श्रीवासवीकन्यकापरमेश्वर्यष्टोत्तरशतनामस्तोत्रम्

श्रीवासवीकन्यकापरमेश्वर्यष्टोत्तरशतनामस्तोत्रम्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ न्यासः - अस्य श्रीवासवीकन्यकापरमेश्वरी अष्टोत्तरशतनामस्तोत्रमालामन्त्रस्य समाधि ऋषिः । श्रीकन्यकापरमेश्वरी देवता। अनुष्टुप्छन्दः। वं बीजम् । स्वाहा शक्तिः। सौभाग्यमिति कीलकम्। मम सकलसिद्धिप्राप्तये जपे विनियोगः ॥ ध्यानम् - वन्दे कुसुमाम्बासत्पुत्रीं वन्दे कुसुमश्रेष्ठतनयाम् । वन्दे विरूपाक्षसहोदरीं वन्दे कन्यकापरमेश्वरीम् ॥ वन्दे भास्कराचार्यविद्यार्थिनीं वन्दे नगरेश्वरस्य प्रियाम् । वन्दे विष्णुवर्धनमर्दिनीं वन्दे पेनुकोण्डापुरवासिनीम् ॥ वन्दे आर्यवैश्यकुलदेवीं वासवीं भक्तानामभीष्टफलदायिनीम् । वन्दे अन्नपूर्णास्वरूपिणीं वासवीं भक्तानां मनालयनिवासिनीम् ॥ ॐ सौभाग्यजननी माता माङ्गल्या मानवर्धिनी । महाकीर्तिप्रसारिणी महाभाग्यप्रदायिनी ॥ १॥ वासवाम्बा च कामाक्षी विष्णुवर्धनमर्दिनी । वैश्यवम्शोद्भवा चैव कन्यकाचित्स्वरूपिणी ॥ २॥ कुलकीर्तिप्रवर्द्धिनी कुमारी कुलवर्धिनी । कन्यका काम्यदा करुणा कन्यकापरमेश्वरी ॥ ३॥ विचित्ररूपा बाला च विशेषफलदायिनी । सत्यकीर्तिः सत्यवती सर्वावयवशोभिनी ॥ ४॥ दृढचित्तमहामूर्तिः ज्ञानाग्निकुण्डनिवासिनी । त्रिवर्णनिलया चैव वैश्यवंशाब्धिचन्द्रिका ॥ ५॥ पेनुकोण्डापुरीवासा साम्राज्यसुखदायिनी । विश्वख्याता विमानस्था विरूपाक्षसहोदरी ॥ ६॥ वैवाहमण्डपस्था च महोत्सवविलासिनी । बालनगरसुप्रीता महाविभवशालिनी ॥ ०७॥ सौगन्धकुसुमप्रीता सदा सौगन्धलेपिनी । सत्यप्रमाणनिलया पद्मपाणी क्षमावती ॥ ८॥ ब्रह्मप्रतिष्ठा सुप्रीता व्यासोक्तविधिवर्धिनी । सर्वप्राणहितेरता कान्ता कमलगन्धिनी ॥ ०९॥ मल्लिकाकुसुमप्रीता कामितार्थप्रदायिनी । चित्ररूपा चित्रवेषा मुनिकारुण्यतोषिणी ॥ १०॥ चित्रकीर्तिप्रसारिणी नमिता जनपोषिणी । विचित्रमहिमा माता नारायणी निरञ्जना ॥ ११॥ गीतकानन्दकारिणी पुष्पमालाविभूषिणी । स्वर्णप्रभा पुण्यकीर्ति?स्वार्तिकालाद?कारिणी ॥ १२॥ स्वर्णकान्तिः कला कन्या सृष्टिस्थितिलयकारणा । कल्मषारण्यवह्नी च पावनी पुण्यचारिणी ॥ १३॥ वाणिज्यविद्याधर्मज्ञा भवबन्धविनाशिनी । सदा सद्धर्मभूषणी बिन्दुनादकलात्मिका ॥ १४॥ धर्मप्रदा धर्मचित्ता कला षोडशसम्युता । नायकी नगरस्था च कल्याणी लाभकारिणी ॥ १५॥ ?मृडाधारा? गुह्या चैव नानारत्नविभूषणा । कोमलाङ्गी च देविका सुगुणा शुभदायिनी ॥ १६॥ सुमुखी जाह्नवी चैव देवदुर्गा दाक्षायणी । त्रैलोक्यजननी कन्या पञ्चभूतात्मिका परा ॥ १७॥ सुभाषिणी सुवासिनी ब्रह्मविद्याप्रदायिनी । सर्वमन्त्रफलप्रदा वैश्यजनप्रपूजिता ॥ १८॥ करवीरनिवासिनी हृदयग्रन्थिभेदिनी । सद्भक्तिशालिनी माता श्रीमत्कन्याशिरोमणी ॥ १९॥ सर्वसम्मोहकारिणी ब्रह्मविष्णुशिवात्मिका । वेदशास्त्रप्रमाणा च विशालाक्षी शुभप्रदा ॥ २०॥ सौन्दर्यपीठनिलया सर्वोपद्रवनाशिनी । सौमङ्गल्यादिदेवता श्रीमन्त्रपुरवासिनी ॥ २१॥ वासवीकन्यका माता नगरेश्वरमानिता । वैश्यकुलनन्दिनी वासवी सर्वमङ्गला ॥ २२॥ फलश्रुतिः - इदं स्तोत्रं वासव्याः नाम्नामष्टोत्तरं शतम् । यः पठेत्प्रयतो नित्यं भक्तिभावेन चेतसा ॥ १॥ न शत्रुभयं तस्य सर्वत्र विजयी भवेत् । सर्वान् कामानवाप्नोति वासवाम्बा प्रसादतः ॥ २॥ ॥ इति श्रीवासवीकन्यकापरमेश्वर्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥ समर्पणम् - यदक्षरपदभ्रष्टं मात्राहीनं तु यद्भवेत् । तत्सर्वं क्षम्यतां देवी वासवाम्बा नमोऽस्तुते ॥ १॥ विसर्गबिन्दुमात्राणि पदपादाक्षराणि च । न्यूनानि चातिरिक्तानि क्षमस्व परमेश्वरि ॥ २॥ अन्यथा शरणं नास्ति त्वमेव शरणं मम । तस्मात्कारुण्यभावेन रक्ष रक्ष महेश्वरि ॥ ३॥ Composed by Bala Umamaheshwari Proofread by PSA Easwaran psaeaswaran at gmail.com, Bala Umamaheshwari
% Text title            : Vasavi Kanyaka Parameshvari Ashtottarashata Nama Stotra 108 names
% File name             : vAsavIkanyakAparameshvaryaShTottarashatanAmastotram.itx
% itxtitle              : vAsavIkanyakAparameshvaryaShTottarashatanAmastotram
% engtitle              : vAsavIkanyakAparameshvaryaShTottarashatanAmastotram
% Category              : devii, aShTottarashatanAma, devI
% Location              : doc_devii
% Sublocation           : devii
% Author                : Bala Umamaheshwari from nAmAvalI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Bala Umamaheshwari, PSA Easwaan psaeaswaran at gmail.com
% Description/comments  : See corresponding nAmAvalI
% Indexextra            : (Info 1, 2, Audio)
% Latest update         : June 1, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org