलया षोडषस्वररूपिणी । कन्या कृत्वा महारात्रीर्मोहरात्री सुलोचना ॥ ७५॥ कमनीया कलाधारा कामधू वर्णमालिनी । काश्मीरत्रवलिप्ताङ्गी काम्या च कमलार्चिता ॥ ७६॥ माणिक्यभास्वलङ्कारा कणगा कणगप्रदा । कम्बूग्रीवा कृपायुक्ता किशोरी च ललाटिनी ॥ ७७॥ कालस्था च निमेषा च कालदात्री कलावती । कालज्ञा कालमाता च कालवेत्री कलावनी ॥ ७८॥ कालदा कालहा कीर्तिः कीर्तिस्था कीर्तिवर्धिनी । कीर्तिज्ञा कीर्तितगुणा केशवानन्दकारिणी ॥ ७९॥ कुमारी कुमुदाभा च कर्मदा कर्मभञ्जनी । कौमुदी कुमुदानन्दा कालाङ्गी कालभूषणा ॥ ८०॥ कपर्दिनी कोमलाङ्गी कृपासिन्धुः कृपामयी । कञ्जस्था कञ्जवदना कूटस्थोरुगिरीश्वरी ॥ ८१॥ कुण्डचुस्था च कौवेरी कलिकल्मषनाशिनी । काष्यपी कामरूपा च कञ्जकञ्जल्कचर्चिता ॥ ८२॥ कञ्हनध्वन्त्व नेत्री च खेसरी कट्कयुक्करी । सिद्धज्ञा सिद्धितपदा चिन्तस्था चिन्तस्वरूपिणी ॥ ८३॥ चञ्चकाभमनोयाङ्गी चारुचम्पकमालिनी । चण्डी च चण्डरूपा च चैतन्यकणगेहिनी ॥ ८४॥ चिदानन्दा चिदाहातारा चिदाकारा चिदालया । चपलाम्बाङ्गलतिका चन्द्रकोटिशुभाकरा ॥ ८५॥ चिन्तामणिगुणाधारा चिन्तामणिविभूषिता । भक्तचिन्तामणिलता चिन्तामणिसुमन्तिरा ॥ ८६॥ चारुचन्दनलिप्ताङ्गी चतुरा चतुरानना । चक्रदा चक्रधारी च चारुचामरविजिता ॥ ८७॥ भक्तानां छत्ररूपा च छत्रच्छायाकृतालया । जगजीवा जगद्दात्री जगदानन्दकारिणी ॥ ८८॥ जननी च यज्ञरता जयन्ती जपयज्ञपरायणा । यज्ञदा यज्ञफलदा यज्ञस्थापकृतालया ॥ ८९॥ यज्ञभोत्री यज्ञरूपा यज्ञविघ्नविनाशिनी । कर्मयोगा कर्मरुपा कर्मविघ्नविनाशिनी ॥ ९०॥ कर्मदा कर्मफलदा कर्मस्थानकृतालया । कालुश्या भेदसारिद्रा सर्वकर्मसमञ्चिता ॥ ९१॥ जयस्था जयदा जैत्री जीविता जयकारिणी । यशोदायकसाम्राज्यनी यशोदानन्दकारिणी ॥ ९२॥ ज्वलिनी ज्वालिनी ज्वाला ज्वलत्भावगसन्निभा । ज्वालामुखी जनानन्दा जम्बूद्वीपकृतालया ॥ ९३॥ जन्मदा जन्महा जन्मा जन्मपूर्जन्मरञ्जिनी । जम्बूनाथसमानङ्गी जम्बूनाथविभूषणा ॥ ९४॥ ज्ञातिता जातिता जाती ज्ञानदा ज्ञाऱ्नगोचरा । ज्ञानहा ज्ञानरूपा च ज्ञानविज्ञानशालिनी ॥ ९५॥ जपापुष्पसमानोष्ट्या जपाकुसुमशोभिता । जिनजैत्री जिनातारा जिन्माता जिनेश्वरी ॥ ९६॥ तीर्थङ्करी निराधारा अमलाम्बरधारिणी । शम्भुकोटिदुराधर्शा विष्णुवर्धनमर्दिनी ॥ ९७॥ समुद्रकोटिगम्भीरा वायुकोटिमहाबला । सूर्यकोटिप्रतीकासा यमकोटिपराक्रमा ॥ ९८॥ कामधुक्कोटिफलदा चक्रकोटिसुराज्युता । रतिकोटिसुलावण्या पद्मकोटिनिभानना ॥ ९९॥ पृथ्वीकोटिजनाधारा अग्निकोटिभयङ्करी । ईशनादी सत्शक्तिर्धनदौघधनप्रदा ॥ १००॥ अणिमामहिमाप्राप्तिर्गरिमालकिमा तथा । प्रकाम्यातावशकरी ईशिका सिद्धिदा तथा ॥ १०१॥ महिमादिगुणैर्युक्ता अणिमात्यष्टसिद्धिदा । यवनङ्कन् जनादीना अजरा च जरापहा ॥ १०२॥ धारिणी धारकाकारा त्रिगुणा तुलसीनदा । त्रिविद्या च त्रयी त्रिग्मी तुरिया त्रिगुणेश्वरी ॥ १०३॥ त्रिविधात्री दशाराध्या त्रिमूर्तिर्जननीत्वरा । त्रिवर्णा च त्रैलोक्या च त्रित्वा च त्रैलोक्यधारिणी ॥ १०४॥ त्रिमूर्तिश्च त्रिजननी त्रिपूस्तारा तपस्विनी । तरुणी च तपोनिष्टा तप्तकाञ्चनसन्न्निभा ॥ १०५॥ तरुणा त्रिवेशानी तपसी तररूपिणी । तरुणार्कप्रतिकाश तापघ्नी च तमोपहा ॥ १०६॥ तार्तिका तर्कविद्या च त्रैलोक्यव्यापिनीश्वरी । त्रिपुष्करा त्रिकालाज्ञा तापत्रयविनाशिनी ॥ १०७॥ गुणाढ्या च गुणातीता तपस्सिद्धिप्रदायिनी । कारिका तीर्थरूपा च तीर्थ तीर्थकरी तथा ॥ १०८॥ दारिद्र्यदुःखनाशिनी अदीना दीनवत्सला । दीननाथप्रिया दीर्घा दयापूर्णा दयात्मिका ॥ १०९॥ देवदानवसम्पूज्या देवानां मोदकारिणी । देवसू दक्षिणा दक्षा देवी दुर्गतिनाशिनी ॥ ११०॥ आनन्दोधती मध्यस्था अघोरा अट्टहासिनी । घोराग्निताकदमनी दुःखदुःस्वप्ननिवारिणी ॥ १११॥ श्रीमती श्रीमयी श्रेषा श्रीकरी श्रीविभावनी । श्रीदा श्रीशा श्रीनिवासा श्रीयुता श्रीमतिकती ॥ ११२॥ धनदा दामिनी दान्ता धर्मदा धनशालिनी । दाडिमीबीजरदना धनकारा धनञ्जया ॥ ११३॥ धरिणी धारिणी धैर्या धरा दात्री च धैर्यता । दया दोक्त्री धर्मिणी च दमनी च दुरासदा ॥ ११४॥ नानारत्नविचित्राङ्गी नानाभरणमण्डिता । नीरजास्या निरादङ्का नवलावण्यसुन्दरी ॥ ११५॥ प्रमिता प्राज्ञा च पूर्वा पावनपावनी । सर्वप्रिया सर्ववरदा पावना पापनाशिनी ॥ ११६॥ वासव्यंशपाका च परञ्ज्योतिस्वरूपिणी । परेशी पारगापारा परासिद्धिर्परागतिः ॥ ११७॥ पिता माता च पशुता पशुभागविनाशिनी । पद्मगन्धा च पद्माक्षी पद्मकेशरमन्दिरा ॥ ११८॥ परब्रह्मस्वरूपा च परब्रह्मनिवासिनी । परमानन्दमुदिता पूर्णपीठनिवासिनी ॥ ११९॥ परमेशी च पृथ्वी च परचक्रविनाशिनी । परापरा पराविद्या परमानन्ददायिनी ॥ १२०॥ वाग्रूपा वाङ्मयी वाक्दा वाज्ञेत्री वाक्विशारदाः । धीरूपा धीमयी धीरा धीधात्री धीविशारदा ॥ १२१॥ वृन्दारका वृन्दवन्द्या वैश्यवृन्दसहोदरी । परमश्री व्रातविनुता पिनाकी परिकीर्तिता ॥ १२२॥ फणिभूषा फाला पूज्या प्राणरूपा प्रियंवदा । भवाराद्या भवेशी च भवा चैव भवेश्वरी ॥ १२३॥ भवमाता भवागम्या भवखण्डकनाशिनी । भवानन्दा भावनीया भूतपञ्चकवासिनी ॥ १२४॥ भगवती भूतदात्री भूतेशी भूतरूपिणी । भूतस्था भूतमाता च भूतज्ञी भवमोचिनी ॥ १२५॥ भक्तशोकतमोहर्त्री भवपाशविनाशिनी । भवभारविनाशिनी भूगोपचारकुशला भिसादात्री च भूचरी ॥ १२६॥ भीतिहा च भक्तिरम्या भक्तानामिष्टदायिनी । भक्तानुकम्पिनी भीमा भक्तानामार्त्तिनाशिनी ॥ १२७॥ भास्वरा भास्वती भीतिः भास्वदुत्तानशालिनी । भूतिदा भूतिरूपा च भूतिका भुवनेश्वरी ॥ १२८॥ महाजिह्वा महादंष्ट्रा मणिपुरनिवासिनी । माञसा मानदाभीमान्या मनश्चक्षूरगोचरा ॥ १२९॥ महाकुण्डलिनी मधुरा महाविघ्नविनाशिनी । महामोहान्धकाराज्ञी महामोक्षप्रदायिनी ॥ १३०॥ महाशक्तिर्महावीर्या महासुरविमर्दिनी । शक्तिर्मेधा च मतिदा महावैभववर्धिनी ॥ १३१॥ महापातकसंहर्त्री मुक्तिकाम्यार्थसिद्धिदा । महाव्रता महामूर्ती महाभयविनाशिनी ॥ १३२॥ महानीया माननीया मत्तमातङ्गकामिनी । मुक्तहारलतोपेता महाचोरभयापहा ॥ १३३॥ महाघोरा मन्त्रमाता मकराकृतिकुण्टला । मालिनी मानिनी माध्वी महासुष्मा महाप्रभा ॥ १३४॥ महाचिन्त्य महारूपा महामन्त्र महोसती । मणिमण्डपमध्यस्था मणिमालाविराजिता ॥ १३५॥ मनोरमा रमामाता राज्ञी राजीवलोचना । विद्यानी विष्णुरूपा च विशालनयनोत्पला ॥ १३६॥ वीरेश्वरी च वरदा वीरसू वीरनन्दिनी । विश्वभू वीरविद्या च विष्णुमायाविमोहिनी ॥ १३७॥ विश्वेश्वरी विशालाक्षी विख्याता विलचत्कशा । ब्रह्मेशी च ब्रह्मविद्या ब्रह्माणी ब्रह्मरूपिणी ॥ १३८॥ विश्वा च विश्ववन्द्या च विश्वशक्तिर्विचक्षणा । वीरा च बिन्दुस्था चैव विश्वभागविमोचिनी ॥ १३९॥ शिशुसुप्रिया वैद्यविद्या शीलाशीलप्रदायिनी । क्षेत्रा क्षेमङ्करी वैश्या आर्यवैश्यकुलेश्वरी ॥ १४०॥ कुसुमश्रेष्ठी सत्पुत्री कुसुमाम्बा कुमारिका । भालनगर सम्पूज्या विरूपाक्षसहोदरी ॥ १४१॥ सर्वसिद्धेश्वराराध्या सर्वेश्वरफलप्रदा । सर्वदुष्टप्रशमनी सर्वरक्षास्वरूपिणी ॥ १४२॥ विभुदा विष्णुसङ्कल्पा विज्ञानघनरूपिणी । विचित्रिणी विष्णुपूज्या विश्वमायाविलासिनी ॥ १४३॥ वैश्यधात्री वैश्यगोत्रा वैश्यगोत्रविवर्धिनी । वैश्यभोजनसन्तुष्टा विष्णुरूपविनोदिनी ॥ १४४॥ सङ्कल्परूपिणी सन्ध्या सत्यज्ञानप्रबोधिनी । विहाररहिता वेद्या विजया विशालाक्षिणी ॥ १४५॥ तत्त्वज्ञा च तत्कारा च तत्त्वार्थस्वरूपिणी । तपस्वाध्यायनिरता तपस्वीजनसन्नुता ॥ १४६॥ विन्ध्यवासिन्यर्चिता च नगरेश्वरमानिता । कमलादेविसम्पूज्या जनार्दनसुपूजिता ॥ १४७॥ वन्दिता वररूपा च वरा च वरवर्धिनी । वारिताकारसुकशा वैश्यलोकवशङ्करी ॥ १४८॥ सत्कीर्तीगुणसम्पन्ना तद्यवाचा तपोबला । तरुणादित्यसङ्काशा तपोलोकनिवासिनी ॥ १४९॥ तन्त्रसारा तन्त्रमाता तन्त्रमार्गप्रदर्शिनी । तत्त्वा तन्त्रविदानज्ञा तन्त्रस्था तन्त्रसाक्षिणी ॥ १५०॥ सर्वसम्पत्तिजननी सत्पदा सकलेष्टदा । अनुमाना सामदेवी समर्हा सकलस्तुता ॥ १५१॥ सनकादिमुनिध्येया सर्वशास्त्रार्थगोचरा । सदाशिवासमुत्तीर्णा सहस्रदलपद्मगा ॥ १५२॥ सर्ववेदान्तनिलया समया सर्वतोमुखी । सात्त्विका सम्भ्रमा चैव सर्वचैतन्यरूपिणी ॥ १५३॥ सर्वोपातविनिर्मुक्ता सच्चिदानन्दरूपिणी । सर्वविश्वाम्भरा वन्द्या सर्वज्ञानविशारदा ॥ १५४॥ विद्या विद्याकरिविद्या विद्याविद्यप्रबोधिनी । विमला विभवा वेद्या विश्वस्था विविधोज्ज्वलाः ॥ १५५॥ वीरहद्याप्रशमनी विनम्रजनपालिनी । वीरमध्या विराट्रूपा वितन्त्रा विश्वनायिका ॥ १५६॥ विश्वाम्बरासमाराध्या विक्रमा विश्वमङ्गला । विनायकी विनोदस्था विश्वविभ्रमकारिणी ॥ १५७॥ विवाहरहिताऽऽवेला वीरगोष्ठिविवर्धिनी । तुम्बुरातिस्तुतिप्रीता महागिरिपुरीश्वरी ॥ १५८॥ दुष्टा च दुष्टी जननी दुष्टलोकविनाशिनी । तुलाधारा तुलमध्या तुलस्था तुल्यदूरगा ॥ १५९॥ धुरीयत्वा सुगम्भीरा तुरियारावस्वरूपिणी । तुरियविद्या नृत्यतुष्टा तुरियविद्यार्थवादिनी ॥ १६०॥ तुरियशास्त्रतत्त्वज्ञा तुरियवादविनोदिनी । तुरियनादान्तनिलया तुरियानन्दस्वरूपिणी ॥ १६१॥ तुरियभक्तजननी तुरियमार्गप्रदर्शिनी । वरेण्यवरिष्ठा चैव वेदशास्त्रप्रदर्शिनी ॥ १६२॥ विकल्पसमनी वाणी वाञ्छितार्थफलप्रदा । वन्दिनी वादिनी वश्या वयोवस्थातिविवर्जिता ॥ १६३॥ वसिष्ठवामदेवादिवन्द्या वन्द्यस्वरूपिणी । वसुप्रदा वासुदेवी वषट्कारी वसुन्धरा ॥ १६४॥ वासवार्चितपादश्रीर्वासवारिविनाशिनी । वशिनी वाक्यहस्ता च वाहीस्वरर्यर्चितप्रभा ॥ १६५॥ रविमण्डलमध्यस्था रमणी रविलोचना । रम्भातिशायिलावण्या रङ्गमण्डलमध्यगा ॥ १६६॥ वर्णिता वैश्यजननी वर्ण्यापर्वेन्दुमध्यगा । राविणी राकिणी रञ्ज्या राजराजेश्वरार्चिता ॥ १६७॥ राजस्वती राजनीतीर्वैश्यनीतीर्वरप्रदा । अपाङ्गा भङ्गभङ्गा च भङ्गदूरात्वभङ्गुरा ॥ १६८॥ राघवार्चितपादश्री रत्नद्वीपनिवासिनी । रत्नप्रकारमध्यस्था रत्नमण्डपमध्यगा ॥ १६९॥ रत्नाभिषेकसन्तुष्टा रत्नाङ्गी रत्नदायिनी । नीवारसुखवद्धन्वी पीतापा स्वत्वनूपमा ॥ १७०॥ नीलतो यतमध्यस्थात् विद्युल्लेखेवभास्वरा । कवयिन्त्री निर्जरी च विश्वार्चीर्विश्वतोमुखी ॥ १७१॥ सर्वानन्दमयी नव्या सर्वरक्षास्वरूपिणी । सर्वसिद्धेश्वरैर्वन्द्या सर्वमङ्गलमङ्गला ॥ १७२॥ नित्योत्सवा नित्यपूज्या नित्यानन्दस्वरूपिणी । निर्गुणास्था निष्चिन्ता च नित्यमङ्गलरूपिणी ॥ १७३॥ निरोहा निमिषो नारी निखिलागमवेदिनी । निस्संशया निर्लोपा च नित्यकर्मफलप्रदा ॥ १७४॥ सर्वमङ्गलमाङ्गल्या भक्तसर्वार्थसाधका । वैश्यापच्चमुहर्त्री च वैश्यसम्पत्प्रदायिनी ॥ १७५॥ महाशैलपुरी गेहा सर्ववैश्यशुभप्रदा । त्वयत्तशतगोत्रार्या वैश्यसौख्यप्रद्यायिनी ॥ १७६॥ सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तुते ॥ इति श्रीवासवीकन्यकापरमेश्वरीसहस्रनामस्तोत्रं सम्पूर्णम् । Encoded and proofread by NA, Vijaya Nethaji
% Text title            : Vasavi Kanyaka Parameshvari Sahasra Nama Stotram (3)
% File name             : vAsavIkanyakAparameshvarIsahasranAmastotram3.itx
% itxtitle              : vAsavIkanyakAparameshvarIsahasranAmastotram 3
% engtitle              : vAsavIkanyakAparameshvarIsahasranAmastotram 3
% Category              : devii, sahasranAma, devI
% Location              : doc_devii
% Sublocation           : devii
% Author                : Vijaya Nethaji
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : NA, Vijaya Nethaji
% Indexextra            : (Audio)
% Latest update         : June 7, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org