वृन्दावनपूजा अथवा तुलसीविष्णुपूजा
कार्तिके शुक्लद्वादश्यां वृन्दावने महाविष्णुं तुलसीं च पूजयेत् ।
तुलसीसमीपे महाविष्णुप्रतिमां निधाय, विघ्नेशं सम्पूज्य,
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
श्रीपरमेश्वरप्रीत्यर्थं शुभे ... तिथौ तुलसी महाविष्णु
प्रसादसिद्ध्यर्थं तुलसी महाविष्णुपूजां करिष्ये । इति सङ्कल्प्य
विघ्नेशमुद्वास्य कलशपूजां कृत्वा, तुलसीं विष्णुं च ध्यायेत् ।
ध्यायामि तुलसीं देवीं श्यामां कमललोचनाम् ।
प्रसन्वदनाम्भोजां वरदामभयप्रदाम् ॥ तुलसीं ध्यायामि
ध्यायामि विष्णुं वरदं तुलसीप्रियवल्लभम् ।
पीताम्बरं पद्मनेत्रं वासुदेवं वरप्रदम् ॥ महाविष्णुं ध्यायामि ॥
वासुदेव प्रिये देवि सर्वदेवस्वरूपिणि ।
आगच्छ पूजाभवने सदा सन्निहिता भव ॥
आगच्छागच्छ देवेश तेजोराशे जगत्पते ।
क्रियमाणां मया पूजां वासुदेव गृद्दाण भोः ॥
-तुलसीविष्णू - आवाहयामि
नानारत्नसमायुक्तं कार्तस्वरविभूषितम् ।
आसनं कृपया विष्णो तुलसि प्रतिगृह्यताम् ।
तुलसी विष्णुभ्यां नमः - आसनं समर्पयामि ।
गङ्गादिसर्वतीर्थेभ्यो वासुदेव मया हृतम् ।
तोयमेतत्सुखस्पर्शं पाद्यार्थं प्रतिगृह्यताम् ॥
नानानदीसमानीतं सुवर्णकलशस्थितम् ।
पाद्यं गृहाण तुलसि पापं मे विनिवारय ॥(पाद्यं)
नमस्ते देवदेवेश नमस्ते कमलापते ।
नमस्ते सर्वविनुत गृहाणार्घ्यं नमोऽस्तु ते ॥
अर्घ्यं गृहाण देवि त्वं अच्युतप्रियवल्लभे ।
अक्षतादिसमायुक्तं अक्षय्यफलदायिनि ॥ (अर्घ्यं)
कर्पूरवासितं तोयं गङ्गादिभ्यः समाहृतम् ।
आचम्यतां जगन्नाथ मया दत्तं च भक्तितः ॥
गृहाणाचमनार्थाय विष्णुवक्षः स्थलालये ।
स्वच्छं तोयमिदं देवि सर्वपापविनाशिनि ॥ (आचमनीयम्)
दध्याज्यमधुसंयुक्तं मधुपर्कं मयाऽऽहृतम् ।
गृहाण विष्णो वरद लक्ष्मीकान्त नमोऽस्तु ते ॥
मधुपर्कं गृहाणेमं मधुसूदनवल्लभे ।
मधुदध्याज्य संयुक्तं महापापविनाशिनि । (मधुपर्कं)
मध्वाज्यशर्करायुक्तं दधिक्षीरसमन्वितम् ।
पञ्चामृतं गृहाणेदं भक्तानामिष्टदायक ॥
पञ्चामृतं गृहाणेदं पञ्चपातकनाशिनि ।
दधिक्षीरसमायुक्तं दामोदरकुटुम्बिनि ॥ (पञ्चामृतम् )
गङ्गा कृष्णा च यमुना नर्मदा च सरस्वती ।
तुङ्गा गोदावरी वेणी क्षिप्रा सिन्धुर्घटप्रभा ॥
तापी पयोष्णी सरयूस्ताभ्यः स्नानार्थमाहृतम् ।
तोयमेतत्सुखस्पर्शं स्नानीयं गृह्यतां हरे ॥
गङ्गागोदावरीकृष्णातुङ्गादिभ्यः समाहृतम् ।
सलिलं देवि तुलसि स्नानार्थं प्रतिगृह्यताम् ॥ (स्नानं )
सर्वभूषाधिके सौम्ये लोकलज्जानिवारणे ।
वाससी प्रतिगृह्णातु लक्ष्मीजानिरधोक्षजः ॥
पीताम्बरमिदं दिव्यं पातकव्रजनाशिनि ।
पीताम्बरप्रिये देवि परिधत्स्व परात्परे ॥ (वस्त्रम्)
भूषणानि वरार्हाणि गृह्णीतं तुलसीश्वर ।
किरीटहारकेयूरकटकानि हरेऽमृते ॥ (आभरणानि)
चन्दनागरुकर्पूरकस्तूरीकुङ्कुमान्वितम् ।
गन्धं स्वीकुरुतं देवौ रमेशहरिवल्लभे ॥ (गन्धान् )
मल्लिकाकुन्दमन्दारञ्जाजीवकुल चम्पकैः ।
शतपत्रैश्च कल्हारैःअर्चये तुलसीहरी । (पुष्पाणि)
अङ्गपूजा-
वृन्दायै अच्युताय नमः - पादौ पूजयामि ।
तुलस्यै अनन्ताय नमः - गुल्फौ पूजयामि ।
जनार्दनप्रियायै तुलसीकान्ताय नमः - जङ्घे पूजयामि ।
जन्मनाशिन्यै गङ्गाधरपदाय नमः - जानुनी पूजयामि ।
उत्तमायै उत्तमाय नमः - ऊरू पूजयामि ।
कमलाक्ष्यै कमलाक्षाय नमः - कटिं पूजयामि ।
नारायण्यै नारायणाय नमः - नाभिं पूजयामि ।
उन्नतायै उन्नताय नमः - उदरं पूजयामि ।
वरदायै वरदाय नमः - वक्षः पूजयामि ।
स्तव्यायै स्तव्याय नमः - स्तनौ कौस्तुभं पूजयामि ।
चतुर्भुजायै चतुर्भुजाय नमः - भुजान् पूजयामि ।
कम्बुकण्ठ्यै वनमालिने नमः - कण्ठं पूजयामि ।
कल्मषघ्न्यै कल्मषघ्नाय नमः - कर्णौ पूजयामि ।
मुनिप्रियायै मुनिप्रियाय नमः - नेत्रे पूजयामि ।
शुभप्रदायै शुभप्रदाय नमः -शिरः पूजयामि ।
सर्वार्थदायिन्यै सवार्थदायिने नमः - सर्वाण्यङ्गानि पूजयामि ।
(तुलसी विष्णु नामावल्या पुष्पार्चना)
धूपं गृहाण वरदे दशाङ्गेन सुवासितम् ।
तुलस्यमृतसम्भूते धूतपापे नमोऽस्तु ते ॥
दशाङ्गो गुग्गुलूपेतः सुगन्धः सुमनोहरः ।
श्रीवत्साङ्क हृषीकेश धूपोऽयं प्रतिगृह्यताम् ॥ (धूपं)
वर्तित्रय युतं दीप्तं गोघृतेन समन्वितम् ।
दीपं देवि गृहाणेमं दैत्यारिहृदयस्थिते ॥
साज्यं त्रिवर्तिसंयुक्तं दीप्तं देव जनार्दन ।
गृहाण मङ्गलं दीपं त्रैलोक्यतिमिरं हर ॥ (दीपम्)
नानाभक्ष्यैश्च भोज्यैश्च फलैः क्षीरघृतादिभिः ।
नैवेद्यं गृह्यतां युक्तं नारायणमनः प्रिये ॥
भोज्यं चतुर्विधं चोष्यभक्ष्यसूपफलैर्युतम् ।
दधिमध्वाज्यसंयुक्तं गृह्यतामम्बुजेक्षण । (महानैवेद्यं)
कर्पूरचूर्णताम्बूलवल्लीपूगफलैर्युतम् ।
जगतः पितरावेतत्ताम्बूलं प्रतिगृह्यताम् । (ताम्बूलं )
नीराजनं गृहाणेदं कर्पूरैः कलितं मया ।
तुलस्यमृतसम्भूते गृहाण हरिवल्लभे ॥
चन्द्रादित्यौ च नक्षत्रं विद्युदग्निस्त्वमेव च ।
त्वमेव सर्वज्योतींषि कुर्यां नीराजनं हरे ॥ (नीराजनं)
प्रकृष्टपापनाशाय प्रकृष्टफलसिद्धये ।
युवां प्रदक्षिणी कुर्वे तुलसीशौ प्रसीदतम् ॥ (प्रदक्षिणं)
नमोऽस्तु पीयूष समुद्भवायै नमोऽस्तु पद्माक्षमनः प्रियायै ।
नमोऽस्तु जन्माप्यय भीतिहन्त्र्यै नमस्तुलस्यै जगतां जनन्यै ॥
शङ्खचक्रगदापाणे द्वारकानिलयाच्युत ।
गोविन्द पुण्डरीकाक्ष रक्ष मां शरणागत(ता)म् ॥ (नमस्कारान्)
पुष्पाञ्जलिं गृहाणेदं पङ्कजाक्षस्य वल्लभे ।
नमस्ते देवि तुलसि नताभीष्टफलप्रदे ।
मन्दारनीलोत्पलकुन्दजाती पुनागमल्लीकरवीरपद्मैः ।
पुष्पाञ्जलिं ते जगदेकबन्धो हरे त्वदङ्ग्रौ विनिवेशयामि ।
(मन्त्रपुष्पाञ्जलिं)
आयुरारोग्यमतुलमैश्वर्यं पुत्रसम्पदः ।
देहि मे सकलान्कामान् तुलस्यमृतसम्भवे ॥
नमो नमः सुखवरपूजिताङ्ग्रये नमो नमो निरुपममङ्गलात्मने ।
नमो नमो विपुलपदैकसिद्ध्ये नमो नमः परमदयानिधे हरे ॥
(प्रार्थनां )
नमस्ते देवि तुलसि नमस्ते मोक्षदायिनि ।
इदमर्घ्यं प्रदास्यामि सुप्रीता वरदा भव ॥
लक्ष्मीपते नमस्तुभ्यं तुलसीदामभूषण ।
इदमर्घ्यं प्रदास्यामि गृहाण गरुडध्वज ॥
श्री तुलस्यै महाविष्णवे च नमः - इद मर्घ्यमिद मर्घ्यमिदमर्घ्यम् ॥
इति त्रिः ॥
नमस्ते देवि तुलसि माधवेन समन्विता ।
प्रयच्छ सकलान्कामान् द्वादश्यां पूजिता मया ॥
कायेन वाचा मनसेन्द्रियैर्वा बुध्यात्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयामि ॥
ॐ तत्सत्
Encoded and proofread by Shree Devi Kumar