वृत्रत्रस्तैः देवैः कृता देवीस्तुतिः

वृत्रत्रस्तैः देवैः कृता देवीस्तुतिः

(देवीभागवततः) देवा ऊचुः - देवि प्रसीद परिपाहि सुरान्प्रतप्तान् वृत्रासुरेण समरे परिपीडितांश्च । दीनार्तिनाशनपरे परमार्थतत्त्वे प्राप्तांस्त्वदङ्घ्रिकमलं शरणं सदैव ॥ ३४॥ त्वं सर्वविश्वजननी परिपालयास्मान् पुत्रानिवातिपतितान् रिपुसङ्कटेऽस्मिन् । मातर्न तेऽस्त्यविदितं भुवनत्रयेऽपि कस्मादुपेक्षसि सुरानसुरप्रतप्तान् ॥ ३५॥ त्रैलोक्यमेतदखिलं विहितं त्वयैव ब्रह्मा हरिः पशुपतिस्तव वासनोत्थाः । कुर्वन्ति कार्यमखिलं स्ववशा न ते ते भ्रूभङ्गचालनवशाद्विहरन्ति कामम् ॥ ३६॥ माता सुतान्परिभवात्परिपाति दीनान् रीतिस्त्वयैव रचिता प्रकटापराधान् । कस्मान्न पालयसि देवि विनापराधा- नस्मांस्त्वदङ्घ्रिशरणान्करुणारसाब्धे ॥ ३७॥ नूनं मदङ्घ्रिभजनाप्तपदाः किलैते भक्तिं विहाय विभवे सुखभोगलुब्धाः । नेमे कटाक्षविषया इति चेन्न चैषा रीतिः सुते जननकर्तरि चापि दृष्टा ॥ ३८॥ दोषो न नोऽत्र जननि प्रतिभाति चित्ते यत्ते विहाय भजनं विभवे निमग्नाः । मोहस्त्वया विरचितः प्रभवत्यसौ न- स्तस्मात्स्वभावकरुणे दयसे कथं न ॥ ३९॥ पूर्वं त्वया जननि दैत्यपतिर्बलिष्ठो व्यापादितो महिषरूपधरः किलाजौ । अस्मत्कृते सकललोकभयावहोऽसौ वृत्रं कथं न भयदं विधुनोषि मातः ॥ ४०॥ शुम्भस्तथातिबलवाननुजो निशुम्भ- स्तौ भ्रातरौ तदनुगा निहता हतौ च । वृत्रं तथा जहि खलं प्रबलं दयार्द्रे मत्तं विमोहय तथा न भवेद्यथासौ ॥ ४१॥ त्वं पालयाद्य विबुधानसुरेण मातः सन्तापितानतितरां भयविह्वलांश्च । नान्योऽस्ति कोऽपि भुवनेषु सुरार्तिहन्ता यः क्लेशजालमखिलं निदहेत्स्वशक्त्या ॥ ४२॥ वृत्रे दया तव यदि प्रथिता तथापि जह्येनमाशु जनदुःखकरं खलं च । पापात्समुद्धर भवानि शरैः पुनाना नोचेत्प्रयास्यति तमो ननु दुष्टबुद्धिः ॥ ४३॥ ते प्रापिताः सुरवनं विबुधारयो ये हत्वा रणेऽपि विशिखैः किल पावितास्ते । त्राता न किं निरयपातभयाद्दयार्द्रे यच्छत्रवोऽपि न हि किं विनिहंसि वृत्रम् ॥ ४४॥ जानीमहे रिपुरसौ तव सेवको न प्रायेण पीडयति नः किल पापबुद्धिः । यस्तावकस्त्विह भवेदमरानसौ किं त्वत्पादपङ्कजरतान्ननु पीडयेद्वा ॥ ४५॥ कुर्मः कथं जननि पूजनमद्य तेऽम्ब पुष्पादिकं तव विनिर्मितमेव यस्मात् । मन्त्रा वयं च सकलं परशक्तिरूपं तस्माद्भवानि चरणे प्रणताः स्म नूनम् ॥ ४६॥ धन्यास्त एव मनुजा हि भजन्ति भक्त्या पादाम्बुजं तव भवाब्धिजलेषु पोतम् । यं योगिनोऽपि मनसा सततं स्मरन्ति मोक्षार्थिनो विगतरागविकारमोहाः ॥ ४७॥ ये याज्ञिकाः सकलवेदविदोऽपि नूनं त्वां संस्मरन्ति सततं किल होमकाले । स्वाहां तु तृप्तिजननीममरेश्वराणां भूयः स्वधां पितृगणस्य च तृप्तिहेतुम् ॥ ४८॥ मेधासि कान्तिरसि शान्तिरपि प्रसिद्धा बुद्धिस्त्वमेव विशदार्थकरी नराणाम् । सर्वं त्वमेव विभवं भुवनत्रयेऽस्मिन् कृत्वा ददासि भजतां कृपया सदैव ॥ ४९॥ व्यास उवाच - एवं स्तुता सुरैर्देवी प्रत्यक्षा साभवत्तदा । चारुरूपधरा तन्वी सर्वाभरणभूषिता ॥ ५०॥ इति देवीभागवते षष्ठस्कन्धे पञ्चमाध्यायान्तर्गता वृत्रत्रस्तैः देवैः कृता देवीस्तुतिः समाप्ता । Encoded by Vishwas Bhide Proofread by Vishwas Bhide, PSA Easwaran
% Text title            : Vritratrastaih Devaih Krrita Devistutih
% File name             : vRRitratrastaiHdevaiHkRRitAdevIstutiH.itx
% itxtitle              : devIstutiH vRitratrastaiH devaiH kRRitA (devIbhAgavatAntargatA)
% engtitle              : vRitratrastaiH devaiH kRRitA devIstutiH
% Category              : devii
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishwas Bhide
% Proofread by          : Vishwas Bhide, PSA Easwaran
% Indexextra            : (Devi Bhagavatam
% Acknowledge-Permission: http://satsangdhara.net
% Latest update         : April 30, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org